चर्
- {दुरुपचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘(राज्यलक्ष्मीः) आशीविष इव दुरुपचारा’ (पञ्चत०)। दु:सेव्येत्यर्थः।
सद्
- {दुरुपसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य’ (कि० ७।९)। दुरुपसदात्=दुरुपगमात्। दुःसहादिति तु मल्लिः। स च तात्पर्यार्थः।
स्था
- {दुरुपस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘यो रणे दुरुपस्थानो हस्तरोधं दधद् धनुः’ (भट्टि० ५।३२)। दुरुपस्थानोऽनुपेयः।