कॄ
- {अवाकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘कदा राघवौ लाजैरवाकरिष्यन्ति’ (रा० २।४३।१३)। आकीर्णाववस्तीर्णौ करिष्यन्ति लोकाः।
- ‘तेन मामभितः स्थित्वा शरवर्षैरवाकिर’ (भा० द्रोण० १३१।२३)। उक्तोऽर्थः।
चि
- {अवाचि}
- चि (चिञ् चयने)।
- ‘अवाचिनोति कर्माणि न च संप्रचिनोति च’ (भा० शां० १६०।२७)। अवाचिनोति भोगेनापकर्षति। न्यूनतामापादयति।