आप्
- {अभिव्याप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘भ्राजभासेति क्विपमभिव्याप्य’ (पा० ३।२।१३४) इत्यत्र सिद्धान्तकौमुद्याम्)। अभिविधिरभिव्याप्तिः।
- ‘अधिकारोऽयं यूनस्तिः इत्यभिव्याप्य’ (पा० ४।१।१४ इत्यत्र सि० कौ०)। उक्तोऽर्थः।
इ
- {अभिवी}
- इ (इण् गतौ)।
- ‘विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु’ (ऋ० ६।९।५)। अभिवियन्ति दिग्भ्यो विदिग्भ्यो यज्ञमभिलक्ष्यायान्तीत्यर्थः।
ईक्ष्
- {अभिवीक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘समस्थो विषमस्थान् हि दुर्हृदो योभिवीक्षते’ (भा० वन०)। सस्नेहं सकरुणं वा पश्यतीत्यर्थः।
- ‘तं तदा नाशकत् कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्’ (भा० द्रोण० ४४।२१)। सर्वत अभिमुखीभूय द्रष्टुमित्यर्थः।
- ‘न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्’ (मनु० ७।६)। उक्तोऽर्थः।
उक्ष्
- {अभिव्युक्ष्}
- उक्ष् (उक्ष सेचने)।
- ‘यथाग्निं नाभिव्युक्षेत्’ (श० ब्रा० १।३।१।१०)। नाभिषिञ्चेदित्यर्थः।
तन्
- {अभिवितन्}
- तन् (तनु विस्तारे)।
- ‘पूर्वस्याह्नः परिर्शिषन्ति कर्म तदुत्तरेणाभिवितन्वतेऽह्ना’ (श० ब्रा० ११।५।५।१३)। अभिवितन्वतेऽभिनिर्वर्तयन्ति अवसाययन्ति समाप्तिं नयन्ति।
- ‘उत्करं वा चर्मणाऽभिवितन्वन्ति’ (शां० श्रौ० १७।५।६)। अभिवितन्वन्ति प्रच्छादयन्ति संवृण्वन्ति।
दृश्
- {अभिविदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘पूषा यो विश्वाभि विपश्यति भूवना सं च पश्यति।’ (ऋ० ३।६२।९)। अभिविपश्यति अभितो विशेषेण पश्यति।
- ‘अथो यत्किञ्च मनसा वाचा चक्षुषा वा संकल्पयन्ध्यायत्याहाऽभिविपश्यति’ (आप० ध० १।५।८)। आभिमुख्येन विशिष्य पश्यतीत्याह।
द्रु
- {अभिविद्रु}
- द्रु (द्रु गतौ)।
- ‘हयैरपि हयारोहाश्चामरापीडधारिभिः। अन्योन्यमभिविद्रुताः–’ (भा० भीष्म० ४६।२०)। अभिविद्रुता=वेगेनाभ्यधावन्।
- ‘ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्’ (भा० भीष्म० १०१।३१)। इतस्ततः पलायमानम्, कान्दिशीकमित्यर्थः।
धा
- {अभिविधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘न भूमिंपाशमभिविदध्यात्’ (श० ब्रा० १३।८।१।१६)। अभिविदध्यात् संनिहितं संसृष्टं निदध्यात्।
- ‘(श्वभ्रः) कर्मणाऽभिविहितः’ (लाट्या० श्रौ० ३।११।२)। अभिविहितः प्रावृतो निखिलेनाभिव्याप्तः।
- ‘आङ् मर्यादाभिविध्योः’ (पा० २।१।१३)। तेन विना मर्यादा तत्सहितोऽभिविधिः।
- ‘अभिविधौ सम्पदा च’ (पा० ५।४।५३)। यत्रैकदेशेनापि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिरिति वृत्तिः। बहूनां व्यक्तीनामेकदेशावच्छेदेनान्यथाभावोऽभिविधिरिति दीक्षितः।
धाव्
- {अभिविधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘यत्रापो देवयजनं चान्तरेण पन्था अभिविधावेत्’ (आप० श्रौ० १०।७।२०।११)।
नी
- {अभिविनी}
- नी (णीञ् प्रापणे)।
- ‘वृद्धैरभिविनीतैश्च द्विजैर्धर्मार्थदर्शिभिः’ (रा० २।१।२१)। अभिविनीतः शिक्षितः।
- ‘कस्यां कलायामभिविनीते भवत्यौ’ (माल० ५)।
- ‘अथ (अस्यां कलायां) केनाभिविनीतासि’ (माल० ५)। उक्तोऽर्थः।
राज्
- {अभिविराज्}
- राज् (राजृ दीप्तौ)।
- ‘इमानि च सर्वाणि प्रज्ञानान्यभिविराजति’ (नि० ११।२७।१)। अभिविराजति ईष्टे।