वैष्णवादि-भूत-शुद्धि-परम्पराः

(जाले पठितुम् - https://rebrand.ly/bhuta-shuddhi । )

शुद्ध-भूत-कृते देहे
कथं दूय इति स्मयम्।
विश्वासः स्वमुखे बध्नन्
भूत-शुद्धिं विशुन्धति॥

सारः

तन्त्र-परम्पराः साधकानाम् असाधकानाम् अपि जिज्ञासा-विषयाः।
जिज्ञासायाम् उद्देशा नाना,
यथा - तत्त्वज्ञानम्, कर्मानुष्ठानम्, मन्त्रसिद्धिः, देव-तादात्म्यम्,
इतिहास-स्पष्टता, पाण्डित्य-स्पर्धाः, सामाजिक-क्षोभः।
तेनैव बहुविधाः प्रबन्धा रचितचराः।
मुख्यतया तेषु तन्त्रागमानुवादाः, साम्प्रदायिक-पद्धतयस्, तत्त्व-दर्शनालोडनानीति राजन्ते।
एवम् एषु जिज्ञासुषु केषाञ्चन प्रीतये प्रबन्धोऽयम् भवितेति प्रतीमः।

शैवेषु वैष्णवैषु च तान्त्रिक-पद्धतिषु, भूतशुद्धिर् इति कर्म प्रसिद्धम्।
अनेन सम्बद्धा मन्त्रपरम्परा काचनास्मद्विषयीभूतः।
तत्र बीजमन्त्राः केचित् प्रयुज्यन्ते। तेषु साम्यानि व्यत्यासान् चानुसन्धित्सामः।
एवञ् च, भूत-शुद्धि-प्रयोगस्य कदौचित्यम् इत्य् अपीषद् विचिनुमः।
तथा, तेषु वैष्णव-सम्प्रदायेषु भूत-शुद्धौ प्रयुज्यमानानाम् मन्त्राणां व्यत्यासान्तराणीक्षामहे।
तथा च, +आधुनिक-भूत-शास्त्रानुरोधेन भूतक्रमस्य कल्पनान्तरम् अप्य् उपस्थापयामः।

विशिष्यानेन सम्प्रदायान्तरावलोकनेन
स्वाभ्यस्त-गुरूपदिष्ट-प्रयोग-परिष्काराभावे ऽप्य्
अनुसन्धेयार्थप्रपञ्चस्य वा विस्तारो भवेद् एव।

परिचयः

सम्बद्ध-कृतयः

भारतीयेषु देवता-प्रीत्य्-अर्थं तन्त्रागमा बह्व् आश्रियन्ते।
सत्य् एवम्, तन्त्र-परम्परा साधकानाम् इतरेषां चापि परामर्शविषया जाताः।
तथापि, केषाञ्चन सूक्ष्म-कर्मणाम् अध्ययने वैगुण्यं दृश्यते।
तत्र कारणानि प्रस्तुम आदौ।

साम्प्रदायिकाः प्रायेण साधका गुरूपदिष्ट-मन्त्राद्य्-अनुसरणेन तृप्ताः।
सम्प्रदायान्तरे, मन्त्रादेर् इतिहासे वा तेषां कौतूहलम् एव न जायते।
अकस्मात् समान-प्राये मन्त्रे कर्मणि वा भेदान् ज्ञात्वाऽपि
“उभयम् अपि तत्-तद्-देवोपदिष्टम्, प्रामाणिकम्” इति वा मीमांसकवत्,
“अस्मत्-सम्प्रदायोक्तम् एव प्रामाणिकम्, इतरैर् व्यभिचरद्भिर् अन्यथा विकृतम्” इति वा ऽभिनिवेशेन
+ऐतिहासिक-विमर्शं तिरस्कुर्वन्ति।
ये पुनः परस्म्प्रदायान् ईक्षन्ते, तेऽप्य् अनैतिहासिकदृष्ट्या वीक्षन्ते, अपूर्णतया च, यथा प्रकृतविषयय् आह्निकार्थप्रकाशिका 1

पाश्चात्य-प्रायास् तु
यद्य् अपि स्थूलेष्व् ऐतिहासिकेषु सामाजिकेषु च विषयेषु क्षोभजनने, पाण्डित्यस्पर्धासु चासक्ताः,
दीक्षादि-साधना-विमुखा, देवता-सम्बन्ध-विरहिताः
स्वानुष्ठानाभावात्, न सूक्ष्म-कर्म-गत-विषयेष्व् अवदधति -
“सुबद्धम् अबद्धं वाऽन्धश्रद्धान्वितं किम् अपि भणन्ती"त्य् उपेक्षन्ते।

ननूभय-पक्षाभ्याम् अपि गुणान् आदाय
क्षुद्राभिनिवेशौदासीन्यादि-दोषान् वर्जयित्वा
साधकोत्तमैर् तान्त्रिक-विषयालोडनं परिपूर्णतरं साधनीयम्।
अनया दृष्ट्या हि कश्चन प्रयासो ऽसौ भूत-शुद्धि-कर्मणि।

भूत-शुद्धिः

पञ्च महाभूतानि पृथिव्य्-अप्-तेजो-वाय्व्-आकाशा इति प्रसिद्धानि। भूत-शुद्धिर् नाम
शरीर-गत-भूतानां किञ्चन शोधन-कल्पनम्,
तद्-अङ्गत्वेन क्वचित् पापहानस्यापि कल्पनम्।

भूत-शुद्धि-पद-व्युत्पत्तिम् आह विशुद्धेश्वरे 2

“शरीराकार-भूतानां
भूतानां यद्-विशोधनम् ।
अव्यय-ब्रह्म-संयोगात्
भूत-शुद्धिर् इयं मता”

कच्छपेश्वर-टीकायाम् 4 -

भूत-रूप-देहाभिमान-राहित्यं भूतशुद्धिः
विषयाभिलाष राहित्यं देह-शुद्धिः
अथवा अष्टमूर्तित्व-दर्शनं भूतशुद्धिः

अन्यत्र -

पर्यन्ततः प्रामाण्येन प्रकाशानन्द-सामरस्यानुभवो भूतशुद्धिः इत्युपनिषत् ।
सा खल्वलौकिकी सृष्टिर् इत्युच्यते ।5

शोध्यमानं च शरीरं साधकस्यैव स्यात्,
लोह-विग्रहादि वापि स्यात्।
पुनः शुद्धि-कर्मणो ऽस्य कर्ता
स्वयं साधको वा स्यात्, तद्-गुरुर् अपि वा (यथा दीक्षादौ)।

कदा ऽपेक्ष्यते भूत-शुद्धिः?

आवाहनाराधनाभ्याम्

देवताराधनं यदा कदाचिद् आवाहनात् परम् इष्येत,
तदा क्रियते भूत-शुद्धिः।

केषाञ्चनानुसारेण, न सालग्रामे भूत-शुद्धिर् अपेक्ष्यते - विष्णोस् तत्र नित्य-सान्निध्यात्।
माध्वास् तु तत्रापीच्छन्ति सङ्क्षेपतः शुद्धिं काञ्चन6

बाह्य-यागात् प्राङ् निर्दिष्टे हृद्-यागे त्व्
अवश्यम् अपेक्ष्यते।

तत्राराधन-मात्रं निमित्तं साधक-शरीर-भूत-शुद्धाव् इति केचिद्, यथा

अप्राकृत-विग्रह-युक्तस्य भगवतः,
प्राकृत-शरीरस्य आराधनानर्हत्वात्,
तद्-आराधन-योग्यत्वाय

इत्य् आह्निकार्थप्रकाशिका 1

समस्त-हेय-प्रत्यनीकस्य भगवतः आराधनं
नहि प्राकृत-हेय-शरीर-विशिष्टः आराधकः कर्तुम् अर्हति ।
ततश् चाराधकस्यापि अप्राकृत-शरीर-सम्पादनार्थं प्राक्तन-शरीराम्भक-भूतानां शुद्धिर् अत्र क्रियते
इति भूतशुद्धिः भगवदाराधनाङ्गम्॥

इति श्रीवैष्णव-सदाचार-निर्णयटीका 3

“भूतैः शुद्धिर्” इति वा विग्रहान्तरेण
यम्, रम्, वम् इति बीजमन्त्राणां क्रमशः प्रयोगो ऽपि दृश्यते
कर-पात्रादेश् शुद्धेर् वा शक्ति-निक्षेपस्य वा कल्पने 7

एवं व्यस्त-प्रयोगो दृश्यते, यथा 8-

One can use the bija mantras to the elements for this purpose. These are:
1. A fragrant oil or sandalwood paste for the Earth element and the sensory quality of smell. Oṁ Laṁ Namaḥ.
2. Some sweet liquid food like milk for the Water element and the sensory quality of taste. Oṁ Vaṁ Namaḥ.
3. A ghee lamp for the Fire element and the sensory quality of sight. Oṁ Raṁ Namaḥ.
4. Some incense for the Air element and the sensory quality of touch. Oṁ Yaṁ Namaḥ.
5. A flower for the Ether element and the sensory quality of sound. Oṁ Haṁ Namaḥ.

निमित्तान्तराणि

कैश्चित् तु देवताराधनम् अन्तरा ऽपि
स्वतन्त्रं ध्यानम् इव भूत-शुद्धिः क्रियते।9 यथा 8 -

Another important Mantra Pranayama method is to use the seed mantras of the five elements (la, va, ra, ya, ha).

शैव-सिद्धान्तिनश् च 10 11 12 4 13 दीक्षया बाह्यानि षड्-अध्वस्थ-भूतानि शुद्धानि चेद् अपि प्रारब्ध-कर्म-वशात् -

दीक्षा-संशुद्धस्यात्मनः
प्राकृते पञ्च-भूतात्मके अशुद्धे देहे
मायीय-व्यक्ति-शक्ति-प्रेरित-कर्मोपभोग-स्थाने ऽवस्थानम् अयुक्तम् इति
मन्त्रशुद्ध्या स्वदेहो मन्त्रमयः प्रत्यहं प्रतिक्षणं च विधेयः -
चित्ते स्थैर्याभावात् ॥

… मायात्मिकानां निरोधिनीनां विघ्न-रूपाणां मल-स्वरूपाणां नोरोधाय,
तस्मिन् देहे शिव-शक्त्य्-अभिव्यक्तये च
प्रत्यहं प्रतिक्षणं भूत-शुद्धिर् विधेया चित्त-स्थैर्याभावात् ॥ 10

माता-पितृ-मलोद्भूत-
देहे स्थानं न युज्यते ।
तस्मान् मन्त्रमयः कार्यः
क्रियते प्रतिवासरम् ॥
धारणाशोधिते देहे
शिवः साक्षात् प्रदृश्यते ।

  • सिद्धान्तशेखरे

प्राणनिरोधाय भूत-बीज-मन्त्राणां व्यस्त-प्रयोगा अपि वर्तन्ते, यथा 8 -

If your inhalation is heavy and restricted, for example, you can repeat the air mantra Yaṁ or the ether mantra Haṁ to open it up. If your breathing overall is too fast and ungrounded, you can repeat the earth mantra Laṁ to slow down and stabilize it. …

सम्प्रदायावलोकनम्

आदौ भिन्नेषु सम्प्रदायेषु भूतशुद्ध्यंशान् अवलोकयामः।

कल्पनानि

सर्वत्र भूतशुद्धौ सामान्यांशा इमे -
जीवं पृथक् कल्पयित्वा,
दूषित-भूत-जात-भागस्य-नाशः,
शुद्ध-भूत-जात-पृथक्-कल्पनं,
तत्र जीवस्यावस्थापनं च।

भूत-क्रमेण संहार-सृष्टी

भूतशुद्धौ संहारक्रमेण सृष्टिक्रमेण च मन्त्रा न्यस्येरन्, तद्-विना ऽपि भूतानि वा कल्प्येरन्।
सृष्टि-क्रमे - आत्मन आकाशः, आकाशाद् वायुः, वायोर् अग्निः, अग्नेर् आपः, अद्भ्यः पृथिवी - इति।
संहार-क्रमे तद्विपरीतम्।
अस्मिन् क्रमे जीवो यथा क्वचिद् देवतया सह भवति, तथा कल्प्यते। 14

नन्व् इदं तैत्तिरीयोपनिषद्य् आम्नातम् 15 -

तस्मा॒द् वा ए॒तस्मा॑द् आ॒त्मन॑ आका॒शस् सम्भू॑तः ।
आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न᳚म् । अन्ना॒त् पुरु॑षः ।

आभ्यां शोध्यमानस्य शरीरस्य सृष्टि-लयौ कल्प्येते, यथा गोपालदेशिकः 1 -

परमात्मनस् तम उत्पादयामि,
तमसः प्रकृतिम् उत्पादयामि,
प्रकृतेर् महान्तम् उत्पादयामि,
महतो ऽहङ्कारम् उत्पादयामि,
अहङ्काराद् इन्द्रियाणि शब्दतन्मात्रञ् चोत्पादयामि,
शब्द-तन्मात्राद् आकाशम् उत्पादयामि

इति चिन्तयेत् ।
“ओं यान्नमः पराय पुरुषात्मने नम” इति नासाग्रे न्यस्यन्,
“आकाशात् स्पर्शतन्मात्रम् उत्पादयामि,
स्पर्शतन्मात्राद् वायुम् उत्पादयामी"ति चिन्तयेत् ।
“ओं रान्नमः पराय विश्वात्मने नम” इति हृदये न्यस्यन्
“वायो रूपतन्मात्रम् उत्पादयामि,
रूपतन्मात्रात् तेज उत्पादयामी"ति चिन्तयेत् ।
“ओं वान्नमः पराय निवृत्त्यात्मने नम” इति गुह्ये न्यस्यन्
“तेजसो रसतन्मात्रम् उत्पादयामि,
रसतन्मात्राद् अप उत्पादयामी"ति चिन्तयेत् ।
“ओं लान्नमः पराय सर्वात्मने नम” इति पादयोः न्यस्यन्
“अद्भ्यो गन्धतन्मात्रमुत्पादयामि,
गन्धतन्मात्रात् पृथिवीम् उत्पादयामी"ति चिन्तयेत् ।

अवधेयं यद् वैखानसा बीजमात्रैर् एव संहार-सृष्टि-न्यासौ कृत्वा,
पञ्चोपनिषन्-मन्त्रान् न्यस्यन्ति।16

किञ्च पञ्चोपनिषन्मत्राणाम् अर्थम् अन्यथा व्याक्रियमाणे सति 17, अप्राकृत-शरीरे चेष्टे सति, महत्तो भूतोत्पत्ति भावनं चिन्त्यम् -

तच्च किंद्रव्यात्मकम् इत्यत्राह - पञ्चोपनिषदिति ।
पञ्चोपनिषन्-मन्त्र-प्रतिपादित–पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयी ।
सा चेश्वरादीनां परमपदनिलयानां तत्तदिच्छानुरोधेन शरीरेन्द्रिय-विषयादिरूपेणावतिष्ठते ।

तत्रेयान् विशेषः - यत्प्राकृतानि भूतानि महद्-आदिभ्य उत्पद्यन्ते ।
अप्राकृतानि तु न तथा ।
तानि स्वत एव प्रतिष्ठितानि ।
अतो नित्यानि ।

पापपुरुष-सहित-देह-नाशः

क्वचित् तु, एतत् स्थाने, एतद् अतिरिच्य वा कल्पनान्तरं निर्दिश्यते, यथा 2 18 7 16 19 20 21 22 23 24 25-

हृदयस्थं जीवात्मानं मूर्धास्थ-परमात्मनि संयोज्य,
तत्र चतुर्-विंशति-तत्त्वानि लीनानि विभाव्य
वायुबीजेन (क्वचित् पापपुरुषेण सहितं) देहं संशोष्य
वह्निबीजेन दग्ध्वा, भस्मन्य् अनिष्टांशम् अपोह्य,
जल-बीजेन देहं विरचय्याभिषिच्य,
पृथिवी-बीजेन सुदृढं पुण्डीकृतं वा विचिन्तयेत्।
ततः केचिद् 16 आकाश-बीजेन शुद्धशरीरस्य सुशिरीकरणम् इच्छन्ति ।

एतद्-उपरि केचित्6
पुण्य-पुरुषं कल्पयित्वा पाप-पुरुष-दूषित-स्थानेषु निवेशयन्ति।

वटवृक्षः

शैवसिद्धान्तिन एवं कल्पयन्ति तदीय-सङ्क्षिप्तक्रमे 10 11 12 4 13 26 -

आशरीराम् मूर्ध्न्य् अधोमुख-पद्म-मुकुल-युक्तां सुषिररूपां सुषुम्नां सञ्चिन्त्य, परितः शक्तिं विभाव्य,
पद्म-मुकुलान् ऊर्ध्व-मुखान् भिन्नग्रन्थींश्च विधाय,
जीवं हूङ्कार-मूर्ध्नि विन्यस्य, द्वादशान्ते शिवे संयोजयेत्।
ततः तत्त्वसंहारम् भावयेत् - विस्तारेण सङ्क्षेपेण वा।
ततः स्थूलदेह-शुद्धिः-

स्वदेहं पृथिव्यादि-पञ्चभूत-बीजं, ब्रह्म-विष्णुभ्याम् उत्पादिताङ्कुरं, पूर्वार्जितधर्ममूलं, विद्येश्वर-परिपालितं, कलादि-तत्त्व-सारं, तन्मात्रेन्द्रिय-शाखोपशाखं, शब्दादि-विषयालोचन-पल्लवं, भाव-प्रपञ्च-कुसुमं, बुद्ध्य्-अध्यवसाय-सङ्कल्प-फलं, पुरुष-विहङ्गोपभोग्यं, भोग्य-भोक्तृत्व-रसम् एव, वट-वृक्ष-साधर्र्म्याद् वृक्षभूतं शरीरम्, ऊर्ध्वमूलम् अधश्शाखं विभाव्य
… पार्थिव्या धारणया ह्लाम् इत्युच्चार-पञ्चकेन पत्र-पुष्प-फल-रहितं स्तब्धं विचिन्त्य
पूरकापरार्धेन जलधारणया ह्वीम् इत्य् उच्चारचतुष्टयेन स्निग्ध-पत्रपुष्प-फलोपेतं विभाव्य
द्वादश-मात्र-कुम्भकेनाग्नि-धारणया ह्रूम् इत्य् ऊच्चार-त्रितयेन पादाङ्गुष्ठोत्थित-कालाग्निना शुष्कं दग्धंविभाव्य
रेचक-पूर्वार्धेन वायु-धारणया ह्यैम् इत्युच्चारद्वयेन भस्मीभूतं दशदिक्षु प्रलीनं विभाव्य
रेचकपरार्धेन नाभस्या धारणया ह्लौम् इत्य् एकोच्चारेण शुद्ध-स्फटिक-रूपं परम-व्योम-रूपं चिन्तयेत्

ततः परं शरीर-प्लावनं, सूक्ष्म-देह-प्रत्यानयनम् इति च कल्पयन्ति।

विरुद्ध-भूतैः शोधनम्

शैवसिद्धान्तिन एवं कल्पयन्ति तदीय-चिस्तृत-क्रमे 10 11 12 4 13 -

  • पूर्वोक्त-वट-वृक्ष-कल्पनवद् एवादौ जीवप्रतिनिधेः शिवसंयोगः, सूक्ष्मतत्त्वलयक्रमश् च।
  • पार्थिवमण्डलं देहव्यापकं सञ्चिन्त्य, तद्गुण-पञ्चक-क्षयं कल्पयित्वा, पृथिवीं शिवशक्ति-विशेषाधिष्ठान-बलेन शोधकत्व-शक्तियुक्तेन स्वविरुद्ध-वायुना ऽभिभूतां तदाकारां चिन्तयेत् ।
  • तथैव, तद्गुण-चतुष्क-क्षयं कल्पयित्वा, जलं स्व-विरुद्धाग्नि-नाभि-भूतं तद्-आकारं चिन्तयेत् ।
  • तथैव, तद्गुण-त्रिक-क्षयं कल्पयित्वा, वह्निं स्व-विरुद्ध-जलेनाभिभूतं तद्-आकारं भावयेत् ।
  • तथैव, तद्गुण-द्विक-क्षयं कल्पयित्वा, वायुं स्वविरुद्ध-पृथिवीतत्त्वेनाभि-भूत-स्वरूपं तद्-आकारं भावयेत् ।
  • तथैव, तद्गुण-क्षयं कल्पयित्वा, खं शब्द-गुणम् उत्सार्य, परबिन्द्वभिभूतं परमाकाश-स्वरूपं भावयेत् ।
  • दक्षिण-पादाङ्गुष्ठ-समुद्गतेनाग्निना शिवशक्त्यधिष्ठित-कालाग्निनाऽरब्ध शरीरं गुणक्षय-वशात् क्षीण-शक्तिकं भूतसमुदायात्मकं दग्ध्वा आप्लावयेत्।
  • पूर्वोक्त-वट-वृक्ष-कल्पनवद् अन्ते ऽपि शरीर-प्लावनं, सूक्ष्म-देह-प्रत्यानयनम् इति।

पूर्णा मन्त्राः

वैष्णवाः

क्वचित् पाञ्चरात्रिकाः 27 श्रीवैष्णवा 28 1 वैखानसाश् चैवं “पञ्चोपनिषन्मन्त्रा” इति प्रयुञ्जते -

  • ओं लां नमः पराय सर्वात्मने नमः
  • ओं वां नमः पराय निवृत्त्यात्मने नमः
  • ओं रां नमः पराय विश्वात्मने नमः
  • ओं यां नमः पराय पुरुषात्मने नमः
  • ओं षौं नमः पराय परमेष्ठ्यात्मने नमः

अस्य मूलं शेष-संहितायां पञ्चदशेऽध्याये, वृद्धहारीत-स्मृतौ चतुर्थेऽध्याये च विन्दन्ति।1

क्वचित् त्व् इत्थं देवताख्य-सहितम् अपि लभ्यन्ते मन्त्राः 27 3 29 30 31-

ॐ लां नमः पराय सर्वात्मने श्रीमते नारायणाय नमः।
ॐ वां नमः पराय निवृत्यात्मने अनिरुद्धाय नमः।
ॐ रां नमः पराय विश्वात्मने प्रद्युम्नाय नमः ।
ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय नमः।
ॐ षौं नमः पराय परमेष्ट्यात्मने वासुदेवाय नमः।

तत्रापि केचिद् अष्टाक्षर-रूप–मूल-मन्त्र-शिरस्कं प्रयोक्तव्यम् इति वदन्ति।3

गौडीया हरिभक्तिविलासानुसारिण एवम्32 -

  • ओं ळं नमः पराय नारायणाय सर्वात्मने नमः
  • ओं वं नमः पराय +अनिरुद्धाय निवृत्त्यात्मने नमः
  • ओं लं नमः पराय प्रद्युम्नाय विश्वात्मने नमः
  • ओं यं नमः पराय सङ्कर्षणाय पुमात्मने नमः
  • ओं षंं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः

काश्मीरि-केशव-कृतायाः क्रम-दीपिकायाः गोविन्दभट्टाचार्यकृत-टीकायाम् 33-

  • लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः ।
  • वं नमः पराय अनिरुद्धाय निवृत्त्य्-आत्मने नम इति लिङ्गे ।
  • लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये ।
  • यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे,
  • षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि ।

केचित् तु परमेष्ठ्यादेर् अनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥33

किन्त्वत्र वक्ष्यमाण-रीत्या बीजेषु कश्चन सम्भ्रमोऽस्ति।

गौतमीय-महातन्त्रे तु 34

  • शं परमेष्ठितत्त्वात्मने नमः (मूर्धनि)
  • यं पुंस्-तत्त्वात्मने नमः (मुखे)
  • लं विश्व-तत्त्वात्मने नमः (हृदये)
  • वं प्रकृति-तत्त्वात्मने नमः (उपस्थे)
  • ळं सर्व-तत्त्वात्मने नमः (पादयोः)

वैखानसाः केचित् 16 -

  • ॐ ‘लाम्’ नमः, पराय सर्वात्मने ऽनिरुद्धाय पृथिव्यै नमः
  • ॐ ‘वाम्’ नमः, पराय निवृत्त्यात्मने अच्युतायाद्भ्यो नमः
  • ॐ ‘राम्’ नमः, पराय विश्वात्मने सत्यायाग्नये नमः
  • ॐ ‘याम्’ नमः, पराय पुरुषात्मने पुरुषाय वायवे नमः
  • ॐ ‘हाम्’ नमः, परायपरमेष्ठ्यात्मने विष्णवे आकाशाय नमः

शैवाः

शैवसिद्धान्तिनः 10 11 12 4 13-

  • ॐ ह्लां निवृत्ति-कलायै हः हुं फट्
  • ॐ ह्वीं प्रतिष्ठा-कलायै हः हुं फट्
  • ॐ ह्रूं विद्या-कलायै हः हुं फट्
  • ॐ ह्यैं शान्ति-कलायै हः हुं फट्
  • ॐ हौं शान्त्यतीत-कलायै हः हुं फट्

केचनैषु13 बीजभागं क्रमशः ५,४,३,२,१ वारम् आवर्तयन्ति - तत्-तद्-भूत-स्थ–शब्द-स्पर्शादि-गुण-गणनया।

शैवाः केचित् 35 लं, वं, रं, यं, हं इति बीजानि शोषणादौ भूतशुद्धिक्रमे प्रयुञ्जाना अपि, इमान् मन्त्रान् भूतसंहारे प्रयुञ्जते -

  • ॐ ह्रां ब्रह्मणे पृथिव्यधिपतये निवृत्ति-कलात्मने हूं फट् स्वाहा ॥
  • ॐ ह्रीं विष्णवे जलाधिपतये प्रतिष्ठा-कलात्मने हूं फट् स्वाहा ॥
  • ॐ ह्रूं रुद्राय तेजोधिपतये विद्या-कलात्मने हूं फट् स्वाहा ।
  • ॐ ह्रैम् ईश्वराय वाय्व्-अधिपतये शान्ति-कलात्मने हूं फट् स्वाहा ॥
  • ॐ ह्रौं सदाशिवायाकाशाधिपतये शान्त्यतीत-कलात्मने हूं फट् स्वाहा ॥

केचिद् वक्ष्यमाणान् बीज-मन्त्रान् एव प्रयुञ्जते।9 तत्रापि, क्वचिद् आकाशबीजम् अन्तरा, अन्येषाम् एव प्रयोगो दृश्यते2 18

बीजमन्त्राः

बीजमन्त्रास् तत्-तद्-भूत-शक्तेः प्रतीकानीव।

शैवाः शाक्ताश् च केचित् - हं यं रं वं लम् इति क्रमशः ख-वाय्व्-अग्नि-जल-पृथ्वीनाम् बीजमन्त्रान् आहुः।9 36 21 35

शैवसिद्धान्तिनस् तु 10 11 12 4 13 मिश्र-बीजं प्रयुञ्जते -

वर्णैर् युक्ता मन्त्राः वर्णमन्त्राः
तत्र वर्णाः पार्थिवादि–ल-व-र-य-ह–बीजानि ।
मन्त्राश्च हृदय-(शिरः)-शिखा-कवच-शक्ति-बीजानि (हां, हीं, हूं, हैं, हौम्) ।
एवं ह्लां ह्वीं ह्रूं ह्यैं हौम् इति कला-मन्त्राः समुद्धृत्ताः ।
12

वैखानसाः - हां यां रां वां लाम् इति क्रमशः प्रयुञ्जते। 16

पाञ्चरात्रिकाः केचित् - षौं यां रां वां लाम् इति क्रमशः प्रयुञ्जते।28 तत्र - षाम् इत्य् अपि पाठो दृष्टः। विष्वक्सेनसंहितायां क्षौम् इत्य् अपि वर्तते।37

गौडीय-वैष्णवे हरिभक्तिविलासे - षं यं लं वं ळम् इति क्रमशः प्रोक्ताः।32

लकारेण सह प्रद्युम्नं न्यस्येद्
इत्य् अत्र केचिद् रेफेण सह न्यासं मन्यन्ते ।

इति तत्-कर्ता।

क्रमदीपिकायाम् 33-

न्यसेद् आकाशादि-स्थाने षोप-र-वलार्णैः सलवकैः ॥ क्र्द्_१।३१ ॥

तद्व्याख्याने 33 ततो हरिभक्तिविलासवत् षं यं लं वं ळम् इति क्रमशः साधयति गोविन्दभट्टाचार्यः -

षोपर-वलार्णैर् इति -कारः रेफस्य उप समीपं
तेन रेफ-समीप-वर्तिनौ य-कार-ल-कारौ लक्ष्येते
व-कारो ल-कारश् च।

एवं गौतमीयमहातन्त्रे ऽपि ततोऽल्प एव व्यत्यासः 34 - शं यं लं वं ळम् इति क्रमशः।

मातृकाचक्रविवेके - ळ, य, र, व, ल इति क्रमशः। 38

कुलाकुल-चक्रे - श, य, र, व, ल इति क्रमशः। 39

अत्यन्तासदृशान्य् अपि बीजाक्षराणि क्वचित् प्रयुज्यन्ते, यानि प्रकृत-सम्प्रदाय-वृक्षावलोकन-प्रयोजनय् अप्रासङ्गिकानीत्य् उपेक्षामहे,
किञ्च तत्रापि शिक्षाशास्त्राप्त-स्थानादिविवेकः स्फुट एव। यथा 40 -

ॐ अँ आँ इँ ईँ कँ खँ गँ घँ ङँ धारणिकायै पृथिव्यै हृदयाय नमः॥
ॐ उँ ऊँ ऋँ ॠँ चँ छँ जँ झँ ञँ पिण्डीकरणाभ्यःअद्भ्यःशिरसे स्वाहा ॥

देवता-शक्ति-कला-वर्ण-मण्डलादि

आत्मन आकाशः, आकाशाद् वायुः, वायोर् अग्निः, अग्नेर् आपः, अद्भ्यः पृथिवी इति क्रमे सति,

वैष्णवाः

  • पाञ्चरात्रिका (गौडीय-वैष्णवाश् चापि) एवम् मेनिरे -
    • “परमेष्ठि-शक्तिः (=चिच्छक्तिः), पुरुष-शक्तिः, विश्व-शक्तिः, निवृत्ति-शक्तिः, सर्व-शक्तिः इति पञ्च शक्तयो विष्णोः।”
    • तत्र निवृत्ति-शक्तेस् तु स्थाने प्रकृतिशक्तिं गौतमीयमहातन्त्रं वदति। 34
  • एतद् अतिरिच्य केचिद् वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः, नारायणः इति देवताः क्रमश ऊचुः।
  • वैखानसास्16 तु क्रमशः - विष्णुः, पुरुषः, सत्यः, अच्युतः, अनिरुद्ध इति देवता ब्रुवते।

माध्वास् त्व् एवं व्यत्यस्तं मन्यन्ते -

  • “वाय्व्-अन्तर्-यामी वायु-बीज-वाच्यः प्रद्युम्नः” 7
  • “अग्न्य्-अन्तर्-यामी अग्नि-बीज-वाच्यः - अनिरुद्धः 41 7/ सङ्कर्षणः7
  • “वरुणान्तर्-यामी वरुण-बीज-वाच्यो वासुदेवः”7

किञ्च, तेषां भूत-शुद्धि-परम्परैव सद्यो विचार्यमाणाया नितराम् भिन्नेति
नेह परिगण्यते।

शैवादयः

  • शैवाः केचित् 35 36 - सदाशिवः, ईश्वरः, रुद्रः, विष्णुः, ब्रह्मा +इति।

एतद् अतिरिच्य शैवसिद्धान्तिभिर् विस्तीर्णम् 10 11 12 4 13 -

  • पार्थिवमण्डलं, पीतं, कठिनं, वज्रलाञ्छितं, चतुरश्रं, लबीजं, सद्योजातब्रह्मणा चाधिष्ठितं, कारणेश्वर-ब्रह्मणा युक्तं, हृदय-मन्त्रेण संयुतं, निवृत्तिकलोपेतम्
  • आप्यमण्डलं, शुभ्रद्रवम्, अम्भोजलाञ्चितम्, अर्धचन्द्रं, वंबीजं, वामदेव-ब्रह्मणा ऽधिष्ठितं, कारेणेश्वरविष्णुना युक्तं, शिरो-मन्त्रेण संयुक्तं, प्रतिष्ठा-कलोपेतम्
  • वह्निमण्डलं, रक्तं, स्वस्तिकलाञ्छितम्, अश्रं, रबीजम्, अघोर-ब्रह्मणा ऽधिष्ठितं, रुद्रकारणेन, युक्तं, शिखामन्त्रेण, संयुतं, विद्या-कलोपेतम्
  • वायु-मण्डलं, कृष्णं, षडश्रं, बिन्दुलाञ्छितं, यबीजं, तत्पुरुषब्रह्मणा ऽधिष्ठितम्, ईश्वरकारणेन, युक्तं, कवचमन्त्रेण, संयुतं, शान्ति-कलोपेतम्
  • आकाशमण्डलं, वृत्तं, धूम्रवर्णं, बिन्दुं, शक्तिलाञ्छितं, त्यक्तलाञ्छनं, हं-बीजं, नेत्रास्त्र-मन्त्र-संयुक्तम्, ईशान-ब्रह्मणाधिष्ठितं, कारणेन सदाशिवेन संयुक्तं, शान्त्यतीत-कलोपेतम्

देवता-सम्बन्ध-प्रयोजनम्

एवं भूतैर् देवतासम्बन्धेन किम् प्रयोजनम् इति चेद् “अप्राकृताङ्गकरणम्” इत्य् उच्यते पाचरात्ररक्षायाम् 42 -

‘न्यासेन देवमन्त्राणां
देव-तादात्म्य-भावनात् ।
अ-प्राकृताङ्ग-करणात्
पूजाम् अर्हति साधकः ॥’

औचित्यविचारः

वैष्णवोक्तदेवता बीजैः सह साधु सङ्गच्छन्ते देवा इति रुचिरम् - सङ्कर्षण इति वायुबीजेन साधु सङ्गच्छते, प्रद्युम्न इत्य् अग्निबीजेन सङ्गच्छते व्युत्पत्त्या । ननु वायुः कर्षति (कर्षक इव सहलः प्रदर्श्यते शिल्पे सङ्कर्षणः), अग्नेर् भवति द्युतिः।

पुनः संहार-क्रमे कालीं कल्पयन्ति केचित् 8 -

She is the power through which earth is dissolved into water, water into fire, fire into air, air into ether, ether into mind and mind into pure consciousness.

न्यासस्थानानि

आत्मन आकाशः, आकाशाद् वायुः, वायोर् अग्निः, अग्नेर् आपः, अद्भ्यः पृथिवी इति क्रमे सति,
न्यास-स्थानानि क्रमेण दर्शयन्ति, यथा -

  • श्रीवैष्णवेषु केचित् - मूर्धा, नासा, हृद्देशः, उपस्थः, पादाव् इति।28 एवं गौडीया अपि, 3234 तथा केचिच् छाक्ताः 21 43 शैवाश् 36 44 च ।
    अपरे तन्-मध्यवर्ति शरीरांशान्य् आहुर्, यथा - शिरः-प्रभृति नासापर्यन्तं, नासाप्रभृति हृदय-पर्यन्तं, हृदय-प्रभृति कटि-पर्यन्तं, कटिप्रभृति-जानु-पर्यन्तं, जानुप्रभृतिपादपर्यन्तम् इति। 3 एवं वैखानसा अपि 16
  • शैवाः केचित् - कण्ठः, हृद्देशः, नाभिः, उपस्थः, मूलाधार इति।9
    • शैवसिद्धान्तिनस् त्व् आपादमस्तकव्याप्तिं मन्वते सर्वेषाम् अपि भूतानाम् 10 11 12 4 13
  • केरलेषु केचित् 45- तालुके कण्ठे हृदि नाभिमूले पादाग्रे च।

सम्प्रदाय-वृक्षः

सबीजेषु मन्त्रेषु न्यासे च समानांशावलोकनेन व्यक्तम् एषाम् बीजमन्त्राणां समान उद्गमः,
ततः सम्प्रदाय-भेदेन व्यत्यास-वृद्धिर् इति। तत्र गौडीय-पाञ्चरात्रिक-मन्त्रान् वीक्ष्य, तयोः समानं मूलम् वरत इति निश्चेतुं शक्यम्। तेन सम्प्रदाय-वृक्ष एवम् भाति -

  • मूल-सम्प्रदायः
    • शैवादयः
      • शैस्वसिद्धान्तिनः
        • सौभाग्यरत्नाकर-सम्प्रदायः
    • वैष्णवाः
      • पाञ्चरात्रिकाः
        • श्रीवैष्णवाः
        • क्रियादीपोक्त-सम्प्रदायः
          • गौडीयाः
          • गौतमीयमहातन्त्र-सम्प्रदायः
      • वैखानसाः

मूलावस्था-विचारः

बीजानि

बीजमन्त्रेषु स्वरा बीजानीत्य् उच्यन्ताम् - यथा “षौम्” इत्यस्मिन्न् औकारः।
कोऽर्थ एषाम्?
अभिनवगुप्तस् तु तन्त्रसारे - आ इत्य् आनन्दबीजम्, अकारश् चानुत्तरम्, ततः क्रियासाहचर्येण औ।46
अन्यत्र कर्मसु शोषणे दाहने प्लावने च ह्रस्वस्वराः श्रीवैष्णवादिभिर् अपि प्रयुज्यन्ते, यथा - यं वायवे नमः - शोषणं, रं- अग्नये नमः - दाहनं, वं अमृताय नमः - प्लावनम् ।
तेन बीजेष्व् अनैयत्यं वर्तत इति भाति।
तथापि, प्रयोग-प्राचुर्यम् ईक्षित्वा, प्राचीनावस्थायां ह्रस्व एव “अ"कारः प्रयुक्तस् स्यात्।

योनयः

बीजमन्त्रेषु प्रयुक्तानि व्यञ्जनानि (“योनयः”) मूलावस्थासु कथम् आसन्?

इति चिन्तयेम।
तदर्थं सम्प्रदाय-शाखासु योनिभेदे सति, कुत्राधिक-मत-भार इत्य् आचिनुयाम। अयं व्याप्ति-भेद-न्याय इत्य् उच्यताम्।
तद् यथा - अग्नि-बीजं लकारो वा रेफो वेत्यत्र शैव-पाञ्चरात्रिक-साम्याद् रेफ एवाधिकां सम्भावनीयताम् आप्नोति।

तेन सम्प्रदाय-वृक्षे मूलावस्थायां क्रमशः - ह्,य्,र्,व्,ल् इति योनय आसन् इति लभेमहि।
पाञ्चरात्रिक-शाखा-मूले च - हकारस्य स्थाने क्ष् ष् वा रूढं जातम् इति भाति।

अनया च दृष्ट्या हरिभक्तिविलास-निश्चयश् चिन्त्यतां यात्य् अयम् 32-

तद् अयुक्तम् एव ।
यतः पूर्वं वह्निमण्डले सह रेफस्य न्यासो वृत्तः,
अत्रापि पुनस् तस्यैव न्यासात् तस्य द्वित्वं प्रसज्येत,
तच् च न सम्भवेद् एव, वर्णसमाम्नाये तस्यैकत्वात् ।

अत्र मूर्धन्य-वर्णो ऽन्तय् औष्ठ्यात् परम् आयाति, अग्निबीजं प्रसिद्धं न साधु प्रयुक्तम् इत्यसामञ्जस्यान्तरम् उपेक्षितम्।

एवञ्च, क्रम-दीपिका-व्याख्याने 33

न्यसेद् आकाशादि-स्थाने षोप-र-वलार्णैः सलवकैः ॥ क्र्द्_१।३१ ॥

इत्यस्य गोविन्द-भट्टाचार्य-व्याख्याने यद् उप-र-शब्देन यलकाराव् अवगतौ,
तत्र मूलतो य-र-काराव् एवेष्टाव् इति भाति।

अनेन च क्रमेण +आकाशबीजम् अन्तरा ऽन्यत्र स्पष्टता वर्तते।
तत्र कथं निश्चेतुं शक्यम्? तदर्थम् कथं योनयश् चिता इति विचारयेम।

एवम् स्थानभेद आश्रयणीयो भाति -

  • कण्ठ्य-सम्बन्धेन हकारः, खकारो वा। खकारवद् उच्चारणेन क्षकारः, (माध्यन्दिनोच्चारणं विचिन्त्य च) षकारश् च गृहीतो भाति।
  • ताल्वाः यकारः।
  • मूर्ध्नो दन्तमूलाद् वा रेफः।
  • ओष्ठाद् वकारः।
  • दन्तेभ्यो लकारः।

एवं सम्प्रदाय-वृक्षे मूलावस्थायां क्रमशः - ह/क्ष,य,र,व,ल इति योनय आसन् इति लभेमहि।

अस्मिन् सम्बन्धे वामदेवशास्त्र्य् आङ्ग्लभाषिभ्यस् संस्कृतोच्चारणं बोधयन्न्
उत्पत्ति-स्थानानि सूचयन्न् अपि
व्यवस्थान्तरं निगदति 8 -

In the Tantras, the semivowel mantras of *Laṁ, Vaṁ, Raṁ *and *Yaṁ *relate to the four cosmic elements of Earth, Water, Fire and Air. The rule is that the semi-vowels govern the elements because the elements mediate between the formless realm of Spirit (vowels) and the formed realm of matter (consonants). You will notice that you can hold the sibilant sounds H, S or Sh almost indefinitely like a vowel. …
Though a sibilant, *Haṁ *is also said to govern the element of Ether and is used along with the semi-vowels for the chakras, though elsewhere it is connected to prana.

अनेन पूर्वोक्त-शब्दोत्पत्ति-स्थान-न्याय-सहितेन
ह-ख-ष-वर्णेषु हकार एव मूलावस्थायाम् आसीद् इति भाति।

पूर्वोक्तेन व्याप्ति-भेद-न्यायेन वैष्णव-सम्प्रदाय-मूलावस्थायाम् - क्ष,य,र,व,ल इति योनय आसन् इति ज्ञायते।

तथा च शैवसिद्धान्त-सौभाग्यरत्नाकरसम्प्रदाययोर् भेदम् ईक्षामहे चेत्,
पूर्वत्र सुविचारितरीत्या बीजघटनं ज्ञात्वा,
उत्तरत्र च विचारं विना तद्विस्मृत्या वा सर्वत्र ह्राम्-प्रयोगं दृष्ट्वा,
पूर्वतनम् एव प्राचीनम् इत्य् ऊहामहे।

मन्त्राङ्गान्तराणि

मन्त्राङ्गानां काल-क्रमेण योजनं स्वाभाविकं तद्-वियोजनस्यापेक्षयेति न्यायेन
दर्शित-वैष्णव-शाखा-मूले बीजमात्रं प्रयुक्तम् अवर्तत,
ततः “… नमः पराय … परमेष्ठ्यात्मने/पुरुषात्मने/विश्वात्मने/निवृत्त्यात्मने/सर्वात्मने नम” इत्य् अवर्धतेति भाति।
ततो नाना-प्रकारक-देवता-योगः समजन्य् एकदेशे।
पुनस् तद्-एकदेशे ऽन्तिममन्त्रे “श्रीमत” इति विशेषणं योजितम्,
अपरत्र च प्रतिमन्त्रं विशेष्य-विशेषण-क्रम-परिवर्तनं च जातम्,
पुनर् अपरत्र आकाशादि-भूतनामानि मन्त्रे युक्तानि जातानि।

वैष्णवधारायां पक्वावस्था-विचारः

मन्त्ररूपम्

एवं परिवर्तमानायां सम्प्रदाय-धारायां
वैष्णव-शाखाभ्यो गुणान् सङ्गृहीतुम् अपि शक्यम् -
पाञ्चरात्रिकेभ्यो वैखानसेभ्यो वा बीज-शुद्धिः, विशेष्याभिज्ञानं च,
गौडीयादिभ्यो देवताख्या चेति।
तेनैवं लभामहे (उदात्तस्वराङ्कनेन व्याकरणानुमितेन47 साकम्) -

  • ओं꣡ षौंं꣡(क्षौं꣡ / हां꣡) न꣡मः प꣡राय, परमेष्ठ्या꣡त्मने वासुदेवा꣡य न꣡मः
  • ओं꣡ यां꣡ न꣡मः प꣡राय, पु꣡रुषात्मने सङ्क꣡र्षणाय न꣡मः
  • ओं꣡ रां꣡ न꣡मः प꣡राय, वि꣡श्वात्मने प्र꣡द्युम्नाय न꣡मः
  • ओं꣡ वां꣡ न꣡मः प꣡राय, नि꣡वृत्त्यात्मने +अ꣡निरुद्धाय न꣡मः
  • ओं꣡ लां꣡ न꣡मः प꣡राय, स꣡र्वात्मने [श्री꣡मते] नारायणा꣡य न꣡मः

अत्र सविशेष-देवताख्यान-क्रमं स्पष्टी-कृतो ग्रन्थान्तरे 31 -

शेष-संहितायां ‘परमेष्ठिने; पुरुषाय’ इत्य् अनुक्त्वा, ‘परमेष्ठ्यात्मने, पुरुषात्मने’ इत्य्-आदिना
परमेष्ट्य्-आदीनां विशेषणत्वद्योतकप्रकारेणोक्तया च परमेष्ठ्यादिशब्दानाम् एव विशेषणत्वम्,
वासुदेवादिशब्दानां विशेष्यत्वं च मन्त्रेऽङ्गीकरणीयम्’ इति प्रतिभाति ।

अयं भाति प्रमाण-प्रवण-धियां विकल्पः।
यद् इहाक्षिप्यते1 -

यत्तु कैश्चिद् उदाहृतमन्त्रेषु व्योममन्त्रे वासुदेवायेति पदं, वायुमन्त्रे सङ्कर्षणायेति पदं … च संयोज्य पञ्चोपनिषन्मन्त्राः पठिताः , तत्-पूर्वोदाहृत-प्रमाणावगतानुपूर्वी-विरुद्धत्वाद् अश्रद्धेयम् ।

इति, तत् किम् इति किञ्चिद् अग्रे तेनैव

“ओं षौन्नमः पराय परमेष्ठ्यात्मने वासुदेवाय नम” इति उद्योग-ध्यानम्, …

इत्यादि कर्मान्तरे ऽङ्गीक्रियते?
तथा चैतद् इञ्जिमेडु-अलगिय-शिङ्गर्-प्रभृतिभिः प्रत्याख्यातं न्यायान्तरैः 3
तेनायम् आक्षेपः सम्प्रदायाभिमानातिशय इत्येव मन्तव्यम्।

भावना-परिष्कारः

पञ्चोपनिषन्मन्त्रेषु “पर”-शब्देन तत्-तद्-भूतानां साधिपतीनां
नित्यविभूतौ वैकुण्ठे स्वाभाविकतया वर्तमानत्वम् अभिप्रेतम्।

भगवद्-अर्चना-योग्यम् अप्राकृतं शरीरं पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयं कल्पनीयम् भगवद्-आराधनोचितम् -
न जातु प्राकृत-शरीरस्य नाशो वा सृष्टिर् वा कल्पयितुं योग्या।।

पञ्चानां भूतानां नित्यानां न भवति सृष्टिः संहारो वा।
ते च वैकुण्ठे भवन्ति प्रायेण,
तथापि प्राकृते लोकय् आविशन्ति कदाचित्।
भूत-शुद्धि-गत–सृष्टि-संहार-शब्दाभ्यां
तावन् नित्यानां भूतानाम् उत्सारणम् आस्थापनञ् चोच्येते
पञ्चोपनिषन्-मन्त्रैर् क्रियमाणे।
तद्वत् भूत-क्रमो ऽप्य् अत्र न पारमार्थिकः, अपि तु सृष्टि-संहार-व्यञ्जनार्थ एव।

प्राकृत-शरीरं तावद् अ-प्राकृत-शरीरस्याधारो भवति।
तद् एव शोषणादिभिश् शोध्यते
तथा-कथित-संहार-सृष्टि-न्यासयोर् मध्ये।

वैश्वास-कल्पनम्

अत्राधुनिका अर्था उत्प्रेक्षिताः ५ भूतेषु।

प्रगत-भूत-शास्त्राणु-सम्बन्धः

  • पृथ्वी - घनकरम् (Quarks, Higgs Boson)
  • आपः - रसमूलम् (Leptons, esp. electrons)
  • तेजः - रूपमूलम् (photon)
  • वायुः - स्पर्शकम् (Other Gauge Bosons)
  • आकाशः - inflaton

ताराग्रहादि

तत्त्व-दर्शनानुसारेण क्रिया-कल्पस् स्यात्।

आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न᳚म् । अन्ना॒त् पुरु॑षः ।

इति यद् आम्नातम् 15 अवलम्ब्य भूत-शुद्धि-कर्म-द्रुमो वृद्धः,
तस्यैवाधुनिक-विज्ञानावलम्बनेन48 कल्पनान्तरम् इदं रोचेत केभ्यश्चन -

आकाशे महास्फोटात्+++(=big bang, supernova इत्यादेः)+++ परं प्रकीर्णाः परमाणवो वायु-रूपाः,
ततो गुरुत्वाकर्षणाणुसंयोगादि-क्रियाभिस् ताराणाम् अग्नि-रूपाणाम् उत्पत्तिः,
ततस् तत्परितस् तथैवाल्पतरतापेन द्रवाणां+++(=molten)+++ ग्रहाणां जल-निभ-रूपाणम् उत्पत्तिः,
तत औष्ण्य-ह्रासेन स्थिरतराणां शिलानां पृथिव्य्-आत्मकानां सम्भवः,
ततः परम्परया +ओषधयो, अन्नम्, पुरुषश् च
+इति सृष्टि-क्रमः।

पुनः -
ताराणां वार्धक्ये (रक्तदैत्यावस्थया+++(=red giant)+++ यथा) पृथिव्य्-आत्मकानां द्रवीभावः,
द्रवी-भूतानां जल-निभानां ग्रहाणां पुनस् ताप-वृद्ध्या ऽऽग्नी-भावः,
ज्वलतां पृथिव्यादीणां ग्रहाणां वाय्व्-अवस्थया लयः,
ततस् तस्यापि विकिरणाद् आकाश-रूपोऽवशेष
इति संहार-क्रमः।

बहवो ऽद्यत्वे देवतासु श्रद्धावन्तो ऽपि शरीरात्मवादिनः - न पुनर्जन्मादौ श्रद् दधति।
तेषां भूत-शुद्धेः प्राग् जीवात्मनः सूक्ष्मशरीरस्य वा परमात्मना संयोगस्य कल्पनं न सङ्गच्छेत।
तत्-स्ताने, स्वशरीरस्य संहार-सृष्टिभ्यां सह +आत्म-संहार-सृष्ट्योः कल्पनं वरं स्यात्।

रासायनिकम्

भूत-शुद्धाव् एवं तत्य्-अन्तरं कल्पयितुं शक्यम्,
किञ्चोत्पत्ति-क्रमम् अन्तरा तन् न पूर्णतया प्रञ्च-भूत-व्यवस्था-तुल्यम् ।

  • मिश्राः - mixtures, materials
  • अणु-बन्धाः - Compounds
  • अणवः = {Atoms}
  • उपाणवः = {Protons Neutrons}
  • परमाणवः = {Quarks Leptons Bosons}

सूचनासु सत्सु सूचनीयोऽहम्??।

उपसंहारः

इत्थम् अस्माभिः कश्चन प्रसिद्धो भूत-शुद्धि-मन्त्र-परम्परा-वृक्षः कश्चनामूलशाखं परीक्षितः। तद्-यथा,

  • भिन्नासु सम्प्रदाय-शाखासु मन्त्र-भेदा अवलोकिताः।
  • मूल-सम्प्रदाययोः के बीजादि-मन्त्र-विशेषाः प्रयुक्तास् स्युर् इत्य् अनुमितम्।
  • भिन्न-वैष्णव-सम्प्रदाय-शाखासु गुणान् विचित्य कथं पक्वतम-मन्त्र-निश्चयः सम्भवेतेति प्रस्तुत्तम्।
  • भूतक्रमस्य +आधुनिक-भूत-शास्त्रानुरोधेन कल्पनान्तरम् अपि प्रकटितम्।

इत्य् अस्मत्-प्रतिज्ञा पूर्णा।
दोषणाम् अनुक्तसम्बद्धविषयाणां च ज्ञापनस्य सोत्साहं स्वागतम्।
अनेन प्रीयतां भगवान् वासुदेवः।

स्रोतांसि टिप्पन्यश्च


  1. गोपालदेशिककृतस्य +आह्निकग्रन्थस्य चिन्नाण्डवन्-प्रणीता आह्निकार्थप्रकाशिका टीका, इज्या-प्रकरणम् ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. वाचस्पत्यम् - भूतशुद्धिः। ↩︎ ↩︎ ↩︎

  3. श्रीवैष्णव-सदाचार-निर्णय-नामा +आह्निकग्रन्थः अहोबिल-मठपति-इञ्जिमेडु-श्रीरङ्गनाथ-यतीन्द्र-कृतः, कृष्णमाचार्य-नाम्ना सुप्रसिद्धैर् विरचिताभ्यां सुधीप्रियाख्य-टिप्पणी–द्राविडानुवादाभ्याम् उल्लसितः । (अस्य दर्शनेन भाष्योपाह्वविजय उपाकरोत्।) ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. अघोरशिवाचार्यकृता क्रिया-क्रम-दीपिका, तदीया कच्छपेश्वरकृता टीका, निर्मलमणिकृता स्फुटार्थप्रकाशिका च। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. महार्थमञ्जरी महेश्वरानन्दकृता ↩︎

  6. हनसॊगेग्रामवासी प्रदीपसिंहाचार्यो माध्व-विद्वान् - व्यक्तिगत-सूचनया। ↩︎ ↩︎

  7. आह्निकपद्धतिर् माध्व-विदुषा पाङ्गरि-श्रीनिवासाचार्येण कृता ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. Mantra Yoga and Primal Sound Secrets of Seed (Bija) Mantras By Dr. David Frawley (Pandit Vamadeva Shastri) ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. नेपाल-सर्वाम्नाय-तन्त्र-दीक्षित-स्थानेश्वरार्य-प्रेरितं भूतशुद्धिम् अधिकृत्य किञ्चन चित्रम्, यस्य पाठः क्वचिद् रक्षितः । ↩︎ ↩︎ ↩︎ ↩︎

  10. वरुणशिवाचार्यकृता वारुणपद्धतिः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. अघोरशिवाचार्यकृता मृगेन्द्रपद्धतिः, तदीया नटेशगुरुकृता टीका च। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  12. ज्ञानशिवकृता ज्ञानरत्नावली ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  13. कामिकागमः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  14. Bhattacharya, Amarnath. Aghor Sadan privately published by Mrs. Manju Chakraborty. 1998, Kolkata. PG: 283-284. ↩︎

  15. तैत्तिरीयोपनिषत् ↩︎ ↩︎

  16. श्रीवैखानसे नृसिंहवाजपेयीये भगवदर्चाप्रकरणे अनुक्रमणिका। एतद्दर्शनेन भ्रह्माचार्यवर्य उपाकार्षित्। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  17. वेदान्तकारिकावली बुच्चि-वेंकटाचार्यकृता ↩︎

  18. शब्दकल्पद्रुमः - भूतशुद्धिः। ↩︎ ↩︎

  19. दक्षिणकालीपूजापद्धतिः NGMCP 4-2660 Reel No: b 187/18 । एवम् अन्ये ऽपि नेपालोपज्ञ-पूजापद्धयतः - यथा - सिद्धिलक्ष्मी-नित्य-पूजा-विधिः, ऊर्ध्वाम्नाय-पूजा-विधिः, षडाम्नायपूजाविधिः (NGMCP 5/1932 Reel no: A 248/40) ↩︎

  20. दक्षिणामूर्तिसंहिता ↩︎

  21. दुर्गानित्यार्चनक्रमः ↩︎ ↩︎ ↩︎

  22. ज्ञानार्णवतन्त्रम् ↩︎

  23. महानिर्वाणतन्त्रम् ↩︎

  24. भूतशुद्धितन्त्रम् ↩︎

  25. श्रीविद्या-सपर्या-पद्धतिः - सुब्रह्मण्यार्यः चिदानन्दनाथः। (एतद्दर्शनेन रामनाथपत्नी शशिकलोपाकरोत्। ) ↩︎

  26. ईशनशिवपद्धतिः ↩︎

  27. वराह-सूरि-विरचिता क्रियाकैर्यवचन्द्रिका चर्यापादः समाराधनाध्यायः, अग्निकार्यविधिश् च। ↩︎ ↩︎

  28. रामानुज-कृतो नित्यग्रन्थ ईक्ष्यताम् । ↩︎ ↩︎ ↩︎

  29. प्रपन्न-धर्म-सार-समुच्चयः ↩︎

  30. पञ्चकाल-क्रिया-दीपः इति दुर्लभो ग्रन्थो, यस्योद्धरणं किञ्चन ग्रन्थान्तरे दृश्यते 3 । भवत्सकाशे चित्रीकृतं विद्यते चेत् तद् अहं याचे। ↩︎

  31. इञ्जिमेट्ट-अलगिय-शिङ्गर्-रचितः श्रीवैष्णव-सदाचार-सुर-द्रुम इति दुर्लभो ग्रन्थो, यस्योद्धरणं किञ्चन ग्रन्थान्तरे दृश्यते 3 । भवत्सकाशे चित्रीकृतं विद्यते चेत् तद् अहं याचे। ↩︎ ↩︎

  32. हरिभक्तिविलासे ऽधिष्ठान-भागः पञ्चम ईक्ष्यताम् । ↩︎ ↩︎ ↩︎ ↩︎

  33. काश्मीरि-केशव-कृता क्रम-दीपिका गोविन्द-भट्टाचार्य-कृत-विवरण-सहिता - प्रथम-पटलः ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  34. गौतमीय-महा-तन्त्रम् - १४२-१४४ । ↩︎ ↩︎ ↩︎ ↩︎

  35. सौभाग्यरत्नाकरः Shri Ragunatha Temple MSS Library Jammu no: 4892 ↩︎ ↩︎ ↩︎

  36. मेरुतन्त्रम् - आह्निकप्रकाशः । ↩︎ ↩︎ ↩︎

  37. विष्वक्सेन-संहिता १२। ↩︎

  38. मन्त्र और मातृकाओं का रहस्य, डॉ॰ शिवशङ्कर अवस्थी इत्यत्र मातृकाचक्रविवेकोद्धरणम्। ↩︎

  39. मन्त्र रहस्य - डॉ. नारायणदत्त श्रीमाली इत्यस्मिन्। ↩︎

  40. नागरानिमेषः - व्यक्तिगत-सन्देशे। ↩︎

  41. मध्व-कृतस् तन्त्र-सार-सङ्ग्रहः, तट्टीकासु - तत्त्वकणिका रघुनाथकृता, वरदेन्द्र-वसुधेन्द्रकृता च। ↩︎

  42. पाञ्चरात्ररक्षा वेङ्कटनाथार्यकृता। ↩︎

  43. पराम्बार्चनचन्द्रिका - manuscript 1322 Uttar Pradesh Sanskrit Sansthan (UPSS)। ↩︎

  44. मृत्युण्जयपूजापद्धतिः NGMCP 1642 Reel no: A 455/14 ↩︎

  45. क्रियासारः - तत्त्व-प्रकाशिनी-व्याख्या। ↩︎

  46. अभिनवगुप्तस्य तन्त्रसारः। ↩︎

  47. राजपुत्रोज्ज्वलोऽत्र स्वर-निश्चये सहाय्यम् अयच्छत्। ↩︎

  48. “Life cycle of stars”, “Red giant star” इत्यादिभिर् अन्तर्जाले ऽन्वेषणेन लभ्यानि रुचिराणि चित्राणि लेखाश् चालेकनीयाः। ↩︎