इ
- {व्यवे}
- इ (इण् गतौ)।
- ‘नेदेकवचनेन बहुवचनं व्यवेयाम्’ (श० ब्रा० १३।५।१।१८)। व्यवेयां व्यवदध्याम्।
- ‘गार्हपत्याहवनीयौ न व्यवेयात्’ (का० श्रौ० १।८।२३)। तौ नान्तरा गच्छेदित्यर्थः।
- ‘नान्तरा यज्ञाङ्गानि व्यवेयात्’ (कौ० सू० १।२७)। उक्तोऽर्थः।
- ‘क्षैप्रवर्णांश्च संयोगान्व्यवेयात्सदृशैः स्वरैः’ (ऋक्प्रा० १७।१३)। व्यवेयात् पृथक् कुर्यात्।
- ‘अधीयानेषु वा यत्रान्यो व्यवेयात्’ (आप० ध० १।३।१०।१८)। अन्तराऽऽगच्छेदित्यर्थः।
- ‘तथाग्निराधेयो यथाऽऽहुतिर्न व्यवेयात्’ (आप० श्रौ० ६।१।२।६)। व्यवेयात् प्रच्यवेत प्रस्कन्देत्। अग्निं हित्वा भूमिं न प्राप्नुयादित्याह।
- ‘वचनेन व्यवेतानां संयोगत्वं विहन्यते’ (अथर्व० प्रा० १।१०१ इत्यत्र वृत्तिः)। व्यवहितानामित्यर्थः।
- ‘अव्यावृत्तिं यज्ञाङ्गैरव्यवायं चेच्छेत्’ (खा० गृ० १।१।२५, द्रा० गृ० १।१।२७)। अव्यवायमव्यवधानम्।
- ‘अमात्यानां राज्ञा सह समवाये पारतन्त्र्यं व्यवाये स्वातन्त्र्यम्’ (पा० १।४।३ भाष्ये)। व्यवायः पृथग्भावः, असन्निधिः।
- ‘तैर्व्यवाये दुःखं समवाये च सुखम्’ (यो० सू० भाष्ये)। व्यवायः पृथग्भावोऽसंसर्गः, विनाभवः। अयमर्थः कथान्तरेण व्यवायाद् विस्मृतः स्यादिति पुनः स्मार्यते (इति वयम्)। व्यवायो व्यवधानम्।
- ‘अट्कुप्वाङ्नुम्व्यवायेपि’ (पा० ८।४।२)। उक्तोऽर्थः।
- ‘व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्’ (भा० आश्व० २०।१०)। व्यवायः संचारः। व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् इत्यमरः।
- ‘व्यवायिनोन्तरम्’ (पा० ६।२।१६६)। अत्र व्यवायी व्यवधातेति वृत्तिः। वस्त्रान्तरः। वस्त्रमन्तरं व्यवधातृ व्यवधायकं यस्य सः।
- ‘व्यवायि तद्यथा भङ्गा फेनं चाहिसमुद्भवम्’ (शार्ङ्ग० सं १।४।१९)। व्यवायि संचारि संक्रमि।
- ‘दारेषु चास्य व्यवायी भविष्यामि’ (यो० सू० २।३३ भाष्ये )। व्यवायो मैथुनम्। मैथुनी भविष्यामि। मैथुनमाचरिष्यामीत्यर्थः।
- ‘प्राणानेव तन्नाशक्नोद् व्यवैतुम्’ (ऐ० ब्रा० ३।१४)। व्यवैतुं वियोजयितुम्।
- ‘न प्रवर्ग्यमादित्यं च व्यवेयात्’ (सत्या० श्रौ० २४।१।१३)। प्रवर्ग्यमादित्यं च पात्रमन्तरेण न गच्छेदित्याह। तयोरन्तर्भूतो मा भूदिति यावत्।
- ‘सच्छन्दसो याज्यापुरोनुवाक्ये निगदो व्यवैति’ (शां० ब्रा० ३।६)। व्यवैति भिद्यते।
- ‘रूक्षमाशुकरं चैव व्यवायि च विकाशि च’ (मद्यम्)। (सुश्रुत० उत्तर० ४७।२)। व्यवायि सर्वं देहं व्याप्य पश्चात् पाकं याति।
- ‘तेनासां (प्रजानाम्) मध्यं व्यवैत्’ (पञ्च० ब्रा० १७।१०।२)। व्यवैत् विशेषेगागच्छत्।
ईक्ष्
- {व्यवेक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘व्यवेक्षमाणौ सह सीतया गतौ’ (रा० २।८६।२५)। सर्वतो दत्तावधानौ।
ईर्
- {व्यवेर्}
- ईर् (ईर गतौ)।
- ‘तदन्तरिक्षं व्यवैर्यत’ (तै० सं० ७।१।५)। व्यवैर्यत विशीर्णमधोऽ पतत्।
कल्
- {व्यवकल्}
- कल् (कल गतौ संख्याने च)।
- ‘अथ संकलितव्यवकलितयोः करणसूत्रं वृत्तार्धम्’ इति लीला०। व्यवकलितं हीनीकृतम्।
- ‘यदि व्यक्ते युक्तिव्यवकलनमार्गेऽसि कुशला’ (लीला० १३)। व्यवकलनं शोधनं न्यूनीकरणम्।
कृत्
- {व्यवकृत्}
- कृत् (कृती छेदने)।
- ‘हत प्रहरताभीता विध्यत व्यवकृन्तत’ (भा० द्रोण० १६१।९)। खण्डशः कुरुतेत्यर्थः।
कृष्
- {व्यवकृष्}
- कृष् (कृष विलेखने)।
- ‘कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्। भेदैर्ये व्यवकर्षन्ति ते वै निरयगामिनः’ (भा० अनु० २६।७०)॥ व्यवकर्षन्ति=अपरञ्जयन्ति, विमुखी कुर्वन्ति। व्यपकर्षन्तीति पाठान्तरम्। अर्थस्तु निर्विशेषः।
क्रश्
- {व्यवक्रश्}
- क्रश् (क्रुश आह्वाने रोदने च)।
- ‘णचः स्त्रियामञ्’ (पा० ५।४।१४)। अत्र व्यावक्रोशीत्युदाहृतं वृत्तौ। अन्योन्यस्यावक्रोशनं व्यावक्रोशी भवति।
गाह्
- {व्यवगाह्}
- गाह् (गाहू विलोडने)।
- ‘तमुवाचाथ सावित्री रजनी व्यवगाहते’ (भा० वन० २९७।७३)। व्यवगाहतेऽवतरति। व्यवयोरुपसर्गयोः शक्य एकतरो हातुम्। इहैवाग्रिमे श्लोके विगाढा रजनी चेयं निवृत्तश्च दिवाकर इति श्रवरणात्। तत्र विगाढाऽवतीर्णेत्येवार्थः।
- ‘दुर्योधनो महाराज व्यवागाहत तद्बलम्’ (भा० द्रोण० १५३।११)। सुदूरं प्राविशदित्यर्थः।
- ‘तत्तोयं व्यवगाढवान्’ (भा० वन०)। तोये निमग्नवानित्यर्थः।
ग्रह्
- {व्यवग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘अथ यदुत्तरं (कपालं) सा द्यौस्तद् व्यवगृहीतान्तमिव भवति। व्यवगृहीतान्तेव हि द्यौः’ (श० ब्रा० ७।५।१।२)। व्यवगृहीतान्तं नतान्तम्। व्यवगृहीतमित्युद्गृहीतस्य प्रत्यनीकम्।
- ‘अथ यद् व्यवग्राहं देवता आवाहयति’ (शां० ब्रा० ३०।३)। व्यवग्राहम् एकैकशः, पृथक्त्वशः। णमुलन्तमेतत्।
छिद्
- {व्यवच्छिद्}
- छिद् (छिदिर् द्वैधीकरणे)।
- ‘अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति।’ व्यावर्तयतीत्यर्थः।
- ‘शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली’ (काव्यादर्शे १।१०)। व्यवच्छिन्नाऽवच्छिन्ना विशिष्टा।
- ‘काव्यशरीरम्–इष्टार्थ-व्यवच्छिन्ना पदावली’ (काव्यादर्शे १।१०)। व्यवच्छिन्ना युक्ता।
द्रु
- {व्यवद्रु}
- द्रु (द्रु गतौ)।
- ‘यत्रापः प्रतीचीर्गाहपत्याद् व्यवद्रवेयुः।’ (का० सं० २५।३)। स्यन्देरन्नित्यर्थः।
धा
- {व्यवधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘एवं च दीर्घसमाससङ्घटना…कदाचिद् रसप्रतीतिं व्यवदधाति’ (ध्वन्यालोके ३।६ इत्यत्र लोचने)। व्यवदधाति रुणद्धि, विलम्बयति।
- व्यवदधाति दर्भपिञ्जूलानि (शा० ब्रा० १८।८, ऐ० ब्रा० १।३)। इतस्ततो निदधातीत्यर्थः।
- ‘चात्वालादपरेणाध्वर्युश्चमसानद्भिः पूरयित्वोदीचः प्रणिधाय हरितानि तृणानि व्यवदधाति’ (गो० ब्रा० उ० ४।६)। तृणैरास्तृणाति, तृणानि व्यवधानमास्तरणं करोतीत्यर्थः।
- ‘भार्याश्च पुत्राश्च सुहृदश्च वसूनि च समेत्य व्यवधीयन्ते’ (गोरेसियो सं० रा० २।११४।१३)। व्यवधीयन्ते वियुज्यन्ते।
- ‘एतां स्मृति ते…न ह्येष व्यवधात्कालः’ (भा० पु० १:६।४)। व्यवधात्=व्यवाधात्=अरुधत्=अन्तरा प्रत्यबध्नात्। आचमनानन्तरमेव भुञ्जीत न तु क्रियान्तरेण व्यवदधीत। अन्तरा क्रियान्तरं न कुर्यादित्यर्थः। आचमनभोजनयोरव्यवहितमानन्तर्यमिष्यत इत्याह।
- ‘अस्यतितृषोः क्रियान्तरे कालेषु’ (पा० ३।४।५७) इत्यत्र द्व्यहतर्ष गाः पाययति। तर्षणेन गवां पानक्रिया व्यवधीयते इति वृत्तिः। व्यवधीयते विच्छिद्यत इत्यर्थः।
- ‘शापव्यवहितस्मृतिः’ (शा०)। शापेन व्यवहिता विच्छिन्ना स्मृतिर्यस्य सः।
- ‘व्यवहितजनाक्रन्दं भेरीरवैरतिभैरवैः’ (राज० १।३६६)। उक्तपूर्व एवार्थः। न्यक्कृतस्तिरस्कृतो वा जनाक्रन्दो लोकाक्रोशो यत्र तत्। भेर्यभिधातेनाधरीकृत आक्रन्दध्वनिरिति तात्पर्यार्थः।
- ‘अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे’ (भा० पु० ३।२९।१२)। अव्यवहिता दैवतान्तरभक्त्याऽविच्छिन्ना। व्यवहितार्थप्रत्ययं क्लिष्टम्। यद् विलम्बितार्थप्रतीतिकं तत् क्लिष्टमुच्यत इत्यर्थः।
- ‘शार्दूलचर्मव्यवधानवत्याम्’ (कु० ३।४४)। व्यवधानमावरणम्। महार्हशयनीयोचितः स सम्प्रत्यव्यवधानायामिलायां शेते। अहो कालविपर्ययः (इति वयम्)। अव्यवधानाऽनावरणाऽमास्तरणा।
- ‘कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय’ (दशकु०)। व्यवधानमास्तरणं कृत्वेत्यर्थः।
- ‘तत्र न व्यवधातव्यम्’ (भा० शां० १३४।२)। व्यवधानं विघ्नोऽन्तरायः। स न कर्तव्य इत्याह। व्यवधाञोऽकर्मकः प्रयोगः।
धाव्
- {व्यवधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव’ (शां० भा० २८७।४७)। व्यवधावेत् पलायेत।
- ‘एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च। समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः’ (रा० २।१०५।२७)॥ नानादिक्षु यान्ति।
धू
- {व्यवधू}
- धू (धूञ् कम्पने)।
- ‘परोगव्यूति होतव्यस्तथा हैनं न व्यवधूनुते’ (काठक० ३७।११)। अवधूनोतीत्यर्थः। नार्थो विना।
- ‘तानि बाणसहस्राणि चर्मणा व्यवधूय’ (हरि० ३।१।१२)। व्यवधूय=प्रत्यस्य, प्रतिक्षिप्य। परस्परज्ञाः संहृष्टा व्यधूताः सुनिश्चिताः।
- ‘अपि पञ्चाशतं शूरा मृद्नन्ति महतीं चमूम्’ (भा० भीष्म० ३।८२८३)॥ व्यवधूता दारादिष्वनासक्ताः।
नी
- {व्यवनी}
- नी (णीञ् प्रापणे)।
- ‘(सोमग्रहान्) चमसेषु व्यवनीय’ (श० ब्रा० ५।१।२।१९)। एकैकशो निनीय आसिच्येत्यर्थः। विर्नानात्वे। अवोऽधोर्थे।
मुच्
- {व्यवमुच्}
- मुच् (मुच्लृ मोक्षणे)।
- ‘सोऽधिरुह्य नरव्याघ्रः पादुके व्यवमुच्य च’ (रा० २।११२।२२)। व्यवमुच्य=अवमुच्य। विर्व्यर्थः। पादुकाभ्यामवरुह्येत्यर्थः।
लोक्
- {व्यवलोक्}
- लोक् (लोकृ दर्शने)।
- ‘अतिथिजनदिदृक्षया व्यवलोकयतः’ (अवदा० जा० ७)। व्यवलोकयत इतश्चेतश्च विलोकयतः।
वद्
- {व्यववद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘वाचं यच्छन्ति यज्ञमेव तद् यच्छन्ति यद् व्यववदेयुर्यज्ञं निर्ब्रूयुः’ (पञ्च० ब्रा० ६।७।११)। व्यववदेयुः=वाचं विसृजेयुः।
शद्
- {व्यवशद्}
- शद् (शद्लृ शातने)।
- ‘अग्निर्व्यवशशादाग्नेर्व्यवशादमन्वसुरा व्यवशेदुः’ (श० ब्रा० २।१।२।१६)। अग्निरित्यग्निवेदिर्गृह्यते। व्यवशशाद=अवपपात।
शम्
- {व्यवशम्}
- शम् (शमु उपशमे)।
- ‘यदङ्गारेषु व्यवशान्तेषु लेलायद्वीव चरति तद् देवानामास्यम्’ (आप० श्रौ० ६।३।९।२)।
सद्
- {व्यवसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा’ (भा० वन० १७।२२)। विशेषेणावसादं प्राप्तः। व्यवासीदद् इति लङि रूपम्।
- ‘कपेः परमभीतस्य चित्तं व्यवससाद ह’ (रा० ४।२।३)। व्यवससाद ससाद। न्यग्गतं न्यक्तम्, नीचैर्गतम्। य एव सदेरर्थः स एव व्यवसदेः।
सृज्
- {व्यवसृज्}
- सृज् (सृज विसर्गे)।
- ‘इदमेवैतत् सर्वमिमाः प्रजा यथायथं व्यवसृजति’ (श० ब्रा० ४।३।१।२६)। व्यवसृजति क्रमेण युक्ताः करोति।
- ‘तां (शक्तिं) व्यवासृजदाविध्य’ (भा० द्रोण० १४०।६६)। व्यवासृजत् अवासृजत् प्राहरत् प्रास्यत्।
- ‘दण्डव्यवसर्गयोश्च’ (पा० ५।४।२)। अत्र द्विशतिकां व्यवसृजति इति वृत्तावुदाहरणम्। दानं व्यवसर्गः। व्यवसृजति ददाति।
सृप्
- {व्यवसृप्}
- सृप् (सृप्लृ गतौ)।
- ‘स एतामनुष्टुभं व्यौहत तां मध्ये व्यवासर्पत्’ (पञ्च० ब्रा० १५।११।९)। व्यवासर्पत् प्राविशत्।
सो
- {व्यवसो}
- सो (षो अन्तकर्मणि)।
- ‘वि पितापुत्राववस्यतः’ (श० ब्रा० १३।२।४।४)। व्यवस्यतः पृथग्भवतः। अन्तशब्दः पृथक्त्वमपि ब्रूते यथा मैत्रेयीति होवाच याज्ञवल्क्यः कात्यायन्या तेऽन्तं करवाणीत्यत्र। अन्तो विभागः।
- ‘अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः’ (भा० उ० ३।१३)। न व्यवस्यन्ति नानुमन्यन्ते, न निर्णयन्ति, न निश्चिन्वन्ति।
- ‘न व्यवस्यति पाण्डूनां प्रदातुं पैतृकं वसु’ (भा० उ० ३।१२)। उदितचर एवार्थः।
- ‘केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम्’ (भा० शल्य० ४६।९८)। व्यवस्यन्ति विजानन्ति।
- ‘भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः’ (भा० वि० ४९।४)। उक्तोऽर्थः।
- ‘यो विचिन्त्य धिया धीरो व्यवस्यति स बुद्धिमान्’ (भा० आदि० १०५।२२)। व्यवस्यति निश्चिनोति।
- ‘व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज’ (भा० वन० ३१।४०)। व्यवस्य निश्चिनु। लोटि रूपम्।
- ‘सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्’ (रा० २।१२।७६)। उक्तोऽर्थः।
- ‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या’ (शा० ४।९)। न व्यवस्यति न चिन्तयति, न बुद्धौ करोति, नेच्छति।
- ‘कस्त्वेतद् व्यवसेदार्यस्त्वदन्यः पुरुषाधमः’ (भा० द्रोण० १९८।१४)। व्यवसेद्=व्यवस्येद्=कुर्यात्।
- ‘अपि वोद्बन्धनादीनि परीतानि व्यवस्यति’ (भा० आश्व० १७।१३)। व्यवस्यति करोति।
- ‘तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः’ (कि० १।१८)। व्यवसाययन्ति=उद्योजयन्ति।
- ‘साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः’ (गीता ९।३०)। व्यवसितः कृतनिश्चयः। कर्तरि क्तः।
- ‘न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः। समर्थस्त्वं रणे हन्तुम्…’ (रा० ४।२७।३६)॥ अव्यवसितोऽनुद्यमी।
- ‘श्रुत्वा तथा करिष्यामि व्यवसायं गिरां तव’ (भा० वन० २६०।३६)। व्यवसायो निश्चयोऽवधारणम्।
- ‘तात कर्मणा कृतनिःशेषविप्रियाः सम्प्रति वाचा व्यवस्यन्ति’ (वेणी० ५)। व्यवस्यन्ति चरितुं चिन्तयन्ति, तत्रार्थे कृतनिश्चयाः सन्ति।
- ‘सिद्धं तु व्यवसितान्त्यत्वात्’ (पा० १।३।३ सूत्रे वा०)। व्यवसिताः परिच्छिन्ना धातुत्वप्रत्ययत्वादिना धर्मेण।
- ‘चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत्’ (सुश्रुत० सू० २५।२०)। व्यवस्येत् जानीयात्, निश्चिनुयात्।
- ‘विशालं भवति व्यवसाययत्येवैनम्’ (तै० सं० )। उद्योगिन करोतीत्यर्थः।
- ‘व्यवसितपाठः कर्तव्यः’ (पा० १।३।९ इत्यत्र भाष्यम्)। व्यवसितानां विच्छिन्नानां पाठः।
- ‘अन्यतोपि बहुशो व्यवसितचारित्रा’ (का० सू० १।५।६)। खण्डितशीलेत्यर्थः।
स्था
- {व्यवस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘शब्दरूपाश्रया चेयं द्विलिङ्गता क्वचिदर्थभेदेनापि व्यवतिष्ठते’ (अर्धर्चाः पुंसि च २।४।१ इत्यत्र काशिका)। व्यवतिष्ठते नियम्यते।
- ‘व्यवस्थितस्तं सूतमीक्षमाणः’ (रा० २।४०।५१)। व्यवस्थितः स्वां गतिं निरुध्य स्थितः।
हृ
- {व्यवहृ}
- हृ (हृञ् हरणे)।
- ‘तौ व्यवाहरतां तत्र महात्मानौ महाबलौ। अन्योन्यमभिगर्जन्तौ गोष्ठेषु वृषभाविव’ (भा० वि० ३२।२४)। व्यवाहरताम् प्राचरतां व्यचरताम् पर्यक्रामताम्।
- ‘तैः (शूरसेनैः) व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः’ (भा० द्रोण० १४१।१०)। उचितसमाचारं समाचरदित्यर्थः।
- ‘कथं कार्यविनिमयेन व्यवहरति मय्यनात्मज्ञः’ (माल० १)। वर्तते आचरति।
- ‘व्यवहृपणोः समर्थयोः’ (पा० २।३।५७)। इत्यत्र शतस्य व्यवहरतीति वृत्तावुदाहृतम्। शतस्येति कर्मणि शेषे षष्ठी। व्यवहरति पणते क्रयविक्रयव्यवहारं वा करोति। शलाकां व्यवहरतीति तत्र प्रत्युदाहरणं स्थितम्। व्यवहरति गणयतीति दीक्षितः। परिगणयतीति न्यासकारः। विक्षिपतीति तु वृत्तिकारः।
- ‘आपदि व्यवहरेत् पण्यानाम्’ (ब्राह्मणः) (आप० ध० १।७।२०।११)। क्रयश्च विक्रयश्च व्यवहारः।
- ‘वंशकठिने व्यवहरति वांशकठिनिकः। कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति’ (पा०। ४।४।७२) इत्यत्र वृत्तावुदाहृतम्। व्यवहारः क्रियातत्त्वम्। वंशा वेणवः कठिना यस्मिन् देशे स वंशकठिनः। तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथाऽनुतिष्ठतीत्यर्थः। इदमेव क्रियातत्त्वमित्युक्तं वृत्तिकारेण।
- ‘नाराजके जनपदे सिद्धार्था व्यवहारिणः’ (रा० २।६७।१६)। कमप्यर्थमुद्दिश्यान्योन्यं विवदमाना व्यवहारिणः, अथवा पण्यजीविनः। वि नानार्थेऽव सन्देहे हरणं हार उच्यते। नानासन्देहहरणाद्व्यवहारः प्रकीर्तितः (इति कातीयम्)॥ ऋरणादीन्यष्टादश विवादस्थानानि व्यवहाराः।
- ‘अर्थपतिर्व्यवहर्तुमर्थगौरवादभियोक्ष्यते’ (दशकु०)। व्यवहर्तुं व्यवहारायाऽधिकरणे निर्णयाय।
- ‘महापणेभ्यो व्यवहारिणश्च’ (सौन्दर० ५।१)। व्यवहारिणो वणिजः।