अर्ज्
- {अत्यार्ज्}
- अर्ज (अर्ज षर्ज अर्जने, अर्ज प्रतियत्ने)।
- ‘अथैनमुत्क्रान्तमेधमत्यार्जन्त’ (ऐ० ब्रा० २।८)। अत्यार्जन्त पार्श्वतो न्यदधुः।
इ
- {अत्ये}
- इ (इण् गतौ)।
- ‘सर्वे देवा आत्यायन्ति’ (अथर्व० ११।१२।१४)। शत्रूनतिक्रम्यायन्ति।
कृ
- {अत्याकृ}
- (डुकृञ् करणे)।
- ‘तामुदीचीमत्याकुर्वन्ति’ (श० ब्रा० ३।२।४।२२)। उत्तरां दिशम्प्रति नयन्तीत्याह।
- ‘गार्गिकयाऽत्याकुरुते’ (पा० ५।१।१३४ सूत्रे वृत्तौ)। अत्याकुरुतेऽधिक्षिपति।
- ‘गोत्रचरणाच्छ्लाधात्याकारतदवेतेषु’ (पा० ५।१।१३४)। अत्याकारः पराधिक्षेपः।
क्रम्
- {अत्याक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अत्याक्रामति प्रतिप्रस्थाता’ (श० ब्रा० ४।५।२।११)। अग्रतः प्रसरतीत्याह।
दृ
- {अत्यादृ}
- दृ (दृङ् आदरे)।
- ‘यस्तां विविक्तचरितैरनुवर्तमानां नात्याद्रियत’ (भा० पु० ३।१६।२१)। न तां बह्वगणयत्, नामानयत्।
- ‘नात्यादृतशरीरसंस्करा’ (दशकु०)। परिकर्मण्यदत्तावधाना। अङ्गसंस्कारेऽनास्था।
धा
- {अत्याधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘सूयमे मे अँद्य धृताची भूयास्तां स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति’ (आप० श्रौ० २।४।१३।४)। अत्यादधाति उपरि स्थापयति।
- ‘पुरुषं तद्वीर्येणात्यादधाति’ (श० ब्रा० ७।५।२।१४)। अत्यादधाति उपरि दधाति। अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयते यस्मिंस्तद् अत्याहितम्। अत्याहितं महामीतिः कर्म जीवानपेक्षि चेत्यमरः।
- ‘न केवलमत्याहितं सापवादमपि’ (उत्तर० २)। अत्याहितमापद्।
- ‘अत्याहितं किमपि राक्षसकर्म कुर्यात्’ (महावीर० ४।४९)। अत्याहितं साहसम्, असमीक्ष्यकृतं वा।
- ‘अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः’ (भा० वि० २५।१)। उक्तोऽर्थः।
- ‘अराजके धनं नास्ति नास्ति भार्याप्यराजके। इदमत्याहितं चान्यत् कुतः सत्यमराजके’ (रा० २।६७।११)॥ अत्याहितं महाभीतिः।
- ‘परिक्षीणोऽन्यात्तस्वः कदर्यो व्यसन्यत्याहितव्यवहारश्चेति लुब्धवर्गः’ (कौ० अ० १।१४।४)। अत्याहितव्यवहारः=रमसेन व्यवहर्ता, साहसिकः।
- ‘अतिव्ययकर्तारमत्याहितकर्माणं च निवेदयेयुः (कौ० अ० २।३६।९)। उक्तोऽर्थः।
- ‘निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय’ (आप० श्रौ० १।७।२२।३)। उपरि निधायेत्यर्थः।
- ‘जानुनि चात्याधानं जङ्घायाः’ (आप० ध० २।२०।१४)। इतरस्या जङ्घाया अवस्थापनम्।
- ‘अनत्याधान उरसिमनसी’ (पा० १।४।७५)। अत्याधानमुपश्लेष इति मा० ध० वृ०। उपश्लेषणमिति वृत्तिः। अत्याधानमतिक्रम इति वैजयन्ती।
- ‘अथ स्त्रीभ्यः पुमांसं तद्वीर्येणात्यादधाति’ (श० ब्रा० ७।५।२।१४)। अत्यादधाति उपरि दधाति।
- ‘जमदग्निर्ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनमुपजिहिंसुः’ (जै० ब्रा० १।१५२)। वित्तेन भूरिदक्षिणामार्गणेनोद्वेजयामासेति वाक्यार्थः। आधिर्मानसी व्यथा भवति। अत्याधिरनल्पा सा।
- ‘ततस्तस्मिन्मुनिसुते हृते ऽत्याहितशंसिभिः’ (स्कन्द पु० का० ४।१२।६५)। अत्याहितं महदनिष्टम्।
ध्मा
- {अत्याध्मा}
- ध्मा (शब्दाग्निसंयोगयोः)।
- ‘अत्याधमति’ (सुश्रुत० १।३८।१३)। कृच्छ्रेण प्राणिति।
पद्
- {अत्यापद्}
- पद् (पद गतौ)।
- ‘अत्यापन्नो गुरुजनः’ (महावीर० ४)। अतिशयेनापदं प्राप्तः।
रुह्
- {अत्यारुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘नात्यारोहति जातोर्मिर्महौघः स्वनवानपि’ (रा० ४।१७।२२)। मर्यादां नातिक्रामति, वेलां नातियाति।
- ‘अत्यारूढो हि नारीणामकालज्ञो मनोभवः’ (रघु० १२।३३)। अत्यारूढोऽतिवृद्धः।
- ‘अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा’ (शा० ४)। अत्यारूढिर्महदौन्नत्यम्, महानुच्छ्रायः।
सद्
- {अत्यासद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘हर्षाद् वातापिरगस्त्यमत्यासा दयन्’ (कौ० अ० १।६।१०)। आक्रमितुमिच्छन्।
- ‘सोऽत्यासाद्य तु तद्वेश्म तिरस्करणीमन्तरा’ (रा० २।१५।२०)। आत्यासाद्य अति समीपमित्वा।
- ‘नात्यासादयितुं तात रामान्तिकमिहार्हसि’ (रा० ३।३७।१७)। अत्यासादयितुमत्यन्तं प्राप्तुम्।
सृ
- {अत्यासृ}
- सृ (सृ गतौ)।
- ‘अत्यासारिण्यध्वर्योर्नाशुका स्यात्’ (तै० सं० ६।५।४)। अत्यासारिणी अत्यासारवती वृष्टिः। धारासम्पात आसारः।
हृ
- {अत्याहृ}
- हृ (हृञ् हरणे)।
- ‘लोभाद् ऐलश्चातुर्वर्ण्यमत्याहारयमाणः’ (विननाश) (कौ० अ० १।६।७)। अत्याहारयमाणोऽतिवेलं बलीन् हारयन् इत्यर्थः।
- ‘हृक्रोरन्यतरस्यामिति’ (१।४।५३) अणौ कर्तुर्णौ विभाषा कर्मत्वम्।
- ‘अत्याहारितमर्थं वा स्वयं परमुखेन वा’ (कौ० श्र० ८।५।२६)। अत्याहारितम् अतिमात्रया कररूपेणात्तम्।