अत्र रामानुजमतम् प्रतिपाद्यते।
मोक्षोपायय् अधिकारः साधारणः
- तत्त्व-ज्ञानं स्यात्।
- विरक्तिः कयाचिन् मात्रया।
- मुमुक्षा स्यात्।
तत्त्व-ज्ञानम्
अर्थ-पञ्चकम् =
प्राप्यम् ब्रह्मम्,
प्राप्ता जीवः, ब्रह्म-जीव-सम्बन्धश्च,
उपायः भक्ति-प्रपत्ती,
फलम् - कैङ्कर्यम्,
प्राप्ति-विरोधि - अनादि-कर्म-बन्धः।
प्राप्यम्
जडत्व-चेतनत्व-पत्रय् उक्तम्।
कर्म, कर्म-फलम्
कर्म फल-दानेन प्रारब्धं वा स्यात्, सञ्चितं (अ-प्रारब्धं) वा स्यात्।
कर्म-क्षये हि मुक्तिः।
भिन्नोपाययोः कर्म-क्षय-प्रकारस् तत्र तत्रोक्तः।
उपाय-ग्रहणे सञ्चित-कर्मादेर् नाशो यो भवति,
तदा सञ्चित-फल-गतिर् एवम् -
प्रियेषु स्वेषु सुकृतम्
अप्रियेषु च दुष्कृतं ।
विसृज्य ध्यान-योगेन
ब्रह्माऽभ्येति सनातनम्॥+++(5)+++
(मनुस्मृति ६-७९।)
प्रपन्नस्यापि तथैव तुल्य-न्यायेन भवति -
दिव्य-प्रबन्धे च तथा विष्णुचित्त-स्मृतिः।
एवं देह-त्यागे क्षान्ताबुद्धिपूर्वक-फल-वितरणम् अपि।
उपायः साक्षात्-प्राप्त्यै
उपायो द्विविधः - सिद्धोपायः, साध्योपाय इति ।
तृष्णापकरण-रूपे फले यथा सिद्धोपायो जलम् एव,
साध्योपायस् तु तत्-प्राप्तिः, तत्-पानं च।
मोक्षे वचन-बलात् - लक्ष्मी-विशिष्ट-नारायण एव शरण्यः, प्राप्यः -
न पृथग् लक्ष्मीः नारायणो देवतान्तरं वा।
सिद्धोपायः
“तृषापकरणे क उपाय” इति बालम् पृच्छामश्चेद् अपि,
जल-पानम् इति वदेत्, जलम् इति वा वदेत्, न तु पानम् इति।
अनेन सिद्धोपायस्य प्राधान्यं गम्यते।
तेन हि साध्योपायस्य व्याज इति व्यपदेशः।
किञ्च सोऽप्य् अपेक्षितः - जलपानय् इच्छा, पान-व्यापारश् च यथा।
सिद्धोपायश् च निर्गुणो न भवितुम् अर्हति।
यथा जले शैत्यादि-गुणाः,
तथा सिद्धोपाये दया-स्वातन्त्र्यादयो ऽपेक्ष्यन्ते।
अनुभवेन प्रायश्चित्तेन वा न कर्म-क्षयः कदाचन।
अतो साध्योपाये दया ऽत्यपेक्षिता।
मुमुक्षूणां सिद्धोपायस् तु श्रीमान् नारायणः -
द्वाव् अपीश्वरौ तत्रान्तर्भूतौ।
साध्योपायः
भक्तियोगः, प्रपत्तिर् वा साक्षान्-मोक्षोपाय इत्य् उत्तरकलार्याः।
प्रपत्तिर् एवेति दक्षिणकलार्याः केचित्।
भक्त्या परमया वापि
प्रपत्त्या वा महामुने ।
प्राप्योऽहं नान्यथा प्रप्यः
मम कैङ्कर्य-लिप्सुभिः॥
इत्य्-अनेन पाञ्चरात्र-वचनेन
साक्षान्-मोक्षोपायत्वं नियम्यतय् एतयोः।
गुरुतरोपायोपदेशः कुत
इत्य्-अत्र व्यवस्थित-विकल्प उच्यते।
साधारणाङ्गानि
ज्ञानम्
किञ्च, मुक्तौ ज्ञानम् एव प्रधानम् -
कर्मणोऽपि मूलभूतत्वाद्, अनिवार्यत्वाच्च।
स्वरूप-त्यागः
मोक्षार्थिषु - “स्व-रूपतोऽहं तवैव दासः” इति भावः।
अज्ञ-याचकेषु, मुमुक्षेतर-प्रसङ्गेषु च नैतद् भवेत् ।
प्रपत्तौ त्व् अयम् एव भर-त्यागे, फल-त्यागे चाधारः।
एतद्-अङ्गत्वेनैव प्रधान-कर्तृत्व-त्यागोऽपि भवति - भगवत्-परमैश्वर्यानुसन्धानेन।
अनेन +आत्मापहार-चौर्यान् निवृत्तिः।
भगवतो वस्तु तस्माय् एव प्रतिदीयते।
भक्ति-योगे ऽयं बुद्धि-विशेष-मात्र-प्रायः, सात्त्विकत्यागादौ स्मर्येत।
प्रपत्ति-कर्मणि विशिष्य स्पष्टतरम् अनुष्ठीयेत।
कर्तृत्व-फल-त्यागौ
निवृत्तिधर्म-प्रकरणे ऽन्यत्र व्याख्यातः ।
धर्मः
धर्मो ऽन्यत्र व्याख्यातः ।
तस्य प्रपत्तिक्षणय् अपेक्षा वर्तते हि।
उपाय-प्रवेशे क्रमः
अयं क्रमः श्रीवैष्णवैः कल्पितः -
- सताम् प्रभावः, नामसङ्कीर्तनादि, वैष्णव-संस्काराः
- (प्रेम-)भक्तिः = शास्त्र-जन्य–भगवद्-विषयक–विशद-ज्ञानाभिनिवेश-हेतुः प्रीति-विशेषः।
- प्रेम-भक्तिर् इति पुत्रादि-विषयिका चेद् बन्धं जनयेत्, भगवद्-विषयिका चेत् परम्परया मुक्तिं यच्छति।
- शास्त्र-जन्य-तत्त्व-ज्ञानम् अस्य फलम्।
- शास्त्र-ज्ञानम्
- भगवत्-साक्षात्-कारेच्छा
आचार्योपसत्तिः
‘परीक्ष्य लोकान् कर्म-चितान्
ब्राह्मणो निर्वेदम् आयान्
“नास्त्य् अकृतः कृतेन” +++(इति)+++।
तद्-विज्ञानार्थं
स गुरुम् एवाभिगच्छेत् समित्-पाणिः
श्रोत्रियं ब्रह्मनिष्ठम् ।
तस्मै स विद्वान्
उपसन्नाय सम्यक् प्रशान्त-चित्ताय शमान्विताय
येनाक्षरं पुरुषं वेद
सत्यं प्रोवाच तां तत्त्वतो ब्रह्म-विद्याम् ।’ (मुं.उ. 1.2.12)
शाण्डिल्य-विद्यानुजिगमिषया भौम-विद्याविदं नोपेयात् इत्य्-आदिर् अपि वर्तते -
यतो नानाशाखाभ्यो विधिवाक्यानि सङ्गृह्यानुसन्धेयानि स्युः।
प्रेम-भक्तिः
भक्तिर् नाम प्रीतियुक्तः स्मृति-विशेषः।
भक्तिर् अपि
निरतिशय-प्रियानन्य-प्रयोजन-
सकलेतर-वैतृष्ण्यावह-ज्ञान-विशेष एवेति ।
इति रामानुजो वेदार्थसङ्ग्रहे।
नाम-कीर्तनादि
भागवते ६.२ इत्यत्र वीरराघवाभिप्रायः -
नामोच्चारणम् → भगवद्-विषयक-मत्य्-उत्पत्ति-बाधक-निरासः → भगवद्-विषयक-मत्य्-उत्पत्तिः → भगवत्प्राप्तिप्रतिबन्धक-निरासः = सर्व-पाप-निरासः → (… भक्ति-योगः) → अन्तिम-स्मृतिः → मुक्तिः।
विशेष-विषयेऽनपेक्षा
विशिष्टाः केचित् तु प्रारब्ध-सत्-कर्मणा भगवद्-अनुग्रहेण वा (आचार्याद्य्-अपेक्षाम् अन्तरा)
साक्षाद् एव ज्ञानं लभेरन्।
शास्त्रं तु साधारण-विषयकम्।
क्रम-मुक्त्य्-उपायाः
उपनिषद्-उक्त-ब्रह्म-विद्यासु कासुचित् क्रम-मुक्तिः फलम् भवति,
कासुचिच् च साक्षान् मुक्तिः -
यथा मधु-विद्यया वस्व्-आदि-पद-प्राप्तेः परं मुक्तिः।
क्रम-मुक्ति-फलानि विद्याऽन्तराणि महाभारते पाञ्चरात्रे च सूचितानि।
एषु शूद्रस्याप्य् अधिकारस् स्यात्।
विस्तारः (द्रष्टुं नोद्यम्)
‘‘विभवार्चनाद् व्यूहं
प्राप्य व्यूहार्चनात् परं
ब्रह्म वासुदेवाख्यं
सूक्ष्मं प्राप्यत इति वदन्ति’’ (श्रीभाष्यम् २-२-४१।)
इति श्रीपाञ्चरात्राधिकरणे रामानुजः।
रहस्यत्रयसारे च वेङ्कटनाथार्यो महाभारते नारायणियोक्तम् उदाहरति परम-पद-गति-मार्गान्तरं व्यूहोपासनद्वारकम्।
भक्ति-योग-प्रवेशः
पूर्वोक्त-साधारण-क्रमात् परम् -
- कर्म-योगः, ततो ज्ञानयोगो वा
- चित्त-समाधान-रूप-योगः
- आत्म-साक्षात्कारः
- भक्तियोगे वर्तमानस्य भगवत्-संयोग-जनकम् एव सुखं, वियोग-जन्यम् एव दुःखम्, न तु पुत्रादि-शरीर-सम्बद्धम्। ततो भक्ति-योग-प्रवेशाय +जीवात्मावलोकनम् अनिवार्यम्।
- भक्ति-योग-प्रवेशः
कर्म-योग–ज्ञान-योगौ
जीवात्म-साक्षात्कारश् च ज्ञान-योगेन सिद्ध्यति, कर्मयोगेन वा साक्षात्।
अथवा कर्म-योगो ज्ञान-योगे प्रवेशाय सहकरोति,
ज्ञान-योगाच् च भक्ति-योगः प्रवेश्यः।
एवं ज्ञान-कर्म-योगौ भक्ति-योगाङ्ग-भूतौ।
तेन द्विजेतरैः कृतौ चेद् अपि
तज्-जन्मन्य् एव भक्ति-योगाय न कल्पेते।
किञ्च, आत्म-साक्षात्कार–भक्त्य्-आदि सत्-फलानि सम्भवेयुः, जन्मान्तरे च भक्ति-ग्रहणाय कल्पेत।
कर्म-योगः
कर्म-योगो नाम
वर्णाश्रमोचित-नित्य-नैमित्तिकानि फलसङ्गादिरहित-काम्यानि च+अतिरिच्य
कस्यचन भगवत्-प्रीति-कर-कर्मणोऽनुष्ठानम्।
अत्र जीव-परमात्म-याथाम्य-ज्ञानवान् मुमुक्षुर् अधिकारी।
विस्तारः (द्रष्टुं नोद्यम्)
वेङ्कटनाथार्य उपायविभागाधिकारे -
तत्र कर्मयोगो नाम -
शास्त्रेण जीव-परमात्म-याथाम्य-ज्ञाने निष्पन्ने
स्व-शक्यैः फल-सङ्गादि-रहितैः काम्य-कर्मभिः +++(←यत्राकरणे प्रत्यवायाभावः, करणे ऽभ्युदयः)+++,
नित्य-नैमित्तिकैश् च सह
स-नियमं परिगृहीतः कर्म-विशेषः ।
यतीन्द्र-मत-दीपिकायाम् -
१८. कर्म-योगो नाम उपदेशात् जीव-पर–याथात्म्य-ज्ञानवता शक्त्य्-अनुसारेण फल-सङ्ग-रहितानिषिद्ध-– काम्य-नित्य-नैमित्तिक-रूप-– परिगृहीत-कर्म-विशेषः । स तु देवार्चना-तपस्–तीर्थ-यात्रा–दान–यज्ञादि-भेद-भिन्नः।
अयं तु जीव-गत–कल्मषापनयन-द्वारा ज्ञान-योगम् उत्पाद्य तद्-द्वारा वा साक्षाद् वा भक्त्य्-उत्पादको भवति ।
ग्राह्यं कर्म
किम् इदं कर्म?
यत् किञ्चिद् भगवत्-प्रीतिकरं “सर्व-कर्म-फल-त्याग”-जनकं -
देवतान्तर-द्वारकम् अपि।
तत्रावान्तर-भेदाः,
“दैवम् एवापरे यज्ञम् " इत्य्-उपक्रम्य गीता
देवार्चन-तपस्-तीर्थ-दान-यज्ञादयः ।
इति वेङ्कटनाथार्यः
सनियमता
तत्र नित्यम् एक-रूपम् एव कर्म भवेद् इति लक्ष्मीनरसिंहार्यः।
स-नियमम् आग परिगृहीतम् आय् इरुक्कुम् कर्म-विशेषम्
इत्येव वेङ्कटनाथार्य आह।
अतः, निश्चित-योग-काले हि कर्म-योगः क्रियेतेति लक्ष्मीनरसिंहार्यः।
नित्य-नैमित्तिकेभ्यो भेदः
इदं च योगार्थं गृहीतं कर्म नित्य-नैमित्तिकेभ्यो भिन्नः (किञ्च तान्य् अप्य् अङ्गतयाऽपेक्ष्यन्ते)।
तत् तथेति
“ज्ञान-योगार्हैर् अपि जनकादिभिर्
लोकसङ्ग्रहायानुवर्तितः कर्म-योगः,
अन्ये कर्म-योगे सिद्धेर् अनन्तरं
तं रुद्ध्वा ज्ञान-योगम् प्रविशेयुः”
इति वदत्यां गीतायां स्पष्टम्।
रहस्यत्रयसारय् उपायविभागाधिकारे ऽपि व्याख्यातम्।
En (द्रष्टुं नोद्यम्)
Some say -
karma yoga is “self"less service. It simply means action done where the self or the jiva or the individual ego doesn’t exist ( meaning the ahamkara completely dissolves) in the action. That’s when the dancer becomes the dancing.
This is a common-place misunderstanding which the scholars of the gItA reject based on the words of kRShNa - though they could have used common experience as well - for example, the ninja assassin using the “no mind” would by that metric be a top karma-yogin. The scholars criticize common approaches to gItA as reducing it to a subhAShita (proverb) collection; without adequate care to taking it as a coherent whole prabandha.+++(5)+++
According to shIvaiShNava analysis of bhagavad-gItA, karma yoga is not just performance of karmas without attachment to fruits and doership; and neither is it just regular karma - though that is part of it.
Rather, it additionally involves pursuit of dedicated, activities (cleaning a temple and such) in a specific time set aside for this yoga.
kRShNa says, for example, that janaka and co continue to do karma-yoga, though they’re eligible for jnAna-yoga, for loka-sangraha; and attain “saMsiddhi”.
Since jNAna yogins are also not attached to fruits of actions/ primary doership, it follows from this emphasis on “continuing in karma yoga” that it means some specific activity, rather than a general attitude.
karma, jnana and bhakti by themselves don’t mean the respective yoga-s (which are specific sAdhana-s) prescribed by the bhagavad-gItA. The latter; being circumscribed by clear rules of eligitiblity, procedures, gradation, goals and signs of success; are not merely intense versions of the former.
फलम्
कर्म-योगस्य फले -
- ज्ञान-योग-प्रवेशार्हता, सर्व-कर्म-फल-त्यागतः
- भक्ति-योग-प्रवेशार्हता, जीवात्म-साक्षात्कारात्।
एतयोः फलयोर् लिङ्गानि भगवद्-गीतायाम् उक्तानि।
सर्व-कर्म-फल-त्यागः
फलाभिसन्धि-सहितं कर्म प्रवृत्ति-धर्मः संसार-बन्ध-करः।
फलाभिसन्धि-रहितम् एव निवृत्ति-धर्मः मुक्ति-दः।
कर्म-योगिना द्वितीय-प्रकार एवाश्रयणीयः -
काम्य-कर्मस्व् अपि (यत्राकरणे प्रत्यवायाभावः)।
एवं चित-कर्म-विशेष-फल-त्यातम् अतिरिच्य
सर्व-कर्म-फल-त्यागः कर्म-योगे प्रगतेन साध्यः।
विस्तारः (द्रष्टुं नोद्यम्)
वेङ्कटनाथार्यस् तात्पर्यचन्द्रिकायाम् -
“तत्र चित्तं समावेष्टुं
न शक्नोति भवान् यदि।
तद्-अभ्यास-परस् तस्मिन्
कुरु योगं दिवानिशम्॥तत्राप्य् असामर्थ्यवतः
क्रिया-योगो महात्मनः।
ब्रह्मणा यः समाख्यातः
तत्-परः सततं भव॥करोषि यानि कर्माणि
देव-देवे जगत्-पतौ।
समर्पयस्व भद्रं ते
ततः कर्म प्रहास्यसि॥प्रधानं कारणं योगो
विमुक्तेर् दितिजेश्वर।
क्रिया-योगश् च योगस्य
परमं तस्य साधनम्॥”
इति।
ज्ञान-योगः
ज्ञान-योगो नाम
वर्णाश्रम-धर्माद्य्-अतिरिच्य
सनियमं (निश्चत-योग-काले यथा)
स्व-स्वरूपस्य ध्यानम्/ “निरन्तर-चिन्तनम्”।
(सनियमत्वं, योग-काल-निश्चयश् च
कर्म-योग-स्थान-ग्राहित्वात्, नित्य-नैमित्तिक-कर्मावकाशापेक्षायाश् च सिध्यति।)
अष्टाङ्गयोग-सहित-प्रायः (ध्यान-साध्यत्वात्) इति लक्ष्मीनरसिंहार्यः।
ध्यानस्य विषयोऽत्र +अष्टाक्षरमन्त्रोऽपि भवेत् -
तत्र जीवस्वरूपस्योक्तत्वात्।
रहस्यत्रयसारय् उपायविभागाधिकारे ऽपि व्याख्यातम्।
विस्तारः (द्रष्टुं नोद्यम्)
तत्र वेङ्कटनाथार्योक्तस्य संस्कृतानुवादः -
ज्ञानयोगो नाम -
कर्म-योगोत्पन्नान्तः-करण-जयेन पुंसा
प्रकृत्य्-आदि-विलक्षणस्य,
ईश्वरं प्रत्य् आधेयत्व-विधेयत्व-शेषत्वैः +++(←नेमे चिन्तनीयांशाः)+++
शरीरतया प्रकारभूतस्य
स्वस्वरूपस्य +++(←नित्यत्व-ज्ञानत्वानन्दत्वामलत्वाहन्त्वादि)+++
निरन्तर-चिन्तन-करणम् ।
तात्पर्यचन्द्रिकायाम् (ततः सारबोधिन्याम् अपि)
अत्र नित्यत्व-ज्ञानत्वानन्दत्वामलत्वाहन्त्वादयो ध्येयाः, न तावद् आधेयत्व-विधेयत्व-शेषत्वानीति स्पष्टितम्।
अत्रापि नित्य-नैमित्तिक-कर्माण्य् अङ्ग-भूतानि -
सिद्धि-प्रतिबन्धक-पाप-वारकत्वात्।
अस्य फलं भक्ति-योग-प्रवेशार्हता।
जीवात्म-साक्षात्कारः
जीवात्म-साक्षात्कारो भक्ति-योग-प्रवेशायानिवार्यः।
तन् नाम -
“शेषभूतो ऽहम्, भगवतान् शेषी।”
इति शास्त्र-जन्य-प्राय-ज्ञानम् अन्तरा
जीवात्मनोर् न पुत्र-पित्रादि-सम्बन्धः। सुखदुःखादिषु समः स्याम्।
इत्य्-आदेर् न केवलं शास्त्रीयं ज्ञानम्,
अपि त्व् अनुभवे सिद्धता।
अस्य ज्ञानस्य +अनुभवे-सद्-भावो लिङ्गैर् एवानुमेयः।
एवं स्वेतर-समस्त-हर्ष-शोकाद्य्-अभावः, स्वगत-सुखं च जीवात्म-साक्षात्कारस्य लिङ्गानि।
लक्षणम् -
‘‘सुखमात्यन्तिकं यत् तत्’’
‘‘यं लब्ध्वा चापरं लाभं
मन्यते नाधिकं ततः’’
अत्रात्यन्ताभावो नोक्तः - अपि त्व् अल्पत्वम् एव -
संसारे दुःखस्पर्शोऽनिवार्य इत्य् अन्यथा सिद्धत्वात्,
जड-भरतादि-योग-भ्रष्टाख्यानेभ्यश् च।
स्रोतः
उपायविभागाधिकारे -
आभ्यां +++(कर्म-योग–ज्ञान-योगाभ्यां)+++
योग-मुखेना ऽऽत्मावलोकने निष्पन्ने सति —
वैषयिक-सुख-वैतृष्ण्यावहे आत्मानुभव-सुख-रूपे आकर्षके अनिमग्नश् चेत् (अलग्नश् चेत् ),तर्हि परम-पुरुषार्थ-भूतस्य भगवद्-अनुभवस्योपाये भक्ति-योगे प्रवृत्तस्य
तदा, अन्तः-स्थ-रत्न-दर्शनार्थं वस्त्र-ग्रन्थि-दर्शनवत्,+++(5)+++
अन्तर्यामि-दर्शनार्थं तच्-छरीर-भूत–जीवात्म-दर्शनम् उपयुक्तं
भक्ति-योगाधिकार-कोटौ निविशते ॥
तत्र सारबोधिन्याद्य् अपि द्रष्टव्यम्।
गीताभाष्यतात्पर्यचन्द्रिकायां विस्तारस् स्यात्।
भक्ति-योगः
अङ्कुरम्
भगवद्गीतायाम् अङ्कुरम् उक्तम् -
“+++(ध्यान-)+++अभ्यासे ऽप्य् असमर्थो ऽसि
मत्-कर्म-परमो भव।
मद्-अर्थम् अपि कर्माणि
कुर्वन् सिद्धिम् अवाप्स्यसि॥”
असिद्धताभिज्ञानम्
तद्-अशक्तौ च
भक्तियोगे ऽसिद्धताम् अभिज्ञाय “सर्व-कर्म-फल-त्यागश्”
(नाम ज्ञान-योगम् आश्रितः कर्मयोगः) चोदितः -
“अथैतद् अप्य् अशक्तो ऽसि
कर्तुं मद्-योगम् आश्रितः।
सर्व-कर्म-फल-त्यागं
ततः कुरु यतात्मवान्॥”
विधानम्
वेदोक्त-ब्रह्म-विद्योपासनं भक्ति-योग-संज्ञम्,
न तु प्रेम-भक्ति-मात्रम्।
उप-३२ ब्रह्म-विद्या उक्ता उपनिषत्सु।
फल-वैविध्यम्
- दहर-विद्यायाः फलं साक्षान् मोक्षः।
- मधु-विद्यायाः फलं मधु-लोके वसु-पद-प्राप्तिः, ततो मोक्षः।
- कैवल्यार्थिषु कैवल्यम्।
अधिकारः
भक्ति-योगस्याधिकारी
वेदोपदेश-गोचरस् त्रैवर्णिको
यः भक्ति-योगे ज्ञानवान्, तत्र समर्थः, अपि च प्रारब्धम् अनुबुभूषति।
शूद्रास् तु परम्परया जन्मान्तरे भक्ति-योगम् प्रविशेयुः,
अथवा पूर्वजन्मन्य् आरब्धस्यापूर्णस्य भक्ति-योगस्यानुवर्तनं कुर्युः।
पाञ्चरात्राद्य्-उक्ते क्रम-मुक्ति-प्रकारे तु
शूद्रोऽप्य् अधिकारि स्यात्-
किञ्च न स प्रकृत-परिभाषया भक्ति-योग इत्य् अभिधेयः।
भक्ति-योग-कृद् उपासक इत्य् उच्यते।
आरम्भे प्रयासः
वर्णाश्रमधर्मे तिष्ठता
विशिष्टे योग-काले (इज्यायाः परं वर्तमाने) कार्यो ध्यान-विशेषः ।
तत्र यम-नियमासन-प्राणायामाद्य्-अङ्गानि भवन्ति।
जन्मान्तरारब्धापूर्ण-भक्ति-योगस्य तु शूद्रस्यापि
परभक्तिम् उल्लङ्घ्य साक्षाद् पर-ज्ञानादेः प्राप्तिः स्यात्।
अङ्ग-प्रपत्तिः
भक्ति-योगे ऽङ्ग-पूरणार्थं यथापेक्षम् अङ्ग-प्रपत्तिर् अनुष्ठेयेति
भगवद्-गीतायां चरम-श्लोकः।
अर्चनादि
तत्राङ्गान्तरय् उत्तमूर्-वीरराघवार्यो वैखानसविजये -
भक्ति-स्वरूप-निष्कर्षके नवमे ऽध्याये,
‘मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु’इत्य्-अत्र ‘मद्-याजी’ति पदस्यार्चा-शास्त्र-प्रपञ्चित– +औपचारिक-सांस्पर्शिकाभ्यवहारिक- सांदृष्टिक– सकल-भोग-प्रदान-रूप– याग-परत्वम् एवाभाषि।
… अर्चनादि-परिवाह-विशिष्टं ध्यानं मुक्त्य्-उपाय इति तु निष्कर्षः।
कर्म-क्षय-क्रमः
भक्ति-योगः सञ्चितं कर्म नाशयति, न प्रारब्धम्।
अयं नाशः पर-ज्ञान-प्राप्तौ भवतीति -
“तद्-अधिगम+++(य् ← प्रत्यक्ष-निभय् अभ्रमात्मक-पर-ज्ञाने)+++
उत्तर-पूर्वाघयोर् अ-श्लेष-विनाशौ +++(क्रमशः)+++
तद्-व्यपदेशात् +++(श्रुतिभिः)+++”
(ब्रह्मसूत्रम् ४-१-१३)
बुद्धिपूर्वकोत्तराघ-दण्डो भवतीति शब्दान्तरम्।
क्वचिद् अपराध-ज-कालुश्येन योग-भ्रष्टो जायते जन्मान्तरे, तत्र चानुवर्तते योगम् - “नाभिक्रम-नाशोऽस्ती"ति वचनतः।
प्रारब्ध-कर्मणस् समाप्तिर् जन्मान्तरे ऽपि स्यात्।
नाशित-कर्म-फल-वितरणम् अन्यत्रोक्तम्।
भ्रंशः, विलम्बः
क्वचित् प्रारब्ध-कर्म-वशाद्
भक्तियोगाद् भ्रंशोऽपि सम्भवति - जड-भरतस्य यथा।
तादृशानाम् उपक्रमस् तु न व्यर्थः - जन्मान्तरे फलति।
तच् च जन्म भक्तियोगारम्भोचितं न स्यात् - शबर्या इव।
“एवं +++(कालतो)+++ मुक्ति-फलानियमस्
तद्-अवस्थावधृतेस् +++(←विघ्नेभ्यः)+++, तद्-अवस्थावधृतेः”
(ब्रह्मसूत्रम् 3-4-51)
इत्यत्र रामानुजो भागवतापचारं विलम्बहेतुतमं कथयति।
जीवति फलम्
प्रत्याहारो ऽङ्गम् इत्य् अत उपासकानां
योगारम्भ-जीवने स्वभावतो दुःख-नैयून्यम्।
नैवं प्रपन्नेषु साधारणम्।
क्रमः
- पर-भक्तिः = उत्तरोत्तर-साक्षात्-काराभिनिवेशः = भक्ति-योगः
- यम-नियमाद्य्-अङ्गवती तैल-धारावद् अ-विच्छिन्न-स्मृति-सन्तति-रूपा दर्शनाकारतां गता।
- पर-ज्ञानम् = भगवत्-स्वरूप-गुणादि-साक्षात्कारः
- परम-भक्तिः = उत्तरोत्तरानुभवाभिनिवेशः
- अन्तिम-प्रत्ययः (कस्मिंश्चन जन्मनि)
- इदम् भगवद्-अधीनम्। (“यमेवैष वृणुते तेन लभ्यः” इत्य् अनेन।)
- मुक्तिः
‘‘परभक्तिरदृष्टार्थ-
प्रत्यक्षाभिनिवेशनम् ।
पर-ज्ञानन्तु तस्यैव
साक्षात्कारः परिस्फुटः ॥
पुनर्-विश्लेष-भीरुत्वं
परमा भक्तिर् इष्यते’’
पर-ज्ञान–परम-भक्ती देह-सम्बन्ध-वेलायाम्
उपासकस्य+++(=भक्तिमार्गिणः)+++ उपाय-कोटि-निविष्टे ।
प्रपन्नस्य तु +उभय-कोटि-घटिते।
इति सुदर्शन-भट्टः।
प्रपत्तिः
साधारणं लक्षणम् -
“अनन्य-साध्ये स्वाभीष्टे
महा-विश्वास-पूर्वकम् ।
तद्-एकोपायता-याच्ञा
प्रपत्तिः शरणागतिः” ॥
(भरत-मुनिः)
मोक्ष-रूप-फल-सम्बन्धः
“अनन्य-साध्य-स्वाभीष्ट-साधन-समर्थ-वशी-करणं शरणागतिर्” इति वेङ्कटनाथार्यः।
प्रपत्तेर् नामान्तरम् -
- साध्या +++(मुक्तावस्था-स्था)+++ भक्तिः यया सा - साध्य-भक्तिः।
- फलं भक्तिर् यस्यास् सा - फल-भक्तिः।
कर्म-बन्ध-नाशः
प्रपत्तिः सञ्चितं प्रारब्धं च कर्म नाशयितुं शक्नोति - वाञ्छानुसारेण।
(न त्व् इदं मोक्षेतरार्थक-प्रपत्तौ!)
‘‘उपाय-भक्तिः प्रारब्ध-
व्यतिरिक्ताघ-नाशिनी ।
साध्य-भक्तिस् तु सा हन्त्री
प्रारब्धस्यापि भूयसी’’()
सिद्धोपायः, शरण्यः
अभीष्ट-फल-दाने समर्थ एव, कारुण्यवांस् च शरणं प्रपत्तव्यः।
तत् साधारणे सिद्धोपायभागे व्याख्यातम्।
अधिकारी
मुमुक्षु-साधारणाधिकारा अन्यत्रोक्ताः।
भक्ति-योगानधिकारी मोक्षाद्य्-अर्थ-प्रपत्त्य्-उपायय् अधिकारी।
अद्यापि यदि कश्चिद् भक्त्य्-अधिकारी,
तस्य न प्रपत्ताव् अधिकारः।
पूर्व-युगेषु भक्तिनिष्ठा ह्य् अनेकय् आसन्, कलि-युग-प्रारम्भेऽपि।
मूलतो द्विजा भक्तेर् अधिकारिणः, न प्रपत्तेः।
किञ्च, अशक्तेः कारणात्, विलम्बाक्षमया वा प्रपन्ना भवेयुः।
ब्रह्मसूत्रगतापशूद्राधिकरणेन शूद्रादीनाम् ब्रह्म-विद्यास्व् अनधिकारे निश्चिते, कथम् अत्र तद्-अधिकारः
इति चेद् - विशेष-वचनात्, ब्रह्म-सूत्रोक्त-युक्तेर् अप्रसक्तेश् च ।
तत्राशक्ति-कारणानि मीमांसा-शास्त्र-न्याय-प्राप्तानि, वेङ्कटनाथार्योक्तानि -
- उपायान्तरेऽगतिः
- प्रमित्य्-अभावः / शास्त्राज्ञानम्
- अनुष्ठानय् अशक्तिः
- शास्त्र-कृत-पर्युदासः
- फले विलम्बाक्षमता
सङ्क्षेपेणैतद् आकिञ्चन्यम् उच्यते।
दृष्टान्तः
मातापितृसहितो नानाथाश्रम-प्रवेशं यथार्हति,
तथा न भक्तौ शक्तो विलम्बे क्षमः प्रपत्तिम् अर्हति।
रक्षिष्यतीति विश्वासो ऽप्य् अधिकार-घटकः।
तद्-अन्तरा ऽनन्यगतिकता ऽप्य् (=प्रयोजनान्तर-वैमुख्यम् + शरण्यान्तर-वैमुख्यम्) उच्यते ऽधिकार-घटकत्वेन कैङ्कर्य-रूप-मोक्षार्थ-प्रपत्तौ।
विलम्ब-क्षमता
आर्त-प्रपत्तिः
तत्रार्तः आर्त-प्रपत्तिं कृत्वा तद्-दिन एव शरीरं त्यक्त्वा परमपदं यायात्।
एवम् अवश्यम् भवतीति प्रत्यक्ष-प्रमाणानि दर्शयन्ति केचित्।
आर्ता एवात्राधिकारिणः - प्रायेण संसार-तापेनातितप्ता विरक्ताः।
तद् उक्तम् -
आर्तानाम् आशु-फलदा
सकृद् एव कृता ह्य् असौ ।
किन्तु, यदि न तद्-दिन एव मरति, तर्हि, स आर्त्त-प्रपत्तेर् नाधिकारीति ज्ञेयम् -
न पुनर् आर्त-प्रपत्तिर् व्यर्थेति।
दृप्त-प्रपत्तिः
अनार्तः दृप्त-प्रपत्तिं कुर्यात्, येन “शरीरपातं यावद्” इति, “कानिचन जन्मानि यावद्” इति प्रारब्ध-कर्म, बुद्धिपूर्वकान्य् अकृतप्रायश्चित्तानि च पापानां फलानि भुञ्जीयात्।
तद् उक्तम् -
दृप्तप्रपन्नस्य तु अभ्युपगत-प्रारब्धम् ।
अ-कृत-प्रायश्चित्तं बुद्धि-पूर्वोत्तराघञ्च अनुभवैक-विनाश्यम् ।
उपाय-महिमेना सञ्चित-अनभ्युपगत-प्रारब्धयोर् विनाशः,
प्रामादिकोत्तराघस्याश्लेषः।
प्रारब्धेतर-पूर्व-पापम् अखिलं, प्रामादिकञ् चोत्तरं,
न्यासेन क्षपयन्न् अनभ्युपगत-प्रारब्ध-खण्डञ् च नः।
धीपूर्वोत्तर-पाप्मनाम् अजननाज्, जातेऽपि तन्-निष्कृतेः,
कौटिल्ये सति शिक्षया ऽपि अनघयन् क्रोडीकरोति प्रभुः॥ (रहस्यत्रयसारः अधि-18)
एवं केचिद् विरक्ता अपि
लोक-कल्याणाय दृप्तप्रपत्त्या शरीरत्यागं विलम्बयेयुः।
अधिकारभेदः स्व-निष्ठादौ
प्रपत्ति-प्रक्रियायां विकल्पा वर्तन्ते।
स व्यवस्थित-विकल्पः -
श्रम-भेदात्, स्नानादि-कर्मान्तर-विकल्प-दृष्टान्तैश् च।
स्नानोदाहरणेन वेङ्कटनाथार्यस्याप्य् अयम् एवाभिप्रायो भाति।
स्नाने शक्ति-भेदवत्
प्रपत्त्य्-अङ्ग-ज्ञान-तारतम्यम् एवात्र +अधिकार-भेद-कारक इत्य् अहोबिल-मठ-परम्परा।
स्व-निष्ठायाम् अत्राधिकारिणस् ते येषां प्रपत्त्य्-अङ्गेषु विशद-ज्ञानम् अस्ति, ये च मन्त्रे ऽत्यन्तं निष्ठाः।
उक्ति-निष्ठायाम् अधिकारिणस् ते येषां प्रपत्त्य्-अङ्गेषु स्थूल-ज्ञानम् (समुदाय-ज्ञानम्) अस्ति, अङ्गेषु तु सूक्ष्म-ज्ञानं नास्ति।
आचार्य-निष्ठायाम् अधिकारिणः - येषाम् अत्यल्पं ज्ञानम् - किञ्च मुक्तिं प्रार्थयितुं समर्थाः, यथा- बाला रुग्णाश् च।
“पुत्रः प्रेष्यस् तथा शिष्य
इत्य् एवञ् च निवेदयेत्”
(शाण्डिल्य-स्मृतिः 3-75.)
इति विहितो ऽयं विकल्पः।
भागवत-निष्ठायाम् अधिकारिणः - ये ऽत्यन्ताज्ञा अपि भागवतानुकूलाः, मूर्च्छिता, पशुनिभाः, पशवः।
मूर्छितस्य सन्ध्यावन्दनम् परकृतम् इवैतत्।
स्वनिष्ठा सम्भवति चेत्, नोक्तिनिष्ठा। सा सम्भवति चेत्, नाचार्यनिष्ठा।
सा सम्भवति चेत्, न भागवत-निष्ठा।
रामानुज-शिष्येषु रामानुजेन न सर्वत्राचार्य-निष्ठाऽनुसृता।
+इत्य् अहोबिल-परम्परा।
अनुष्ठेयता
मनो-भावनोत कर्म?
प्रपत्तिर् नाम कर्मानुष्ठेयम् एवेति वेदान्त-देशिकः।
दक्षिणकलार्याः केचिद् अङ्गीकुर्वन्ति, बहवो न।
तत्र तिरस्-कर्तृपक्ष एवम् -
स्व-रूप-विरुद्धं तत्।
कुत्र जीवस्य स्वातन्त्र्यम्?
तत्-परिहारः -
व्याज-मात्रं वापेक्षते भगवान् सम-दृष्टिः।
अल्पं कर्तृत्वं,
भगवद्-दत्त-स्वातन्त्र्यं च वर्तत एव जीवे।
स्वानुष्ठेयता
दक्षिण-कलार्याः केचिद् वदन्ति -
रामानुजेनैवास्मत्-पक्षतः प्रपत्तिः कृता -
पुनः प्रपदनस्यापेक्षा न।
अस्याधारेणातिशयोक्तिं वदन्ति रामानुज-कन्दाडैनामक-शिष्य-कृताम् -
यथा ऽद्रेर् अद्रिं प्लवता सिंहेन कृम्य् अपि गच्छति, तथा …
केचिद् दक्षिणकलार्याः
पञ्चभिस् संस्कारैर् वैष्णवीकरणम् एव् प्रपत्तिर्
यतस् तेन परम्परया प्रपन्नेन रामानुजेन सह सम्बन्धो जायते, तेन च मुक्तिर्
इति।
नम्पिळ्ळैकृतय् ईडु-ग्रन्थस्य +उपोद्घाते स्पष्टम्
“प्रपत्तिर् अनुष्ठेये"ति विचारो शठकोपाभिप्राय इति व्यक्तीकृतः,
तच् च व्याख्यात्रा वानमामलै-यतिना ऽप्य् अङ्गीकृता।
किन्तु तत्-कालीनं हि तद् इत्य् अर्वाचीनाः।
स्वयम् अनुष्ठेयम् इति त्व् अभियुक्ताः।
सकृत्-कार्यता
द्विर् भरसमर्पणं न शक्यते कर्तुम् -
सकृद् एव कस्यचिद् अपि वस्तुनः समर्पणार्हत्वात्।
कर्मण्य् अंशाः
- निवृत्ति-धर्मे साधारणा अंशा अन्यत्रोक्ताः।
- आराद्-उपकारकाण्य् अङ्गानि चाग्रे व्याख्यास्यन्ते।
अत्राङ्गी भर-न्यास - “मत्-कार्य-साधन-भरस् त्वयि” इति भावनम्।
अयम् एव स्फीतो मुमुक्षु-पक्षय् “आत्म-निक्षेपः” इति वक्ष्यते।
५ अङ्गानि
स्वरूप-त्यागः, फल-त्यागः - साधारण-निवृत्ति-धर्माङ्गेषु विचारितौ।
विशिष्टानि ५ +अङ्गानि -
आनुकूल्य-सङ्कल्पः +++(तदा)+++,
प्रातिकूल्यस्य+++(←तद्-अभिसन्धेस् तदा)+++ वर्जनम्,
कार्पण्यानुसन्धानम्,
गोप्तृत्व-वरणम्+++(=स्वाभिप्राय-निवेदनम्)+++,
तारयतीति महाविश्वासः।
विस्तारः (द्रष्टुं नोद्यम्)
‘‘आनुकूल्यस्य +++(तदा)+++ सङ्कल्पः
प्रातिकूल्यस्य +++(=तद्-अभिसन्धेस् तदा)+++ वर्जनम् ।
रक्षिष्यतीति विश्वासो
गोप्तृत्व-वरणं+++(=स्वाभिप्राय-निवेदनम्)+++ तथा ॥
आत्म-निक्षेप–कार्पण्ये
षड्-विधा शरणागतिः’’
इति पाद्मे, अहिर्बुध्न्य-संहितायां च मोक्षार्थ-प्रपत्ति-विषये।
अत्र +आत्म-निक्षेप इत्य् अङ्गी।
पर्याप्तता
पञ्चाङ्ग-प्रपत्तिर् अन्य-निरपेक्षेति -
‘‘प्रपत्तेः क्वचिद् अप्य् एवं
परापेक्षा न विद्यते ।
सा हि सर्वत्र सर्वेषां
सर्व-काम-फल-प्रदा॥’’
(सनत्कुमारसंहिता।)
ततः, प्रपत्ति-क्षणे न किञ्चिद् अन्यद् अपेक्षितम्।
अनुष्ठान-क्षणः
सर्वेषाम् एषाम् अङ्गत्वम् प्रपत्तिक्षणे हि, न पूर्वं पश्चाद् वा।
प्रपत्तेः पश्चात् तु भोग्यतया ऽनुवर्तेरन्।
महा-विश्वासः
सम्पादने क्लिष्टताम्, अधिकार-कोटाव् अप्य् अपेक्षां हृदि निधाय,
महाविश्वासस्याङ्गस्य प्रामुख्यम् उच्यते।
विश्वासः शास्त्राध्ययनतो जायेत, सत्सङ्गतो ऽपि वा।
संशय-प्राग्-अभाव एव विश्वासः।
स च यदि परिवर्ति-क्षणेष्व् अपि वर्तते, स महान् विश्वासः।
तद् एव सार-बोधिन्याम् - स्व+++(→विश्वास)+++-समानाधिकरण-संशय-प्रागभाव+++(स्य)+++- +असमान+++(→अग्रिम)+++-कालिकत्व-रूपम् महत्त्वम् इत्य् उक्तम्।
इम् महा-विश्वासम् उण्ड् आऩाल्
पिऩ्बु विमर्श-कालत्तिल्
ऒरुक् कालुम् संशयम् पिऱवादु।
आगैयाल् पिऩ्ब् ऒरुक् कालुम्
इव् विषयत्तिल् संशयम् पिऱवाद बडिय् आऩ
प्रथम-क्षणत्तिल् महा-विश्वासम्
प्रपत्तिक्क् अङ्गम्।
इति लक्षयति वेङ्कटनाथार्यः।
किञ्च दुष्कर्म-वशात् पश्चात् कुसङ्गादिभिर् विमर्शेतरकाले जात्वा वर्धेरन्न् एव संशयाः।
यथा कुम्भः पूर्णो ऽपि पश्चद् विघट्य रिच्येत,
न तु प्राक्-पूर्णत्वं तेन च निराक्रियेत,
तथात्र।
वैकल्याभावः
एकस्मिन्न् अप्य् अङ्गे स्वरूपे वैकल्ये सति,
अङ्गि-वैकल्यं सिद्धम्।
तदा प्रपत्तिर् न यथाऽपेक्ष-फला।
एवम् अङ्ग-ज्ञानात्यन्ताभावो वा, तत्-प्रयोग-वैमुख्यं वा - यत् किञ्चिल् लक्ष्यताम् - कर्म-घातकम् एव तत्।
विशिष्य गोप्तृत्व-वरणम्+++(=स्वाभिप्राय-निवेदनम्)+++, तारयतीति महाविश्वासश् च अविकलौ स्याताम्।
मुमुक्षुत्वं तस्मिन्न् अन्तर्-भवत्य् एव।
रक्ष्यम् अचेतनं चेद् रक्षकस् स्वयं रक्षेत् - स्वामी स्वगृहं यथा।
रक्ष्येण चेतनेन तु स-पुरुषार्थत्वात् स्वेष्टं निवेदनीयम् एव।
अपि च मुमुक्षुणा रक्षा-विशेष इष्यते, यस्मिन् रक्षा-साधारणम् अप्य् अन्तर्भवति।
तद् विशिष्य प्रार्थनीयम् - अन्त्यथा साधारणीम् एव रक्षां यथार्हं लभेत।
अतो लोकाचार्यानुयाय्य्-उक्तो मार्जाल-न्यायो विकलः।
आनुकूल्य-प्रातिकूल्ययोर् उचितस् सङ्कल्पो भवेत्।
तयोस् तु भगवत्य् ऐश्वर्य-ज्ञानम्, शेषित्व-ज्ञानं चान्तर्भवति,
यद्य् अपि तत् संस्कार-मात्र-जनितम्, स्थूलं च स्यात्।
यथा, “किम् भगवतोऽनुकूलम्, किम् प्रतिकूलम्” इत्यत्र भ्रमस् स्यात् - शास्त्राश्रद्धया ।
तथापि प्रपत्तिर् अविकला भवति - सङ्कल्प-पूर्णत्वात्।
शास्त्रोल्लङ्घने तु लघुर् बृहान् वा दण्डो भवत्य् एव।
कार्पण्ये शैथिल्यं न तावद् भवति -
अधिकाराङ्ग-भूताकिञ्चन्यानुसन्धानेन जायते।
अतः, तद्-अनुसन्धानं सरलम्।
भक्तियोग-साधन-भीरुतयैव प्रपत्तिः क्रियते।
अनन्य-शरणत्वं कदाचिन् न स्याच् चेद् अपि न हानिः - तद्-वैमुख्येनालम्।
“देवतान्तरम् अपि
तत्-प्रपन्नं भगवत्-सहकारेण तूर्णम् एव मोचयेद्”
इति चिन्तिते सति-
तत्
“ममाशक्ताव् अन्यो ऽपि मत्-पक्षतो ऽर्घ्य-प्रदानं कुर्याद्”
इतिवत्
कस्यचित् स्व-सम्बद्धस्य स्वाप्तस्य सहाय्य-याचने न बाधकम्।
मानसत्व-प्राधान्यम्
अत्र सर्वेष्व् अङ्गेषु मानस-व्यापारः प्रधानः।
कायिक-वाचिक-शक्त्योर् अभावे मानस-व्यापारमात्रेणालम्।
कायिक-वाचिक-शक्त्यां सत्याम्,
वास्तविक-मानस-भावे सति
तत्-परीवाहरूपेण कायिक-मानस-व्यापाराव् अवश्यम् भवतः।
अङ्गी - भर-समर्पणादि
मुमुक्षु-मात्र-सामान्यं
स्व-रूपादि-समर्पणम् ।
अ-किञ्चने +++(→प्रपन्ने)+++ भर-न्यासस्
त्व् अधिको ऽङ्गितया स्थितः ॥ २८-अ॥
अत्र रक्षा-भर-न्यासस्
समस् सर्व-फलार्थिनाम् +++(प्रपन्नानाम्)+++।
स्व-रूप-फल-निक्षेपस्
त्व् अधिको मोक्ष-काङ्क्षिणाम् ॥ २८-आ॥
इति वेङ्कटनाथः।
अग्रे मोक्षार्थ-प्रपत्ताव् अङ्ग्य् उच्यते।
पूर्वोक्तैस् स्वरूप-फल-कर्तृत्व-त्यागैस् सहात्र भर-समर्पणम् उक्तम्।
सर्वस्य प्रतिसम्बन्धी दिव्य-दम्पती एव।
साङ्ग-प्रपदनाधिकारे वेङ्कट-नाथार्यः (अनूदितः) -
स च सर्वेश्वरं प्रति —
आत्मात्मीय-रक्षण-व्यापारे, आत्मात्मीय-रक्षण-फले च
स्वाधीनतया स्वार्थतया च स्वस्यान्वयो यथा न स्यात्
तथा भर-न्यास-प्रधानो
ऽत्यन्त-पारतन्त्र्य-विशिष्ट-शेषत्वानुसन्धान-विशेषः।
प्रमाण-सङ्ग्रहः (द्रष्टुं नोद्यम्)
‘‘आत्मात्मीय-भर-न्यासो
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७९।) +++(5)+++
‘‘तेन संरक्ष्यमाणस्य
फले स्वाम्य-वियुक्तता ।
केशवार्पण-पर्यन्ता
ह्य् आत्म-निक्षेप उच्यते’’ (लक्ष्मीतन्त्रम् १७-७३।)
आराद् उपकारकम् / उपाङ्गम्
कर्म-मीमांसक-परिभाषायाम् आराद् उपकारकम् अप्य् अङ्गम् उच्यते।
इह तु सन्निहितोपकारकम् एवाङ्गम् उच्यते।
शिष्टम् अधिकार-घटकम् इति मन्तुं वरम्।
आचार्य-कटाक्षम्
इव्-विशिष्टम् आऩ पुरुष-कारादिगळ् अञ्जैयुम्
सद्-आचार्य-कटाक्ष-विशेषत्ताले तॆळिन्दवऩुक्क् अल्लदु
महा-विश्वासम् पिऱवादु
इति वेङ्कटनाथः।
घटनम् / पुरुष-कारः
यथापेक्षं घटक+++(=“पुरुष-कार”)+++-याचनम् उपाङ्गम् ।
इदम् मोक्षार्थ-प्रपत्तौ विशिष्य चोदितम्,
किञ्च न प्रपत्तेर् अङ्गम्।
मोक्षार्थप्रपत्तौ श्री-प्रपत्तिर् अनिवार्येत्य् आह वेङ्कटनाथार्यः, शौनकसंहिताम् उदाहृत्य -
“वाचः परं प्रार्थयिता
प्रपद्येन् नियतश् श्रियम्”
( शौनकसंहिता)
श्रीर् न केवलं पुरुषकाररूपेण,
अपि तु सिद्धोपायांशत्वेनाप्य् उपकरोति - सोऽंशः सिद्धोपायविभागय् उक्तः।
विस्तारः (द्रष्टुं नोद्यम्)
इप्पडि पुरुषकारभूतैयुम् आय्
सिद्धोपाय विशेषणमुम् आय्क् कॊण्डु
आश्रयिक्कप् पडुम्।
इति वेङ्कटनाथार्यः।
आचार्य-तति-स्मृतिः
आचार्य-ततेः स्मरणम् अपि तथा।
प्रपत्त्य्-अङ्गेषु स्वरूपे वैकल्ये सति वैफल्यम् एव।
तत्रोच्चारण-नमस्कारादि-रूपम् अङ्ग-स्वरूपेतर-वैकल्यं क्षामयत्य् आचार्य-तति-स्मृतिर् इति कश्चन पक्षः -
नाम, स्वस्मिन् परस्मिन् वा प्रीति-विशेषं जनयतीति।
बुद्धि-पूर्वकाङ्ग-स्वरूप-वैकल्ये सति
अविकल-प्रपत्त्य्-अन्तरेण सङ्ग्राह्य इति
भगवत्य् अभिनिवेशं वर्धयतीति च।
न त्व् अनेन
+अङ्ग-स्वरूप-वैकल्याभावेऽपि
प्रपत्तिः सफली क्रियतय्
इति भाव्यम् -
पञ्चाङ्ग-संयुत-प्रपत्तेर् अन्य-निरपेक्षत्व-प्रसिद्धेः।
बुद्धि-पूर्वकाङ्ग-स्वरूप-वैकल्य-मार्जकं न
आचार्यानुसन्धानं न साक्षाद् बुद्धि-पूर्वकाङ्ग-स्वरूप-वैकल्य-मार्जकम्।
अन्यथा तेषाम् अङ्गत्वानपेक्षा-प्रसङ्गस् स्यात्।
दृष्टान्तः - स्थाली-पाक-होमः करणीयः। स्थालीपाकम् अकृत्वा, आज्येन किञ्चिद् “अग्नये स्विष्टकृते स्वाहे"त्य् उक्तौ स्थालीपाकः साधितो वा?
अथवा स्थालीपाकाङ्गानि ज्ञात्वाऽपि “नाहम् आज्यसंस्कारादि करोमी"ति बुद्धिपूर्वकं कर्म साधयति चेत् तत् सफलं वा?
अस्मत्-सिद्धान्ते पूर्वोत्तरमीमांसयोर् ऐक-शास्त्र्याङ्गीकारतः,
यद् एकत्र साधु, तद् अन्यत्रापीति न्याय्यम्।
सम्प्रदाय-वचनानि
यामुन-स्तोत्र-रत्ने -
पितामहं नाथ-मुनिं विलोक्य
प्रसीद मद्-वृत्तम् अचिन्तयित्वा ॥
तद्-व्याख्याने वेङ्कटनाथार्यः -
‘स्वकृत-प्रपत्तेर् वैकल्यम् आशङ्क्य
पूर्ण-प्रपत्ति-निष्ठम् आचर्यं
स्व-रक्षणाय पुरस्करोति’इति पक्षेऽपि
मत्-प्रपत्तिर् विकला चेद्
अ-विकलां कुरुष्वेति तात्पर्यं ग्राह्यम् ।
आगैयाल्
इस् स्तोत्रत्तिल् आद्यन्तङ्गळिल् पण्णिऩ आचार्य पुरस्कारम्
इङ्ग् अरुळिच् चॆय्गिऱ प्रपत्तिक्क् अपेक्षितम् आय् आदल्
वैकल्य-परिहारार्थम् आय् आदल्
उपयुक्तम् आय् वन्ददित्तऩै।
इति वेङ्कटनाथार्यो रहस्य-त्रय-सारे चरम-श्लोकाधिकारे।
अत्र सारबोधिनी -
वैकल्यपरिहारार्थमायादलिति । प्रातिकूल्यवर्जनाद्यङ्गङ्गळिल् सम्भावितमाऩ वैकल्य परिहारार्थमायॆऩ्ऱबडि।
एवं सारास्वादिनी तद्-आशयेनैव -
प्रपत्त्य्-उपयुक्त-ज्ञान-वैकल्य-परिहारार्थम् ऎऩ्ऱ पडि।
न त्व् अत्यन्ताज्ञान-मार्जकम् आचार्यतत्य्-अनुसन्धानम्। अन्यथा ऽङ्गोपदेशादि व्यर्थम् एव स्यात्।
श्रियाम् पृथक् प्रपत्तिः
श्र्याः, नारायणस्य च - द्वयोर् अपि प्रपदने कृते हि “सकृद् एवे"ति वचनस्य पूर्तिर् भवति।
तच् च तन्त्रेणापि शक्यम्, व्यस्ततया ऽपि।
व्यस्तप्रयोगे पुरुषकारप्रार्थनायाः पूर्वं
श्र्य्-उपायार्थ-प्रपदनं क्रियते।
व्यस्तप्रयोग-पक्षं सूचयति शरणागतिगद्यव्याख्याने सुदर्शन-सूरिः -
यद्वा
“श्रियं प्रपद्य”
तत्-सन्निधौ मूल-मन्त्रेण +++(साक्षात्-)+++स्वरूपानुरूप-पुरुषार्थ-प्रार्थनं
तद्-उपाय-प्रार्थना-पर्यन्तं कृत्वा,“तद्-अनुज्ञया द्वयम् अनुसन्धीयत”
इति पूर्वाचार्यानुसन्धानम् अनुस्मरन्प्रथमं श्रियं प्रपद्यते +++(वक्ष्यमाण-पुरुषकारार्थं)+++ “भगवद्” इति ।
साफल्यम्
अविकला प्रपत्तिः सदा सफलम् भवतीति शास्त्रम्।
प्रायेण साक्षाद् एव सफलम् भवति।
विस्तारः (द्रष्टुं नोद्यम्)
‘सु-दुष्करेण शोचेद् यो
येन येनेष्ट-हेतुना ।
स स तस्याहम् एवेति
चरम-श्लेक-संग्रहः ॥ '
कदाचित् तु परम्परया प्रपत्त्य्-अन्तरं कालान्तरे जनयित्वा फलति। तादृश-वैफल्य-लिङ्गान्य् अन्यत्रोक्तानि ।
सुग्रीव-पुनः-प्रपत्तिः (द्रष्टुं नोद्यम्)
सुग्रीवो यदा हनुमच्-चोदितो रामम् प्राप्नोत्,
तदा तद्-उपदेशम् उपेक्ष्यानमस्कृत्य मैत्रि-हस्तं दत्तवान् (न नमोऽकरोत्)।
तस्य राम-सामर्थ्ये विश्वास एव नासीत्।
इयं तर्हि विकल-प्रपत्ति-निभा काचित्।
अतस् सुग्रीवो वालिना ताडितः प्रत्यागच्छत्।
तथापि, राम आचार्य-स्थानीय-हनुमत्य् अभिमानेन
तम् अत्यक्त्वा, सालवृक्षादिपातनैर् महाविश्वासं जनयित्वा प्रपत्तिं पूर्णां कारितवान्।
प्रलम्बीकृतभूषणो नमोऽकरोत्।
ततो हि वालिवधः - सफलया प्रपत्त्या।
वैफल्यम्
ब्रह्मास्त्रावमानः
प्रपत्तेः परम् उपायान्तर-ग्रहणे
प्रपत्तिर् ब्रह्मास्त्रावमान-न्यायेन नश्यति।
“राक्षसानाम् अविस्रंभाद्
आञ्जनेयस्य बन्धने ।
यथा विगलिता सद्यस्
त्वमोघाप्यस्त्रबन्धना ॥
तथा पुंसामविस्रंभात्
प्रपत्तिः प्रच्युता भवेत् ।
तस्माद्विस्रंभयुक्तानां
मुक्तिं दास्यति सा चिरात्”
( सनत्कुमार-संहिता)
भक्ति-योगादेर् उपायबुद्धिम् अन्तरा ऽनुष्ठाने न विरोधः।
नानेन महाविश्वासस्य प्रपत्त्युत्तरकाले ऽङ्गत्वं शङ्कनीयम् -
प्रपत्ति-क्षणे ह्य् अङ्गत्वम्।
प्रपत्ति-साधनम् भिन्नम्, प्रपत्ति-हानम् भिन्नम्।
अपि चोपायान्तर-परिग्रहे हि ब्रह्मास्त्रावमानः।
भागवतापचारः
“भागवतापचारः स्वनुष्ठिताम् प्रपत्तिं नाशयती"ति कथं प्रामाणिकम्?
विभिन्नैः प्रमाणैर् निग्रह-गौरवम् एवोक्तम् भवति खलु,
न तु “सकृद् एव प्रपन्नाये"ति प्रतिज्ञाया अपाकृतिः?
एवं दृप्तप्रपत्तौ मृत्युविलम्बनं स्यात्,
न तावत् पुनर्जन्म खलु?
इति चेत् - उत्सर्गापवाद-न्यायेन।
मोक्षेतरार्थे
मोक्षेतरार्था प्रपत्तिर् भगवति विफला भवति यदि
- शास्त्र-विरुद्धम्/ भक्तान्तर-विरुद्धम् इष्टम्
- तत्र जीव-स्वातन्त्र्य-विरुद्धम्, प्रकृति-विरुद्धम् अपि परिगण्यतय् इति केचित्।
- अनन्य-साध्यता/ कार्पण्यं नास्ति
- यथा - “वृक्षान् नारिकेलफलं स्वयम् आगत्याग्रे निपतत्व्” इति। एवं कारीरि-यागे सम्भवति, वृष्ट्यार्था प्रपत्तिर् न सिध्येत्।
- विलम्बाक्षमता मोक्षार्थ-प्रपत्ताव् एव योग्या, अन्यत्र नानन्य-साध्यतां सम्पादयति।
- भगवान् प्रार्थितं फलं याचकाहितायेति मन्यते।
दृश्यार्थ-प्रपत्तिः
दृश्यार्थ-प्रपत्तिर् यथा - आर्तप्रपत्तिः, बुद्धि-पूर्वकोत्तराघ-जनक-पाप-नाशनार्थं प्रपत्तिः, विशेषैश्वर्यादेः कृते प्रपत्तिः।
तस्याः प्रपत्तेः वैफल्यम् अनुमीयेत।
तत्र कारणं महाविश्वासाभावः (इष्टम् फलम् एव न मयि सम्भवतीति), अनन्य-गतिकताऽभावो वा स्यात्।
लोकास् तु प्रपत्तिर् नाम कर्मैव व्यर्थम् इति मन्येरन्।
तादृश-लोकापवाद-वारणार्थं हि
बहु परीक्ष्यैवाचार्या आर्तप्रपत्त्य्-अधिकारं निश्चिन्वन्ति।
स्वनिष्ठादौ गौण-फल-भेदः
(विशिष्य दृप्त-प्रपत्ति-पक्षे) जीवितावधाव् अधिकम् फलम्।
आचार्य-भक्ति-प्रदर्शनत ऐहिक-भगवत्-प्रीति-रूपय् उपफले भेदो वर्तते।
रामानुजार्येण तत्-परिवर्तिनां महताम् एव स्व-भरन्यास-समये प्रपत्तिः कारितेति,
पराशर-भट्टेनाप्य् आचार्य-निष्ठया प्रपन्नम्
इति मुनि-त्रय-सम्प्रदाये।
ततस् तत्र +आचार्य-निष्ठायाम् अधिका रतिः।
किञ्चैतद् गौण-फलम् अपि
केवलम् अनुमान-सिद्धम्, ऐतिह्य-सिद्धं वा,
न शास्त्र-सिद्धम्।
एवं कस्मिंश्चन गौण-फलय् अपेक्षिते,
वरा भिन्नैव प्रपत्तिः -
वेङ्कटनाथोक्ता प्रायश्चित्त-प्रपत्तिर् वा, पापारम्भक-पाप-हानार्था प्रपत्तिर् वा यथा।
यथा वा मुख्य-स्नानं कृत्वा
मन्त्र-स्नान-साध्यां जप-तुष्टिं लभेत।
अधिकारे सत्य् अपि
गौण-फल-लोभेन स्वनिष्ठाद्य्-अग्रहणे च प्रधान-फलस्यैव हानिर् इत्य् अपायः।
इत्य् आक्षिपन्त्य् अहोबिल-मतानुयायिनः।
अनुष्ठानम्
सामूहिक-प्रपत्तिः कार्यते ऽहोबिलादि-मठेषु २०२५-परिसरे।
सङ्कल्पे हि व्यत्यासः।
शरणागति-कारण-प्रार्थना-समये ऽधिकारि-विवेको भवति।
यदि समूहे कश्चित् तज्ज्ञः, तर्हि सर्वेषाम् उक्ति-निष्ठेति भात्य् अज्ञेभ्यः।
उक्तिनिष्ठायै १५ षष्टिक+++(=minutes)+++-कालापेक्षा।
तदा दीर्घतरं विवरणम्।
आचार्यनिष्ठायै २ षष्टिक-कालापेक्षा।
इदं श्रीवासेन सभ्रात्रा साक्षात्-कृतम्।
किन्तु नैवम् इति लक्ष्मीनरसिंहार्यः।
प्रामाण्यम्
- श्रुतौ
- “मुमुक्षुर् वै शरणम् अहम् प्रपद्ये” - श्वेताश्वतरोपनिषदि
- “ओम् इत्यात्मानं युञ्जीत” इति प्रणव-करणको न्यासः महानारायणोपनिषदि
- न्यास-विंशत्यादाव् इतराः
- ब्रह्मसूत्रेषु
- “नाना +++(उपास्य-गुण→)+++शब्दादि-भेदाद्” इति सूत्रय् “आदि”-शब्देन प्रपत्तिर् अपि गृह्यते।
- गीतायाम्
- “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। …”
- रामायणे
- “सकृद् एव प्रपन्नाय …”
- पाञ्चरात्रे
- वैखानसागमे
- द्राविडगाथासु
परकृत-प्रपत्तेस् साफल्ये प्रमाणम् - अशक्तस्य मूर्च्छितस्य वा सन्ध्यावन्दनादेर् अन्येनानुष्ठानस्य यथोपपत्तिर् मीमांसकैः।
स्वनिष्ठादौ प्रक्रिया-भेदः
गौण-फल-भेदे, व्यवस्थित-विकल्पतायाम् अधिकारे च विचारो ऽन्यत्र।
अस्य विस्तारो ऽत्र रहस्यत्रयसारे।
स्व-निष्ठा
अत्राचार्यं विना स्वयं शरणं प्रपद्यते जनः।
प्रयोगे प्रमाणानि
- शरणागति-गद्यम्।
- रहस्य-त्रय-सारे साङ्गप्रपदनाधिकारे “इदिल् साङ्गानुष्ठानम् आयऱ्ऱदु” इत्यादि । अत्र। तत्रैव सारबोधिनी द्रष्टव्या।
- वैकुण्ठदीक्षितस्य प्रपन्न-धर्म-सार-समुच्चये - पञ्च-संस्कार-प्रकरणे ऽङ्ग-प्रपत्ती रक्षामात्रार्था प्रोक्ता।
- वैखानस-प्रक्रिया - आह्निकामृते ऽत्र ।
प्रयोगः
- भर-निश्चयः
- मोक्षः, फल-प्राप्ति-कालः, अग्रे-पाप-वारणम् …
- अनुष्ठान-सङ्कल्पः
- सात्त्विकत्यागः
- कर्तृत्व-त्यागः, ममता-त्यागः, फल-त्यागः, साक्षात्-फलोपायत्व-त्यागः
- गुरुपरम्परोपसत्तिः
- श्रियां पुरुषकार-प्रपत्तिः
- आनुकूल्य-सङ्कल्पाद्य्–अङ्गक-भर-समर्पण-रूपाङ्ग्य्-अनुष्ठानम्
वेङ्कटनाथार्येण साङ्ग-प्रपदनाधिकारय् अङ्ग्य्-अनुष्ठान-प्रकार उक्तः।
तस्य सङ्क्षेपोऽपि तत्रैव -
अत्र साङ्गानुष्ठानतया निष्कृष्टं तावत् -
कर्तुत्व-त्याग–ममता-त्याग+++(=स्वरूप-त्याग)+++– फल-त्याग–+++(साक्षात्-)+++फलोपायत्व-त्याग-पूर्वकं
आनुकूल्य-संकल्पाद्य्-अर्थानुसन्धानेन सह
+++(श्री-सहित-)+++गुरु-परम्परोपसत्ति-पूर्वक+++(अनुष्ठाने पूर्वम् एव)+++–द्वय-वचन-मुखेन
स्व-रूप–फल-न्यास–गर्भात्म-रक्षा–भर-समर्पण-करणम् ।
तत्र वात्स्यवरद-सङ्ग्रहोऽपि दत्तः -
अनादिकालात् भवद्-अनिष्टाचरणात् संसृतवान् अस्मि,
अद्य-प्रभृति अनुकूलो वर्तेय,
प्रतिकूलाचरणं न कुर्याम्।
भवत्-प्राप्त्य्-अर्थं मद्-धस्ते किम् अपि मूलधनं नास्ति।
भवन्तम् एवोपायतया निरचैषम्।
भवान् एवोपायो भवतु।
अनिष्ट-निवृत्ताव् इष्ट-प्राप्तौ वा
ममेतः परं किं भरोऽस्ति?
अत्र प्रायेण भावना-प्रधानान्य् एवाङ्गानि -
तत्-परीवाहरूपेण हि शरीर-व्यापारः।
स्वाभिप्राय-निवेदने हि शरीर-व्यापारो विशिष्य दृश्येत।
द्वय-वचनेन नालम्
द्वये कुत्रोच्यते - “वर्तमान-शरीरावसाने मां संसारान् मोचये"ति?
अथवा द्वये सर्वम् अस्तीति स्वीक्रियताम्। अथापि महाविश्वासाभावेन द्वयय् उक्ते सति प्रपत्तिर् न फलति खलु? एवम् एव, द्वये ऽङ्गान्तरोपदेशे सत्य् अपि, द्वय-वचनमात्रेण न प्रपत्तिः पूर्णाङ्गा।
भाष्यकारेण स्वीय-प्रपत्ति-प्रयोगो न प्रकाशितः - तस्य रहस्यत्वात्। प्रत्युत स्थूलांशा एव दर्शिताः खलु।
यदि तज्-जप-मात्रेण प्रपत्तिर् इति, हन्त तर्हि समाश्रयणस्यापि काऽपेक्षा - बाला अपि पठन्त्य् एव।
अयम् एव न्यायः “शरणागति-गद्य-वचन-मात्रेण सर्वं सिध्यती"त्य्-अत्रापि घटते।
किञ्च - आत्म-निवेदन-वाक्यं करण-मन्त्रो वा ऽन्यो ऽपि स्याद् इत्यत्र नास्ति विरोधः।
आराधनाङ्गप्रपत्तिरपि वैकल्यम् एव स्यात् ।
इति चेत् - स्याद् एव - तत्रापि नास्ति विरोधः। किं सर्वेषु नित्याराधकेषु तत्रोक्तम् फलं दृश्यते? प्रायेण विफलम् इत्य् एव प्रत्यक्षम्।
लक्ष्याणि
रामानुजेन रङ्गनाथ-रथोत्सवय् एवं कृतम्। रचितं शरणागति-गद्यम्।
गजेन्द्र-द्रौपदी-त्रिजटा-विभीषणादिभिर् आत्म-निक्षेपः कृतो वाचा (यथा ऽस्माभिर् इतरैः) -
ततः जजाप, समभाषत, … इति क्रियापदानि वर्तन्ते, “शरणं गतः”, “प्रपन्नः/ प्रपन्ना” इति शब्दाश् च।
कोऴियाळ-रङ्ग-रामानुजः - Arta prapatti to thirumalai perumal coz his disciples doubted such a thing is there. he kept 7 days time. (Time it takes to go to his native). But they got stuck in middle due to rain or something, and he passed away on 7th day without getting to his town.
२०१२ इति वर्षे पॆरुक्कारणै-चक्रवर्त्याचार्य इत्यनेनाप्य् एवं कृतम् महाविदुषा।
उक्ति-निष्ठा
आचार्यो जीवेन वादयति।
रहस्य-त्रय-सारे सारास्वादिन्य्-उद्धृता सार-प्रकाशिका-
‘‘एतद् उक्तं भवति ।
सकल-शास्त्र-सारतमे रहस्य-त्रये
मुमुक्षुभिर् अवश्य-ज्ञातव्यार्थ-पञ्चकस्य स-प्रकारस्य प्रतिपादकत्व-प्रकार-विशेषाभिज्ञाऽऽचार्येण‘‘परः पद्माकान्तः, प्रणिपतनम् अस्मिन् हिततमं,
शुभस् तत्-सङ्कल्पश्, चुलकयति संसार-जलधिम् ।
झटित्य् एवं प्रज्ञाम् उपजनयता केनचिद् असाव्
अविद्या-वेतालीम् अतिपतति मन्त्रेण पुरुषः’’इत्य्-आदिवत् संग्रहेणोपदेश-पूर्वकं भगवत्-सन्निधौ
त्वद्-एक-निरुपाधिक-शेष-भूतोऽहं,
त्वद्-अनुकूलस् स्यां, प्रातिकूल्य-वर्जितश् च,
त्वद्-व्यतिरेकेण मम रक्षकान्तरं नास्ति,
त्वम् एव गोपायिता भव,
मद्-रक्षण-भरस् तवैवइत्य् अनुसन्दधानः
“द्वयम् अप्य् उच्चारये"त्य् उक्ते
महाविश्वास-पूर्वकं तथानुसन्दधानस्य द्वय-वचनं मुक्तिरूपोपाय…’’
अभिमानान्तर्भावे SV
When you mean someone is attaining mukti by X acharya sambandham, it means that they r directly or indirectly using words of that acharya.
In vyakhyanam of 6.10.11 Nampillai tells all sambandhis of Nammazhwar get mukti. And method is to recite these pasurams of Nammazhwar sharanagati and become “antarbhUtas” of his prapatti.
In same way as all SVs use verses of gadyam only today, all can be taken as “antarbhUtas” of ramanuja abhimana.
Ig this is what ppl meant early on, and it became misunderstood
आचार्य-निष्ठा
अत्राचार्यः स्वयं जीवं प्रपन्नं निवेदयति।
(आचार्यनिष्ठया प्रपत्तौ
शिष्य-पापांशो गुरौ सङ्क्रामतीति प्रवादो
न प्रामाणिकः।)
मुनित्रय-सम्प्रदायय् आचार्य-वरणम्
Bharanyasam was generally taken from the most exalted acharya of the generation. so gopalarya mahadesikans times saw most of the svayamacharya families undergo bharanyasam with him.
There are thozhappachars who have remained outside gopalarya tradition. But then they have taken bharanyasam from parakala matha in past.
- Ravilochana
Also many sought Vazhur Andavan and Periyandavan, especially the latter. Many great scholars sought him after this incident (Tirupputkuzhi Swamy taking bharanyAsa). Until then he was relatively unknown as he shyed away from sadases and didn’t particularly do any kalakshepam etc. People even thought he was not that erudite. This was before Andavan Ashramam was formed as an organization. Until then the 3 sanyasis of this parampara (Vazhutur-Tirutturaipundi-Periya-andavans) lived on the banks of the Kaveri sleeping under bushes mostly.
- Vijay
लोकाचार्य-शाखायाम्
PL himself tells that acharya abhimanam means acharya does prapatti for shishya.
इति SV।
विस्तारः (द्रष्टुं नोद्यम्)
अदु तान् कडगत्व उपायत्व-भेदेन द्विविधम्।
कडगत्वम् आवदु तिरुत्तिप् पणि-गॊळ्ळुगैक्कु
योग्यर् आऩ् अवरै
‘संवत्सरं तदर्धं वा
मासत्रयम् अथापि वा’
ऎण्ड्रु हृदयत्तै परीक्षित्तु
अवर्गळ् प्रकृति-वासना-रुचिगळ् तलै मडिन्दु+++(=नमयित्वा)+++
परमार्थर् आऩ बडियैक् कण्डु
अनन्य-प्रयोजनर् आय् मङ्गळाशासन-परर् आवर् ऎण्ड्रु तोट्र बिन्बु
अवनै शरण-वरणम् पण्णु वैत्तु
स्वरूपानुरूपम् आग नडक्कुम् बडि शिक्षित्तुक् कॊण्डु पोरुगै।
उपायत्वम् आवदु, स्वरूपानुरूपम् आन वृत्ति-विशेषङ्गळैच् चॊन्नाल्
अऱिय-तक्क ज्ञान-वैषद्यमुम्
अनुष्टिक्क-तक्क शक्तियुम् इल्लाद बाल-मूक-जडान्ध-पङ्गु-बधिरादिगळ् भगवन्-निर्हेतुक-कटाक्ष-प्रसरणम् उण्ड् आय्
सांसारिक-कर्म-प्रवृत्तियिल् विरक्तियुम्
जन्म-जरा-मरणादि शोकङ्गळिल् भीतियुम् जनित्तु
आर्तर् आनव् इवरै कैक् कॊण्डु
दया-पर-वशर् आय् ज्ञानानुष्ठानोपदेश-योग्यतैय् इल्लामैयाले
अवर्गळुक्क् आग तामे शरण-वरणम् पण्णि
औषध-सेवा-योग्यतैय् इल्लाद स्तनन्दय-प्रजैक्कु
व्याधिय् उण्डनाल् तान् औषधसेवैप् पण्णि
तन् स्तन्य-पानत्ताले रोगत्तै निवृत्तिप्पिक्कुम् मातावैप् पोले
इवर्गळैत् ताम् अभिमानित्तु
तम्मुडैय तीर्थ-प्रसाद-सेवामाहात्म्यत्ताले
इवर्गळ् संसाराद् उत्तीर्णर् आम् पडि पण्णुगै॥
- इत्य् ऎरुम्बियप्पेन विलक्षण-मोक्षाधिकारि-निर्णये।
तत्र साम्प्रतानुष्ठान-विचारो ऽन्यत्र ।
भागवत-निष्ठा
अप्रार्थित एव सज्-जन आचार्येण निवेद्यते रक्षणार्थं भगवन्तम् प्रति।
उत्तर-कृत्यम्
विस्तारो ऽस्यान्यत्र ।
निर्याणम्
अन्तिम-शरीरान् निर्याणं रहस्य-त्रय-सारे निर्याणाधिकारे वर्णितम्।
अन्तिम-स्मृतिर् मोक्ष्यमाणानां सर्वेषाम् भवति।
‘‘यं योगिनः प्राण-वियोग-काले
यत्नेन चित्ते विनिवेशयन्ति’’
(भारतम् शान्ति-पर्व ४६-१४३)
इत्य्-अनेन भक्तैर् एतत् साध्यम्।
किञ्च प्रपन्नेभ्यष् स्वयं भगवान् ददाति।
तच् चान्यैर् न ज्ञातुं शक्यते-
इन्द्रियाणां मनसि सङ्ग्रात् परं घटनात्।