गौडीयैर् अङ्गीकृतस्य नित्यकर्मत्यागस्य
वैष्णवम् प्रत्याख्यानं किञ्चन
सतां रञ्जनायात्र प्रस्तुतम् ।
गौडीय-पक्षः
महाभक्तैः नित्य-नैमित्तिक-कर्म-हानम् उक्तं गौडीय-गुरुभिः।
तस्य विस्तारः, आकराश् चात्र दीयन्ते।
सारो ऽधः “सम्भ्रमः” इति विभागे सुलभः।
प्राचीनाः
जीवगोस्वामी
नित्य-नैमित्तिक-कर्म-त्यागः
भक्ति-सन्दर्भे १७३-तमे ऽनुच्छेदे -
“तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते”
[भा।पु। ११.२०.९]कर्माणि नित्य-नैमित्तिकादीनि इति टीका च । अत एव—
श्रुति-स्मृती ममैवाज्ञे
यस् ते उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्वेषी
मद्-भक्तोऽपि न वैष्णवः ॥इत्य् उक्त-दोषोऽप्य् अत्र नास्ति,
+++(“तावत् कुर्वीते"त्य्)+++ आज्ञा-करणात् ।
प्रत्युत जातयोर् अपि निर्वेद-श्रद्धयोस्
तत्-करण एवाज्ञा-भङ्गः स्यात् ।… अतो भक्त्य्-आरम्भ एव तु स्वरूपत एव कर्म-त्यागः कर्तव्यः ।
परित्यज्य इत्य् अत्र परि-शब्दस्य हि तथैवार्थः ।
लोकसङ्ग्रहाय क्रियाशीलता
लोकसङ्ग्रहार्थम् वापि कार्यम् इति प्रतिष्ठितानाम् एव निर्बन्धः,
यथा प्रमेय-रत्नावल्याम्
लोक-सङ्ग्रहम् अन्विच्छन्
नित्य-नैमित्तिकं बुधः ।
प्रतिष्ठितश् चरेत् कर्म
भक्ति-प्राधान्यम् अत्यजन् ॥ ७ ॥
तत्र कान्तिमाला-टीका स्पष्टयति -
आश्रमस्थः प्रतिष्ठितो
लब्ध-महद्-आसनश् चेत् ॥
Meaning - even the lokasangraha compulsion is directed at influential people only.
किञ्च लोकसङ्ग्रह-निर्बन्धो बलवान् एवेति -
यत् तु
यः स्मरेत् पुण्डरीकाक्षं
स बाह्याभ्यन्तर-शुचिः[ग।पु।]इत्य्-आदौ
श्रद्दधाना अपि
स्नानादिकम् आचरन्ति,
तत् खलु श्रीमन्-नारद-व्यासादि-सत्-परम्पराचार-गौरवाद् एव ।
अन्यथा तद्-अतिक्रमेऽप्य् अपराधः स्यात् ।
ते च तथा मर्यादां
लोकस्य कदर्य-वृत्त्य्-आदि-निरोधायैव स्थापितवन्त
इति ज्ञेयम् ।
शुद्धि-सम्पादनाय क्रियाशीलता
किं च, जातायां श्रद्धायां
सिद्धाव् असिद्धौ च
स्वर्ण-सिद्धि-लिप्सोर् इव
सदा तद्-अनुवृत्ति-चेष्टैव स्यात् ।
सिद्धिश् चात्रान्तःकरण-कामादि-दोष-क्षय-कारि–
परमानन्द-परम-काष्ठा-गामि–
श्री-हरि-स्फुरण-रूपैव ज्ञेया ।
महा-भागवतापचार-वारणाय क्रियाशीलता
न सुतरां ज्ञान-पूर्वकं महद्-अवज्ञादयोऽपराधाश् चापतन्ति,
विरोधाद् एव ।
अत एव चित्रकेतोः श्री-महादेवापराधस्
तस्य स्व-चेष्टान्तरेणाच्छन्न-स्वभावस्य भागवतत्वाज्ञानाद् एव मन्तव्यः ।
श्रद्धा
“किम् ओषधेस् स्थाने भगवत्-पाद-तीर्थम् अवलम्बते?” इत्यादिभिः श्रद्धा-पूर्णता मानम् उक्तम्।
सूक्ष्मा-टीकायाम् विशिष्य लोकसङ्ग्रहकृत्सु श्रद्धा-शब्देन भगवद्-आज्ञाऽऽदरो व्यपदिश्यते।
विस्तारः (द्रष्टुं नोद्यम्)
सूक्ष्मा - टीका - अनभिभवम् इति । सर्वमिति ।
एष ब्रह्मनिष्ठपुरुषः सर्वं पाप्मानं स्वधर्मा+++(न)+++नुष्ठान-जनितं प्रत्यवायं तरति ब्रह्म-निष्ठा-प्रभावेणोल्लङ्घयति ।
तपति तद्-रूपेणाग्निना - भस्मीकरोति ।
एनं ब्रह्म-निष्ठम् ।
तल्-लक्षणः पाप्मा न तरति न व्याप्नोति न तपति स्वनिमित्तेन - दुःखाग्निना न दहतीत्यर्थः ।
तादृशेन वर्णाश्रम-धर्मवता ।
तद्-आराधनं भगवद्-अर्च्चनम्।
तत्तोषकं भगवत्-परितोषकारि ।
पूर्वत्रेति । वर्णाश्रमाचारवतेति वाक्यात् प्राग् इत्यर्थः । एतदिति ।
यज्ञेशाच्युतादि नाम-वृन्दं परं
केवलं तदर्थं तद्वाच्यं हरिं
विनान्यत् किञ्चित् नाचिन्तयत् । तत्राहुः । परिनिष्ठितैर् आश्रम-कर्माणि न कार्याणि ।“तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते”
(श्रीमद्भा• ११/२०/९)इति तद्-अनुष्ठितेर् हरि-भक्ति-श्रद्ध-बाधत्व-स्मरणात् ।
“आज्ञायैव गुणान् दोषान्
मया ऽऽदिष्टान् अपि स्वकान् ।
धर्मान् संत्यज्य यः सर्वान्
मां भजेत् स च सत्तमः । " (श्रीमद्भा० ११/११/३२)इति स्वरूपतस् तत्-त्याग-स्मरणाच् चेति -
सत्यमेतत् तथापि लोक-संग्रहाय तैस् तानि कार्याण्य् एवलोकसंग्रहम् एवापि
संपश्यन् कर्तुम् अर्हसि”इतिस्मरणात् ।
न च श्रद्धाविरहात् तामसं तद्-अनुष्ठानम् इति वाच्यं -
भगवद्-आज्ञप्तत्वेन तत्रापि तस्याः सत्त्वात्।
स्व-रूपतस् तत्-तत्-कर्मणां संत्यागे
तत्-तद्-आश्रम-चिह्न-धृति-धर्म-वर्जित्वाय कल्प्येत ।
गृहिपरिनिष्ठितानां वैवाहिक-विधिम् अन्तरा दार-स्वीकारे पारदारिकत्वाद्य्-आपत्तिश् च ।
तस्मात् गौण-काले लोक-संग्रहाय
तद्-अनुष्ठानम् इति सुष्ठूक्तम्।
यद्येषां भक्त्य्-अभिनिवेशात् कदाचित् कर्मानुष्ठानं न स्यात्
तदापि न क्षतिः ।" मत्कर्म कुर्वतां पुंसां
क्रियालोपो भवेद्यदि ।
तेषां कर्माणि कुर्वन्ति
तिस्रः कोट्यो महर्षयः"इति
सम्भ्रमः
नित्य-नैमित्तिक-कर्मादि त्याज्यं वा न वा?
- एषु न त्याज्यम्
- अजात-श्रद्धेषु
- जात-श्रद्धेषु
- प्रतिष्ठितेषु (लोकसङ्ग्रहकृत्सु)
- वैशिष्ट्यकामेषु (“स्वर्ण-सिद्धि-लिप्सोर् इव सदा तद्-अनुवृत्ति-चेष्टैव …”)
- महद्-अपराध-विवारयिषुषु (“अत एव चित्रकेतोः श्री-महादेवापराधस् …”)
- एषु त्याज्यम्
- जात-श्रद्धेष्व् अप्रतिष्ठितेषु
अजात-श्रद्धेषु श्रद्धाङ्कुरवत्सु तु (भविष्ये?) नित्य-नैमित्तिक-कर्मादि-त्यागो बोधनीयः (“स्वयं निःश्रेयसं विद्वान् …”, “जुगुप्सितं धर्म-कृते ऽनुशासतः …” ) ।
इत्थं श्रद्धायां जातायाम् अजातायां वा महान् सम्भ्रमः -
अस्य जनस्य श्रद्धा ऽस्ति न वा?
किम् ओषधेस् स्थाने भगवत्-पाद-तीर्थम् अवलम्बते?
नास्ति चेत् श्रद्धाङ्कुरम् अस्ति प्राचीनसंस्कारतः?कर्म त्याज्यं न वा? कदा?
अहम् समाजे प्रतिष्ठितः?
कर्मस्व् अनुवर्ते चेन् मम दोषो भवति वा? अहं कर्मण्य् अधिकारी वा?
इत्यादौ।
विश्वनाथ-चक्रवर्ती
तेन लोक-सड्ग्रहार्थम्
अश्रद्धया ऽपि पित्रादि-श्राद्धं कुर्वतां महानुभावानां
शुद्ध-भक्तौ नाव्याप्तिः।
सनातन-गोस्वामी
सदाचारं विना पापेन चित्ते मलिने सति भक्तौ प्रवृत्तिरपि न स्याद् ।
(Bṛhad Bhāgavatāmṛta-ṭīkā: 2.3.171)“Without sadācāra, when the mind is contaminated by pāpa, then even inclination for bhakti cannot come about.”
इति साधारणावस्थायां सदाचारः प्रशस्यते।
अर्वाचीनाः
सर्व-कर्म-त्याग-पक्षः
“A bhakta has no faith in varṇāśrama duties.”
“Bhakti is totally different from varṇāśrama dharma in its very svarūpa.”
Source: T. kRShNa-dAsaH
“bhakti destroys prArabdha karma”
Source: T. kRShNa-dAsaH
(It seems that the post author has gone well beyond what rUpa and jIva say.
eg. “Śrī Rūpa has defined prārabdha” - no he just pointed out one prArabdha. It’s implied that not all prArabdha-s are destroyed.
)
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मत: ॥cancels out the possibility of pratyavAya doSha existing for an ekAntin, however still he should do it for LS.
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥
The main concept here is that Bhakti alone is capable enough to bestow all auspiciousness there is no necessity to depend on karma etc.
Bhagavan gives another statement here which is visheSha(as against sAmAnya in case of ordinary dhArmikas), now if pratyAvaya bhaiya remains after this, then that is agya-ullanghana
काम्य-कर्म-त्याग-पक्षः
There is no prominent “vaDakalai” type faction among gauDIya-s.
षट्-सन्दर्भ-हिन्दी-व्यख्याता हरि-दास-बाबा-वर्यस् तु तस्मात् पक्षाद् बिभ्यन्न् इव
कर्म-त्यागक्तिषु काम्य-कर्म-त्यागं वदति,
यथा भक्ति-सन्दर्भे १७६-तमेऽनुच्छेदे (काम्य-शब्देन साधारणतय नित्य-नैमित्तिक-भिन्नानि कर्माण्य् उच्यन्ते)-
काम्य कर्म के फल में आसक्त (कर्म-सङ्गिनाम्), काम्य कर्मादि में अनधिकार (कर्माद्य्-अनधिकारश् चेति) , काम्य कर्मादि शून्य (सर्व-धर्मोज्झिता), काम्य कर्म परित्याग (कर्म-त्यागः कर्तव्यः), काम्य कर्मत्याग (त्यक्त-कर्मणः), काम्य कर्म त्याग (कर्म-परित्याग)।
किञ्च हन्त - मूले स्वरूपतो हि निरनुतापो नित्य-नैमित्तिक-कर्म-त्याग उक्तः ("कर्माणि नित्य-नैमित्तिकादीनि")।
प्रत्युक्तिः
धर्म-परित्याग-वचनानि
धर्म-परित्याग-वचनान्य् एवम् ऋजुतरं स्वारस्येनावगम्यन्ते।
सम्भ्रमो दोष-सूचकः।
The karma-dharma-tyAga conception of bhakti itself is incorrect. What would you say about the bhakti of a servant who refuses to obey your express commands and praises you instead?
Even in gIta bhagavAn says “sarva-dharmAn parityajya” without asking arjuna to abondon the fight (<- tAmasika-tyAga).
“तावत् कर्माणि कुर्वीत
न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा
श्रद्धा यावन् न जायते”
In such verses, karma/ dharma should be taken to refer to various non nitya karmas.
Particularly, rAmAnuja takes such verses to refer to “karma-yoga” - which is understood to be daily scheduled performance of specific services to the Lord - separate from nitya-naimittika-karma-s
(where there is no question of abandonment by any dhArmika).
Even non-forbidden kAmya-karma-s, without attachment to the fruit or primary doership, is allowed.
(यत्राकरणे प्रत्यवायाभावः, करणे ऽभ्युदयो यत्र, तद् अनिषिद्धं काम्यं कर्म। यथा - देवालय-गमनादि।)
This approach is far simpler to understand, defend and practice compared to the confusion and complexity of the approach proposed by bhakti-sandarbha 173. The decision tree instead would be:
सर्वैर् अपि नित्य-नैमित्तिक-कर्माण्य् अवश्यम् अनुष्ठेयानि।
वर्णाश्रमधर्मो न त्याज्यः - योद्धव्यम् एवार्जुनेन।
कर्म-योगस् त्याज्यो वा न वा?
कस्मिन्न् अपि त्याज्यम् इति प्रतिबन्धो नास्ति (अतोऽनुवर्तने न हानिः)।
एषु तु न त्याज्यम् एव -
- ज्ञान-भक्ति-योगयोर् अनर्हेषु।
- ज्ञान-योगे ऽर्हेषु सुप्रतिष्ठितेषु (लोकसङ्ग्रहार्थम्)
अत्रैतावान् एव विचारः भक्तियोग-मार्गगश् चेत् -
मया ऽऽत्म-साक्षात्कारो लब्धः? शरीर-सम्बद्ध-पुत्रादिभिर् न मुह्यामि?
अहम् समाजे प्रतिष्ठितः?
शरणागति-मार्ग-ग्राहिषु सा ऽपि चिन्ता नास्ति।
लोक-सङ्ग्रह-विषयः
Indeed, even this karma yoga (not nitya-naimittika) is urged on to jNAna-yogins for loka-sangraha/ guidance of karma-yogins in -
सक्ताः कर्मण्य् अ-विद्वांसो
यथा कुर्वन्ति भारत।
कुर्याद् +++(ज्ञान-योग-निष्ठो)+++ विद्वांस् तथा ऽसक्तश्
चिकीर्षुर् लोक-संग्रहम्॥3.25॥
If in a forest (no lokasangraha),
should one do nitya-karma? Yes.
न स्व-धर्म-त्यागः प्रशस्तः
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वा ऽभद्रम् अभूद् अमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः ॥
does not impel svadharma-tyAga. The hierarchy is -
भजन् स्वधर्मकर्ता > भजन् स्वधर्मत्यक्ता (>?) अभजन् स्वधर्मकर्ता > अभजन् स्वधर्मत्यक्ता
It only expresses the भजन् स्वधर्मत्यक्ता , अभजन् स्वधर्मकर्ता ambiguity. It doesn’t say: भजन् स्वधर्मकर्ता = भजन् स्वधर्मत्यक्ता .
People mistake relative statement for absolute; and consolation for approval. For, if he is “sinless”, whence the “fall”?
Reconciliation technique
sAmAnya-visheSha-vyavasthA is indeed a good way to resolve the verse conflict -
however, it is superior to make the differentiation in action (as SV-s have done), rather than the performer (as gauDIya-s have done).
भक्तेष्व् अपि प्रत्यवाय-सद्भावः
vedAntadeshika would say - disobeying AjNA is contrary to sharaNAgati, and will have consequences - albeit smaller.
What is the nature of pratyavAya if not nigraha by bhagavAn?
Should a bhAgavata not fear it?
आज्ञाकैङ्कर्य-स्थाने/काले (eg nityakarma) ऽनुज्ञाकैङ्कर्यं (eg bhajana) न भक्त/शरणागत-योग्यम्।
What’s pratyavAya of भजन् स्वधर्मत्यक्ता relative to भजन् स्वधर्मकर्ता? delay in mukti - expressed in
न हि कल्याण-कृत् कश्चिद्
दुर्गतिं तात गच्छति ।
प्राप्य पुण्यकृतां लोकान्
उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे
योग-भ्रष्टोऽभिजायते ॥
etc..
अज्ञानेन कर्म-स्खालित्यम्
a Bhakta doing something which is called nitya-lIlAsmaraNam(a practice in sampradaya), which is dhyana of Bhagavadlila, and is an act of Bhakti, if it goes for a long time where the bhakta has no sense of time.. He misses his nitya karmas, he will not think that he has attained dosha, since He was performing bhakti.
That case would be subsumed under “yathA-shakti"ness of nitya-karmas,
and does not contradict the compulsory nature of nitya-karmas.
अत्यन्त-भक्ति-युक्तानां
नैव शास्त्रं न च क्रमः॥
इति श्लोको ऽसकृद् उद्धृतः श्रीवैष्णवैर् अपि।
उत्तमूर्-वीरराघवार्य आह -
यो हि युक्तो बहु-तिथं कालं ध्यानेनैवातिवाहयितुम् अलम्-भविष्णुः,
तस्य बाह्य-कर्म-स्फूर्त्य्-अप्रसक्तेर् +++(→ततः शक्त्यभावत्, यथाशक्त्य्-अनुष्ठेयानाम्)+++ अननुष्ठानं प्राप्तम्
इष्यत एव।
योगात् व्युत्थितास् तु न त्यक्तुम् अर्हन्ति।
श्रद्धया कार्यत्वम्
न च कृष्णो “अश्रद्धया युद्ध्यस्वार्जुन” +इति ब्रूते।
गौडीय-सूक्ष्मा-टीकायाम् अपि श्रद्धा-शब्देन भगवद्-आज्ञाऽऽदरो व्यपदिश्यते।
अतो येन केनापि श्रद्धार्थ-ग्रहणेन
लोकसङ्ग्रहार्थम् अपि क्रियमाणं कर्म सश्रद्धम् एव सन्तिष्ठते।
शृति-स्मृत्योर् वैष्णवत्वम्
Other flaws aside, jIva should’ve applied his own logic properly:
अथ यदि वैष्णव-शास्त्रोक्तौ तौ,
तर्हि विष्णु-सन्तोषैक-प्रयोजनाव् एव भवतः ।
तयोश् च तादृशत्वे श्रुते सति
तदीय-राग-रुचिमतः
स्वत एव प्रवृत्त्य्-अप्रवृत्ती स्याताम् -
तत्-सन्तोषैक-जीवनत्वात् प्रीति-जातेः ।
Why didn’t it occur to him that
shruti and smRti are vaiShNava-shAstra-s only!?
bhagavAn and service to him is the essence of all shruti and smRti.
Hence, nityakarmas (unlike kAmyas) therein are instructions to “paramaikAntins” only (ममैवाज्ञा), even if via indra, agni, rudra & co. Obv excludes tAmasika-shAstras.
If bhakti were perfected, the bhakta would certainly perform svadharma to the best of his abilities.
मायावाद-प्रभावः
shrIdhara-svAmI’s TIKA of bhAgavata forms the basis of gauDIya commentaries. Hence, their karma-tyAga views are consistent with mAyAvAda.
shrIdharI is not more natural at all. It’s more a lazy annotation, rather than a proper commentary (many a time he explains one word in a verse and leaves it).
Early commentators likely did not have access to - say - vIrarAghava’s bhAgavata commentary (0 hits in ShaT-sandarbha).
गौडीय-प्रशंसा
Despite flaws, the gauDIya-s should be credited for getting many things right.
Even the flaws are not exclusive to them - there were confused pre-gauDIya “bhakta”-s (including part of the tenkalai sect).
Indeed, gauDIya-s (esp ISKCON) are heroes in spreading bhagavad-bhakti among folks cut off from sat-sampradAyas.
Disclaimer: If one disagrees with sayings of any AchArya, it is ok to say that he was confused, did not get it right etc.. That doesn’t count as a personal attack (as in “that AchArya was a charlatan/ cheat/ lecher etc..” ) . It’s centered on ideas, rather than the person.