धा
- {अवनिधा}
- (डुधाञ् धारणपोषणयोः)।
- ‘यो महत्यर्थसमुदये स्थितः कदर्यः…अवनिधत्ते पौरजानपदेषु’ (कौ० अ० २।९।२५)। अवनिधत्ते प्रच्छन्नं न्यस्यति। केवले न्यासेऽर्थे तु अवोऽनर्थकः स्यात्।
ष्ठिव्
- {अवनिष्ठिव्}
- ष्ठिव् (ष्ठिवु निरसने)।
- ‘अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः’ (मनु० ८।२८२)। अवमानार्थ निष्ठीवत इत्यर्थः।