आप्
- {परिसमाप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (गीता ४।३३)। परिसमाप्यते निःशेषं समाप्यते।
ऊह्
- {परिसमूह्}
- ऊह् (ऊह वितर्के)।
- ‘समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या’ (आप० ध० १।१।४।१८)। परिसमूहेत् संमृज्यात्।
- ‘अग्निमिद्ध्वा परि समूह्य समिध आदध्यात्’ (आप० ध० १।४।१६)। परिसमूह्य परिसमुह्य विप्रकीर्णमग्निमेकीकृत्य।
- ‘प्रवणं देशं समं वा परिसमुह्य’ (गो० गृ० १।१।९)। संमृज्य सर्वतः कुशैः पांस्वादिकमपसार्य। समूहनी संमार्जनी भवति।
क्रीड्
- {परिसंक्रीड्}
- क्रीड् (क्रीड् विहारे)।
- ‘सामात्यः सम्परिक्रीडन् कामस्य वशमागतः’ (रा० ४।३०।१६)। सम्परिक्रीडन् प्रहसन्, नर्म सेवमानः। सामात्यपरिषत् क्रीडन् पानमेवोपसेवते इति पाठान्तरम्। इदं च ३०।७९ इत्यत्र दाक्षिणात्यकोशेषु द्रष्टव्यम्।
ख्या
- {परिसंख्या}
- ख्या (चक्षिङः ख्याञ् आदेशः)।
- ‘ननु गर्दभरशनां परिसंख्यास्यति। न शक्नोति परिसंख्यातुम्। परिसंचक्षाणो हि स्वार्थं च जह्यात्, परार्थं च कल्पयेत प्राप्तं च बाधेत’ (मी० १।२।४।३१ शा० भा०)।
- ‘तत् सर्वं (वित्तं) परिसंख्याय ततो ब्राह्मणसात् करोत्’ (भा० द्रोण० ६३।३)। परिसंख्याय गणयित्वा परिकलय्य। ब्राह्मण सात्करोदित्यत्राडभाव आर्षः।
- ‘दैविकानां युगानां तु सहस्रं परिसंख्यया’ (मनु० १।७२)। परिसंख्या संख्या। परिरत्र विशेषकृन्न।
- ‘शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम्’ (याज्ञ० ३।१५८)। शरीरपरिसंख्यानम्, अस्थिरत्वाशुचित्वादिदोषानुसन्धानम्।
चक्ष्
- {परिसंचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि, छन्दसि दर्शनेपि)।
- ‘सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे चक्षुषी नासिके श्रोत्रे चेति’ (आप० ध० १।१६।७ इत्यत्रोज्ज्वलायाम्)।
- ‘तत्रैतान्याचार्याः परिसंचक्षते’ (गो० गृ० ३।५।२)। परिसंख्यानं निषिद्धादन्यत्र विधानमिति सत्यव्रतः सामश्रमी।
तप्
- {परिसंतप्}
- तप् (तप सन्तापे)।
- ‘अलं हि परिसन्तप्य’ (रा० ४।२५।११)। तदलं परितापेनेति पाठान्तरम्।
पत्
- {परिसंपत्}
- पत् (पत्लृ गतौ)।
- ‘मेधाभिकामा परिसंपतन्ती… बलाकपङ्क्तिः’ (रा० ४।२८।२३)। परिसंपतन्ती परितः संचरन्ती।