अस्
- {परिन्यस्}
- अस् (असु क्षेपे)।
- ‘शयनीय-परिन्यस्त-गात्रः सन्तापवानभूत्’ (कथा० ६।१२१)। शय्यायां दीर्घीकृताङ्गः प्रसारितगात्रः।
धा
- {परिणिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘स एतामुत्तमां समुद्रवतीमपश्यत्। तयैनाः अच्छा समुद्रमिन्दव इत्येव समुद्रेण समन्तं परिण्यदधात्’ (जै० व्रा० १।१०४)। परिण्यदधात् परितो न्यधात् न्यास्थत्।
- ‘परिनिधाय’ (का० श्रौ० १८।६।१३)। परिणिधायेति तूचितम्। विस्पष्टोऽर्थः।
वृत्
- {परिनिवृत्}
- वृत् (वृतु वर्तने)।
- ‘क्लेशाः परिनिवर्तन्ते केषाञ्चिदसमीक्षिताः’ ( ) परिनिवर्तन्ते ऽखिलेन निवर्तन्ते विनश्यन्ति।
स्था
- {परिनिस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘एतावति हि शास्त्रकृत्यं परिनितिष्ठति’ (पदमञ्ज० पृ० ४)। परिनितिष्ठति परिसमाप्यते पर्यवस्यति।
- ‘त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः’ (भा० वन०)। परिनिष्ठितः परिसमाप्तः।
- ‘अपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रदर्शनम्’ (माल० १)।
- ‘इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी’ (भा० आदि० ६२।१७)। परिनिष्ठा मोक्षः, तदुचिता।