१४२

सनत्कुमार उवाच
तस्मिन् वर्तति सङ्ग्रामे प्रमथासुरसैन्ययोः ।
धनुषां श्रूयते शब्दः प्रावृडम्बुधरोपमः[^१] ॥ १ ॥

गर्जताञ्च गजेन्द्राणां ह्रेषताञ्चैव वाजिनाम् ।
युद्धगान्धर्वरक्तानां नादाश्चामररक्षसाम् ॥ २ ॥

श्रोत्रायासकरा[^२] घोरा वज्राशनिरवा इव ।
श्रूषन्ते[^३] हि विवर्धन्ते ह्यर्था[^४] ह्याधर्मणामिव^५ ॥३॥

ततः कार्तस्वनो नाम दानवो मेघनिस्वनः ।
जघान प्रमथान् युद्धे कालो मर्त्यानिवागतः ॥४॥

स रथी कार्मुकी बाणी कवची कुण्डली तथा ।
प्रमथानीकमदहच्छुष्कं तृणमिवानलः ॥ ५ ॥


रुरुधु क.। २४ र्दतोद्धुताः ः क, ख., र्दितोद्भुताः घ.॥ २५ विधारिनवायुचञ्चर - ख. । २६ बलावलोकमिति - क २७१९० ख. पु.।
प्रावृड्मेघरवोपमः - घ. । २ श्रोत्रयो कटुका - घ । ३ स्वयन्ते (?) । ४ नर्था (? । ५ ह्यधर्मिणामिव- (?)? ह्यथवण्णा इव (?), ह्यधमर्णिनामिव (?) ।


कार्तस्वनधनुर्मुक्ताः कार्तस्वरमहाशराः ५ ।
प्रमथान्दार्य निस्सङ्गं दारयन्ति रणावनिम्[^७] ॥६ ॥

शलभा इव केदाराननया इव मानवान् ।
खगा इव तरून् पक्वान गरुडः पन्नगानिव ॥७॥

तथा ते पृथवो बाणाः कार्तस्वनधनुश्च्युताः ।
प्रमथान् व्याकुलीचक्रुर्वासवृक्षानिवाण्डजाः ॥८॥

शरव्राता गणानीके निपतन्ति गिराविव[^८] ॥९ ॥

प्रशान्तवाद्यनिनदं शरघातातिवेजितम् ।
गणेश्वरबलं जज्ञे बन्धुजीववनं यथा ॥ 8.142.१० ॥

घनानिव[^९] यथा वायुर्वैनतेय इवोरगान् ।
पृषतानिव[^१०] शार्दूलस्तमौघानिव भास्करः ॥ ११ ॥

तथा कार्तस्वनः क्रुद्धः शरवज्रैः[^११] सुदारुणैः ।
निर्ददाह गणाध्यक्षान् लोकान् संवर्तको यथा ॥ १२ ॥

गणेश्वरबलं दृष्ट्वा दग्धं जग्धं रुजातुरम ।
विट्पतिः कुपितो देवः कार्तस्वनमथाब्रवीत् ॥ १३ ॥

शरपातेथ संस्थित्या रुद्रो रुद्रपराक्रमः ।
दानवेन्द्रं प्रकुपितो निषङ्गादुद्धरञ्छरम्[^१२] ॥ १४॥

कार्तस्वन बलं वीर्यं प्रतापश्च तवोत्तमः ।
किमेतानबलान् हंसि[^१३] दानवेन्द्र गणेश्वरान् ॥ १५॥

आगच्छ यदि ते शक्तिर्यदि वा विद्यते बलम् ।
मया कुरुष्व सम्मर्दं मानदं(ः?)१४ पश्य मे बलम् ॥ १६ ॥

कुण्डलालङ्कृतं तेद्य दंष्ट्राङ्कुरविभूषणम्[^१५] ।
पातयामि शिरो दैत्य तालाद् वातः[^१६] फलं यथा ॥ १७॥


कार्तस्वनमहाशराः - ख । ७ रणावरं (जिर?) - ख. । ८ पतन्ति गिरयो यथा - ख । २ घनानीव - घ. । ३० पृषतानीव - घ. । ११ शरव(च?)क्रैः - घ., शरवर्षैः (?) । १२ नैषङ्गानुद्वहन् शरान् - घ., … दुद्धहन - क. । १३ हन्तुं - ख. । १४ मा नर्दीः (?) । १५ दीप्ताङ्गुरवभीषणम् - घ. । १६ वायुः - ख. ।


यद्यपि त्वाद्य रक्षन्ति[^१७] दानवाः सान्धका[^१८] रणे ।
तथापि ते हरिष्यामि प्राणानसुरपांसन ॥ १८ ॥

इत्येवं नर्दमानस्य विट्पतेर्दानवो नदन्[^१९] ।
ससर्ज बाणं मुक्त्वा(?) च जगर्ज जलदो यथा ॥ १९॥

ज्वलमानः स तु शरो घृतसिक्त इवानलः ।
घर्मार्कसदृशो[^२०] भासा प्राधावद्[^२१] विट्पतिं प्रति ॥ 8.142.२० ॥

निष्प्रभोर्कोभवत्तत्र तस्य भासा पतत्रिणः ।
कार्तस्वननिनादेन[^२२] पतन्ति विहगाः[^२३] क्षितौ ॥२१ ॥

सोपि भासायुतो वाणः संवर्तक इवानलः ।
विट्पतेः कङ्कणे[^२४] मग्नो निरये दुष्कृती यथा ॥२२ ॥

ततस्तमेव निष्कृष्य दानवप्रहितं शरम् ।
कार्तस्वनाय चिक्षेप विटपतिर्विननाद च ॥ २३ ॥

स विट्पतिविनिर्मुक्तः शरो दानवनाशकृत् ।
दानवस्य शिरो यन्तुर्जहारेषुपथान् दश[^२५] ॥२४॥

हते यन्तरि तस्याश्वाश्चपलाः शबलाः[^२६] रणे ।
उद्भ्रान्ता रथमादाय श्येना इव यथामिषम् ॥२५॥

कार्तस्वनरथं यात[^२७] किमासत निगृह्णत ।
इत्येवं दानवेन्द्राणां बभूव निनदो महान् ॥२६ ॥

विस्तीर्णे मन्दरप्रस्थे भ्रमन् भाति रथोत्तमः ।
सादित्य इव सप्ताश्वो मेरौ रथवरो[^२८] भ्रमन् ॥२७॥

अवप्लुत्य[^२९] ततस्तस्माद् द्रुताश्वाद्[^३०] रथसत्तमात्[^३१]।
कार्तस्वनो धनुष्पाणिरभिदुद्राव विट्पतिम् ॥ २८॥

बलयोस्तु ततो नादः साधुसाध्विति सम्बभौ ।
कार्तस्वने योद्धु कामे भूयो विट्पतिना सह ॥ २९॥


गच्छन्ति - घ. । १८ सानुगा - घ. । १९ दानवोन्नदन - ख । २० यमार्कसदृशो - क., क्रं - घ. । २१ प्रधावद् - क. ख. । २२ कार्तस्वरनिनादेन - घ. । २३ ह खगाः - ख. । २४ कङ्गणे - क ख. । २५,.. वान्दिशन् - ख । २६ सबलाः - क. । २७ गणान्देवान् - क. । २८ रथावरे - क. रवो - ख. । २९ प्रुत्य - क. । ३० हताश्वाद् - व. । ३१ रथसत्तम - क.,… सत्तम - ख ।


स विट्पतिं[^३२] वज्रनिभैर्बहुभिर्निशितैः शरैः ।
दानवोवाकिरन्मेघो यथा धारोत्करैर्गिरिम् ॥ 8.142.३० ॥

स कार्तस्वनबाणौघैर्घनौघैरिव[^३३] सागरः ।
विट्पतिः पूर्यमाणोपि व्यथां नैव तदागमत् ॥३१ ॥

आकर्णात् कार्मुकं सोथ विकृष्य बलवान् बलात् ।
चिच्छेद दैत्येन्द्रशरान् द्विधैकैकं त्रिधा तथा ॥३२ ॥

तानिषून् शातयित्वा[^३४] तु पत्रिभिः प्राणभोजनैः ।
कार्तस्वनं सहस्रेण बिभेद च ननाद च ॥३३ ॥

पृष्ठतो दृश्यमानास्यैः शरैस्तैर्दानवो बभौ ।
यथाचलो नागवरैर्विवरार्धविनिर्गतैः[^३५] ॥ ।३४॥

अथास्य कार्मुकं खड्गं शरावापञ्च[^३६] पञ्चकम[^३७] ।
चिच्छेद रुद्रः सङ्क्रुद्ध[^३८] स्तं च सोभ्यर्दयद्बली ॥३५॥

अथ बाणमिन्द्रकुलिशेन समं कुपितं श्वसन्तमिव नागपतिम् ।
विससर्ज विट्पतिरुदारबलोदितिनन्दनार्दनमजिह्मगतिम् ॥३६॥

शरराट् स रुद्रवरसम्प्रहितः समराङ्गणे[^३९] विसृतधूमलवः[^४०] ।
असुराननं युधि जहार बलात् कमलं यथा मुनिरुदारमतिः[^४१] ॥३७॥

अथ दैवतै[^४२]र्मुनिवरैश्च कृतः प्रमथैश्च भीमनिनदैर्निनदः[^४३] ।
तदरेर्मुखं हृतमुदीक्ष्य[^४४] तदा वडवामुखाग्निदमनेन रणे ॥३८॥

स तु विट्पतिः प्रमथसैन्यपनिस्त्वभिसृत्य भूतपतिना सुचिरम् ।
अभिपूजितः समरकर्मपटुस्त्रिदशारिसिंहदमनो[^४५] दमनः ॥३९॥

इति स्कन्दपुराणे गणयुद्धे द्विचत्वारिंशदुत्तरशततमोध्यायः[^४६]