अन्
- {अनुप्राण्}
- अन् (अन प्राणने)।
- ‘उत्प्रेक्षानुप्राणिता स्वभावोक्तिः’ (सा० द० १०)। अनुप्राणिता=समर्थिता=परिपोषिता।
अस्
- {अनुप्रास्}
- अस् (असु क्षेपे)।
- ‘वर्णसाम्यमनुप्रासः’ (का० प्र० ९।६९)।
- ‘अनुप्रासः शब्दसाम्यं वैषम्येपि स्वरस्य यत्’ (सा० द० १०।३)।
- ‘रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः’ (का० प्र०)।
आप्
- {अनुप्राप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम्’ (रघु० ४।२२)। अनुप्रापुरनुचक्रुर् इत्यर्थः।
- ‘ततः प्रावृडनुप्राप्ता’ (दशकु०)। ऋतुपर्यायेण प्राप्ता संनिहिता उपनतेत्यर्थः।
इ
- {अनुप्रे}
- इ (इण् गतौ)।
- ‘तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम्। अनुप्रयन्ति वृष्टयः’ (ऋ० ५।??३।१०)। शर्धमनु प्रस्थिताः प्रारब्धा भवन्ति वृष्टय इत्याह।
- ‘क्षिप्रे हैषामपरोऽनुप्रैति’ (श० ब्रा० १३।८।१।७)। अनुप्रैति=अनुयाति। क्षिप्रे=क्षिप्रम्=अचिरेण।
कॄ
- {अनुकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘सोत्कण्ठैरमरगणैरनुप्रकीर्णान्’ (कि० ७।२)। समन्तादावृतान् इत्यर्थः।
दा
- {अनुप्रदा}
- दा (डुदाञ् दाने)।
- ‘अनुप्रदानात्संसर्गात्स्थानाच्च करणादपि। ज्ञायते वर्णवैशेष्यं परिमाणाच्च पञ्चमात्’ (तै० प्रा० २।११)॥
- ‘त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञमनुप्रदानम्’ (आप० ध० २।२४।८)। अन्तर्वेदि बहिर्वेदि च दानमनुप्रदानम्।
धाव्
- {अनुप्रधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘मामन प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु’ (ऋ० १०।१४५।६)। इदं निगदव्याख्यातम्।
नुद्
- {अनुप्रणुद्}
- नुद् (णुद प्रेरणे)।
- ‘अनुगृह्णीयान्नानुप्रणुदेत्’ (कौ० सू० ५६)। नानुप्रणुदेत्=न प्रत्याचक्षीत=न निराकुर्यात्।
- ‘अनु प्रणुन्ना रक्षोभिः सिंहैरिव महाद्विपाः’ (रा० ६।७।३६)। अनुप्रणुन्नाः=उत्सारितानुसृताः।**
पद्
- {अनुप्रपद्}
- पद् (पद गतौ)।
- ‘भावं न तस्याहमनुप्रपद्याम्’ (रा० ५।२८।५)। अनुप्रपद्याम्=अनुप्रपद्येय=प्रतिपद्येय, अभ्युपेयाम्।
- ‘एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः’ (भा० वन० २९७।२५)। अनुप्रपन्नाः=अनुगताः=आस्थिताः। त्रयीधर्ममनुप्रपन्नाः=वेदमार्गानुयायिनः।
पा
- {अनुप्रपा}
- पा (पा पाने)।
- ‘अक्षरमक्षरमेव तद् देवता अनुप्रपिबन्ति’ (ऐ० ब्रा० २।३७)। अनुक्रमेण पातुमारभन्ते। अनुप्रयोरर्थवत्तेह दृश्या भवति।
भू
- {अनुप्रभू}
- भू (भू सत्तायाम्)।
- ‘सूर्यो विश्वमनुप्रभूतः’ (श० ब्रा० १०।६।३।२)। विश्वं व्यश्नुत इत्याह।
- ‘स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति’ (छां० उ० ६।११।१)। अनुप्रभूतः=अभितो व्याप्तः।
या
- {अनुप्रया}
- या (या प्रापणे)।
- ‘आघातमद्यानुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः’ (मृच्छ० १०।२१)। अनुप्रयामि=अनुलक्ष्य प्रतिष्ठे।
- ‘तं प्रयान्तमनुप्रायात्’ (भा० उ० ८३।३०)। अनुप्रातिष्ठत, साकमयात्।
युज्
- {अनुप्रयुज्}
- युज् (युजिर् योगे)।
- ‘कृञ्चानुप्रयुज्यते लिटि’ (पा० ३।१।४०)। पश्चाद् अव्यवहितं प्रयुज्यत उच्चार्यत इत्यर्थः।
- ‘पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव’ (अथर्व० ११।२।१३)। अनुप्रयुङ्क्षेऽनुबध्नासि, निरन्तरमनुसरसीत्याह।
- ‘भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः’ (अथर्व० १२।१।४०)। उक्तोऽर्थः। अनुवर्तताम्, अनुकरोत्विति वा गृह्यताम्।
- ‘तम् (अश्वमेधम्) इष्टिभिरनुप्रायुञ्जत’ (श० ब्रा० १३।१।४।१)। अन्वसरन्नित्यर्थः।
- ‘वरुणस्य सुषुवाणस्य दशधेन्द्रियं वीर्यं परापतत्… (वरुण आत्मानम्) अग्निना देवेन प्रथमेऽहन्ननु प्रायुङ्क्त’ (तै० ब्रा० १।८।१)। तत्रावश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अनुकथ्यः।
वद्
- {अनुप्रवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘वाचं प्रोदितामनुप्रवदन्ति’ (ऐ० ब्रा० २। १५)। अनुप्रवदन्ति=पश्चाद् व्याहरन्ति।
- ‘तमेता ऋचोऽनुप्रवदन्ति’ (नि० १०।२०)। अनुप्रवदन्ति=अभिब्रुवन्ति। तमिति यमं प्रत्यवमृशति।
वह्
- {अनुप्रवह्}
- वह् (वह प्रापणे)।
- ‘यच्छक्नवाम तदनुप्रवोढुम्’ (ऋ० १०।२।३)। अनुप्रवोढुम्=अग्रतो गन्तुम्=प्रसर्तुम्।
विश्
- {अनुप्रविश्}
- विश् (विश प्रवेशने)।
- ‘यदि तत्राज्ञातमेव प्रवेष्टुं स्यादुपायः, किं करिष्यति भवान् (अविमारकः सहर्षम्) अनुप्रवेक्ष्यामि’ (अवि० ४)। अनुपदमपदान्तरं प्रवेक्ष्यामीत्याह।
- ‘विश्रम्य लौकिकाः सस्त्यायमनुप्रविशन्ति’ (महावीर०)। संकथामुपक्रमन्ते इत्यर्थः।
- ‘अनुप्रवेशादाद्यस्य पुंसस्ते नापि दुर्वहम्’ (रघु० १०।५१)। अनुप्रवेशात्=अधिष्ठानात्।
- ‘सखे वामदेव ! त्वमपि गाधिनन्दनमनुप्रविष्टोसि’ (अनर्घ० १)। तन्मतं परिगृहीतवानसि। यथा स चिन्तयति तथा त्वमपीत्याह।
- ‘पथिकसार्थं विदिशागामिनमनुप्रविष्टः’ (माल०)। तेन संगतः तदङ्गभावं गतः, तदेकदेशतामुपेतः।
- ‘बलवताभिभूतस्य विदेशगमनमनुप्रवेशो वा नीतिः’ (पञ्चत०)। अनुप्रवेशो विजेतृच्छन्दानुवृत्तिः।
- ‘भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः’ (शिशु० ९।४८)। पञ्चतन्त्रोक्तार्थानुवाद एषः।
- ‘यस्य यस्य हि यो भावस्तस्य तस्य हि तं नरः। अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्’ (पञ्चत० १।६८)॥ अनुप्रविश्य=आनुकूल्येनानुकूलाचरणेनाभिमतार्थकथनेन च तदात्मीयतामुपेत्य।
सञ्ज्
- {अनुप्रसञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- ‘अनेन हास्थ ते मर्त्येनात्मनैतं देवमात्मानमनुप्रसजन्ति’ (श० ब्रा० ९।३।४।१२)। अनुप्रसजन्ति=अभिसम्बध्नन्ति=संयुञ्जन्ति।
सद्
- {अनुप्रसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘रोहिणीमृगलाञ्छनं साक्षीकृत्यार्यपुत्रमनुप्रसादयामि’ (विक्रम० ३)। अल्पार्थोऽनुः शक्यस्त्यक्तुम्।
हु
- {अनुप्रहु}
- हु (दानादनयोः)।
- ‘दिशोरन्तः परिध्यनुप्रहावयति’ (सत्या० श्रौ० २४।४।१०)। अनु प्रहावयति स्रावयति।
हृ
- {अनुप्रहृ}
- हृ (हृञ् हरणे)।
- ‘तन्मुहूर्तं धारयित्वानुप्रहरति’ (श० ब्रा० १।७।३।१७)। प्रास्यतीत्यर्थः। इहाप्यनुना नार्थः।
- ‘अभ्युक्ष्यैते (पवित्रे) अग्नावनुप्रहरेत्’ (द्रा० गृ० १।२।१५)। पश्चात् प्रक्षिपेदित्यर्थः।