वृत् {अपपर्यावृत्} वृत् (वृतु-वर्तने)। ‘नाग्नेरपपर्यावर्तेत’ (आप॰श्रौ॰१०.४.१५.४३)। पार्श्वेन पृष्ठतोऽग्नेः करणम् अपपर्यावर्तनम्। ‘नापपर्यावर्तेत गुरोः’ (आप॰ध॰१.२.७.२)। प्रदक्षिणीकृत्यापेयात्, अपसव्यं न पर्यावर्तेत परिक्रामेदित्याह।