नश्
- {अतिप्रणश्}
- नश् (णश अदर्शने)।
- ‘नेदिमाँल्लोकानतिप्रणश्यानि’ (श० ब्रा० ६।७।२।१६)। एभ्यो लोकेभ्यो हीयेयेति मा भूत्।
नी
- {अतिप्रणी}
- नी (णीञ् प्रापणे)।
- ‘ततश्चैवातिप्रणयः’ (गो० गृ० ४।४।४)। अतिप्रणयनं दूरतरं नयनम्।
पद्
- {अतिप्रपद्}
- पद् (पद गतौ)।
- ‘अलभ्यः पुनरश्वैस्तु रथात् सोऽतिप्रपादयेत्’ (भा० वि० ५५।२०)। रधात्प्रपात्य इमं लोकमतिक्रमय्य परं लोकं प्रापयेदित्यर्थः।
युज्
- {अतिप्रयुज्}
- युज् (युजिर् योगे)।
- ‘अन्या वो अन्यामति मा प्रयुक्त’ (तै० सं० ४।३।११।४)। माऽतिप्रेरिरत्।
- ‘सर्वेणैवैनमिन्द्रियेणाति प्रयुङ्क्ते’ (तै० सं० ७।२।७।४)। अतिप्रयुङ्क्ते दृढं बध्नाति।
वृत्
- {अतिप्रवृत्}
- वृत् (वृतु वर्तने)।
- ‘अतिप्रवृत्तं रक्तम्’ (सुश्रुते १।४५।१८)। अतिमात्रं स्यन्दमानमस्रम्।
- ‘मार्जारनकुलादीनां विषं नातिप्रवर्तते’ (सुश्रुत० २।२६९।१२)। नातिप्रवर्तते न प्रभावुकं भवति।
श्रि
- {अतिप्रश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘अयं तु प्रकृत्युद्धतो रामः कथमित्थमतिप्रश्रयते’ (बालरा० ४)। अतिप्रश्रितो भवति। निभृतविनीतप्रश्रिताः समाः (अमरः)।
सञ्ज्
- {अतिप्रसञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- ‘तद्विरमातिप्रसङ्गात्’ (उत्तर० ५)। अतिप्रसङ्गोऽविनयो वैयात्यम्।
- ‘अतिप्रसङ्गाद् विहितागसो मुहुः’ (कि० ८।१२)। अतिप्रसङ्गोऽविच्छेदेन सङ्गः।