क्रम्
- {अधिविक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानायाधिविक्रमस्व’ (का० श्रौ० २३।३।१)। दीर्घेण क्रमेण निष्क्रामेत्याह।
धा
- {अधिविधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘चित्ते ह्यस्मिन् होत्रा अधिविधीयन्ते’ (श० ब्रा० ६।३।१।१६)। अधविधीयन्ते विभागशो नियुज्यन्ते।
- ‘एतदधिविधाय’ (तै० उ० १।७)। अनर्थकोऽधिः। विधायेत्येवार्थः।
श्रि
- {अधिविश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘तृतीये नाके अधिविश्रयस्व’ (अथर्व० ९।५।८)। सुप्रतिष्ठितो भवेत्यर्थः।