जीवानां शेषत्वम्

शेषत्वम्

लक्षणानि

“शेषः परार्थत्वात्” इति पूर्वमीमांसासूत्रेषु (3.3.1–7) साङ्ग-कर्मणाम् प्रसङ्गे।
शेषः शेषी च चेतनः स्याद् अचेतनो ऽपि वा।
“residue” इत्य् आङ्ग्लिक्याऽस्तु।

वेदार्थ-सङ्ग्रहे रामानुजार्येणोक्तम् -

+++(चेतोऽन्तरस्यापि)+++ परगतातिशय+++(=उत्कर्ष)++++आधानेच्छया
+++(अवस्था-विशेषेऽप्य्)+++ +उपादेयत्वम् एव
यस्य स्व-रूपं+++(=अ-साधारण-धर्मः)+++
स शेषः,
परश् शेषी।+++(5)+++
+++(यथा -)+++ फलोत्पत्तीच्छया
यागादेस् तत्-प्रयत्नस्य चोपादेयत्वं,
यागादि-सिद्धीच्छया
ऽन्यत् सर्वम् उपादेयम्

एवं गर्भ-दासादीनाम् अपि +++(सामुराय्-योद्धॄणाम् इव)+++
पुरुष-विशेषातिशयाधानोपादेयत्वम् एव स्वरूपम् ।

एवम् ईश्वर-गतातिशयाधानेच्छयोपादेयत्वम् एव
चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च -
सर्वस्य वस्तुनः स्वरूपम् इति,
सर्वम् ईश्वर-शेषत्वम् एव
सर्वस्य चेश्वरः शेषीति
“सर्वस्य वशी” “सर्वस्येशानः” “पतिं विश्वस्ये"त्य्-आद्य् उक्तम् ।

स्वरूपम् (द्रष्टुं नोद्यम्)

अस्मिन् लक्षणे स्वरूप-शब्देनासाधारणधर्म उच्यते।
भार्यायाः स्वरूपे भार्यात्वम् अस्त्य् एव,
अतस् सा पत्युः शेष इति वक्तुं शक्यम्।
एवम् भृत्यो ऽपि स्वामिनः शेषः।

गृहस्थत्वोपाधौ स्वरूपे ऽन्तर्भाविते -
“परगतातिशयाधानेच्छया +उपादेयत्वं यस्य स्वरूपम् (=असाधारणधर्मः), स शेषः, परश् शेषी"ति लक्षणतो
गृहस्थमात्रस्य रुद्रे देवे शेषत्वम् भवति,
पत्न्याः पत्यौ,
भृत्यस्य स्वामिनि … ।

यावन्त उपाधयस् स्वरूपो ऽन्तर्भाविताः,
तावत् तल्-लभ्यं शेषत्वं सोपाधिकम्।

गीताभाष्ये रामानुजः - “ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम्।”

अन्यस्य प्रयोजनम् एव यस्य परम-प्रयोजनं स शेषः, अन्यः शेषी

इति श्रुत-प्रकाशिकायां सुदर्शन-सूरिः।

विस्तारः (द्रष्टुं नोद्यम्)

शेषत्वम् आवदु
तऩक्क् ऒरुव् उपकारत्तै प्रधानम् आगप् पऱ्ऱव् अऩ्ऱिक्के
परोपकारार्हम् आगै।

इति वेङ्कटनाथार्यः। TW

लक्ष्मीपुर-श्रीनिवासः -

स्व-परम-प्रयोजन-भूत–
पर-गतातिशयाधायकत्वं शेषत्वम्
स्व-परम-प्रयोजन-भूत–
स्व-प्रतिसन्धानार्ह–
पर-गतातिशयाधायकत्वं दासत्वम्
शेषत्वाभिमत–प्रयोज्य-प्रयोजन-भूतातिशय-भाक्त्वं शेषित्वम्
शेषित्वाभिमत–प्रयोज्य–परम-प्रयोजन-भूत–
स्व-पुरुषार्थातिशय-भाक्त्वं स्वामित्वम् इति ।

क्रिया-पर्यन्तता

नाकिञ्चित्-कुर्वतश् शेषत्वम्

इति मीमांसकेषु प्रसिद्धम्।
अतः, केनचिच् चेतनेन शेषत्व-ज्ञान-मात्रेण शेषत्वं न सिध्यति।
न खलु “पत्युः शेषभूताऽहम्” इति ज्ञानमात्रेण
पति-शुश्रूषा-विमुखायाः कस्याश्चित् पातिव्रत्यम् उच्यते।
एवं शास्त्र-जन्य-शेषत्व-ज्ञानेनालं, किं सन्ध्यावन्दनादिनेति शेषत्व-ज्ञान-वैकल्यम् एव दर्शयति।

औपाधिक-शेषित्वम्

पत्नी पत्युः शेषः (विपरीतम् अपि वक्तुं शक्यम्),
वेतन-भृत्यः स्वामिनः,
सामुराय्-योद्धा तत्-प्रभोः।
किञ्चात्र शेषत्वं न +++(तज्-जन्मातिरिच्य)+++ स्वरूपम्,
अपि तु कृत्रिमम्।

सामुराय्-योद्धा जन्म-दासश् च तत्-प्रभोः शेष-भूतः स्व-रूपतस् तज्-जन्मनि।
अत्र शेषत्वस्य निरुपाधिकत्वं सापेक्षम्।

परम-शेषि-कृतम्

द्वयोर् वस्तुनोः शेषि
किञ्चिद् वस्तु कस्यचिद् अपरस्य वस्तुनो ऽपेक्षया शेषं कुर्यात्।
यथा पुस्तक-पीठयोस् स्वामी
पीठस्योपरि पुस्तकं स्थापयित्वा
पुस्तकस्यापेक्षया पीठं शेषं कुर्यात्।

दास्य-भेदाः

स्वरूप-दास्यं बौद्धिकम् -
शास्त्रानुसन्धानादि-विचार-जन्यम्।
(वक्ष्यमाणाद्) गुण-कृत-दास्यात् स्थिरतर
इत्य् एकया दृष्ट्या ऽस्योत्कर्षः।

गुण-कृत-दास्यम् भावनात्मकम्।
कौङ्कर्ये प्रेरयतितरां स्वरूप-दास्यापेक्षया।
यथाह लक्ष्मणो रामविषये -

“अहम् अस्य+++(अभिप्राये)++++अवरो भ्राता,
+++(किञ्च)+++ गुणैर् दास्यम् उपागतः”

पुनः केचिद् दासा अकुशलाः,
केचिन् न।
केचित् स्व-दास्यम् इच्छन्ति,
केचित् तिरस्-कुर्वाणाः प्रतिकूलम् आचरितुं यतेरन्।

धर्मानुकूल्येनापि दास्यं विभक्तम्।

दास्ये सुख-दुःखे

पुनर् औपाधिकं स्व-रूप-स्थं वा शेषत्वं
प्रीति-कारितम् उल्लासं जनयति,
न तु द्वेष-कारितम्।
यदि पतिः कुत्सितः,
तच्-छेषत्वम् अङ्गीकृतं चेद् अपि दुःखकरम् भवति।
यथा वा - भगवति दास्यं साम्राज्य-प्राप्तिर् इत्व प्रशस्यते।

एवम् प्रीतेर् उत्पादने शेषिणि काचिद् भोग्यता स्यात्।
दासे च शेषिणो गुण-कलने रुचिस् सामर्थ्यं च स्यात्। +++(5)+++

गर्हण-प्रशंसे

धर्मानुकूलं दास्यं
क्वचिद् दुःखास्पदम् अपि
आर्यैः प्रशस्यम्।
एवम् भगवद्-आज्ञान्तर्गतत्वेन भगवद्-अभिमतम् एव तत् तत् तावन्-मात्र-शेषत्वम् -
यथा भृत्यस्य स्वामिनि, भार्यायाः पत्यौ …।

अनीश्वरविषये शेषत्वम्
न धर्माङ्गं चेद्
गर्हितम् मनुना -

सेवा श्ववृत्तिर् आख्याता
तस्मात् तां परिवर्जयेत् ॥ ४.६ ॥

एवं यावच्-छक्यं यथा-धर्मं
भगवद्-भागवत-भिन्नेषु देवतान्तर-तद्-भक्त-सहितेषु
सोपाधिक-शेषत्वं वर्जनीयम्।

विस्तारः (द्रष्टुं नोद्यम्)

ॐकार-विवरणे ऽवधारणतो वेङ्कटनाथार्य आह -

इत्ताले अन्यरैप् पऱ्ऱ शेषत्वम्
स्वरूप-प्राप्तम् अऩ्ऱ्

ऎऩ्ऩुम् इडत्तैच् चॊल्लुगैयाले
यथाऽवस्थितात्म-ज्ञानम् उडैयवऩुक्कु

तदीय-पर्यन्तम् आग +++(भगवद्-आज्ञाम् अतिरिच्य)+++ देवतान्तर-स्पर्शम्
निवृत्तम् आय् इऱ्ऱु।

तत्र सारबोधिनी -

भगवद्-अभिमतं तद्-अनभिमतञ् चेति । अदिल् भगवद्-अनभिमतमाऩ देवतान्तरशेषत्वत्ताले दोषम् प्रसक्तम् आऩालुम्
भगवद्-अभिमतम् आऩ भागवत-शेषत्वत्ताले अन्य-शेषत्व-दोषम् प्रसङ्गियाद् ।

भगवद्-विषये

अङ्गीकारे ऽनङ्गीकारे वा
स्वाभाविकं शेषत्वं वर्तत एव।
भगवत्-पर्यन्त-स्वरूप-ज्ञानेन तु शेषत्वं सुखतरम् भवति।

एवं भगवद्-गुण-विभूत्य्-आदि-कलनम् अपेक्षिततरम् - भगवत्-कलनापेक्षयाऽपि।

सर्व-शेषित्वम्

चिद् अचिद् वा सर्वो ऽपि
+ईश्वरभोगाय निर्मितः।
तेन सर्वो ऽपि स्वरूपतः शेषः, ईश्वरश् च सर्वशेषी।

प्रतिकूल-दासेभ्योऽपि तद्-उत्कर्षः

दासेषु विरुद्ध-प्रवृत्ताव् अपि शेषत्वं स्पस्टम् इति लक्ष्मीपुर-श्रीनिवास एव -

तत्र शास्त्र-विरुद्ध-प्रवृत्तौ सत्यां
शासितुः दण्ड-धरस्येश्वरस्य लीला-रसोत्पादन-द्वारा
अतिशयम् आधत्ते ।
शास्त्राविरुद्ध-प्रवृत्तौ सत्याम्
ईश्वरस्य सन्तोषम् उत्पाद्य
तदीयौदार्यादि-गुण-प्रकाशन-द्वारा अतिशयम् आधत्ते ।

ईश्वरत्वम्

“ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम्।”
इति रामानुजो गीताभाष्ये।

“स्वाधीन/स्वनियाम्य-(त्रिविध-चेतनाचेतन)स्वरूप-स्थिति-प्रवृत्ति-भेद” इति रामानुजेन प्रयुज्यते, यामुनेन च। द्राविड-गाथासु शठ-कोपेनापि शब्दान्तरैर् उच्यते।

(स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि - इति वेङ्कटनाथः।
स्थितिः, रक्षा वा
कस्यचिद्वस्तुनः पूर्वक्षणधर्माणाम् उत्तरक्षणे ऽप्य् अनुवर्तनम्। )

जीव-स्वातन्त्र्य-मात्रा

धर्माद्य्-अनुशासनेन साकं
जीवः परमात्म-भोगाय नियुक्तः।
स्वभाव/स्वरूप-स्थिति-प्रवृत्तयो ऽपि भगवता ऽनुमत्या व्यवस्थापिताः।
किञ्च, तद्विरोधे ऽपि वर्तितुं स्वातन्त्र्यं दत्तम्, चितमार्गानुसारेण च फलानि निश्चितानि।
(स्वातन्त्र्याभाव-वादे धर्मानुशासनादेर् वैयर्थ्य-प्रसङ्गः।)

अधिष्ठानं तथा कर्ता
करणं च पृथग्-विधम्।
विविधाश् च पृथक् +++(प्राण-)+++चेष्टा
दैवं चैवात्र पञ्चमम्॥18.14॥

इति श्लोकस्य रामानुज-व्याख्याने व्यक्तम् एतत् -

जीवात्मा
तद्+++(=ब्रह्म)+++-आधारस् तद्-आहित-शक्तिस् सन्
कर्म-निष्पत्तये स्वेच्छया करणाद्य्-अधिष्ठानाकारं प्रयत्नं च +आरभते,
तद्-अन्तर्-अवस्थितः परमात्मा स्वानुमति-दानेन तं प्रवर्तयति।

एवं तर्हि कर्मसु कर्तृत्वम् ईषद् वर्तत एव जीवस्य।
किन्तु, परमात्मन एव कर्तृत्वम् अधिकम्।

लक्ष्मी-नरसिंहार्योदाहरणानि -

  • यथा देवालय-गमने यान-पाथेयादिसम्पादने पथिकः कर्ता, किन्तु मार्गादि-निर्माणेन सर्वकारः कर्ता।
  • यथा रथयात्रायां रथाकर्षणे गतो जनो “मत्कारणाद् एव रथ आकृष्ट” इति न मन्येत।

शरीर-शरीरि-भावः

अत्र शरीर-शरीरि-भावः प्रसज्यते - विशिष्य श्रुत्य्-अवगमनाय।

रामानुजो गीता-भाष्ये -

श्रुतयः
परम-पुरुष-प्रवर्त्यं तच्-छरीर-भूतम् एनम् आत्मानं,
परम-पुरुषं च प्रवर्तयितारम् आचक्षते।

तत्रैव शरीर-लक्षणम् आह श्रीभाष्ये-

यस्य चेतनस्य यद् द्रव्यम् +++(चेतनम् अ-चेतनं वापि, न क्रियादि)+++
सर्वात्मना+++(=यावद्-द्रव्य-भावितया, न घटादिवद् ग्रहणक्षणे)+++ स्वार्थे+++(=शरीरार्थे - न मनुष्य-शरीरं डयनार्थे)+++ नियन्तुम्,
धारयितुम् च शक्यं +++(→न तु रुग्णावस्थायाम् इव सर्वदा नियाम्यत इति)+++;
तच्-छेषतैक-स्वरूपञ् +++(न तु गृहवद् बहूनां शेषम्)+++ च
तत् तस्य शरीरम्

(स्वरूपं स्वासाधारण-धर्म-निरूप्यं धर्मि - इति वेङ्कटनाथः। )

शरीरं शरीरिणो नियन्त्रणे न पूर्णतया ऽस्ति -
बालेषु चलनं शिक्षत्सु,
स्वाङ्गचालने रोगतो ऽसमर्थेषु च यथा स्पष्टम्।

पुनः शरीरत्वं शेषत्वं व्यनक्ति -
यथैवाङ्गुल्या नखस्य भोगो गौणो, जीवस्य च प्रधानः,
तथैव सर्वशेषी शरीरीश्वरः प्रधानभोक्ता।

उपादान-कारणत्व-सिद्धिः

सर्वं चिद् अचिच् च
भगवतश् शरीरम्।
तेन नित्यम् अपि -
यतः प्रलये सूक्ष्मावस्थायां (नामरूपव्यपदेशायोग्य-रीत्या) वर्तते।
तेन हि भगवान् विश्वस्योपादानकारणम् इत्य् उच्यते।

तत्र प्रसिद्धा श्रुतिः -

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो
यं पृथिवी न वेद
यस्य पृथिवी शरीरं
यः पृथिवीमन्तरो यमयति,
य आत्मनि तिष्ठन्न् आत्मनोऽन्तरो
यम् आत्मा न वेद
यस्यात्मा शरीरं
य आत्मानमन्तरो यमयति …

शेषत्व-सिद्धिः

सर्वं भगवच्-छरीरम् इति सिद्धे,
जीवानां शेषत्वम् अपि सिध्यति।

अद्वैत-वाक्य-निर्वाहः

सर्व-शरीरत्वतः सर्व-शब्द-वाच्यता सिध्यति।
सर्वे हि शरीर-वाचिनो शब्दा आत्म-पर्यन्त-वाचिनो ऽपि भवन्ति, यथा लोके।
यथा - अहं पङ्गुः इत्य् अहं-शब्दः शरीरवाची चेद्, अहं जानामीत्य् आत्म-वाची (न हि शरीरमात्रम् अचिज् ज्ञातुम् प्रभवतीति)।

अद्वैत-वाक्य-निर्वाहः श्रुत्युक्तेनैव शरीरि-शरीर-भावेन भवति।
सर्वे शरीर-बोधकाः शब्दा आत्म-पर्यन्त-वाचिनः, यथा लोके।

यथा -

“तत् त्वम् असि” इत्य् अस्यार्थः -
तद्+++(→कारणता)+++-विशिष्टं ब्रह्म = त्वद्-विशिष्टम् ब्रह्म ।

“हस्त एव पादः” इत्य् अस्यार्थः -
हस्त-विशिष्ट आत्मा = पाद-विशिष्ट आत्मा।

शेषतैक-रसत्वम्

निरन्तरं शेष-शेषि-भाव-चिन्तनम् इह लोके न सम्भवति,
तथाऽपि तद्-बाहुल्यं स्पृहणीयं क्वचिद् दृश्यते।

प्रीति-कारित-दास्यम् अन्यत्र वर्णितम्।

गौण-फलित्वम्

शेषतैक-रसत्वे स्वानन्देन भोगो वर्तते चेद् अपि,
स परम्परया भवति,
शेषि-भोग एव प्रधान-भूतः साक्षाद् भवतीति व्यत्यासः।
शेषिणः परोक्षत्वाद्,
इह लोके तत्-प्रीतिर् अन्युमेयैव,
तत्-प्रधान-फलित्वे च
+उद्देशः प्राधान्यम् भजतेतराम्।

देवतान्तरायाचनया +एकान्तित्वे सति,
कैङ्कर्यार्थित्वं हि परमैकान्तित्वम् उच्यते।
तत्र च स्वस्य गौण-फलित्वे स्पष्टता ऽनिवार्या।

भगवति

भगवतः शेषोऽहम्।
भगवत्-सापेक्ष-स्वातन्त्र्यं मम, न निरपेक्षम्।
मच्-छेषित्वं लोके सोपाधिकम्।

इति स्पष्टता भवेत्।

भगवच्-छेषत्व-ज्ञान-रसिको भागवत इति वेङ्कटनाथार्यः।

भगवत्य् अपि प्रीति-कारित-शेषत्वम् एव भागवतत्वम् सम्पादयति।
तद्-अर्थं भगवद्-गुणा एव भगवद्-अपेक्षया कलनीयतरा इति श्रुति-शठकोप-रामानुजाद्य्-अभिप्रायः।
यथा - “आनन्दम् ब्रह्मणो विद्वान् …” इत्य् आह,
न तु “ब्रह्म विद्वान्”।

माध्वादयो ऽन्तर्यामि-भावनयाऽपि देवतान्तर-पुजका इति हेतुना
ते न भागवता
इति केचित्।

आराधनम्

आराधन-विचारो ऽन्यत्र

भागवत-पर्यन्तता

द्वेष-प्रीती सम्बन्धि-पर्यन्तं भवत इति लोकानुभवः।
ततो भगवच्-छेषत्वं भागवत-शेषत्व-पर्यन्तं स्यात्।
अतो हि भागवत-शेषत्वं भगवच्-छेषत्वस्य परा काष्ठोच्यते।
तत्र स्मृति-प्रमाणम् - “ज्ञानी त्व् आत्मैव मे मतः”।
तत्राप्य् आचार्य-कैङ्कर्यं विशिष्यते।
एवं स्वरूपतो दास्यम्।
तद् अन्तरा गुण-कृत-दास्यम् अपि भवति।

आराधन-विचारो ऽन्यत्र

परस्पर-शेषत्वम्

भागवतेष्व् एवं परस्-पर-शेषत्वं सिध्यति।
किञ्च ततो जायमाने परस्-पर-कैङ्कर्ये शास्त्रतो व्यवस्था वर्तते -
शेषिणः शिष्यस्य शेषत्वम् आचार्यः शिक्षणेन प्रणयति,
शेषिणो गुरोश् शिष्यः प्रणत्यादिभिः।

भगवद्-गुणापेक्षयापि भागवत-गुणा भोग्यतरा भवन्तीति बुधाः।

नित्य-किङ्करता

यद्य् अपि मृत्योः प्राक्
प्रबुद्धस्य भगवच्-छेषतैक-प्राय-रसता तद्-आराधान-रतिश् च स्यात्,
तत्रानुकूल्य-प्रकर्षाय,
मृत्योश् च परं तत्र व्यवधानं वारयितुं
पुनर्जन्मनो मुक्तिर् अपेक्ष्यते,
यत्-प्राप्त्या लीला-विभूतिं त्यक्त्वा
नित्य-विभूतौ वैकुण्ठे प्रीति-परीवाह-रूप-भगवद्-दास्यम् अनुवर्तयन्ति।