आराधनम्, कैङ्कर्यम्
शेषस्य शेषिणि बुद्धिपूर्वकम् अतिशयाधानम् एवाराधनम्, तद्-उपयोगितया ऽबुद्धिपूर्वकम् अपि।
किंकरः पुनःपुनः पृच्छति - “किं करवाणी"ति।
तद्-भावः कैङ्कर्यम्।
शेषत्वम् अन्यत्र विचारितम्।
अबुद्धिपूर्वकता
वेङ्कटनाथार्यो ऽबुद्धिपूर्वकेषु-
‘‘या या चेष्टा’’ ऎऩ्ऱु पाठम् आऩालुम्
अर्थ-प्राप्त–शास्त्र-प्राप्तङ्गळ् पोले
स्व-भाव-प्राप्तङ्गळ् आऩ निमेषोन्मेषादिगळुम् समर्पणीयङ्गळ् आग
रहस्य-शास्त्र-सिद्धम् आगैयाले +++(5)+++ “तद्-अर्चनम्” ऎऩ्ऩल् आम्।
आराधनम् - उल्लेखाः
वेदान्त-देशिक-कृतायां तात्पर्य-चन्द्रिकायाम् रामानुज-कृत-गीता-भाष्य-व्याखान-भूतायाम् एवम् -
स्वाराधनैक-प्रयोजनायेति ।
शेषस्य शेषिण्य् अतिशयाधानम्+++(=अतिशयस्य, न प्रतिकूलस्य +आधानम्)+++ एव प्रयोजनम् इति भावः।
भगवत्-प्रीति-प्राधान्यतो भेदः
अत्रोद्देशतो भेदः - भगवत्-प्रीति-प्रधान्यं स्यात्, न वा।
भेद-लक्षणानि
डम्भार्थं परपीडार्थं
तन्-निरोधार्थम् एव वा ।
प्रयोजनान्तरार्थं वा
कैङ्कर्यं कल्क इष्यते ॥
स्मृत्यधिकरणे रामानुजेन फलाभिसन्धिसहितम् अप्य् आराधनं वर्णितम्। परिपूर्ण-शेष-वृत्तिर् एवाराधनम् इति विशिष्टाद्वैत-कोशय् आराधनविशेषो वर्ण्यते।
निग्रह-जनक-व्यावर्तनम्
न कश्चन शेषत्व-ज्ञान-रसिको
बुद्धिपूर्वकम् भगवति निग्रह-लीलानन्दम् उत्पादयितुम् प्रयतेत -
तत्-फलतया भगवन्-निग्रहेण भगवच्-छेषतादि-ज्ञान-सङ्कोचः स्याद् इति।
विधि-कर्म-विभागः
प्राणि-कर्म स्व-भावतः प्राप्तम्, रागतः/ कामतः प्राप्तम्, शास्त्रतः प्राप्तम् इति विभजन्ति।
आज्ञानुज्ञे
शास्त्रोक्त-विधिर् द्विधा -
आज्ञा, अनुज्ञा (=काम्या) चेति।
यत्र +अकरणे प्रत्यवायो विद्यते, स आज्ञा-विधिः।
तद्-भिन्नो भगवत्-प्रीतिकरो ऽनुज्ञा-विधिः।
आज्ञाः नित्यास् स्युः, नैमित्तिकाः वा।
मीमांसकैर् अन्य-रीत्या ऽपि विभागा उक्ताः।
विस्तारः (द्रष्टुं नोद्यम्)
आज्ञानुज्ञा-विभागेन
द्विधा शास्त्रीय-पद्धतिः ।
निग्रहानुदयायाद्या
परा तत्-तत्-फलाप्तये ॥
अनुज्ञया प्रवृत्तेऽपि
क्रम-कोपादि+++(←देश-काल-द्रव्यादि-कोप)+++-संभवे ।
आज्ञातिक्रम-दोषस् स्यान्
नियमो ऽतो दुर्-अत्ययः ॥
प्रत्यवाय-परीहारे
फलान्तर-समन्विते ।
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥
प्रत्यवाय-परीहारे
फलान्तर-समन्विते ।
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥
नित्य-काम्य-स्वरूपैक्ये
विनियोग-पृथक्त्वतः ।
फलार्थं क्रियमाणेऽपि
नित्यं भवति तन्त्रतः ॥
इति वेङ्कटनाथार्यः।
तद्-अनुसारतः कैङ्कर्यं च द्वेधा -
आज्ञा-कैङ्कर्यम्, अनुज्ञा-कैङ्कर्यं चेति।
एवम् आराधनम् अपि।
अपराध-परिहारार्थकानि कर्माणि प्रायश्चित्तानि।
यथा-शक्ति-कार्यता
यदि शास्त्रं कमपि रज्जुना बद्धं धावितुम् आज्ञापयति,
स शास्त्रस्यैव दोषस् स्यात्।
ततो न शास्त्रं तथाविधम् इति निश्चयः।
अशक्तौ प्रपत्तिमात्रेणापि प्रत्यवायो वार्यतय् इति वेङ्कटनाथार्यश् चरमश्लोकव्याख्याने तात्पर्यचन्द्रिकायाम् -
तुल्य-न्यायतया तु नित्य-नैमित्तिकेष्व् अपि यानि दुरनुष्ठानानि;
तत्रैवं स्यात् …
योगे ऽपवादः
अत्यन्त-भक्ति-युक्तानां
नैव शास्त्रं न च क्रमः॥
इति श्लोको ऽसकृद् उद्धृतः श्रीवैष्णवैर् अपि।
उत्तमूर्-वीरराघवार्य आह -
यो हि युक्तो बहु-तिथं कालं ध्यानेनैवातिवाहयितुम् अलम्-भविष्णुः,
तस्य बाह्य-कर्म-स्फूर्त्य्-अप्रसक्तेर् +++(→ततः शक्त्यभावत्, यथाशक्त्य्-अनुष्ठेयानाम्)+++ अननुष्ठानं प्राप्तम्
इष्यत एव।
योगात् व्युत्थितास् तु न त्यक्तुम् अर्हन्ति।
प्रवृत्ति-निवृत्ती
यत्र फल-त्यागः, कर्तृत्व-त्यागश् च विद्यते, स निवृत्ति-धर्मः।
तद्-भिन्नः प्रवृत्ति-धर्मः।
प्रवृत्ति-धर्मे निवृत्ति-धर्मे च प्रायेण तान्य् एव कर्माणि, किञ्च सङ्कल्पे भेदः।
विस्तारः (द्रष्टुं नोद्यम्)
रामानुज आह गीताभाष्ये-
अहो महद् इदं वैचित्र्यं
यद् एकस्मिन् एव कर्मणि वर्तमानाः
सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनः, च्यवन-स्वभावाश् च भवन्ति;
केचन अनवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्त्तिनश् च भवन्ति।
प्रवृत्तौ, “मद्-विषये प्रत्यवायो न स्यात्। ममैतत् फलं स्याद्” इति विचारः प्रधानः।
निवृत्ति-धर्मे कर्म भगवद्-भागवत-प्रीत्यर्थं क्रियते।
अनुज्ञात-कर्मणाम् अत्र तर्हि काम्यत्वं न विद्यते।
तत्र कर्माणि चैवं स्युर् गोपाल-देशिकोक्तरीत्या -
शरणागति-फल-भूत–
तत्-कालोत्पन्न-भगवत्-प्रेम-परीवाह-रूपाणि।
अयम् भावः -
मूलतो भगवत्-कैङ्कर्यार्थम् इदं क्रियते,
न स्वार्थाय।
ऐहिकम् फलं गौणम् -
तत्र अल्पत्वम् अस्थिरत्वम्
+++(प्रयासतः→)+++ दुःख-मूलत्वम् दुःख-मिश्रत्वम् दुःखोदर्कत्वम् +++(←फलत्वम्)+++
विपरीताभिमान-मूलत्वम् स्वाभाविकानन्द-विरुद्धत्वम्
इति दोष-सप्तकम् आह वेङ्कटनाथार्यः।
लक्ष्याणि
शेष-वृत्तेः शेषतैक-रसत्वस्य च परा काष्ठा काचिद्
उषःपुत्र-योद्धृषु (सामुराय्-आख्येषु) दृश्यते
(यद्य् अपि तत्र शेषी मानुषप्रभुः यःकश्चित्)।
तद्-अवगत्यै हगाकुरे-निभ-ग्रन्थानुसन्धानं लाभाय स्यात्।
कर्म-सन्न्यासः
मोक्षोपायग्रहणे सञ्चितादिकर्मनाशे तत्-फलस्य प्रियाप्रियेषु क्रमणम् अन्यत्रोक्तम्।
प्रधान-कर्तृत्व-त्यागो ऽप्य् अपेक्ष्यते।
फल-त्यागः
- साधारणतः फल-प्रातौ याचक-याचित-सम्बन्ध-विच्छेदो भवति।
सन्तत-कैङ्कर्ये प्रार्थ्यमाने तु तद् अनिष्टम्।
अतस् “त्वम् एव कैङ्कर्य-रूप-फलं स्वीकुर्व्” इति प्रार्थनम्। - अ-मुमुक्षा-प्रपत्तिषु नैतद् भवेत्।
उपायाः
कर्तृत्व-त्यागः कर्म-सन्धिषु पुनः-पुनर् अनुष्ठितेन सात्त्विक-त्यागेन, बल-मन्त्र-वचनेन च सिध्यति।
फल-त्यागेन +आराधन-सिद्धिः।
तत्र सङ्कल्प उपकरोति, यथा -
(शास्त्रावगत)-भगवद्-आज्ञया/अनुज्ञया
प्रत्यक्ष-भागवत-कल्याणानुमेय-भगवत्-प्रीत्यर्थम् (/ऽमुष्मै उपप्रयोजनाय)
अमुककर्म करिष्ये।
अत्र भगवत्-प्रीतिस् स्वतः प्रयोजनम्,
न स्वेष्टान्तर-प्राप्ति-साधनम्।
एवं “कृतञ्च करिष्यामि” इत्यादि वाक्यम् अप्य् उपकरोति।
तथा स्वयम्-प्रयोजनता-निश्चयोऽपि ।
(यत्र क्वचित् क्रिया-विशेषः स्वयम् एव फलम् उच्येत -
यथा भगवत्-कैङ्कर्यम्, भागवत-कैङ्कर्यम्।)
सात्त्विक-त्यागः
रामानुजः शेषिणि +++(प्रधान-)+++कर्तृत्वस्य फलस्य चाधानम् / त्यागं / सन्न्यासम् आह -
अतो मच्-छरीरतया
मत्-प्रवर्त्यात्म-स्वरूपानुसन्धानेन
सर्वाणि कर्माणि मया +एव क्रियमाणानिइति मयि परमपुरुषे संन्यस्य
तानि च केवलं मद्-आराधनानि +इति कृत्वा,
तत्-फले निराशीः,
तत एव तत्र कर्मणि ममता-रहितो भूत्वा
विगत-ज्वरो युद्धादिकं कुरुष्व।
+++(“उत्तरोत्तरस्य च पूर्व-पूर्व-हेतुकतां पाठ-क्रम-सूचितां प्रकाशयति” इति वेङ्कटनाथः।)+++स्वकीयेन +++(जीव-)++++आत्मना कर्त्रा,
स्वकीयैर् एव करणैः,
स्वाराधनैकप्रयोजनाय,
परमपुरुषः सर्वेश्वरः सर्वशेषी
स्वयम् एव स्वकर्माणि कारयतिइति +अनुसन्धाय
विकल्पाः
क्वचित् तुल्य-विकल्प उक्तः - व्रीहिभिर् वा यजेत, यवैर् वा +इत्यत्र यथा।
क्वचित् तु व्यवस्थित-विकल्प एवोक्तः - अधिकारिभेदेन।
सोमलताभावे पूतिकया यजेतेत्यत्र यथा।
विकल्पेषु प्रधान-फले साम्ये सत्य् अपि,
गौण-फले व्यत्यासः स्यात्,
यथा यवहोमपक्षे ताप-भेदः,
मन्त्र-स्नान-पक्षे ऽवगाहन-स्नानापेक्षया शारीरिक-मालिन्यम् … ।
(गौण-फल-लोभेन) व्यवस्थित-विकल्पे सति,
अनधिकृत-विकल्प-ग्रहणे,
प्रधान-फलस्य हानिर् भवति।
विकल्पे दृष्टे सति,
व्यवस्थितत्वं तुल्यत्वं वा निश्चेतव्यम्।
सन्देहे सति, प्रधान-कल्पे स्पष्टे सति,
प्रधान-फल-प्रेप्सुभिस् स एव प्रधान-कल्पो ग्राह्यः।
तुल्यत्वं ततः शास्त्र-कण्ठोक्त्यैव साधु विज्ञेयम्।
व्यवस्थित-विकल्पाभिज्ञाने श्रम-भेदो लिङ्गम्
- तुल्य-विकल्प-पक्षे गुरुतरं विकल्पं न कश्चिद् गृह्णीयात्,
ततो विधि-वाक्यं व्यर्थम् एव स्यात्।
लोक-सङ्ग्रहः
वेङ्कटनाथार्य उल्लिखति चरमश्लोकाधिकारे-
स्वस्य द्वयोर् मार्गयोः शास्त्रानुमतत्वे
तयोर् मध्ये
लोकानां शक्यं,
तेषां हितं च सन्तम् एकं
स्वयम् अनुष्ठाय प्रदर्श्य
लोकानां तत्र दृढावस्थानम् एव लोकसंग्रहइति श्रीगीताभाष्येऽनुजग्राह ।
स एव गीताभाष्ये -
लोकस्यापि यथावस्थिताकारोपदेशस्यैवोचितत्वात्। …
लोकस्य सङ्ग्रहणम् एकीकृत्य स्वीकरणं,
स्वानुष्ठाने समान-अभिप्रायतया स-यूथ्यताऽऽपादनम्
इत्यर्थः।
न ह्य् अननुज्ञातं कर्म किञ्चन्
(ब्राह्मणेन धीवरकर्मवत्)
लोकसङ्ग्रहाय गृह्येत।
आज्ञाः - धर्मः
शास्त्रादिभ्यो धर्मो ज्ञेयः।
(विस्तारः प्रमाण-पत्त्रे। )
अत्र स्थूलविचारो भागवत-विशिष्ट एवोच्यते।
आचार-प्रभवो हि धर्मः।
भगवन्-निग्रह-कारणम् अधर्मः, तद्-अनुग्रहाय च धर्मः कल्पते।
अधर्मे (नित्य-कर्मादि-त्यागेऽपि) सर्वस्य भक्त-प्रपन्न-सहितस्य प्रत्यवायो विद्यते -
किञ्च भागवतेषु तद् अल्पतरम्।
धर्मस्य स्वर्गादीनि फलान्य् ऐहिकानि भवन्त्य् एव।
विस्तारः (द्रष्टुं नोद्यम्)
‘‘श्रुतिस् स्मृतिर् ममैवाज्ञा
यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही
मद्भक्तोऽपि न वैष्णवः’’
(विष्णुधर्मः ६-३१।)
जातिः
शारीरो वर्णो जातिशब्देन ख्यातः।
मानसो वर्णो तद्-भिन्नः।
शारीर-वर्णम् आदाय सामान्य-धर्म-शास्त्रम् प्रवर्तते।
तद्-अनुसारेणामृत्यु-स्थायिनो धर्मा प्रपन्नेष्व् अपि तिष्ठन्ति।
व्यासादि-विशिष्ट-विषये भगवत्-सङ्कल्पेन शारीर-वर्णान्तरम् अपि सम्भवति।
किञ्च, भागवता विशिस्यादरणीयाः।
न तु तत्र वर्णाश्रमधर्म-व्यभिचारस् स्यात्।
पापानि पुण्यानि
पुण्यान्य् भगवतः फल्ग्व्-अनुग्रह-सङ्कल्पाः।
पापानि भगवन्-निग्रह-सङ्कल्पाः।
तारतम्यम्
पापेषु तारतम्यं वर्तते।
यतस् स्नानाभावे कर्मान्तराधिकारो बाध्यते,
तद्-अकरणं महत्तरम् पापम्।
अपचारेषु भगवद्-अपचारो विशिष्यते
ततो भागवतापचारः,
ततश् च शरणागति-गद्योक्तो ऽसह्यापचारः।
तच् चाचार्यापचारो, बुद्धि-पूर्वक-भागवतापचार इति व्याख्यातं वेङ्कटनाथार्येण।
कायिक-वाचिक-मानसिकेषु पूर्वस्य प्राबल्यम्।
पाप-सम्भवः
भक्तानाम् प्रपन्नानां च स्खालित्ये ऽबुद्धिपूर्वे दोषालेपः।
धीमन्तः बुद्धि-पूर्वक-पापारम्भक-पाप-नाशाय विशिष्य प्रपद्यन्ते भगवन्तम्।
विस्तारः (द्रष्टुं नोद्यम्)
यदि स्यात् पातकं किञ्चिद्
योगी कुर्यात् प्रमादतः ।
योगम् एव निषेवेत
नान्यां कुर्वीत निष्कृतिम् ॥ १०.५ ॥
प्राणायाम-प्रत्याहार-
ध्यान-योग-समन्वितः ।
नश्येत् प्रमादजो दोषो
व्रतैर् नान्यैर् अनुष्ठितैः ॥ १०.६ ॥
इति वायुर् इति गोविन्दयतिः।
‘‘अपि चेत् पातकं किञ्चिद्
योगी कुर्यात् प्रमादतः ।
योगमेव निषेवेत’’
इति सारबोधिनीकारेणोहाह्रियते।
हारीतः ।
योगाभ्यासरतस्येह नश्यन्ते पातकानि तु ॥ १०.७ ॥ [सेए ८.५६]
भागवत-कैङ्कर्य-पर्यन्तता
भागवत-कैङ्कर्येण भगवतः सद्वारकम् आराधनम् भवति।
भागवतानां तद्-आत्म-तुल्यत्वाद् - अद्वारकम् अप्य् आराधनम् भवति।
यथा-सम्भवं सर्वम् अनुष्ठेयं काल-भेदेन।
समकाले सन्निपाते तु प्रामुख्य-क्रमः -
आचार्य-कैङ्कर्यम्, भागवत-कैङ्कर्यम्, भगवत्-कैङ्कर्यम्।
किञ्च, भगवच्-छेषत्व–भागवत-शेषत्वयोः कार्य-कारण-भावो विद्यते -
पूर्वस्य परीवाह-रूपम् उत्तरम्।
तेन, नैतत् सम्भवति यद् भागवत-कैङ्कर्य-परो भगवत्-कैङ्कर्यम् उपेक्षेत
प्राग्-उक्तं क्रम-विपर्ययम् अन्तरा।
अपि च तथा सति, भगवद्-आज्ञाऽतिक्रमेण निगृहीतस्य
ज्ञान-सङ्कोचतो भागवत-सेवाऽपि नश्येत्।
भागवत-कैङ्कर्ये कारणान्तरम् -
ब्रह्म-विदि क्षान्तानाम् पापानाम् पुण्यानां च प्रतिकूलेष्व् अनुकूलेषु च सङ्क्रमणम् उक्तम् (प्रमाणानि भक्ति-प्रपत्ति-पत्त्रे)।
वैष्णव-भागवताज्ञाः
संस्कारः
नाम-ताप-पुण्ड्रादिभिः पञ्चभिः संस्कारैर् वैष्णवी-भावः।
तद् अन्यत्र व्याख्यातम्।
स्वरूप-समर्पणेन भागवतत्वम्।
तच्च प्रपत्ति-पत्त्रे व्याख्यातम्।
पाञ्चकालिक-वृत्तिः
अभिगमनम्, उपादानम्, इज्या, स्वाध्यायो, योगश् चेति ५ कालाः पाञ्चरात्रेण विहिताः। पञ्चसु कालेषु ससङ्कल्पं वर्तेत।
तत्र विप्रा अधिकारिणः।
अन्ये तत्-सहकर्तारः।
“नारायणम् उपागमत्”, “दैवतायाज्यं जुहाव”, “शेषं … प्राश्य”, “ध्यायन् नारायणं … आयतने विष्णोः शिश्ये” इति रामायणे
क्षत्रिय-वैष्णवस्य दिनचर्यायां
अभिगमनम्, इज्या, योगश् च प्रदर्शितः।
स्वाध्याये विकल्पाः पृथग् व्याख्याताः।
इज्या
प्रदर्शनानि
- पुदुकोट्टै-वासुदेवो ऽत्र ।
आराधनाङ्ग-शरणागतिर् दोष-क्षान्त्यै कल्पते - तत्र +आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-वर्जनं च विशिष्टे ऽङ्गे।
नतौ विवेकः
साधारण-धर्म-शास्त्रम् अन्तरा,
भागवतेषु विशिष्ट-भगवच्-छास्त्राण्य् अपि प्रसज्यन्ते।
तेनावैष्णवादि-नती रुध्येत।
भागवतेषु च विशिष्यादरो दर्श्यते।
अनेन भगवद्-एक-शेषत्व-निष्ठा रक्ष्यते।
किन्तु, नानेन वर्णाश्रम-धर्म-व्यभिचारस् स्यात्।
प्रत्युत्थानम् अनभिवाद्यास्
तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रोऽप्य् अपत्य-समेन
इति गौतमस्मृतिविधिम् अनुकृत्य शूद्रभागवतार्हणम् अपि युक्तम्।
यतयो विशिष्य नमस्कार्याः, न ति प्रतिनमस्कारं वाञ्छेत्।
न स्त्री-शूद्रावैष्णव-पूजित-विग्रहान् नमस् कुर्याद् इति पुराणम् पाञ्चरात्रं च।
अवन्दनीय-वन्दनाभिनये केचिद् उत्तरीयम् पाणिमध्ये निवेशयन्ति,
केचिद् एकहस्तेन हृद्देशं स्पृशन्ति च।
एवं स्वेच्छया देवतान्तर-नतौ पाञ्चरात्रस्य निषेधः।
यत्र विहिता, तत्र भगवत्-पर्यन्त-धीर् ब्रह्म-सूत्रोक्ता।
तथा ऽऽवेशावतार-नतिर् अपि निषिद्धा सात्त्वत-संहितादिभिः।
(तद्-विस्तारो देव-पत्त्रे।)
विस्तारः (द्रष्टुं नोद्यम्)
बहवो वैष्णव-शूद्रा वैष्णव-विप्रान् नमस्कुर्वाणास्
तद्-इतरान् अनमस्यन्तो
लक्ष्मी-नरसिंहार्येण स्वग्राम-परिसरे दृष्टाः।
अवैष्णव-नमस्काराद्
अवमानाच् च केशवे।
वैष्णवे परिवादाच् च
पतत्य् एव न संशयः॥
इति नारदीयम्।
+++(भागवताः→ [नित्यम्])+++ आप्तो विष्णोर् अनाप्तश् च
द्विधा परिकरस् स्मृतः ।
नित्यो वन्द्यो, न चानित्यः +++(आप्ततायाम्)+++
कर्म-वश्यो मुमुक्षुभिः॥
(पौष्कर-संहिता)
अवैष्णवं न वन्देत
नार्चयेद् विधि-पूर्वकम् ।
सम्प्रश्नासन-दानानि
कुर्याद् वाप्य् आनृशंस्यतः ॥
अभक्तम् अच्युतस्यापि
नावमन्येत कञ्चन ।
हितं वा बोधयेत् साधोर्
दद्याद् वा किञ्चिद् ईप्सितम् ॥
इति भारद्वाज-संहिता।
यदि पाञ्चरात्रबलं स्मृतेर् अवरम्, कथं पौष्करसंहितोक्तिम् आदाय +अवैष्णव-सवर्णाचार्यादि-नति-रोधेन स्मृति-बाधः??
न स्याद् इति विश्वासः।
विसृज्य स्मयमानान् स्वान्
दृशं व्रीडां च दैहिकीम्।
प्रणमेद् दण्डवद् भूमाव्
आश्व-चाण्डाल-गो-खरम्॥
इति भागवते ११.२९.१६।
स्मृतेर् बलीयस्त्वात् स व्यक्ति-विशेषे हि विधिर् ग्राह्यः।
अथवा मा भूद् वर्णाश्रम-धर्म-व्यभिचार इति
सर्वान् सम्भूयोद्दिश्य तत्-परोक्षे (किञ्च कामं हसद्-स्वक-प्रत्यक्षे) दण्डवत् प्रणामो विहितः?
भागवतादिषु
मुक्तानां नित्यानां चापि
भागवतत्वम् अन्तरा
उपेयत्वाद् अपि
लक्ष्म्याम् इव TW
पृथग्-वर्तमानेष्व् अपि
नतौ बाधा नास्ति।
शिष्टास् तु राम-सन्निधिम् अन्तरा हनुमन्तं न नमस्कुर्वन्ति - स तत्र न सन्निदधातीति भावेन प्रायेण।
उत्पन्न-पाप-परिहारः
साधारणेषु
साधारणतया पापे प्रतिपदोक्त-प्रायश्चित्तं कार्यम्।
वेङ्कटनाथार्येणोक्तम् -
अनुतापाद्, उपरमात्,
प्रायश्चित्तोन्मुखत्वतः ।
तत्-पूरणाच्, चापराधास्
सर्वे नश्यनति पादशः +++(→४*१/४)+++ ॥
अशक्तौ प्रपत्तिर् योग्या।
तद् अभावे दण्डेन परिहारः।
रहस्यपापानां रहस्यप्रायश्चित्तम् इति शास्त्रम्।
गृहीतोपायेषु
बुद्धि-पूर्वक-पापे तु
यथाधिकारं तत्-क्षमार्थ-प्रपदनादि-प्रायश्चित्तं कार्यम्,
अनुतापश् च भवति।
विकर्मस्थ-द्विज-संसर्गः
‘शैवान् पाशुपतान् स्पृष्ट्वा (दृष्ट्वा)
लोकायतिक-नास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान्
स-वासा जलम् आविशेत् ॥’ +++(5)+++
(ब्रह्माण्डपुराणे, पाराशरीये वा) इति ।
तेन सचेल-स्नान-कृतः केचिच् छिष्टाः,
यथा निरुपवीत-यति-संसर्गे।
तद् अन्यत्रोक्तम् - TW ।
प्रपत्तिः
गृहीतोपायानां तु शक्ताव् अपि प्रपत्तिः क्वचिच् छक्या -
पश्चाद् उच्यते।
यदि गृहीतोपायः प्रतिपदोक्तप्रायश्चित्ते शक्तः,
पुनःप्रपदने तस्याधिकार एव न भवति खलु - अनन्यगतिकताऽभावात्?
इति चेन् न -
कार्पण्यानुसन्धानम् अन्तरा शक्ताधिकारिकं प्रपदनं
विशेष-विधि-बलाद् अत्रोपपन्नम्।
प्रतिपदोक्त-प्रायश्चित्ते ऽधिकारः
“अपाय-संप्लवे सद्यः
प्रायश्-चित्तं समाचरेत् ।
प्रायश्चित्तिर् इयं सात्र
यत् पुनश् शरणं व्रजेत् +++(प्रपत्त्या)+++ ॥
+++(कर्म-योगाद्य्-)+++उपायानाम् उपायत्व-
स्वीकारे ऽप्य् एतद् एव हि +++(प्रपत्तिकर्म प्रायश्चित्तम्)+++”
(लक्ष्मीतन्त्रम् 17-91.)
इति विधिः।
क्षमस्वेति प्रार्थनैकेव केवलम्
इति च।
अन्यत्र च -
प्रपत्ति-प्रतिसन्धानम् +++(→स्मरणम्)+++
आप्तैर् यद् उपदिश्यते ।
तत् स्वाधिकार-नियत-
+++(प्रयश्चित्तादि-)+++हानोपादान-सिद्धये ॥
प्रपन्नैः प्रतिपदोक्त-प्रायश्चित्तं यथेष्टं गृहीतुं शक्यम्?
प्रपन्नम् प्रति क्षमापण-प्रपत्तिम् अन्तरा प्रतिपदोक्त-प्रायश्चित्तम् अपि विकल्प्यतय् इति सिध्यति - लोकसङ्ग्रहाय तद्-ग्राह्यत्वात्,
लोकसङ्ग्रहायापि शास्त्रानुमतस्यैव च ग्राह्यत्वात्।
“अदुक्काग पुनःप्रपत्तिय् आदल् लघुदण्डमादल् प्रसङ्गियामैक्क् आगवुम्”।
इत्य् यद् उक्तम्,
तत्र प्रतिपदोक्त-प्रायश्चित्तागणनं सङ्क्षेप-प्रेरितम्।
लोक-सङ्ग्रहः
प्रतिष्ठितैस् तु भगवद्-आदिष्ट-लोक-सङ्ग्रहाय प्रसिद्धम् एव प्रायश्चित्तं कार्यम् ।
शिष्टतया व्यपदेश्यस्य समर्थस्य
लोक-संग्रहार्थम् अपि
प्रसिद्ध-निमित्तेषु यथा-शक्ति प्रसिद्ध-प्रायश्-चित्तम् उचितम् ।
इत्य् अपराध-क्षमापणाधिकारे वेङ्कटनाथः।
यतौ
प्राणायामाज् जपाद्ध्यानान्
नान्यद्भिक्षोर्विशोधनम् ।
तस्मात्तान्येव कुर्वीत
यतिः शुद्ध्यर्थमात्मनः ॥ 12 ॥
इत्य् अत्रिः। विस्तारो यतिधर्मसमुच्चये।
दण्डः
गृहीतोपायान् कारुण्येन रक्षितुम् प्रयततय् एव - न सरलतया त्यजति।
प्रपन्नेषु - प्रायश्चित्ताद्य्-अभावे लघु-दण्डो भवति राजपुत्रापराधवत्,
न तु प्रपत्ति-वैफल्यम्।
उपासकेषु लघु-दण्डस्य प्रमाणं न विद्यते।
एवञ्च प्रायश्चित्तादौ तच्छक्तिर् अपि वर्तेततराम् इति घटते।
भागवतापचारे तु तीव्रो दण्डः - राजदारापराधवत्।
भागवतापचारो भगवतो विशिष्यासह्यम् उच्यते।
ब्रह्म-विदि क्षान्तानाम् पापानाम् पुण्यानां च प्रतिकूलेष्व् अनुकूलेषु च सङ्क्रमणम् उक्तम् (प्रमाणानि भक्ति-प्रपत्ति-पत्त्रे)।
विस्तारः (द्रष्टुं नोद्यम्)
न प्राग्वद् बुद्धि-पूर्वाघे
न चात्यन्तम् अनुग्रहः ।
लघुर् दण्डः प्रपन्नस्य
राजपुत्रापराधवत्॥
किञ्च तत्रापि पटुतया गृहीतोपायानां यम-लोक-वारणम्।
प्रमाणम् (द्रष्टुं नोद्यम्)
‘‘(न खलु भागवता यम-विषयं गच्छन्ति ।) इहैवैषां केचिद् उपक्लेशा भवन्ति -
खञ्जा भवन्ति, काणा भवन्ति, अविधेयपुत्रा भवन्ति, अविधेयभार्या भवन्ति’’
इति काचिच् छ्रुतिः। तत्र स्मृतिः -
“परिहर मधु-सूदन-प्रपन्नान्,
प्र-भुर् अहम् अन्य-नृणां, न वैष्णवानाम्”
(विष्णुपुराणम् 3-7-14)
उपासकस्य योग-भ्रष्टत्वे प्रमाणान्तरेण योगिषु जन्म सिध्यति।
क्षमापणम्
भागवतापचारे तत्-क्षमापणं कार्यम् एव कार्यं यदि सम्भवति।
तत्र परस्-पर-व्यवहारो रामायणे सुग्रीव-तर्जने सुग्रीव-लक्ष्मणयोर् व्यवहार इव स्यात्।
अपराध-क्षमापणारम्भे ऽञ्जलि-मुद्रा–दण्ड-प्रणामादि बहूपकरोति - अग्रिम-विचाराय शान्तिं सम्पाद्य।
अपचरित-भागवतालाभे हि भगवति क्षमा याचनीया।
अनुज्ञा-विधिः
काम्य-कर्माणि शास्त्रोक्तानि +अभिचार-पर्यन्तान्य् अनुज्ञा-विधाव् अन्तर् भवन्ति।
एवं युगपद्-भगवत्-प्रीति+अप्रीति-जनकम् अपि कर्म +अनुज्ञातम् एव ।
आज्ञा-कैङ्कर्य-वेलायां तद्-भिन्नम् अनुज्ञा-कैङ्कर्यं निषिद्धम्।
मोक्षार्थम् उपदेशः (द्रष्टुं नोद्यम्)
> प्रत्ययार्थं च मोक्षस्य सिद्धयः संप्रकीर्तिताःआज्ञा ते स-निमित्त-नित्य-विधयः, स्वर्गादि-काम्यद्-विधिः
सोऽनुज्ञा, शठ+++(→अभिचारक)+++-चित्त-शास्त्र-वशतोपायो ऽभिचार-श्रुतिः ।
सर्वीयस्य समस्त-शासितुर् अहो ! श्रीरङ्ग–सर्व-स्व ! ते
रक्षाकूत-निवेदिनी, श्रुतिर् असौ त्वन्-नित्य-शास्तिस् ततः ॥ २१ ॥+++(5)+++
इति पराशरभट्टः। न्यायपरिशुद्धाव् उद्धृतो वेङ्कटनाथार्येण।
वैष्णव-भागवतयोर् अनुज्ञाताः
अनुज्ञा-कैङ्कर्याङ्गानि
एवं यत्-किञ्चिच् छास्त्राविरुद्धम् भगवद्-आज्ञाऽविरुद्धम् तद्-आराधन-रूपम् भवेत् -
यत् करोषि यद् अश्नासि
यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय
तत् कुरुष्व मद्-अर्पणम् ॥ +++(5)+++
अनुज्ञा-कैङ्कर्यतो भगवान् प्रसादोन्मुखतरो भवति,
पुनर् जीवः स्व-रूप-ज्ञानेन रमते,
तथा पाप-कृत्येषु मनो न यच्छति।
तत्त्व-ज्ञान-प्रचारः
अष्टाक्षरात् परं नास्ति
कालक्षेपस्य साधनम्।
अथापि -
“प्रब्रवाम” तथा “ऽजीतास्
स्यामे"ति ननु किंकृतम्?
मिथ्या-प्रचारकोज्जृम्भा-
बन्धे क्रीडितम् अन्तरा॥
प्रतिवाद-शैली
First VD thoroughly shatters the wrong position;
and only then does he offer a reconciliatory take, where appropriate -
from a dominant position.
vAda-grantha-s tell one’s side how the other side is wrong. Beyond a point, “They too meant what we say” type reconciliation just hides genuine difference in opinion and confuses one’s fellows.
भगवद्-भागवत-गुणानुसन्धानम्
भगवद्-अपेक्षया भगवद्-गुणा भोग्यतराः, तद्-अपेक्षया बहुदा भागवत-गुणाः।
एवं तद्-अनुसन्धानम् आज्ञादि-पालन-प्रेरकम् बह्व्-अपेक्षितम्।
अर्चावतार-सेवा
फलापेक्षां विना देवालयगतिर् मङ्गलाशासनम् उच्यते श्रीवैष्णवैः।
तत् स्वभावतः प्राप्तम्, अनुज्ञातं च।
मन्दिर-सेवा ऽन्यत्रोक्ता।
अभिचारः
भागवत-हितायाप्य् वेद-विहितानुज्ञा-कैङ्कर्यत्वेन पराशर-भट्टेनापि परिगणितो ऽभिचारो ऽनुज्ञातस् स्यात्।
यथा भागवतानुग्रहे वयं भगवत्-साधनानि,
तथा तद्-विरोधि-निग्रहे ऽपि कुतो न स्याम?
भगवद्-आत्मक-देवतान्तर-संश्रयः
शास्त्रोपदिष्टेषु देवतान्तर-सेवा-स्वरूपेषु काम्य-कर्मसु
तादात्म्य-चिन्तनादिभिः प्रवृत्तिर् अनुज्ञाता,
विशिष्य यदि भागवत-कल्याणं तेन भवति।
यथा - वृष्ट्य्-अ-भावे कारीरि-यागः।
किञ्च तत्रापि भगवत्-पर्यन्ता बुद्धिः स्यात्।
‘‘यो वै स्वां देवताम् अतियजते
प्रस्वायै देवतायै च्यवते
न परां प्राप्नोति
पापीयान् भवति॥’’
इति काचित् श्रुतिः।
प्रपत्त्य्-उत्तर-कृत्यम्
मोक्षार्थ-प्रपत्तेर् उत्तर-कालं शास्त्रादि-ज्ञापित-भगवद्-आज्ञानुसरणेन नयेत्।
केषुचित् प्रपन्नेषु भक्त-तुल्य-द्त्-कारो जायते -
भगवत्-प्रसादतः, पूर्व-जन्मन्य् आरब्धाच्च भक्ति-योगात्।
उत्तर-कृत्य-सार एवं सङ्गृह्यते वेङ्कटनाथार्येण -
भगवद्-आज्ञानुसरणम्, विषयाणां हानम्, आचार्ये भगवति च कृत-ज्ञता, कार्पण्यस्य रक्षणम् आत्म-प्रशंसा-वारणादिना, जपेनोपाय-निष्ठा, भागवतापचार-वारणम्, भागवत-कैङ्कर्यम्।
सद्-भावे निष्ठा
प्रपन्नः कृत-कृत्यः प्रथमं तत्त्व-हित-पुरुषार्थेषु स्व-निष्ठां परीक्षेत।
तत्रापर्याप्ततायाम् पूरयितुम् प्रयतेत - शिष्टकाले सुखं सतोषं जीवितुम् ।
लिङ्गानि
- स्वरूप-निष्ठा
- लिङ्गानि - निन्दायाम् अविकारः, निन्दकेष्व् अनुकम्पा, तेषु कृतज्ञता, कर्माभिज्ञानेन निर्विकारता, पापनाशे तोषः
- अनुमेय-निष्ठित-गुणाः - चित्ता??, सर्व-हितता, आकिञ्चन्यम्, शेषता
- उपाय-निष्ठा
- लिङ्गानि - आपदीश्वर-सखिता, ततो धैर्यम्, मृत्याव् अप्य् अभीः प्रीतिश्च, मोक्षे निर्भरता
- फले निष्ठा
- लिङ्गानि - देह-यात्रायां कर्म-पुरस्-कृत्या निश्चिन्ता, साफल्ये प्रयास-गौणता, अ-प्रयत्नागत-शास्त्राविरुद्धानां भोगः, ऐहिक-लाभ-नष्टेषु +उत्कट-हर्ष-शोकाभावः, प्राप्ये रुचिः, प्राप्तौ त्वरा
आहत्य, तत्त्व-हित-पुरुषार्थ-निष्ठावते
परम-पुरुषार्थम् अन्तरा गण्यो लाभो न भवति,
न च भागवतापचाराद्य् अन्तरा गण्यं नष्टम्।
प्राप्तिः
- कु-हैतुक-संसर्गवारणम्।
- सूक्ष्म-बुद्धिभिः शास्त्राध्ययनम्।
- स्थूल-बुद्धिभिर् उपदेश-प्राप्तिः, सत्-सङ्गः।
- अष्टाक्षरस्य सार्थानुसन्धानं, जपश् च।
- सद्-आचारः, पाञ्चकालिक-वृत्तिः।
सत्सङ्गः
सत्सङ्गे रामानुजोपदेशः -
भागवतेषु पुष्प-चन्द्रिकादिवत् प्रीतिः,
भगवद्-द्विषेषु सर्पादिवत्,
अनुभयेष्व् अनुकम्पया क्वचित्, तृण-पाषाणादिवद् अवज्ञा ऽन्यत्र।
भागवत-भूयिष्ठ-देशे वसेत्।
असल्-लिङ्गानि
वेङ्कटनाथार्येण सूचितानि उपायादि-निष्ठाऽभाव-लिङ्गानि रहस्य-त्रय-सारे निर्याणाधिकारे -
अहं-कार–ममकारौ, तन्-मूलका अपचाराः,
प्रयोजनान्तर-रुचिः, तन्-मूलकतया संभावितो देवतान्तर-स्पर्शः,
बुद्धि-दौर्बल्यं, तन्-मूलिकोपायान्तर-प्रत्याशा च।
तत्र कानिचिल् लिङ्गानि प्रपत्तेर् एव वैफल्यं सूचयन्ति,
यथा - उपायान्तर-ग्रहणम्, सुदृढो देवतान्तर-संश्रयः।
गृहीतोपायान् कारुण्येन रक्षितुम् प्रयततय् एव - न सरलतया त्यजति। अग्रे कदाचित् सफलोपायग्रहणं प्रेरयति।