अस्
- {पर्यास्}
- अस् (असु क्षेपे)।
- ‘अनेन पर्यासयताऽश्रुबिन्दून्’ (रघु० ६।२८)। पर्यासयता परिमुञ्चता।
आप्
- {पर्याप्}
- आप् (आप्लृ व्याप्तौ)
- ‘नास्ति व्यसनिनां वत्स भुवि पर्याप्तये धनम्’ (कथा० २६।२०१)। पर्याप्तये परितोषाय, सन्तुष्टये।
- ‘एतस्य लोकस्य पर्याप्तये’ (गो० ब्रा० पूर्व० २।२४)। पर्याप्तये परित्राणाय।
- ‘यावदहं…पर्याप्तिं कृत्वागच्छामि’ (तन्त्रा० ४।२)। अत्र यावदहम् इत्यतः परं ग्रन्थः पतितः। पर्याप्तिरात्मरक्षेत्यर्थो भाति।
इ
- {पर्ये}
- इ (इण् गतौ)।
- ‘विहारं त्रिषतं पर्यायन्ति’ (वाराह श्रौ० ३।२।५।४७)।
- ‘अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम्’ (ऋ० १।८८।४)। पर्यागुरनुसस्रुः।
- ‘यदा पुरोहितं वा ते पर्येयुः शरणैषिणः’ (भा० शां० २६७।१४)। पर्येयुरुपगच्छेयुः।
- ‘कालस्तु पर्यागात्’ (भा० १२।८१५७)। सा ह वागुच्चक्राम।
- ‘सा संवत्सरं प्रोष्य पर्येत्योवाच’ (श० बा० ८।७।२।५)। पर्येत्य प्रत्यागत्य।
काश्
- {पर्याकाश्}
- काश् (काशृ दीप्तौ )।
- ‘आवासस्तोयवान् दुर्गः पर्याकाशः प्रशस्यते’ (भा० शां० १००।१५)।
कृ
- {पर्याकृ}
- कृ (डुकृञ् करणे)।
- ‘सर्वां श्रियं ह्यात्मवीर्येण लब्धां पर्याकार्षुः पाण्डवा मह्यमेव’ (भा० उ० २२।३)। पर्याकार्षुर्मदर्थं परित आनीतवन्त इति नीलकण्ठः। उपनिन्युरित्यर्जुनमिश्रः।
- ‘असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्’ (तै० सं० ६।५।२।२७)। पर्याचिकीर्षन् आकर्ष्टुमैच्छन्।
- ‘मलवर्हणी पर्यक्रियमाणा क्षितिः पर्याकृता’ (अथर्व० १२।८।६)।
- ‘व्रजन्पर्याकृतौ कूपे पातालतलभीषणे’ (यो० वा० ६ (१)।८९।२६)। पर्याकृतौ वृत्ते, वर्तुलाकारे परिमण्डले।
कृष्
- {पर्याकृष्}
- कृष् (कृष विलेखने)।
- ‘द्रौपदी च सभामध्ये पाञ्चाली धर्मचारिणी। पर्याकृष्टाऽनवद्याङ्गी पत्नी नो गुरुसन्निधौ’ (भा० स्वर्गा० १।९)॥ पर्याकृष्टा परित आकृष्टा।
क्रम्
- {पर्याक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘पर्याक्रामन्त देशांश्च नदीः शैलान् वनानि च’ (भा० भीष्म० १।९)। पर्याक्रामन्त पर्याक्राम्यन्।
क्षिप्
- {पर्याक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘पर्याक्षिपत्कदाचिदुदारबन्धं (केशान्तम्) दूर्वावता पाण्डुमधूकदाम्ना’ (कु० ७।१४)। पर्याक्षिपद् अबध्नात्।
गम्
- {पर्यागम्}
- गम् (गम्लृ गतौ)।
- ‘कुमार्यः समलङ्कृत्य पर्यागच्छन्तु मे पुरात्’ (भा० वि० ३४।१७)। पर्यागच्छन्तु सङ्घशो निर्गच्छन्तु।
- ‘संवत्सरे पर्यागते’ (भा० श्रौ० ८।२।१८)। पर्यागतेऽतीते।
- ‘संवत्सरे पर्यागत एताभिरेवोपसादयेत्’ (आप० श्रौ० ५।७।२२।१२)। उक्तोऽर्थः।
- ‘अवश्यं लभते कर्ता फलं पापस्य कर्मणः। घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम्’ (रा० ३।२९।८)॥ पर्यागते पर्यायेण क्रमेणागते प्राप्ते।
- ‘अपर्यागतं धान्यम्’ (सुश्रुत० १।१९९।१७)। असंवत्सरोषितम् इत्यर्थः।
- ‘न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः। विधिपर्यागतानर्थान्प्राज्ञो न प्रतिपद्यते’ (भा० आदि० ११८।१०)॥ विधिप्राप्तानर्थान् प्रज्ञाबलेनैवैते मया प्राप्ता इति प्रतिपद्यते जानाति।
- ‘पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं सम्प्रसह्य’ (भा० उ० ४८।८९)। पर्यागतं प्राप्तम्। मन्यत इच्छति।
- ‘प्राप्स्यसे परमं कामं मयि पर्यागते सति’ (रा० २।२४।३०)। पर्यागते प्रत्यागते।
- ‘स पर्यपृच्छत्तं पुत्रं क्षीणं पर्यागतं पुनः’ (भा० अनु० ७१।१२)। पर्यागतं प्रत्यागतं प्रकृतिमापन्नं संजीवितं प्रतिलब्धसत्त्वम्।
- ‘वर्जनीयं फलं सर्वमपर्यागतमेव च’ (सुश्रुत० सूत्र० ४६।२१०)। अपर्यागतमपुष्टम्।
गल्
- {पर्यागल्}
- गल् (गल लौकिकः स्रवणे)।
- ‘पत्रान्तपर्यागलदच्छ-बिन्दुः… तीरतरुः’ (भट्टि० २।४)।
चम्
- {पर्याचम्}
- चम् (चमु अदने)।
- ‘उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम्’ (मनु० ४।२१२)। एकपङ्क्तिस्थान् अन्यानवमत्य यत्रान्ने भुज्यमाने केनचिदाचमनं क्रियते तत्पर्याचान्तमुच्यते।
चर्
- {पर्याचर्}
- चर् (चर् गतिभक्षणयोः)।
- ‘प्राणमङ्गेभ्यः पर्याचरन्तम्’ (अथर्व० २।३४।५)। परितः सर्वतो निष्क्रम्याभिमुख्येनागच्छन्तम् इत्यर्थः।
- ‘यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव’ (ऋ० ७।७६।३)। उक्तोऽर्थः।
तन्
- {पर्यातन्}
- तन् (तनु विस्तारे)।
- ‘अपसलवि सृष्टांभिः स्पन्द्याभिः पर्यातनोति’ (श० ब्रा० १३।८।१।१९)। पर्यातनोति परिस्तृणाति।
दा
- {पर्यादा}
- दा (डुदाञ् दाने)।
- ‘अहं दस्युभ्यः परि नृभ्णमाददे’ (ऋ० १०।४८।२)। पर्याददे आच्छिनद्मि। स्ववशे करोमि।
- ‘यद्वै नो ऽयमर्धं न पर्याददीत’ (श० ब्रा० ११।४।१।२)। न पर्याददीत नापहरेत्।
- ‘परि वैनोऽयमार्त्विज्यमादत्ते’ (षड्० ब्रा० १।४)। पर्यादत्ते हरति।
- ‘तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च’ (भा० शां ८६।२९)। पर्याददीत नियमेनाददीत। विद्यामुपाददीत, शास्त्रमुपयुञ्जीत।
- तस्मिन्खलु प्रपीड्यमाने यत्तैलमुदियात् तत्पाणिभ्यां पर्यादाय’ (चरक० विमान० ७।२९)। पर्यादाय पाणिलग्नं पुनः पुनरादाय।
- ‘स पक्षवांश्चेदनादेयः, विपर्यये पर्यादातव्यः’ (कौ० अ० २।९।२४)। सर्वस्वं तस्य हरणीयमित्याह।
धा
- {पर्याधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘ते वा अन्येषां कुम्भीं परिदधति सर्वदा’ (अथर्व० १२।२।५१)। परिदधति परिवेष्टयन्ति (अग्निना)।
- ‘पर्याहितपरीष्टपरिवित्तिपरिविन्नपरिविविदानेषु’ (आप० ध० २।५।१२।२२)। ज्येष्ठेऽनाहिताग्नौ कनिष्ठोऽग्निमादधानः पर्याधाता भवति, ज्येष्ठश्च पर्याहितः।
- ‘यन्म आत्मनो मिन्दाऽभूत्पुनरग्निश्चक्षुरदाद् इत्येताभ्यामभिनिम्रुक्ताभ्युदितपर्याहित०’ (आप० श्रौ० ९।३।१२।७०)।
- ‘पर्याधानेज्ययोरेतत् परिवित्ते च भेषजम्’ (बौ० ध० ४।६।७)। पर्याधानं ज्यायसि तिष्ठत्यनाहिताग्नौ कनीयस आधानम्।
नह्
- {पर्याणह्}
- नह् (णह बन्धने)।
- ‘सोमपर्याणहनेन पर्याणह्यति’ (श० ब्रा० ३।३।४।६)। पर्याणह्यति अभिनह्यति अभितो बध्नाति।
- ‘पर्याणद्धं विश्वरूपं यदस्ति’ (अथर्व० १४।२।१२)।
- ‘सोमपर्याणहनमाहर’ (श० ब्रा० ३।३।२।३, का० श्रौ० ७।७।१)। अनसि स्थितस्य वस्त्रबद्धस्य सोमस्योपर्याच्छादनार्थं यत्प्रसार्यते वासस्तत् पर्याणहनम्।
नी
- {पर्याणी}
- नी (णीञ् प्रापणे)।
- ‘पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी’ (श० ब्रा० ३।५।३।१३)। परितो नयन्ति।
- ‘पञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि। पर्याणयत भद्रं वः सा स्यात्परमदक्षिणा’ (भा० आदि० १३८।३)। पर्याणयत इत आनयत।
पत्
- {पर्यापत्}
- पत् (पत्लृ गतौ)।
- ‘आदाय शिबिकां तारः स तु पर्यापतत् पुनः’ (रा० ४।२५।२१)। पर्यापतत् प्रत्यावर्तत।
- ‘वीक्षमाणा दिशः सर्वाः पयापेतुः सहस्रशः’ (भा० कर्ण० ९५।१)। (कुरवः कर्तारः) पर्यापेतुः प्रदुद्रुवुः।
- ‘पर्यापतत्क्रयिकलोकम्’ (शिशु० ५।२४)। पर्यापतन् परितो धावन्।
भू
- {पर्याभू}
- भू (भू सत्तायाम्)।
- ‘पर्याभूद् वा अयमेककपालो मोहिष्यति राष्ट्रम्’ (श० ब्रा० २।४।३।१०)। पर्याभूत् अवाङ् अपप्तत्।
मुच्
- {पर्यामुच्}
- मुच् (मुच्लृ मोक्षणे)।
- ‘यथा कुलालश्चक्रं भ्रमयित्वा घटं करोति मृत्पिण्डं चक्रमारोप्य, पुनः कृत्वा घटं पर्यामुञ्चति’ (सां० का० ६७ गौड०)। पर्यामुञ्चति अवतारयति अवरोपयति।
मृष्
- {पर्यामृष्}
- मृष् (मृष तितिक्षायाम्)।
- ‘सैन्धवं येन राजानं पर्यामृषितवानथ’ (भा० वि० ५।२३)। कण्ठे जग्राह, जितवानित्यर्जुनमिश्रः। पूर्वोऽर्थस्तु मृशेरेव घटत इति मोहमुक्तवांष्टीकाकारः।
या
- {पर्याया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘अतः परी वृषणावा हि यातम्’ (ऋ० १।१०८।७)। पर्यायातम्=तत इत आयातमित्याह।
- ‘आ नो यातं दिवस्परि’ (ऋ० ८।८।४)।
- ‘याह्यर्य आ परि स्वाहा सोमस्य पीतये’ (अथर्व० ८।३४।१०)। उक्तोऽर्थः।
- ‘नैनं घ्नन्ति पर्यायिणः’ (अथर्व० ६।७६।४)। पर्यायिणः परित आगन्तारः।
वृ
- {पर्यावृ}
- वृ (वृञ् वरणे)।
- ‘…मद्राधिपतिं शरार्तम्। पर्यावव्रुः प्रवरास्ते सुसज्जाः’ (भा० शल्य० १७।११)। परित आवृतवन्त इत्यर्थः।
वृत्
- {पर्यावृत्}
- वृत् (वृतु वर्तने)।
- ‘दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्’ (अथर्व० १२।३।८)। पर्यावर्तेथां परिक्रामतम्।
- ‘पर्यावर्तताथ रथेन वीरो भोगी यथा पादतलाभिमृष्टः’ (भा० वि० ६६।२)। परावर्तत अपाक्रामदित्यर्थः।
- ‘प्राण मा मत् पर्यावृतः’ (अथर्व० ११।४।२६)। माऽपक्रमीः।
- ‘यदाऽमुतो ऽर्वाञ्चः पर्यावर्तन्ते’ (नि० ७।२४।१)। पर्यावर्तन्ते इत आवर्तन्ते। तस्यैवावृतमनु पर्यावर्तते। पर्यावर्तते परिकामति।
- ‘यद्येककपालः स्कन्देत् परि वा वर्तेत’ (आप० श्रौ० ९।४।१४।१)। पार्श्वान्तरेणावर्तनं पर्यावर्तनम्।
- ‘पर्यावर्ते दुःष्वप्न्यात् पापात्’ (अथर्व० ७।१००।१)। पर्यावर्तेऽपसर्पामि।
- ‘प्रद्युम्नो यावत्… पर्यावर्तेद् वरारोहां वज्रनाभसुताम्’ (हरि० २।९१।५०)। पर्यावर्तेत उपेयात्। वशे कुर्यादिति चार्थिकोर्थः।
- ‘प्राणानामसंभेदाय न पर्यावर्तयति’ (तै० सं० ६।४।१।१)। न पर्यावर्तयति न पुनरावर्तयति।
- ‘अथैनां (उखां) पर्यावर्तयति’ (श० ब्रा० ६।५।४।१२)। पर्यावर्तयति आवर्जयति।
- ‘रश्मींस्त्वं पर्यावर्तयात्’ (छां० उ० १।५।२)। पर्यावर्तयात् पर्यावर्तय। रश्मिबाहुलकविशिष्टमादित्यं भावयेत्यर्थः।
- ‘त्रिरात्रमपर्यावर्तमानः शयीत’ (कौ० सू० ४६।१५)। अपयविर्तमानः पार्श्वपरिवर्तनमकुर्वन्।
- ‘उत्तानानि पात्राणि पर्यावर्त्य’ (आप० श्रौ० १।४।११।९)। पर्यावर्त्य अवमूर्धीकृत्य, अवाञ्चि कृत्वा।
श्वस्
- {पर्याश्वस्}
- श्वस् (श्वस प्राणने)।
- पर्याश्वासय वाहिनीम्’ (भा० द्रोण० १५६।१७)। विश्रमयेत्यर्थः।
- ‘उत्थाय च महाबाहुः पर्याश्वस्तो धनञ्जयः’ (भा० आश्व० ८०।५६)। पर्याश्वस्त आश्वस्तः।
- ‘प्रभाते यास्यति भवान् पर्याश्वस्तः सुखोचितः’ (भा० शां० ३५६।७)। पर्याश्वस्तः कृतविश्रमः, विगतक्लमः, व्यपेताध्वखेदः।
- ‘पर्याश्वास्य च वाहनम्’ (भा० शल्य० २५।११)। पर्याश्वास्य विश्रमय्य।
सिच्
- {पर्यासिच्}
- सिच् (षिच क्षरणे)।
- ‘तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे’ (ऋ० ३।४८।२)।
हृ
- {पर्याहृ}
- हृ (हृञ् हरणे)।
- ‘अथास्मै ब्रह्मभागं पर्याहरन्ति’ (श० ब्रा० १।७।४।१८)। पर्याहरन्ति उपहरन्ति उपनयन्ति।
- ‘तद्वैतदेके कुशला मन्यमानाः प्राचीं स्रुचमुपावहृत्य हुत्वा पर्याहृत्य’ (श० ब्रा० ११।४।२।१३)। पर्याहृत्य भ्रमयित्वा। पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ (इत्यमरः)। पर्याहारो विहङ्गिका। पर्याहार उदकुम्भो भवतीति शाङ्खायनश्रौतसूत्रे।
ह्वे
- {पर्याह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
- ‘तदुभयतो धाय्यां पर्याह्वयते’ (ऐ० ब्रा० ३।३१)। शंसावोम् (शंसाव ओम् ) इत्येष मन्त्रः पर्याहावः, तं पठतीत्यर्थः।