क्रम्
- {अत्यतिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘कथं त्वामत्यतिक्रान्तः’ (भा० आदि० १२५।१८)। शोकाकुलत्वाच्छब्दस्याभ्यास इति नीलकण्ठः।
रिच्
- {अत्यतिरिच्}
- रिच् (रिचिर् विरेचने)।
- ‘ध्रियमाणः कपोतस्तु मांसेनात्यतिरिच्यते’ (भा० वन० १३१।२७)। अत्यतिरिच्यते=अतितरामतिरिक्तो भवति, गुरुभारतरो भवतीत्याह।