कृ
- {व्यपाकृ}
- कृ (डुकृञ् करणे)।
- ‘केऽयुध्यन्के व्यपाकुर्वन् के क्षुद्राः प्राद्रवन्भयात्’ (भा० द्रोण० २४।१७)। व्यपाकुर्वन्=परास्यन्।
कृष्
- {व्यपाकृष्}
- कृष् (कृष विलेखने)।
- ‘ततो दुःशासनो राजन् द्रौपद्या वसनं बलात्। सभामध्ये समाक्षिप्य व्यपाक्रष्टुं प्रचक्रमे’ (भा० सभा० ६८।४०)। व्यपाक्रष्टुं व्यपरोपयितुमवातरयितुम्।
नुद्
- {व्यपानुद्}
- नुद् (णुद प्रेरणे)।
- ‘परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद’ (भा० वि० ४१।८)।
- ‘ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद’ (भा० शां० ५०।३१)। व्यपानुद व्यपकर्ष।
श्रि
- {व्यपाश्रि}
- श्रि (श्रि सेवायाम्)।
- ‘आक्षिप्तः शत्रुभिः संख्ये सुहृद्भिश्च व्यपाश्रितः। अभवद् यो न विमुखः…’ (सौन्दर० २।५)॥ व्यपाश्रितोऽदत्तसंश्रय इत्यर्थो भाति। सोऽयमन्यत्र दुर्लभः।