चर्
- {दुःसंचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘दुःसंचारासु नगरवीथीषु’ (पञ्चत० १।१७३)। दुःखं संचरणं परिक्रमणं गतागतं यत्र तासु।
धा
- {दुःसंधा}
- धा (डुधाञ् धारणपोषणयोः)
- ‘मृद्घटवत्सुखभेद्यो दुस्सन्धानश्च दुर्जनो भवति’ (पञ्चत०)। सन्धानं संयोजनम्।
स्था
- {दुःसंस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘सन्ति दुःसंस्थिताः कुब्जे वक्राः परमपापिकाः’ (रा० २।९।४०)। दुःसंस्थिताः=दुःसंस्थावयवसंनिवेशाः, दुःसंस्थाना दुराकृतयः।