क्लिश् {अपिपरिक्लिश्} क्लिश् (क्लिशू विबाधने)। ‘अपि चापिपरिक्लिष्टं चिराद् दारैः समागतम्। आत्मकार्यगरीयस्त्वाद् वक्तुं नेच्छामि वानरम्’ (रा० ४।२८।६१)। अपिपर्योरेकतरः शक्यः परिहर्तुम्, अन्यतरेण विवक्षितार्थस्य समर्पणात्।