इ
- {समभ्ये}
- इ (इण् गतौ)।
- ‘ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम्। दर्शनेप्सुः समभ्यागात्’ (भा० आदि० १३४।१७)॥ समभ्यागात्=समागमत्।
- ‘व्यसनं वः समभ्यागात्’ (भा० सभा० ७९।१४)। उपानंसीदित्याह
दा
- {समभ्यदा}
- दा (डुदाञ् दाने)।
- ‘एतास्तेजोमात्राः समभ्याददानः’ (श० ब्रा० १४। ७।२।१)। समं गृह्णान इत्यर्थः।