आप्
- {दुष्प्राप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘असंयतात्मना योगो दुष्प्राप इति मे मतिः’ (गीता ६।३६)। दुष्प्रापो दुरापोऽसुलभः।
तॄ
- {दुष्प्रतॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘धर्मं सूक्ष्मतरं वाच्यं तत्र दुष्प्रतरं त्वया’ (भा० शां० १९।७)। दुष्प्रतरं दुस्तरम्। दुरवगमं वा।
दा
- {दुष्प्रदा}
- दा (डुदाञ् दाने)।
- ‘अद्य भीताः पलायन्तु दुष्प्रदास्ते दिशो दश’ (रा० २।१०६।२९)। दुष्प्रदाः कष्टदाः।
धृष्
- {दुष्प्रधृष्}
- धृष् (धृष प्रसहने)।
- ‘सा दुष्प्रधर्षा हिंस्रैः’ (रघु० २।२७)। अनास्कन्द्या अनाक्रम्या।
वृत्
- {दुष्प्रवृत्}
- वृत् (वृतु वर्तने)।
- ‘तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्’ (रघु० १२।५१)। तेषां खरादीनां हतानां दुष्प्रवृत्तिरनिष्टा दुःखदा प्रवृत्तिर्वार्ता।