क्रम्
- {समतिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘द्वौ मासौ समतिक्रम्य पास्यामि रुधिरं तव’ (रा० ५।५६।७९)। समतिक्रम्य=अतिक्रम्य=विगमय्य।
वृत्
- {समतिवृत्}
- वृत् (वृतु वर्तने)।
- ‘इन्द्रियाणां वशानुगम्। अर्थाः समतिवर्तन्ते हंसाः शुष्कंसरो यथा’ (भा० उ० ३६।४०)। समतिवर्तन्ते=अतीत्य गच्छन्ति।
सृज्
- {समतिसृज्}
- सृज् (सृज विसर्गे)।
- ‘तर्ह्येत एव समतिसृष्टाः स्तुवताम्’ (छां० उ० १।११।३)। समतिसृष्टाः समनुज्ञाताः