इ
- {अभिसमे}
- इ (इण् गतौ)।
- ‘तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेताः’ (श० ब्रा० १४।६।१।१)। अभिसमेताः=अभितः समागताः।
धा
- {अभिसमाधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तानि प्रयत्नाभिसमाहितानि…गृहाणि’ (रा० ५।७।४)। प्रयत्नेनाभितः सम्यग् आहितानि यथायोगं संस्थापितानि।
पद्
- {अभिसमापद्}
- पद् (पद गतौ)।
- ‘(कः कृष्णसर्पं) ‘तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया’ (रा० ३।१९।३)। अभिसमापन्नमभिमुखमुपेतम्।