क्रम्
- {अनुनिष्क्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘निष्क्रम्य पश्चाद्गमनेऽर्थेऽनुनिष्क्रामतेः प्रयोगः’ (मै० सं० १।६।१०)।
दिश्
- {अनुनिर्दिश्}
- दिश् (दिश अतिसर्जने)।
- ‘भूयसामुपदिष्टानामर्थानामसधर्मणाम्। क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते’ (भामह० २।८९)॥
हा
- {अनुनिर्हा}
- हा (ओहाङ् गतौ)
- ‘स्तम्भस्य मध्यादनुनिर्जिहानम्’ (भा० पु० ७।८।१९)। क्रमेण निष्क्रामन्तम् इत्यर्थः।