अर्ज्
- {समवार्ज्}
- अर्ज् (अर्ज अर्जने, अर्ज प्रतियत्ने)।
- ‘अथ मातृभिर्वत्सान् समवार्जन्ति’ (श० ब्रा० १।७।१।३, २।५।३।१६)। समवार्जन्ति=युञ्जन्ति। वत्सानां मातृभिः संयोगमनुजानन्तीत्यर्थः।
इ
- {समवे}
- इ (इण् गतौ)।
- ‘तृणमिव यत्समवैति परस्वम्’ (वि० पु० ३।७।२२)। समवैति=वेत्ति=जानाति। अन्यत्र समवपूर्वस्य इणोऽत्रार्थे प्रयोगो दुर्लभः। समवायः संगतिर्भवति समुदायो वा नैयायिकानामभिमतः सम्बन्धविशेषो वा।
- ‘अमात्यादीनां राज्ञा सह समवाये पारतन्त्र्यं व्यवाये स्वातन्त्र्यम्’ (१।४।२३ सूत्रे भाष्ये)। **समवायः सान्निध्यं संनिकर्षः। पटस्तन्तुषु समवैति (समवायसम्बन्धेन तन्तुषु वर्तते)। एकदेशभावापत्तिरपि समवायो भवति। तथा चाचार्यप्रयोगः- समवायान् समवैति (पा० ४।४।४३)।
- ‘हृदयं शुक् समवैति’ (श० ब्रा० ११।७।४।३)। श० ब्रा० ३।८।५।८ इत्यत्र शुक् समभ्यवैतीति पाठः। तेनाभौ सत्यसति वाऽर्थे भिदा न । आविशतीत्येवार्थः।
- ‘या आपूर्यमाणपक्षस्य रात्रयस्ताः सर्वाः पौर्णमासीं समवयन्ति’ (श० ब्रा० ११।१।७।४)। पौर्णमास्यामेकी भवन्ति, तदेकदेशतां यन्ति।
- ‘कं बलवन्तं संश्रयामः। कस्य समवायः’ (तन्त्रा० ३।४)। समवायः संश्रयः।
- ‘तं (धर्मं) श्रुतेर्धर्मज्ञसमवायाच्च प्रतिपद्येत’ (कामसूत्रे)। समवायः संसर्गः। प्रतिपद्येत=जानीयात्।
- ‘नानावाक्यसमाहारसमवायविशारदैः’ (भा० आदि ७०।४३)। भिन्नशाखास्थानां गुणविधीनामेकस्यां शाखायामुपसंहारः समवायः (नील०)।
- ‘न समवायेऽभिवादनमत्यन्तशः (बौ० ध० १।२।३।३३)। समवायः सन्निकर्षः सामीप्यम्।
- ‘समवायेन वणिजां लाभार्थं कर्म कुर्वताम्’ (याज्ञ० २।२५६)। सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा सम्प्रतिपत्तिः समवाय इति मिताक्षरायाम्।
- ‘समवेत्य त्वरुन्धत्या विविशुः शैलसानुनि’ (वामन पु० ५६।६)। समवेत्य=संगत्य।
- ‘धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः (गीता १।१)। समवेताः=समेताः, एकीभूताः।
- ‘अश्वैरश्विनावित्येतन्निर्वचनम्। अथास्मिन्पक्षे इतिहासे समवैति’ (नि० १२।१।८ दुर्ग०)। समवैति युज्यते संगच्छते।
- ‘श्रुतिलिङ्गवयप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (मी० ३।३।१४)। समवायः संनिपातः, युगपत्प्राप्तिः।
- ‘यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप। समवेतानि सर्वाणि स राज्यं महदश्नुते’ (रा० ४।२९।११)॥ समवेतानि सह स्थितानि, समं विद्यमानानिः, परस्परानुबन्धीनि।
ईक्ष्
- {समवेक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘ननं त्वं नात्मनः श्रेयः समवेक्षितुमिच्छसि’ (रा० ३।५९।१७)। सम्यग्ज्ञातुमित्यर्थः। तत्त्वतः परिचेतुमिति वा।
- ‘शरीरे न दयां काञ्चिदात्मनः समवैक्षत’ (रा० ४।१९।२)।
- ‘सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा’ (मनु० २।८)। समवेक्ष्य=पर्यालोच्य।
कॄ
- {समवकॄ}
- कॄ (कॄ विक्षेपे)।
- ‘दिव्यैर्माल्यैश्च तं देवा समन्तात्समवाकिरन्’ (हरि० १।११।४७)। समवाकिरन्=समास्तृण्वन्=समाच्छादयन्।
- ‘आश्रमपदं कुसुमैः समवाकिरन्’ (भा० कर्ण० १८।१०)।
- ‘भीष्म …शरैः …समवाकिरत्’ (भा आदि० १०२।४२)।
- ‘पुष्पवृष्टयः। सुरासुरगणान्सर्वान् समवाकिरन्’ (भा० आदि० १८।१८)। उक्तोऽर्थः।
- ‘महता रथसङ्घेन रथचारेण चाप्युत। वैकर्तनं परीप्सन्तो गन्धर्वान् समवाकिरन्’ (भा० वन० २४१।१९)। समवाकिरन्=अरुन्धन्=पर्यवेष्टयन्।
क्षिप्
- {समवक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा’ (भा० वन० २६८।२४)। समवाक्षिपत्=अवाधुनोत्।
गुह्
- {समवगुह्}
- (गुहू संवरणे)।
- ‘रजस्वलेव युवतिः सेना समवगूहते’ (हरि० २।१०५।८३)। आत्मानमिति शेषः। देहं संकोचयति, अङ्गानि संहरति।
चि
- {समवचि}
- चि (चिञ् चयने)।
- ‘सुहृत्परिग्राह्यानुपमानान् हरितगोमये समवचिनोति’ (लौ० गृ० ४०।१४)। समवचिनोति=सम्यगवचिनोति प्रतीच्छति। हरितगोमये संमिश्रीकृत्य पिण्डी करोति (देव०)।
दिश्
- {समवदिश्}
- (दिश अतिसर्जने)।
- ‘रुद्रं वै देवा यज्ञान्निरभजंस्ते समवादिशन्’ (का० सं २८।६)। समवादिशन्=तन्निर्भजनं व्याख्यन्=प्रावोचन्।
दो
- {समवदो}
- दो (दो अवखण्डने)।
- ‘ते देवाः। जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे’ (श० ब्रा० ३।४।२।८)।
- ‘आज्यान्येव गृह्णाना जुष्टास्तनूः प्रियाणि धामानि सार्धं समवद्यन्ते’ (श० ब्रा० ३।४।२।९)। उभयत्र समवद्यतिरवदाय खण्डान्कल्पयित्वा सङ्ग्रहणे वर्तते।
- ‘सर्वस्य समवदाय जुहोति’ (तै० ब्रा० १।३।८।२)।
- ‘सव्ये समवदाय’ (का० श्रौ० ५।९।१९)। वामे पाणौ खण्डान्संगृह्येत्याह।
- ‘या न इमाः प्रियास्तनुवस्ताः समवद्यामहै’ (तै० सं० ६।२।२।१)। समवद्यामहै समवद्याम, एकत्र सङ्घी कुर्मः।
धा
- {समवधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तत्सर्वं समवधाय’ (भा० श्रौ० ६।६।६)। समवधाय आधाय, आहितं कृत्वा। वाहनमारोप्येत्यर्थः।
- ‘अतो मणिसमवधाने शक्तिर्नश्यति’ (न्या० बो० त० सं० २)। समवधानं सन्निधानं संसर्गः। सामग्रोसमवधानेपि । सामग्र्याः सङ्ग्रहणेपीत्याह। एषा ह्याचार्यस्यर्शली लक्ष्यते इति भाष्ये शीले भवा शैली समवधानपूर्विका प्रवृत्तिः (कैयटः)। समवधानमवधानम्। नार्थः समा।
नी
- {समवनी}
- नी (णीञ् प्रापणे)।
- ‘द्विदेवत्यानां संस्रवान् होतृचमसे समवनयति’ (ऐ० ब्रा० २।६)। अवनयो निधानम् (षड्गुरु०)। निधानमासेचनमभिप्रेतम्। संस्रवाः=बिन्दवः।
- ‘उदस्मात्प्राणाः क्रामन्त्याहोस्विन्नेति, नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते’ (बृ० उ० ३।२।११)। समवनीयन्ते=समानीता भवन्ति, एकीभावं गच्छन्ति।
प्लु
- {समवप्लु}
- प्लु (प्लुङ् गतौ)।
- ‘अकृत्वा संविदं काञ्चित् सहसा समवप्लुतः’ (भा० शां० १३८।१२६)। पादपाग्रात् अवतीर्ण इत्यर्थः।
सृज्
- {समवसृज्}
- सृज् (सृज विसर्गे)।
- ‘ते उभे (बृहद्रथन्तरे सामनी) न समवसृज्ये। य उभे समवसृजेयुर्यथैव च्छिन्ना नौर्बन्धनात्तीरतीरमृच्छन्ती प्लवेत’ (ऐ० ब्रा० १६)। समवसृजेयुः सहैव कुर्युः। केवलोक्तिरवसर्गः (षड्गुरु०)।
सो
- {समवसो}
- सो (षो अन्तकर्मणि)।
- ‘अथ पतिताः समवसाय धर्मांश्चरेयुः’ (बौ० ध० २।१।२।१०)। समवसाय सम्भूय।
- ‘अथाभिशस्ताः समवसाय चरेयुर्धर्म्यम्’ (आप० ध० १।१०।२९।८)। समवसाय=सह गृहाणि कृत्वा। अवसानं गृहं भवति।
स्रु
- {समवस्रु}
- स्रु (स्रु गतौ)।
- ‘समवस्रवे भक्तशरणं कारयेत्’ (आश्व० गृ० २।७।७)। येन पथाऽऽपो निर्गच्छन्ति स देशः समवस्रव इति नारायणो वृत्तिकारः।
हृ
- {समवहृ}
- हृ (हृञ् हरणे)।
- ‘नानात्ययानां वृक्षाणां रसान्समवहारमेकतां रसं गमयन्ति’ (छा० उ० ६।९।१)। समवहारम्=समाहृत्य।
- ‘प्रज्ञासमवहारोऽयं कविभिः संभृतं मधु’ (भा० शां० १४२।३)। समवहारो निष्ठा (नील०)।