श्रुतिलिङ्गाधिकरण-न्यायः
अङ्गत्वप्रमाणेषु लिङ्गापेक्षया श्रुतिर् बलीयसी।
“ऐन्द्र्या गार्हपत्यम् उपतिष्ठते” इत्यस्मिन् गार्हपत्याग्नेर् उपस्थानम् ऐन्द्र्या कथम्?
- इन्द्रस्य गार्हपत्ये लक्षणा स्यात्। अथवा गार्हपत्यस्य +इन्द्रे लक्षणा - अत्र “ऐन्द्र्या +इन्द्रम् उपतिष्ठते” इति श्रुतेः कल्पनेव भवति लिङ्गेन।
- तत्र मन्त्रस्येन्द्र-प्रकाशन-सामर्थ्य-रूपाल् लिङ्गाद् इन्द्रोपस्थानाङ्गत्वे प्राप्ते, ‘ऐन्द्र्या’ इति तृतीयाश्रुत्या ‘गार्हपत्यम्’ इति द्वितीयाश्रुत्या च गार्हपत्योपस्थानाङ्गत्वेन विधानाल् लैङ्गिक इन्द्रोपस्थाने विनियोगो बाध्यते । नाम “ऐन्द्र्या +इन्द्रम् उपतिष्ठते” इति श्रुतेः कल्पनम् बाध्यते।