किडाम्बि-आचान्
रामानुजपाचकः - तस्य ३६-तमाब्दात्!
उत्तरदेशे परविजयात् परं रामानुजेन “वेदान्त+उदयन” इति कीर्तितः।
गोपाल-देशिकः
वेङ्कटनाथार्य-द्विष उद्दिश्य गोपालदेशिकेन कृता प्रप्तत्तिः -
श्री-शार्ङ्ग-पाणे यदि ते परत्वं
सत्या यदि स्यात् श्रुतिर् अत्र मानम्।
वेदान्त-सूरौ द्विषतो जनांस् त्वं
श्री-कुम्भ-कोने विनिवारयाशु॥