विश्वास-प्रस्तुतिः
श्री-राजीवाक्ष-वक्षः-स्थल-निलय-रमा–हस्त-वास्तव्य-लोलल्-
लीलाब्जान् निष्पतन्ती1 मधुर-मधु-झरी नाभि-पद्मे मुरारेः ॥
अस्तोकं लोक-मात्रा द्वि-युग+++(=४)+++-मुख-शिशोर् आननेष्व् अर्प्यमाणं
शङ्ख-प्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु ॥१॥
मूलम्
श्रीराजीवाक्षवक्षःस्थलनिलयरमाहस्तवास्तव्यलोल
ल्लीलाब्जान्निष्पतन्ती1 मधुरमधुझरी नाभिपद्मे मुरारेः ॥
अस्तोकं लोकमात्रा द्वियुगमुखशिशोराननेष्वर्प्यमाणं
शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु ॥१॥
बाल-कृष्णः
अथ तत्र-भवान् श्री-वेङ्कटाध्वरि-नामा कविः प्रारिप्सित-ग्रन्थस्य निर्विघ्न-परिसमाप्तिम् अभिलिप्सुः शिष्टाचार-प्राप्तं मङ्गलं तच् च “आशीर्-नमस्क्रिया वस्तु-निर्देशो वा अपि तन्-मुखम्” इत्य्-उक्तत्वाद् अत्र आशी-रूपम् आचरन् प्राह —
श्री-राजीवाक्ष-वक्षःस्थल-निलय-रमा-हस्त-लोलाब्ज-वास्तव्य-लोलत्-कमलात्
मुरारेर्-नाभि-पद्मे-निष्पतन्ती-द्वियुग-मुख-शिशु-ब्रह्मा-आनेन-लोक-मात्रा-अर्घ्यमाणा-अस्तोक-दिव्य-पय-इति
विबुधैः शङ्कयमाना सा मधुर-मधु-झरी मधुरा अस्मान् पुनातु ॥ १ ॥
व्याख्या:
सा मधुर-मधु-झरी मधुरा मधुनः मकरन्दस्य धारा, अस्मान् सर्वान् इति शेषः । पुनातु पवित्रीकरोतु । कीदृशी मधु-झरी । श्रीमतो (राजीवे कमले इव अक्षिणी यस्य तस्य) राजीवाक्षस्य विष्णोः “बहुव्रीहौ सक्थ्य्-अक्ष्णोः-" इति-आदिना समासान्तः षच् । वक्षस्-स्थले निलय आश्लिष्य स्थितिर् यस्यास् तस्या [[लक्ष्माः|लक्ष्म्याः]] “क्षीर-ओद-तनया रमा” इत्य्-अमरः । हस्ते वास्तव्यं वर्तमानं यद् लोलच् चलद् लीला-अब्जं विलास-अर्थं कमलं तस्मात् । श्री-भगवतो हृदये प्रेम्णा परिरभ्य स्थिताया लक्ष्म्याः करस्थ-लीला-कमलाद् इत्यर्थः । मुरारेर् विष्णोर् नाभि-पद्मे निष्पतन्ती निर्गलन्ती, पाठान्तरे तु निःस्रवन्ती स्यन्दमाना । उत्प्रेक्षते । द्वे युगे युग्मे चत्वारि इति अर्थः । “युगं युग्मे कृतादिषु" इत्य्-अमरः । मुखानि यस्य स च असौ शिशुश् च तस्य ब्रह्मण इति यावत् । आननेषु मुखेषु “आननं लपनं मुखम्” इत्य्-अमरः । लोक-मात्रा लक्ष्म्या कर्त्र्या “इन्दिरा लोक-माता मा” इत्य्-अमरः । शङ्ख-प्रान्तेन करणेन, अर्घ्यमाणं प्रेम्णा समर्प्यमाणं, अस्तोकं बहुलं दिवि-भवं दिव्यं स्वयं “तत्र भवः” इति यत् । पयो ऽमृतं, इति विबुधैर् देवैः “देवास् त्रिदशा विबुधाः सुराः” इत्य्-अमरः । शङ्कयमाना सम्भाव्यमाना । मधु-झरी इति सम्बन्धः ।
श्री-विष्णोर् वक्षसि प्रेम-आश्लेषेण स्थिता लक्ष्मीः
कमलं लीलया भ्रामयामास,
तस्माद् गलन्ती मधु-धारा भगवन्-नाभि-कमलं प्रति सङ्गता,
तां च दृष्ट्वा
लक्ष्मीः प्रेम्णा निज-बालकं
शङ्खाग्रेण अमृतम् एव पाययति
इति स्तावकैर् देवैर् उत्प्रेक्षितम् इति भावः ।
अत्र लक्ष्मी-करस्थ-पद्मात् स्रवन्त्यां मधु-धारायां
दिव्य-पयसः सम्भावनाद् उत्प्रेक्षा-अलङ्कारः ।
तत्-उक्तम् — “सम्भावनम् अथोत्प्रेक्षा प्रकृतस्य समेन यत्” इति ।
ननु उत्प्रेक्षायाम् अपि सम्भाव्य-सम्भावनयोर् उपमानोपमेय-भाव आवश्यकः,
स च अत्र मुरारेर् नाभि-कमलस्य ब्रह्मण आननस्य च यद्यपि सम्भवति,
तथापि लक्ष्मी-हस्तस्थ-पद्मस्य शङ्खस्य च न सम्भवति -
शङ्खस्यैकतो यत्-किञ्चिन्-मुकुलीभावत्वाद्
एकतश् च विकास-शालित्वात्
(शङ्खो हि उपरितन-भागे प्रसृतः अधो-भागे च सङ्कुचितो वर्तते)
इति चेत्, श्री-राजीवाक्ष इत्य् अस्य चन्द्र-सूर्याक्ष इति अर्थः । स यथा — “इरा भू-वाक्-सुराप्सु स्यात्” इत्य्-अमराद् इरा-शब्दस्य भू-वाचकत्वं, तस्य च स्थान-वाचकतापि सम्भवति, तेन श्रियो लक्ष्म्याः इरा स्थानं श्रीरा कमलं, ताम् आजीवयति विकासयति इति श्री-राजीवः सूर्यः, तथैव ‘इरा भू-’ इत्यनेनैव कोशेन इरा-शब्दस्य जल-वाचकत्वम् अपि सम्भवति, ततश् च इराया जलाद् आजीवति उत्पद्यते इति इरा-जीवश् चन्द्रः, ततश् च श्री-राजीवश् च श्री-राजीवश् च श्री-राजीवौ चन्द्र-सूर्या “सरूपाणाम् एक-शेषः-” इत्य्-एकशेषः । तौ अक्षिणी यस्य स श्री-राजीवाक्षः । एवं च लक्ष्म्याः कर-स्थित-पद्मस्य एकतश् चन्द्र-किरण-सम्पर्काद् अन्यतः सूर्य-किरण-सम्पर्काच् च मुकुलितत्वं विकास-शालित्वं च सम्भवति, तेन शङ्खस्य पद्मस्य चोपमानोपमेयभावः सम्भवति इति ज्ञेयम् । स्रग्धरा वृत्तम् एतत् “म्-र-भ्-नैर् यानां त्रयेण त्रि-मुनि-यति-युता स्रग्धरा-” इति तल्-लक्षणात् ॥ १ ॥
अधुना कविः स्वकीयकाव्यरचनासामर्थ्यप्रकटनाय पूर्वजप्रशंसापूर्वकं वस्य कोविदत्वं प्रपञ्चयन्श्चिकीर्षितं ग्रन्थं प्रतिजानीते-काञ्चीति ।
विश्वास-प्रस्तुतिः
काञ्ची-मण्डल-मण्डनस्य मखिनः कर्नाट-भू-भृद्-गुरोस्
तातार्यस्य दिगन्त-कान्त-यशसो यं भागिनेयं विदुः ॥
अस्तोकाध्वर-कर्तुर् अप्पय-गुरोर् अस्यैष विद्वन्-मणेः
पुत्रः श्री-रघु-नाथ-दीक्षित-कविः पूर्णो2 गुणैर् एधते ॥ २ ॥
विश्वास-टिप्पनी
venkaTAdhvarin refers to the English residing in chennai. Chennai was given to English only in 1639 and their proper settlement came up a few years later with the fort being built.
Venkata tatarya was alive in the early 1520s when the grant was made by Krishna Raya. Maybe venkata tatarya was succeeded by PMB in the last years of KDRs reign PMB was active till 1580s. PMB was contemporary to achyuta deva raya and sadashiva raya. His adopted son (brother’s son), Lakshmi Kumara became guru of venkatapati the great. LKT started in 1585 when he was 14.
In that case he must be the bhagineya of venkata tatarya who was the guru of Krishna deva raya. Since krishna raya gives agra tamboola maryada in all Vishnu kshetras in his empire to said tatarya. Or maybe venkata tatarya was succeeded by PMB in the last years of KDRs reign.
मूलम्
काञ्चीमण्डलमण्डनस्य मखिनः कर्नाटभूभृद्गुरो
स्तातार्यस्य दिगन्तकान्तयशसो यं भागिनेयं विदुः॥
अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैष विद्वन्मणेः
पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो2 गुणैरेधते ॥ २ ॥
बाल-कृष्णः
काञ्ची-मण्डलस्य काञ्ची-नगरी-राष्ट्रस्य मण्डनः भूषण-भूतः तस्य । स्वकीय-विद्वत्त्व-प्रभावेण काञ्ची-राजधान्यां प्रसिद्धस्येति भावः । मखिनः प्रशस्त-यज्ञ-कर्तुः । प्रशंसार्थे ऽत्र मतुबर्थ इनिः ।
“भूम-निन्दा-प्रशंसासु” इत्य्-आद्य्-उक्तेः ।
कर्नाट-भूभृतः कर्नाट-देशाधिपते राज्ञः कृष्णराय-सञ्ज्ञकस्य “भूभृद् भूमिधरे नृपे” इत्य्-अमरः ।
गुरोः वेदादेर् अध्यापकस्य ।
यद्यपि “स्यान् निषेकादि-कृद् गुरुः” इत्य् अमरात्
“निषेकादीनि कर्माणि
यः करोति यथा-विधि ।
सम्भावयति चान्नेन
स विप्रो गुरुर् उच्यते”
इति मनु-स्मृतेश् च गर्भाधानादि-संस्कार-कर्तुः पितुर् एव गुरुत्वं सम्भवति,
तथापि तथात्र असम्भवाद् अध्यापकस्यैव गुरुत्वं ग्रन्थ-कर्तुर् अभिप्रेतम् ।
अन्यथा ‘कर्नाट-भूभृत्-पितुः’ इत्य् एव ब्रूयात् ।
तथा चाह मनुर् अपि-
“अल्पं वा बहु वा यस्य
श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्यात्”
इति । एवं च गुरु-शब्देनाध्यापक-ग्रहणे न दोष इत्य् अलम् अप्रस्तुत-पल्लवितेन । दिग्-अन्तेषु कान्तं मनोहरं श्राव्यम् इति यावत् । यशः कीर्तिर् यस्य तस्य ।
तातार्यस्य ताताचार्यस्य । यं (अप्पयगुरुं) भागिनेयं भगिनी-पुत्रं, भगिनी-शब्दात् “स्त्रीभ्यो ढक्” इत्य् अपत्यार्थे ढक् । “खस्रीयो भागिनेयः स्यात्” इत्य्-अमरः । विदुः जानन्ति । लोका इति शेषः । ‘विद ज्ञाने’ इत्य् अस्माल् लट् । “विदो लटो वा” इति उस् । अस्य प्रसिद्धस्य अस्तोकानां बहूनाम् अध्वराणां ज्योतिष्टोमादि-यागानां “यज्ञः सवो ऽध्वरो यागः” इत्य्-अमरः । कर्तुर् अनुष्ठातुः । विद्वत्सु पण्डितेषु मणेः श्रेष्ठस्य, अप्पय-गुरोः अप्पय-दीक्षितस्य, एष प्रसिद्धः पुत्रः श्री-रघुनाथ-दीक्षिताख्यः कविः, गुणैः सौशील्यादिकैः पूर्णः सन् एधते वर्धते । शार्दूल-विक्रीडितं वृत्तम् । “सूर्याश्वैर् म-स-जास् त-ताः स-गुरवः शार्दूल-विक्रीडितम्” इति तल् लक्षणात् ॥ २ ॥
विश्वास-प्रस्तुतिः
तत्-सुतस्-तर्क-वेदान्त-
तन्त्र-व्याकृति-चिन्तकः ॥
व्यक्तं विश्वगुणादर्शं
विधत्ते वेङ्कटाध्वरी ॥ ३ ॥
मूलम्
तत्सुतस्तर्क-वेदान्त-तन्त्र-व्याकृतिचिन्तकः ॥
व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी ॥ ३ ॥
बाल-कृष्णः
तत्सुत इति । तस्य रघुनाथदीक्षितस्य सुतः पुत्रः, तर्कश्च वेदान्तश्च तन्त्रं मीमांसा च व्याकृतिर्व्याकरणं च तेषां चिन्तको विवेचकः ज्ञातेत्यर्थः । वेङ्कटाध्वरी एतन्नामा कविः विश्वगुणादर्शं विश्वस्य जगतो गुणा आदृश्यन्तेऽस्मिन्निति तथाभूतं ‘दृशिर् प्रेक्षणे’ इत्यस्मादाङ्पूर्वकादधिकरणे घञ् । अथवा विश्वगुणादर्श इति सञ्ज्ञा । तथाच “पुंसि सञ्ज्ञायां घः प्रायेण” इति घः । एवमन्वर्थचम्पूग्रन्थं, व्यक्तं प्रसिद्धं यथा स्यात्तथा विधत्ते करोति । ‘डुधाञ् धारण-पोषणयोः । इत्यस्माद्धातोर्लट् । वृत्तमनुष्टुप् “ पञ्चमं लघु सर्वत्र” इत्यादितल्लक्षणात् ॥ ३ ॥
अथ कविः स्वचिकीर्षितप्रबन्धस्येतरप्रबन्धविलक्षणतामाह-
विश्वास-प्रस्तुतिः
पद्यं यद्य् अपि विद्यते बहु सतां हृद्यं, विगद्यं न तत्,
गद्यं च प्रतिपद्यते न विजहत्-पद्यं बुधास्वाद्यताम् ॥
आदत्ते3 हि तयोः प्रयोग उभयोर् आमोद-भूमोदयं,
सङ्गः कस्य हि न स्वदेत मनसे माध्वीक-मृद्वीकयोः? ॥ ४ ॥
मूलम्
पद्यं यद्यपि विद्यते बहु सतां हृद्यं विगद्यं न तद्
गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम् ॥
आदत्ते3 हि तयोः प्रयोग उभयोरामोदभूमोदयम् ।
सङ्गः कस्य हि न स्वदेत ? मनसे माध्वीक-मृद्वीकयोः ॥ ४ ॥
बाल-कृष्णः
पद्यमिति । (लोके) यद्यपि पद्यं केवलं श्लोकरूपं काव्यं रघुवंश-कुमारसम्भव-माघ-किरातार्जुनीयादिकं, तच्च हृद्यं मनोहारि विद्यते, तथापि तद् विगद्यं गद्यरहितं ( अस्ति तस्मात् ) सतां बहु अतिमनोहरं रसिकानां यथेप्सितमनोहरमित्यर्थः । न भवति । तर्हि गद्यमेव कर्तव्यमित्याह । गद्यं च गद्यमपि (तत्तु कादम्बर्यादिकं) पद्यं विजहत् पद्यरहितं ( विद्यते, तस्मात्तदपि ) ‘ओहाक् त्यागे’ इत्यस्मात् शतृप्रत्ययः । बुधानाम् उभयोरपि मर्मज्ञपण्डितानां, आस्वाद्यतां रुच्यर्हतां न प्रतिपद्यते न प्राप्नोति । तर्हि किंविधमिष्टं स्यादित्याकाङ्क्षायामाह-आदत्ते इति। हि यस्मात् कारणात् तयोर्गद्यपद्ययोरुभयोः प्रयोगः प्रकृष्टो योगः अस्ति यस्मिन् सः, अत्र अर्शआदित्वान् मत्वर्थीयोऽच् । तादृशश्चम्पूप्रबन्धः । “गद्य-पद्यात्मकं काव्यं चम्पूरित्यभिधीयते” इति वचनात् । आमोदस्यानन्दस्य " मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-सम्मदाः” इत्यमरः । भूम्नः अतिशयस्योदयमुत्पत्तिं विधत्ते करोति । हि यतः माध्वीकं मधु च “मधु माध्वीकमद्ययोः” इत्यमरः । मृद्वीका द्राक्षा च “मृद्वीका गोस्तनी द्राक्षा” इत्यमरः । तयोः सङ्गः एकत्र योगः । कस्य मनसे न स्वदेत कस्य मनसि रुचिं नोत्पादयेत् ? अपि तु सर्वस्मै रोचेतेत्यर्थः । ‘ष्वद आखादने’ इत्यस्य विधिलिडि रूपम् । मनसे इत्यत्र च “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । अर्थान्तरन्यासोऽत्रालङ्कारः । विशेषेण सामान्यस्य समर्थनात् । तदुक्तम्-“सामान्यं वा विशेषो वा तदन्येन सम र्थ्यते । यत्र सोऽर्थान्तरन्यासः” इति । वृत्तं शार्दूलविक्रीडितम् । लक्षणं प्राक् (२ श्लोकटीकायां) कथितम् ॥ ४
सम्प्रति कविः स्वकाव्ये वर्णनीयकथाप्रस्तावमाह ॥
विश्वास-प्रस्तुतिः
विश्वावलोक-स्पृहया कदाचिद् विमानम् आरुह्य समान-वेषम्4 ॥
कृशानु-विश्वावसु-नामधेयं गन्धर्व-युग्मं गगने चचार ॥ ५ ॥
मूलम्
विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम्4 ॥
कृशानु-विश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार ॥ ५ ॥
बाल-कृष्णः
विश्वावलोकेति । कदाचिद् विश्वस्य जगतोऽवलोकश्चमत्कारप्रेक्षणं तस्य स्पृहया इच्छया “इच्छा काङ्क्षा स्पृहेहा तृट्’ इत्यमरः । समानस्तुल्यो वेष आकल्पः यस्य तत्, कृशानुरिति विश्वावसुरिति च नामधेये नामनी यस्य “नामधेयं च नाम” च इत्यमरः। तद् गन्धर्वयोर्युग्मं द्वौ गन्धर्वावित्यर्थः । विमानं व्योमयानं “व्योमयानं विमानोऽस्त्री” इत्यमरः । आरुह्याधिरुह्य, गगने आकाशे “ -गगनमनन्तं” इत्यतः “पुंस्याकाश-विहायसी” इत्यन्तोऽमरः । चचार । उपजातिवृत्तम् । “अनन्तरोदीरित (इन्द्रवज्रोपेन्द्रवज्रा) लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः” इति तल्लक्षणात् ॥ ५॥
द्वयोर्गन्धर्वयोरवस्थाविशेषमाह
बाल-कृष्णः
-तत्रेति । तत्र द्वयोर्मध्ये इत्यर्थः । कृशानुरिति । कृशानुः कृशानुनामा गन्धर्वः । अकृशा बहुला असूया गुणेषु सत्खपि दोषाविष्करणं " अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि” इत्यमरः । यस्य तथा भूतः सन् , पुरोभागिनः दोषैकदृशः “ दोषैकदृक् पुरोभागी” इत्यमरः । पदं स्थानं “पदं व्यवसित-त्राण-स्थान-लक्ष्माङ्घ्रि-वस्तुषु” इत्यमरः । गतः प्राप्तः अभूत् । अनेन वस्तुतो गुणग्राहित्वेऽपि गुणदार्ढ्यार्थमेव बहिर्दृश्यमानं पुरोभागित्वं नटवत्स्वीकृतमिति सूचितम् । “दार्ढ्याय गुणसमृद्धेः" इत्येतद्ग्रन्थान्ते तेनैवोक्तत्वात् । विश्वावसुस्तु विश्वं वसु धनं यस्येति “वसू रत्ने धने वसु" इत्यमरः । “विश्वस्य वसुराटोः” इत्यनेन विश्वशब्दस्य दीर्घः । विश्वस्य गुणानां ग्रहणे वर्णने कौतुकी कुतूहलवान् । अभूद् आसीत् । अनेन तेनात्मनाम अन्वर्थकं कृतमिति ध्वनितम् । वृत्तमनुष्टुप् । लक्षणं पूर्वम् ( ३ श्लो० टीकायाम् ) उक्तम् ॥ ६ ॥
“पुरोभागिपदं गतः” “विश्वगुणग्रहणकौतुकी” इत्यनेनास्मिन्काव्ये प्राधान्यतया विश्वगुण-दोषवर्णनमेव विषय इति द्योतितं, तत्र प्रथमतः माङ्गल्यतया च “आदित्या जायते वृष्टिवृष्टेरन्नं ततः प्रजाः” इति स्मृतेः “ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान् रश्मिषु सन्निधत्ते यद्दक्षिणां यत्प्रतीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्व प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते” इति श्रुतेः जगत्प्राणभूतत्वेन च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तौति_