आप्
- {परिप्राप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘पाञ्चालं परिप्रेप्सुर्धनञ्जयमदुद्रुवत्’ (भा० आदि० १३८।४५)। परिप्रेप्सुः परितस्त्रातुमिच्छुः।
ग्रह्
- {परिप्रग्रह्}
- ग्रह (ग्रह उपादाने)।
- ‘उभयतो ऽध्वर्युं परिप्रगृह्णाति’ (का० श्रौ० ९।१३।११)।
या
- {परिप्रया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘यूयं हि देवीर्ऋतयुग्भिरश्वैः परि प्रयाथ भुवनानि सद्यः’ (ऋ० ४।५१।५)। परिप्रयाथ परिक्रामथ।
ब्रू
- {परिप्रब्रू}
- (ब्रूञ् व्यक्तायां वाचि)।
- ‘मा त्वाग्नयः परिप्र वोचन्’ (छां० उ० ४।१०।२)। मा परि प्रवोचन् मा परिवादिषुः, मा भूयो गर्हिषत, मा स्म निन्दिषुः, मा निराकार्षुः।