आराधनम्, धर्मः

आराधनम्, कैङ्कर्यम्

शेषस्य शेषिणि बुद्धिपूर्वकम् अतिशयाधानम् एवाराधनम्, तद्-उपयोगितया ऽबुद्धिपूर्वकम् अपि।
किंकरः पुनःपुनः पृच्छति - “किं करवाणी"ति।
तद्-भावः कैङ्कर्यम्

शेषत्वम् अन्यत्र विचारितम्।

अबुद्धिपूर्वकता

वेङ्कटनाथार्यो ऽबुद्धिपूर्वकेषु-

‘‘या या चेष्टा’’ ऎऩ्ऱु पाठम् आऩालुम्
अर्थ-प्राप्त–शास्त्र-प्राप्तङ्गळ् पोले
स्व-भाव-प्राप्तङ्गळ् आऩ निमेषोन्मेषादिगळुम् समर्पणीयङ्गळ् आग
रहस्य-शास्त्र-सिद्धम् आगैयाले +++(5)+++ “तद्-अर्चनम्” ऎऩ्ऩल् आम्।

आराधनम् - उल्लेखाः

वेदान्त-देशिक-कृतायां तात्पर्य-चन्द्रिकायाम् रामानुज-कृत-गीता-भाष्य-व्याखान-भूतायाम् एवम् -

स्वाराधनैक-प्रयोजनायेति ।
शेषस्य शेषिण्य् अतिशयाधानम्+++(=अतिशयस्य, न प्रतिकूलस्य +आधानम्)+++ एव प्रयोजनम् इति भावः।

भगवत्-प्रीति-प्राधान्यतो भेदः

अत्रोद्देशतो भेदः - भगवत्-प्रीति-प्रधान्यं स्यात्, न वा।

भेद-लक्षणानि

डम्भार्थं परपीडार्थं
तन्-निरोधार्थम् एव वा । प्रयोजनान्तरार्थं वा
कैङ्कर्यं कल्क इष्यते ॥

स्मृत्यधिकरणे रामानुजेन फलाभिसन्धिसहितम् अप्य् आराधनं वर्णितम्। परिपूर्ण-शेष-वृत्तिर् एवाराधनम् इति विशिष्टाद्वैत-कोशय् आराधनविशेषो वर्ण्यते।

निग्रह-जनक-व्यावर्तनम्

न कश्चन शेषत्व-ज्ञान-रसिको
बुद्धिपूर्वकम् भगवति निग्रह-लीलानन्दम् उत्पादयितुम् प्रयतेत -
तत्-फलतया भगवन्-निग्रहेण भगवच्-छेषतादि-ज्ञान-सङ्कोचः स्याद् इति।

विधि-कर्म-विभागः

प्राणि-कर्म स्व-भावतः प्राप्तम्, रागतः/ कामतः प्राप्तम्, शास्त्रतः प्राप्तम् इति विभजन्ति।

आज्ञानुज्ञे

शास्त्रोक्त-विधिर् द्विधा -
आज्ञा, अनुज्ञा (=काम्या) चेति।
यत्र +अकरणे प्रत्यवायो विद्यते, स आज्ञा-विधिः।
तद्-भिन्नो भगवत्-प्रीतिकरो ऽनुज्ञा-विधिः।
आज्ञाः नित्यास् स्युः, नैमित्तिकाः वा।

मीमांसकैर् अन्य-रीत्या ऽपि विभागा उक्ताः।

विस्तारः (द्रष्टुं नोद्यम्)

आज्ञानुज्ञा-विभागेन
द्विधा शास्त्रीय-पद्धतिः ।
निग्रहानुदयायाद्या
परा तत्-तत्-फलाप्तये
अनुज्ञया प्रवृत्तेऽपि
क्रम-कोपादि+++(←देश-काल-द्रव्यादि-कोप)+++-संभवे
आज्ञातिक्रम-दोषस् स्यान्
नियमो ऽतो दुर्-अत्ययः ॥
प्रत्यवाय-परीहारे
फलान्तर-समन्विते
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥
प्रत्यवाय-परीहारे
फलान्तर-समन्विते
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥
नित्य-काम्य-स्वरूपैक्ये
विनियोग-पृथक्त्वतः ।
फलार्थं क्रियमाणेऽपि
नित्यं भवति तन्त्रतः ॥

इति वेङ्कटनाथार्यः।

तद्-अनुसारतः कैङ्कर्यं च द्वेधा -
आज्ञा-कैङ्कर्यम्, अनुज्ञा-कैङ्कर्यं चेति।
एवम् आराधनम् अपि।

अपराध-परिहारार्थकानि कर्माणि प्रायश्चित्तानि।

यथा-शक्ति-कार्यता

यदि शास्त्रं कमपि रज्जुना बद्धं धावितुम् आज्ञापयति,
स शास्त्रस्यैव दोषस् स्यात्।
ततो न शास्त्रं तथाविधम् इति निश्चयः।

योगे ऽपवादः

अत्यन्त-भक्ति-युक्तानां
नैव शास्त्रं न च क्रमः॥

इति श्लोको ऽसकृद् उद्धृतः श्रीवैष्णवैर् अपि।

उत्तमूर्-वीरराघवार्य आह -

यो हि युक्तो बहु-तिथं कालं ध्यानेनैवातिवाहयितुम् अलम्-भविष्णुः,
तस्य बाह्य-कर्म-स्फूर्त्य्-अप्रसक्तेर् +++(→ततः शक्त्यभावत्, यथाशक्त्य्-अनुष्ठेयानाम्)+++ अननुष्ठानं प्राप्तम्
इष्यत एव।
योगात् व्युत्थितास् तु न त्यक्तुम् अर्हन्ति।

प्रवृत्ति-निवृत्ती

यत्र फल-त्यागः, कर्तृत्व-त्यागश् च विद्यते, स निवृत्ति-धर्मः।
तद्-भिन्नः प्रवृत्ति-धर्मः।
प्रवृत्ति-धर्मे निवृत्ति-धर्मे च प्रायेण तान्य् एव कर्माणि, किञ्च सङ्कल्पे भेदः।

विस्तारः (द्रष्टुं नोद्यम्)

रामानुज आह गीताभाष्ये-

अहो महद् इदं वैचित्र्यं
यद् एकस्मिन् एव कर्मणि वर्तमानाः
सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनः, च्यवन-स्वभावाश् च भवन्ति;
केचन अनवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्त्तिनश् च भवन्ति।

प्रवृत्तौ, “मद्-विषये प्रत्यवायो न स्यात्। ममैतत् फलं स्याद्” इति विचारः प्रधानः।

निवृत्ति-धर्मे कर्म भगवद्-भागवत-प्रीत्यर्थं क्रियते।
अनुज्ञात-कर्मणाम् अत्र तर्हि काम्यत्वं न विद्यते।
तत्र कर्माणि चैवं स्युर् गोपाल-देशिकोक्तरीत्या -

शरणागति-फल-भूत–
तत्-कालोत्पन्न-भगवत्-प्रेम-परीवाह-रूपाणि

अयम् भावः -

मूलतो भगवत्-कैङ्कर्यार्थम् इदं क्रियते,
न स्वार्थाय।
ऐहिकम् फलं गौणम् -
तत्र अल्पत्वम् अस्थिरत्वम्
+++(प्रयासतः→)+++ दुःख-मूलत्वम् दुःख-मिश्रत्वम् दुःखोदर्कत्वम् +++(←फलत्वम्)+++
विपरीताभिमान-मूलत्वम् स्वाभाविकानन्द-विरुद्धत्वम्
इति दोष-सप्तकम् आह वेङ्कटनाथार्यः।

लक्ष्याणि

शेष-वृत्तेः शेषतैक-रसत्वस्य च परा काष्ठा काचिद्
उषःपुत्र-योद्धृषु (सामुराय्-आख्येषु) दृश्यते
(यद्य् अपि तत्र शेषी मानुषप्रभुः यःकश्चित्)।
तद्-अवगत्यै हगाकुरे-निभ-ग्रन्थानुसन्धानं लाभाय स्यात्।

कर्म-सन्न्यासः

मोक्षोपायग्रहणे सञ्चितादिकर्मनाशे तत्-फलस्य प्रियाप्रियेषु क्रमणम् अन्यत्रोक्तम्

प्रधान-कर्तृत्व-त्यागो ऽप्य् अपेक्ष्यते।

फल-त्यागः
  • साधारणतः फल-प्रातौ याचक-याचित-सम्बन्ध-विच्छेदो भवति।
    सन्तत-कैङ्कर्ये प्रार्थ्यमाने तु तद् अनिष्टम्।
    अतस् “त्वम् एव कैङ्कर्य-रूप-फलं स्वीकुर्व्” इति प्रार्थनम्।
  • अ-मुमुक्षा-प्रपत्तिषु नैतद् भवेत्।
उपायाः

कर्तृत्व-त्यागः कर्म-सन्धिषु पुनः-पुनर् अनुष्ठितेन सात्त्विक-त्यागेन, बल-मन्त्र-वचनेन च सिध्यति।

फल-त्यागेन +आराधन-सिद्धिः।
तत्र सङ्कल्प उपकरोति, यथा -

(शास्त्रावगत)-भगवद्-आज्ञया/अनुज्ञया
प्रत्यक्ष-भागवत-कल्याणानुमेय-भगवत्-प्रीत्यर्थम् (/ऽमुष्मै उपप्रयोजनाय)
अमुककर्म करिष्ये।

अत्र भगवत्-प्रीतिस् स्वतः प्रयोजनम्,
न स्वेष्टान्तर-प्राप्ति-साधनम्।

एवं “कृतञ्च करिष्यामि” इत्यादि वाक्यम् अप्य् उपकरोति।

तथा स्वयम्-प्रयोजनता-निश्चयोऽपि ।
(यत्र क्वचित् क्रिया-विशेषः स्वयम् एव फलम् उच्येत -
यथा भगवत्-कैङ्कर्यम्, भागवत-कैङ्कर्यम्।)

सात्त्विक-त्यागः

रामानुजः शेषिणि +++(प्रधान-)+++कर्तृत्वस्य फलस्य चाधानम् / त्यागं / ‌सन्न्यासम् आह -

अतो मच्-छरीरतया
मत्-प्रवर्त्यात्म-स्वरूपानुसन्धानेन
सर्वाणि कर्माणि मया +एव क्रियमाणानि

इति मयि परमपुरुषे संन्यस्य
तानि च केवलं मद्-आराधनानि +इति कृत्वा,
तत्-फले निराशीः,
तत एव तत्र कर्मणि ममता-रहितो भूत्वा
विगत-ज्वरो युद्धादिकं कुरुष्व।
+++(“उत्तरोत्तरस्य च पूर्व-पूर्व-हेतुकतां पाठ-क्रम-सूचितां प्रकाशयति” इति वेङ्कटनाथः।)+++

स्वकीयेन +++(जीव-)++++आत्मना कर्त्रा,
स्वकीयैर् एव करणैः,
स्वाराधनैकप्रयोजनाय,
परमपुरुषः सर्वेश्वरः सर्वशेषी
स्वयम् एव स्वकर्माणि कारयति

इति +अनुसन्धाय

विकल्पाः

क्वचित् तुल्य-विकल्प उक्तः - व्रीहिभिर् वा यजेत, यवैर् वा +इत्यत्र यथा।

क्वचित् तु व्यवस्थित-विकल्प एवोक्तः - अधिकारिभेदेन।
सोमलताभावे पूतिकया यजेतेत्यत्र यथा।

विकल्पेषु प्रधान-फले साम्ये सत्य् अपि,
गौण-फले व्यत्यासः स्यात्,
यथा यवहोमपक्षे ताप-भेदः,
मन्त्र-स्नान-पक्षे ऽवगाहन-स्नानापेक्षया शारीरिक-मालिन्यम् … ।

(गौण-फल-लोभेन) व्यवस्थित-विकल्पे सति,
अनधिकृत-विकल्प-ग्रहणे,
प्रधान-फलस्य हानिर् भवति।

विकल्पे दृष्टे सति,
व्यवस्थितत्वं तुल्यत्वं वा निश्चेतव्यम्।
सन्देहे सति, प्रधान-कल्पे स्पष्टे सति,
प्रधान-फल-प्रेप्सुभिस् स एव प्रधान-कल्पो ग्राह्यः।

तुल्यत्वं ततः शास्त्र-कण्ठोक्त्यैव साधु विज्ञेयम्।
व्यवस्थित-विकल्पाभिज्ञाने श्रम-भेदो लिङ्गम्
- तुल्य-विकल्प-पक्षे गुरुतरं विकल्पं न कश्चिद् गृह्णीयात्,
ततो विधि-वाक्यं व्यर्थम् एव स्यात्।

आज्ञाः - धर्मः

शास्त्रादिभ्यो धर्मो ज्ञेयः।
(विस्तारः प्रमाण-पत्त्रे। )
अत्र स्थूलविचारो भागवत-विशिष्ट एवोच्यते।

आचार-प्रभवो हि धर्मः।
भगवन्-निग्रह-कारणम् अधर्मः, तद्-अनुग्रहाय च धर्मः कल्पते।
अधर्मे (नित्य-कर्मादि-त्यागेऽपि) सर्वस्य भक्त-प्रपन्न-सहितस्य प्रत्यवायो विद्यते -
किञ्च भागवतेषु तद् अल्पतरम्।

धर्मस्य स्वर्गादीनि फलान्य् ऐहिकानि भवन्त्य् एव।

विस्तारः (द्रष्टुं नोद्यम्)

‘‘श्रुतिस् स्मृतिर् ममैवाज्ञा
यस् ताम् उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मम द्रोही
मद्भक्तोऽपि न वैष्णवः’’
(विष्णुधर्मः ६-३१।)

जातिः

शारीरो वर्णो जातिशब्देन ख्यातः।
मानसो वर्णो तद्-भिन्नः।
शारीर-वर्णम् आदाय सामान्य-धर्म-शास्त्रम् प्रवर्तते।
तद्-अनुसारेणामृत्यु-स्थायिनो धर्मा प्रपन्नेष्व् अपि तिष्ठन्ति।
व्यासादि-विशिष्ट-विषये भगवत्-सङ्कल्पेन शारीर-वर्णान्तरम् अपि सम्भवति।

किञ्च, भागवता विशिस्यादरणीयाः।
न तु तत्र वर्णाश्रमधर्म-व्यभिचारस् स्यात्।

पापानि पुण्यानि

पुण्यान्य् भगवतः फल्ग्व्-अनुग्रह-सङ्कल्पाः।
पापानि भगवन्-निग्रह-सङ्कल्पाः।

तारतम्यम्

पापेषु तारतम्यं वर्तते।

यतस् स्नानाभावे कर्मान्तराधिकारो बाध्यते,
तद्-अकरणं महत्तरम् पापम्।

अपचारेषु भगवद्-अपचारो विशिष्यते
ततो भागवतापचारः,
ततश् च शरणागति-गद्योक्तो ऽसह्यापचारः।
तच् चाचार्यापचारो, बुद्धि-पूर्वक-भागवतापचार इति व्याख्यातं वेङ्कटनाथार्येण।

कायिक-वाचिक-मानसिकेषु पूर्वस्य प्राबल्यम्।

पाप-सम्भवः

भक्तानाम् प्रपन्नानां च स्खालित्ये ऽबुद्धिपूर्वे दोषालेपः।
धीमन्तः बुद्धि-पूर्वक-पापारम्भक-पाप-नाशाय विशिष्य प्रपद्यन्ते भगवन्तम्।

भागवत-कैङ्कर्य-पर्यन्तता

भागवत-कैङ्कर्येण भगवतः सद्वारकम् आराधनम् भवति।
भागवतानां तद्-आत्म-तुल्यत्वाद् - अद्वारकम् अप्य् आराधनम् भवति।

यथा-सम्भवं सर्वम् अनुष्ठेयं काल-भेदेन।
समकाले सन्निपाते तु प्रामुख्य-क्रमः -
आचार्य-कैङ्कर्यम्, भागवत-कैङ्कर्यम्, भगवत्-कैङ्कर्यम्।

किञ्च, भगवच्-छेषत्व–भागवत-शेषत्वयोः कार्य-कारण-भावो विद्यते -
पूर्वस्य परीवाह-रूपम् उत्तरम्।
तेन, नैतत् सम्भवति यद् भागवत-कैङ्कर्य-परो भगवत्-कैङ्कर्यम् उपेक्षेत
प्राग्-उक्तं क्रम-विपर्ययम् अन्तरा।
अपि च तथा सति, भगवद्-आज्ञाऽतिक्रमेण निगृहीतस्य
ज्ञान-सङ्कोचतो भागवत-सेवाऽपि नश्येत्।

भागवत-कैङ्कर्ये कारणान्तरम् -
ब्रह्म-विदि क्षान्तानाम् पापानाम् पुण्यानां च प्रतिकूलेष्व् अनुकूलेषु च सङ्क्रमणम् उक्तम् (प्रमाणानि भक्ति-प्रपत्ति-पत्त्रे)।

वैष्णव-भागवताज्ञाः

संस्कारः

नाम-ताप-पुण्ड्रादिभिः पञ्चभिः संस्कारैर् वैष्णवी-भावः।
तद् अन्यत्र व्याख्यातम्।

स्वरूप-समर्पणेन भागवतत्वम्।
तच्च प्रपत्ति-पत्त्रे व्याख्यातम्।

पाञ्चकालिक-वृत्तिः

अभिगमनम्, उपादानम्, इज्या, स्वाध्यायो, योगश् चेति ५ कालाः पाञ्चरात्रेण विहिताः। पञ्चसु कालेषु ससङ्कल्पं वर्तेत।
तत्र विप्रा अधिकारिणः।
अन्ये तत्-सहकर्तारः।

“नारायणम् उपागमत्”, “दैवतायाज्यं जुहाव”, “शेषं … प्राश्य”, “ध्यायन् नारायणं … आयतने विष्णोः शिश्ये” इति रामायणे
क्षत्रिय-वैष्णवस्य दिनचर्यायां
अभिगमनम्, इज्या, योगश् च प्रदर्शितः।

स्वाध्याये विकल्पाः पृथग् व्याख्याताः।

इज्या

प्रदर्शनानि

  • पुदुकोट्टै-वासुदेवो ऽत्र

आराधनाङ्ग-शरणागतिर् दोष-क्षान्त्यै कल्पते - तत्र +आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-वर्जनं च विशिष्टे ऽङ्गे।

नतौ विवेकः

साधारण-धर्म-शास्त्रम् अन्तरा,
भागवतेषु विशिष्ट-भगवच्-छास्त्राण्य् अपि प्रसज्यन्ते।
तेनावैष्णवादि-नती रुध्येत।
भागवतेषु च विशिष्यादरो दर्श्यते।
अनेन भगवद्-एक-शेषत्व-निष्ठा रक्ष्यते।
किन्तु, नानेन वर्णाश्रम-धर्म-व्यभिचारस् स्यात्।

प्रत्युत्थानम् अनभिवाद्यास्
तथान्यः पूर्वः पौरो ऽशीतिकावरः शूद्रोऽप्य् अपत्य-समेन

इति गौतमस्मृतिविधिम् अनुकृत्य शूद्रभागवतार्हणम् अपि युक्तम्।

यतयो विशिष्य नमस्कार्याः, न ति प्रतिनमस्कारं वाञ्छेत्।

न स्त्री-शूद्रावैष्णव-पूजित-विग्रहान् नमस् कुर्याद् इति पुराणम् पाञ्चरात्रं च।

अवन्दनीय-वन्दनाभिनये केचिद् उत्तरीयम् पाणिमध्ये निवेशयन्ति,
केचिद् एकहस्तेन हृद्देशं स्पृशन्ति च।

एवं स्वेच्छया देवतान्तर-नतौ पाञ्चरात्रस्य निषेधः।
यत्र विहिता, तत्र भगवत्-पर्यन्त-धीर् ब्रह्म-सूत्रोक्ता।
तथा ऽऽवेशावतार-नतिर् अपि निषिद्धा सात्त्वत-संहितादिभिः।
(तद्-विस्तारो देव-पत्त्रे।)

विस्तारः (द्रष्टुं नोद्यम्)

बहवो वैष्णव-शूद्रा वैष्णव-विप्रान् नमस्कुर्वाणास्
तद्-इतरान् अनमस्यन्तो
लक्ष्मी-नरसिंहार्येण स्वग्राम-परिसरे दृष्टाः।

अवैष्णव-नमस्काराद्
अवमानाच् च केशवे।
वैष्णवे परिवादाच् च
पतत्य् एव न संशयः॥

इति नारदीयम्।

+++(भागवताः→ [नित्यम्])+++ आप्तो विष्णोर् अनाप्तश् च
द्विधा परिकरस् स्मृतः ।
नित्यो वन्द्यो, न चानित्यः +++(आप्ततायाम्)+++
कर्म-वश्यो मुमुक्षुभिः॥
(पौष्कर-संहिता)

अवैष्णवं न वन्देत
नार्चयेद् विधि-पूर्वकम् ।
सम्प्रश्नासन-दानानि
कुर्याद् वाप्य् आनृशंस्यतः ॥
अभक्तम् अच्युतस्यापि
नावमन्येत कञ्चन ।
हितं वा बोधयेत् साधोर्
दद्याद् वा किञ्चिद् ईप्सितम् ॥

इति भारद्वाज-संहिता।

यदि पाञ्चरात्रबलं स्मृतेर् अवरम्, कथं पौष्करसंहितोक्तिम् आदाय +अवैष्णव-सवर्णाचार्यादि-नति-रोधेन स्मृति-बाधः??
न स्याद् इति विश्वासः।

विसृज्य स्मयमानान् स्वान्
दृशं व्रीडां च दैहिकीम्।
प्रणमेद् दण्डवद् भूमाव्
आश्व-चाण्डाल-गो-खरम्॥

इति भागवते ११.२९.१६।
स्मृतेर् बलीयस्त्वात् स व्यक्ति-विशेषे हि विधिर् ग्राह्यः।
​अथवा मा भूद् वर्णाश्रम-धर्म-व्यभिचार इति
सर्वान् सम्भूयोद्दिश्य तत्-परोक्षे (किञ्च कामं हसद्-स्वक-प्रत्यक्षे) दण्डवत् प्रणामो विहितः?

भागवतादिषु

मुक्तानां नित्यानां चापि
भागवतत्वम् अन्तरा
उपेयत्वाद् अपि
लक्ष्म्याम् इव TW

पृथग्-वर्तमानेष्व् अपि
नतौ बाधा नास्ति।

शिष्टास् तु राम-सन्निधिम् अन्तरा हनुमन्तं न नमस्कुर्वन्ति - स तत्र न सन्निदधातीति भावेन प्रायेण।

उत्पन्न-पाप-परिहारः

साधारणेषु

साधारणतया पापे प्रतिपदोक्त-प्रायश्चित्तं कार्यम्।
वेङ्कटनाथार्येणोक्तम् -

अनुतापाद्, उपरमात्,
प्रायश्चित्तोन्मुखत्वतः ।
तत्-पूरणाच्, चापराधास्
सर्वे नश्यनति पादशः +++(→४*१/४)+++ ॥

अशक्तौ प्रपत्तिर् योग्या।
तद् अभावे दण्डेन परिहारः।

गृहीतोपायेषु

बुद्धि-पूर्वक-पापे तु
यथाधिकारं तत्-क्षमार्थ-प्रपदनादि-प्रायश्चित्तं कार्यम्,
अनुतापश् च भवति।

विकर्मस्थ-द्विज-संसर्गः

‘शैवान् पाशुपतान् स्पृष्ट्वा (दृष्ट्वा)
लोकायतिक-नास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान्
स-वासा जलम् आविशेत् ॥’ +++(5)+++

(ब्रह्माण्डपुराणे, पाराशरीये वा) इति ।

तेन सचेल-स्नान-कृतः केचिच् छिष्टाः,
यथा निरुपवीत-यति-संसर्गे।
तद् अन्यत्रोक्तम् - TW

प्रपत्तिः

गृहीतोपायानां तु शक्ताव् अपि प्रपत्तिः क्वचिच् छक्या -
पश्चाद् उच्यते।

यदि गृहीतोपायः प्रतिपदोक्तप्रायश्चित्ते शक्तः,
पुनःप्रपदने तस्याधिकार एव न भवति खलु - अनन्यगतिकताऽभावात्?

इति चेन् न - तत्र विशिष्ट-विधेः।

प्रतिपदोक्त-प्रायश्चित्ते ऽधिकारः

“अपाय-संप्लवे सद्यः
प्रायश्-चित्तं समाचरेत्
प्रायश्चित्तिर् इयं सात्र
यत् पुनश् शरणं व्रजेत् +++(प्रपत्त्या)+++ ॥
+++(कर्म-योगाद्य्-)+++उपायानाम् उपायत्व-
स्वीकारे ऽप्य् एतद् एव हि +++(प्रपत्तिकर्म प्रायश्चित्तम्)+++”
(लक्ष्मीतन्त्रम् 17-91.)

इति विधिः।

प्रपन्नैः प्रतिपदोक्त-प्रायश्चित्तं यथेष्टं गृहीतुं शक्यम्?
नेति लक्ष्मी-नरसिंहार्यः, यतो वेङ्कटनाथार्येण चिरजागरूकेण

“अदुक्काग पुनःप्रपत्तियादल् लघुदण्डमादल् प्रसङ्गियामैक्कागवुम्”।

इत्य् उक्तम्। अन्यत्र च -

प्रपत्ति-प्रतिसन्धानम् +++(→स्मरणम्)+++
आप्तैर् यद् उपदिश्यते
तत् स्वाधिकार-नियत-
+++(प्रयश्चित्तादि-)+++हानोपादान-सिद्धये ॥

लोक-सङ्ग्रहः

प्रतिष्ठितैस् तु भगवद्-आदिष्ट-लोक-सङ्ग्रहाय प्रसिद्धम् एव प्रायश्चित्तं कार्यम् ।

दण्डः

गृहीतोपायान् कारुण्येन रक्षितुम् प्रयततय् एव - न सरलतया त्यजति।

प्रपन्नेषु - प्रायश्चित्ताद्य्-अभावे लघु-दण्डो भवति राजपुत्रापराधवत्,
न तु प्रपत्ति-वैफल्यम्।
उपासकेषु लघु-दण्डस्य प्रमाणं न विद्यते।
एवञ्च प्रायश्चित्तादौ तच्छक्तिर् अपि वर्तेततराम् इति घटते।

भागवतापचारे तु तीव्रो दण्डः - राजदारापराधवत्।
भागवतापचारो भगवतो विशिष्यासह्यम् उच्यते।
ब्रह्म-विदि क्षान्तानाम् पापानाम् पुण्यानां च प्रतिकूलेष्व् अनुकूलेषु च सङ्क्रमणम् उक्तम् (प्रमाणानि भक्ति-प्रपत्ति-पत्त्रे)।

विस्तारः (द्रष्टुं नोद्यम्)

न प्राग्वद् बुद्धि-पूर्वाघे
न चात्यन्तम् अनुग्रहः ।
लघुर् दण्डः प्रपन्नस्य
राजपुत्रापराधवत्॥

किञ्च तत्रापि पटुतया गृहीतोपायानां यम-लोक-वारणम्।

प्रमाणम् (द्रष्टुं नोद्यम्)

‘‘(न खलु भागवता यम-विषयं गच्छन्ति ।) इहैवैषां केचिद् उपक्लेशा भवन्ति -
खञ्जा भवन्ति, काणा भवन्ति, अविधेयपुत्रा भवन्ति, अविधेयभार्या भवन्ति’’

इति काचिच् छ्रुतिः। तत्र स्मृतिः -

परिहर मधु-सूदन-प्रपन्नान्,
प्र-भुर् अहम् अन्य-नृणां, न वैष्णवानाम्”
(विष्णुपुराणम् 3-7-14)

उपासकस्य योग-भ्रष्टत्वे प्रमाणान्तरेण योगिषु जन्म सिध्यति।

क्षमापणम्

भागवतापचारे तत्-क्षमापणं कार्यम् एव कार्यं यदि सम्भवति।
तत्र परस्-पर-व्यवहारो रामायणे सुग्रीव-तर्जने सुग्रीव-लक्ष्मणयोर् व्यवहार इव स्यात्।
अपराध-क्षमापणारम्भे ऽञ्जलि-मुद्रा–दण्ड-प्रणामादि बहूपकरोति - अग्रिम-विचाराय शान्तिं सम्पाद्य।

अपचरित-भागवतालाभे हि भगवति क्षमा याचनीया।

अनुज्ञा-विधिः

काम्य-कर्माणि शास्त्रोक्तानि +अभिचार-पर्यन्तान्य् अनुज्ञा-विधाव् अन्तर् भवन्ति।
एवं युगपद्-भगवत्-प्रीति+अप्रीति-जनकम् अपि कर्म +अनुज्ञातम् एव ।

आज्ञा-कैङ्कर्य-वेलायां तद्-भिन्नम् अनुज्ञा-कैङ्कर्यं निषिद्धम्।

मोक्षार्थम् उपदेशः (द्रष्टुं नोद्यम्) > प्रत्ययार्थं च मोक्षस्य सिद्धयः संप्रकीर्तिताः

आज्ञा ते स-निमित्त-नित्य-विधयः, स्वर्गादि-काम्यद्-विधिः
सोऽनुज्ञा, शठ+++(→अभिचारक)+++-चित्त-शास्त्र-वशतोपायो ऽभिचार-श्रुतिः ।
सर्वीयस्य समस्त-शासितुर् अहो ! श्रीरङ्ग–सर्व-स्व ! ते
रक्षाकूत-निवेदिनी, श्रुतिर् असौ त्वन्-नित्य-शास्तिस् ततः ॥ २१ ॥+++(5)+++

इति पराशरभट्टः। न्यायपरिशुद्धाव् उद्धृतो वेङ्कटनाथार्येण।

वैष्णव-भागवतयोर् अनुज्ञाताः

अनुज्ञा-कैङ्कर्याङ्गानि

एवं यत्-किञ्चिच् छास्त्राविरुद्धम् भगवद्-आज्ञाऽविरुद्धम् तद्-आराधन-रूपम् भवेत् -

यत् करोषि यद् अश्नासि
यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय
तत् कुरुष्व मद्-अर्पणम् ॥ +++(5)+++

अनुज्ञा-कैङ्कर्यतो भगवान् प्रसादोन्मुखतरो भवति,
पुनर् जीवः स्व-रूप-ज्ञानेन रमते,
तथा पाप-कृत्येषु मनो न यच्छति।

तत्त्व-ज्ञान-प्रचारः

अष्टाक्षरात् परं नास्ति
कालक्षेपस्य साधनम्।

अथापि -

“प्रब्रवाम” तथा “ऽजीतास्
स्यामे"ति ननु किंकृतम्?
मिथ्या-प्रचारकोज्जृम्भा-
बन्धे क्रीडितम् अन्तरा॥

प्रतिवाद-शैली

First VD thoroughly shatters the wrong position;
and only then does he offer a reconciliatory take, where appropriate -
from a dominant position.

vAda-grantha-s tell one’s side how the other side is wrong. Beyond a point, “They too meant what we say” type reconciliation just hides genuine difference in opinion and confuses one’s fellows.

भगवद्-भागवत-गुणानुसन्धानम्

भगवद्-अपेक्षया भगवद्-गुणा भोग्यतराः, तद्-अपेक्षया बहुदा भागवत-गुणाः।
एवं तद्-अनुसन्धानम् आज्ञादि-पालन-प्रेरकम् बह्व्-अपेक्षितम्।

अर्चावतार-सेवा

फलापेक्षां विना देवालयगतिर् मङ्गलाशासनम् उच्यते श्रीवैष्णवैः।
तत् स्वभावतः प्राप्तम्, अनुज्ञातं च।

मन्दिरेषु सत्-सम्प्रदाय-रक्षा

In temple control fights, the elders’ greatest care is about serving varada correctly, avoiding degeneracy, preserving if not propagating the proper way.

vidvAns, though not foot-soldiers themselves, are indeed quite involved. If there is an opportunity, of course they will happily debate. If there isn’t, they’ll limit themselves to making things clear to their own side.

अभिचारः

भागवत-हितायाप्य् वेद-विहितानुज्ञा-कैङ्कर्यत्वेन पराशर-भट्टेनापि परिगणितो ऽभिचारो ऽनुज्ञातस् स्यात्।
यथा भागवतानुग्रहे वयं भगवत्-साधनानि,
तथा तद्-विरोधि-निग्रहे ऽपि कुतो न स्याम?

भगवद्-आत्मक-देवतान्तर-संश्रयः

शास्त्रोपदिष्टेषु देवतान्तर-सेवा-स्वरूपेषु काम्य-कर्मसु
तादात्म्य-चिन्तनादिभिः प्रवृत्तिर् अनुज्ञाता,
विशिष्य यदि भागवत-कल्याणं तेन भवति।
यथा - वृष्ट्य्-अ-भावे कारीरि-यागः।
किञ्च तत्रापि भगवत्-पर्यन्ता बुद्धिः स्यात्।

‘‘यो वै स्वां देवताम् अतियजते
प्रस्वायै देवतायै च्यवते
न परां प्राप्नोति
पापीयान् भवति॥’’

इति काचित् श्रुतिः।

प्रपत्त्य्-उत्तर-कृत्यम्

मोक्षार्थ-प्रपत्तेर् उत्तर-कालं शास्त्रादि-ज्ञापित-भगवद्-आज्ञानुसरणेन नयेत्।

केषुचित् प्रपन्नेषु भक्त-तुल्य-द्त्-कारो जायते -
भगवत्-प्रसादतः, पूर्व-जन्मन्य् आरब्धाच्च भक्ति-योगात्।

उत्तर-कृत्य-सार एवं सङ्गृह्यते वेङ्कटनाथार्येण -
भगवद्-आज्ञानुसरणम्, विषयाणां हानम्, आचार्ये भगवति च कृत-ज्ञता, कार्पण्यस्य रक्षणम् आत्म-प्रशंसा-वारणादिना, जपेनोपाय-निष्ठा, भागवतापचार-वारणम्, भागवत-कैङ्कर्यम्।

सद्-भावे निष्ठा

प्रपन्नः कृत-कृत्यः प्रथमं तत्त्व-हित-पुरुषार्थेषु स्व-निष्ठां परीक्षेत।
तत्रापर्याप्ततायाम् पूरयितुम् प्रयतेत - शिष्टकाले सुखं सतोषं जीवितुम् ।

लिङ्गानि
  • स्वरूप-निष्ठा
    • लिङ्गानि - निन्दायाम् अविकारः, निन्दकेष्व् अनुकम्पा, तेषु कृतज्ञता, कर्माभिज्ञानेन निर्विकारता, पापनाशे तोषः
    • अनुमेय-निष्ठित-गुणाः - चित्ता??, सर्व-हितता, आकिञ्चन्यम्, शेषता
  • उपाय-निष्ठा
    • लिङ्गानि - आपदीश्वर-सखिता, ततो धैर्यम्, मृत्याव् अप्य् अभीः प्रीतिश्च, मोक्षे निर्भरता
  • फले निष्ठा
    • लिङ्गानि - देह-यात्रायां कर्म-पुरस्-कृत्या निश्चिन्ता, साफल्ये प्रयास-गौणता, अ-प्रयत्नागत-शास्त्राविरुद्धानां भोगः, ऐहिक-लाभ-नष्टेषु +उत्कट-हर्ष-शोकाभावः, प्राप्ये रुचिः, प्राप्तौ त्वरा

आहत्य, तत्त्व-हित-पुरुषार्थ-निष्ठावते
परम-पुरुषार्थम् अन्तरा गण्यो लाभो न भवति,
न च भागवतापचाराद्य् अन्तरा गण्यं नष्टम्।

प्राप्तिः
  • कु-हैतुक-संसर्गवारणम्।
  • सूक्ष्म-बुद्धिभिः शास्त्राध्ययनम्।
  • स्थूल-बुद्धिभिर् उपदेश-प्राप्तिः, सत्-सङ्गः।
  • अष्टाक्षरस्य सार्थानुसन्धानं, जपश् च।
  • सद्-आचारः, पाञ्चकालिक-वृत्तिः।
सत्सङ्गः

सत्सङ्गे रामानुजोपदेशः -
भागवतेषु पुष्प-चन्द्रिकादिवत् प्रीतिः,
भगवद्-द्विषेषु सर्पादिवत्,
अनुभयेष्व् अनुकम्पया क्वचित्, तृण-पाषाणादिवद् अवज्ञा ऽन्यत्र।

भागवत-भूयिष्ठ-देशे वसेत्।

असल्-लिङ्गानि

वेङ्कटनाथार्येण सूचितानि उपायादि-निष्ठाऽभाव-लिङ्गानि रहस्य-त्रय-सारे निर्याणाधिकारे -

अहं-कार–ममकारौ, तन्-मूलका अपचाराः,
प्रयोजनान्तर-रुचिः, तन्-मूलकतया संभावितो देवतान्तर-स्पर्शः,
बुद्धि-दौर्बल्यं, तन्-मूलिकोपायान्तर-प्रत्याशा च।

तत्र कानिचिल् लिङ्गानि प्रपत्तेर् एव वैफल्यं सूचयन्ति,
यथा - उपायान्तर-ग्रहणम्, सुदृढो देवतान्तर-संश्रयः।

गृहीतोपायान् कारुण्येन रक्षितुम् प्रयततय् एव - न सरलतया त्यजति। अग्रे कदाचित् सफलोपायग्रहणं प्रेरयति।