इ
- {स्वि}
- इ (इण् गतौ)।
- ‘स्विते मा धाः’ (वा० सं० ५।५)। स्वितमिति दुरितप्रतिद्वन्द्वि। स्वितमिष्टा गतिः, पुण्यम्।
- ‘ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद् वर्षाः स्विते नो दधात’ (अथर्व० ६।५५।२)। उक्तोऽर्थः।
- ‘प्र यद् भरध्वे सुविताय दावने’ (ऋ० ५।५९।४)। सुविताय सुप्राप्तव्याय। उकारस्य उवङादेशश्छान्दसः।
- ‘नास्माल्लोकात् स्वेतव्यम् (तै० सं० ६।१।१)। स्वेतव्यं शोभनमेतव्यम्।
क्लृप्
- {सुक्लृप्}
- क्लृप् (कूपू सामर्थ्ये)।
- ‘सुकल्पितः संयति दृष्टमार्गः’ (हस्ती) (का० नी० सा० १६।११)। सुकल्पितः सुशोभितः। कल्पना सज्जा समे इत्यमरः।
गम्
- {सुगम्}
- गम् (गम्लृ गतौ)।
- ‘सुगा वो देवाः सदना अकर्म’ (अथर्व० ७।१०२।४)। सुगा=सुगानि। सुखेन गम्यतेऽत्रेति। सुदुरोरधिकरण इति वार्तिकेन डः।
जागृ
- {सुजागृ}
- जागृ (जागृ निद्राक्षये)।
- ‘अग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि’ (वा० सं० ४।१४, तै० सं० ६।१।४।३०)। सुष्ठु निद्रारहितो भवेत्यर्थः।
डी
- {सुडी}
- डी (डीङ् विहायसा गतौ)।
- ‘स्वर्गगं तु सुडीनकम्’ (भा० कर्ण० ४१।२७)। निगदव्याख्यातम्।
धा
- {सुधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘केशश्मश्रु वापयित्वा मांसमाषलवणवर्जमश्नीतो यजमानः पत्नी चासुहितौ’ (वाराहश्रौ० १।१।२।२)। असुहितौ=अतृप्तौ। सुह चक्यर्थ इति धातो र्वा निष्ठायां रूपम्।
मन्द्
- {सुमन्द्}
- मन्द् (मदि स्तुतिमोदमद-स्वप्नकान्तिगतिषु)।
- ‘वयं सु मन्दिषीमहि।’ सुखं स्वप्यामेत्यर्थः।
यज्
- {सुयज्}
- यज् (यज देवपूजासङ्गतिकरणदानेषु)।
- ‘विष्णु र्वै यज्ञस्य दुरिष्टं पाति वरुणः स्विष्टम्’ (ऐ० ब्रा० ३।३८)। निगदव्याख्यातम्
सद्
- {सुसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘सुषदा (आसम्दी)।’ सुष्ठूपवेशनयोग्या।
स्था
- {सुस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु’ (अथर्व० १८।३।५१)। सुतिष्ठतु सुस्थिरा भवतु।
हा
- {सुहा}
- हा (ओहाङ् गतौ)।
- ‘परातरं सु निर्ऋतिर्जिहीताम्’ (ऋ० १०।५९।१)। सुजिहीतां सुतरां गच्छतु अपैतु।