इङ्
- {समधी}
- इङ् (इङ् अध्ययने)।
- ‘दश लक्षणानि धर्मस्य ये विप्राः समधीयते।’ (मनु० ६|९३)। समधीयते=सम्यगधीयते।
- ‘समधीतं मया ब्रह्म’ (भा० वन० १३८।२४)।
गम्
- {समधिगम्}
- गम् (गम्लृ गतौ)
- ‘हन्तुं समधिगच्छति’ (रा० २।८४।५)। समधिगच्छति=उपैति, उपक्रामति।
- ‘यत्ते समधिगच्छन्ति यस्य ते तस्य तद् धनम्’ (मनु० ८।४१६)। समधिगच्छन्ति=अर्जयन्ति, प्राप्नुवन्ति, अधिकुर्वते।
- ‘यो भारतं समधिगच्छति वाच्यमानम्’ (हरि० १।१।२)। समधिगच्छति=शृणोति।
स्था
- {समधिस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘जीवन्मुक्तमाना मान्यो विश्वामित्रोप्ययंप्रभुः। वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति’ (यो० वा० ५।७५।२३)। समधितिष्ठति=स्वाधिकारे स्थापयति=अवेक्षते।