क्रम्
- {अनुनिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘सप्त पदान्यनुनिक्रामति’ (श० ब्रा० ३।३।१।१)। सप्त पदान्यनुक्रमेण चलतीत्याह।
- ‘स यो नो वाचं व्याहृतां मिथुनेन नानुनिक्रामात्’ (श० ब्रा० १।५।४।६)।
पद्
- {अनुनिपद्}
- पद् (पद गतौ)।
- ‘सा पत्यावनुनिपद्यते’ (कौ० सू० ६०)। उपशेत इत्यर्थः। अनुशब्दः सामीप्ये।
वृत्
- {अनुनिवृत्}
- वृत् (वृतु वर्तने)।
- ‘रथन्तरस्य योनिमनुनिवर्तयति’ (ऐ० ब्रा० ५।१६)। नितरां वर्तनमनुष्ठानमनुनिवर्तनम्। इह निवर्तनं परित्यागो नेति सायणः।