पद्
- {अत्युपपद्}
- पद् (पद गतौ)।
- ‘नात्युपपन्नसंस्थानः’ (दशकु०)। नात्यनुगुणाकार इत्यर्थः।
यज्
- {अत्युपयज्}
- यज् (यज देवपूजासङ्गतिकरणदानेषु)।
- ‘अथात्युपयजति। स यन्नात्युपयजेद्यावत्यो हैवाग्रे सृष्टास्तावत्यो हैव स्युर्न प्रजायेरन्’ (श० ब्रा० ३।८।४।१८)। अत्युपयजति उपयाजान्करोति, भूयो यजति।