अञ्च्
- {पर्युदञ्च्}
- अञ्च् (अञ्चु गतिपूजनयोः)।
- ‘स्यादृणं पर्युदञ्चनमुद्धार इत्यमरः।’ इदं शब्दस्वाभाव्यं ल्युटि कृति प्रत्यय एवायमर्थः, तिङि तूपसर्गद्वयपूर्वस्याञ्चतेः प्रयोग एव नास्ति।
अस्
- {पर्युदस्}
- अस् (असु क्षेपे)।
- ‘हिमवत्सागरानूपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिर निवेशने’ (भा० सभा० ५१।२१)॥
- ‘रात्र्यादिपर्युदस्तेतरकाले श्राद्धं कुर्यात्’ (मनु० ३।२८० इत्यत्र कुल्लूकः)। पर्युदस्तो व्यावर्तितः।
- ‘बादरायणस्येदं मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम्’ (मी० शा० भा० १।१।५।५)। पर्युदसितुं निषेद्धुम्।
स्था
- {पर्युत्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘तं वैश्वानरः पर्य्युदतिष्ठत्’ (पञ्च० ब्रा० ८।८।२२)।