४९ कविपरिचयः

गॊरूरु-श्रीनिवासमूर्ताव् इतोऽप्य् अत्र । इह तत्कृतः परिचयः प्रस्तूयते।

विश्वास-प्रस्तुतिः

स्फटिक-स्वच्छ-सलिला
नदी हेमवती शुभा ।
कर्णाटके प्रवहति
क्षेत्र-जीवाश्रया सती ॥१ ॥
न्यग्रोधाम्र-वनोपेते
तीरे यस्या विहङ्गमाः ।
रटन्तो निर्भयं नित्यम्
उत्पतन्ति सहस्रशः ॥ २ ॥
गावश् च ग्राम-वृषभा
यस्याः शीतल-वारिणा ।
सिक्ता यस्यां निमज्जन्ति
हृष्टाः पुष्टाः पदे पदे ॥ ३ ॥
ग्राम-कन्या वृथालापाः
कुच-कुम्भ-भरानताः ।
वहन्ति लीलया यस्या
वारि कुम्भैः शिरःस्थितैः ॥ ४ ॥
यां सूर्य-ताप-सन्तप्ताः
पोगण्डा ग्रीष्म-वासरे ।
सलीलम् अवगाहन्ते
दर्शयन्तः स्व-पौरुषम् ॥ ५ ॥
यां शुभजलां विप्राः
सेवन्ते व्रतिनो नदीम् ।
सन्ध्याकाले ऽर्घ्यदानार्थं
स्नानार्थं च विशेषतः ॥ ६ ॥
तस्याः स्रवन्त्याः पूर्वा-
ऽभिमुखं वामे मनोहरः ।
नृसिंहो योग-मुद्रायाम्
आसीनः कमलासनः ॥ ७ ॥
प्रतीच्य्-अभिमुखो भक्तैः
सेव्यते ऽहर्-निशं मुदा ।
भक्तानाम् आश्रयस् तेषाम्
आर्ति-नाश-व्रते स्थितः ॥ ८ ॥

अयं नृसिंह-सेवार्थं
निर्मितः किं जनैर् इति ।
सन्देहं जनयन्न् आस्ते
ग्रामः शिष्ट-जनाश्रितः ॥ ९ ॥
गोरूरु-नाम्ना प्रथितः
स्थितो हासन-मण्डले ।
यत्र विप्राः कर्षकाश् च
वणिजः कर्मकारिणः ॥ १० ॥
हिन्दवश् च तुरुष्काश् च
सौहार्देन परस्परम् ।
स्वकर्मसु रता नित्यं
वर्तन्ते स्मेर-भूषिताः ॥ ११ ॥
उत्सवेषु नृसिंहस्य
वहन्तो भागम् उत्सुकाः।
दर्शयन्तो ऽहम्-अहमिकां
भगवन्तम् उपासते ॥ १२ ॥
अस्मिन् ग्रामे जनिं लब्ध्वा
नैके देशे सुशिक्षिताः ।
स्व-प्रागल्भ्य-बलाद् एव
ख्याता देशान्तरेषु च ॥ १३ ॥

तत्र श्री-वैष्णवो धीमान्
पण्डितः शास्त्र-पारगः।
सम्पत्-कुमाराचार्याह्वो
गोत्रम् आत्रेयम् आश्रितः ॥ १४ ॥
वेङ्कटाम्बाह्वया सत्या
न्यवसद् भार्यया सह ।
स्वयम्-आचार्यतां प्राप्तः
शिष्य-वर्गेण पूजितः ॥ १५ ॥

मूर्त्य्-उपाह्वः श्रीनिवासः
तस्य पुत्रोऽभवत् सुधीः ।
लौकिक-व्यवहारेषु
प्रगल्भो मितवाक् घृणी ॥ १६ ॥
द्रव्यार्जन-रतो भूत्वा
शाला-शिक्षण-वञ्चितः ।
क्षेत्र-स्वामीति कथितो
रंहसा सोऽभवद् धनी ॥ १७ ॥

गङ्गाम्बायां धर्म-पत्न्यां
तस्य पुत्रो ऽभवत् प्रियः।
शेल्व-पिल्लै इति ख्यातः
सर्व-सद्गुण-सन्निधिः ॥ १८ ॥
आर्जयत् ससुखं योऽसौ
पदवीं स्नातकोत्तराम् ।
सस्य-शास्त्रे महा-पुर्यां
चेन्नै-नाम्न्यां प्रचण्ड-धीः ॥ १९ ॥
तथैव पदवीं चापि
न्याय-शास्त्रे श्रमं विना ।
मुम्बई-नाम्नि नगरे
यदा विधि-हतोऽभवत् ॥ २० ॥
पिता दिवम् अगात् त्यक्त्वा
कुटुम्बं बालकैर् युतम् ।
कुटुम्बभारः सहसा
ज्येष्ठ-पुत्रेऽपतत्तदा ॥ २१ ॥
तदा ऽऽरभ्य निज-ग्रामे
न्यवसत् कर्मठो वशी ।
पितृ-स्व–योग-क्षेमार्थं
भ्रातॄणां पालनाय च ॥ २२ ॥
सीताम्बा तस्य भार्या ऽऽसीत्
साध्वी वाधूल-गोत्रजा ।
नृसिंहय्य्-अङ्गार्य-पुत्री
भर्तुर् बहु-मता सदा ॥ २३ ॥

तस्यां जातस् तृतीयो ऽहं
कनिष्ठश् च सुतः प्रियः।
ग्रहाङ्गुली-वसु-शशी+++(=१८५९)+++-
संख्याते शकवत्सरे +++(=१९३७)+++॥ २४ ॥
अमायां मास्य् आश्वयुजे
प्रीणयन् पितरौ मम ।
मूर्त्य्-उपाह्वः श्रीनिवासः
स्मारयन् मत्-पितामहम् ॥ २५ ॥
लब्ध्वा प्राथमिकीं शिक्षां
ग्रामे शिक्षण-तत्-परः ।
हासने मण्डल-पुरे
बेङ्गळूरौ तथैव च ॥ २६ ॥
उच्च-शिक्षणम् आलभ्य
पदवीं स्नातकोत्तरां ।
विज्ञाने दूर-सम्पर्क-
शास्त्रे परिणतिं गतः ॥ २७ ॥
स्पर्धात्मक-परीक्षायां
स-लीलं स-फलो ऽभवम् ।
विभागे सर्व-कारस्य
दूर-सम्पर्क-नामके ॥ २८ ॥
प्राप्योद्योगं त्रयस्-त्रिंशद्
वर्षाण्य् उत्सुक-मानसः ।
सेवाम् अकरवं नैके
स्थले नैके पदे स्थितः ॥ २९ ॥

अन्ते दिल्ल्यां विभागस्य
मन्त्र-दातृ-पदे स्थितः।
निवृत्तिं प्राप्य निवसामी-
दानीं भार्यया सह ॥ ३० ॥
मैथिल्या बेङ्गळूरौ
मत्-कालं संस्कृत-सेवया ।
यापयामि विना दैन्यं
विना ऽहङ्कारम् आदृतः ॥ ३१ ॥

उषसि स्मरणीयो मे
पिता संस्कृत-शिक्षणात् ।
स्व-बाल्ये वञ्चितो भूत्वा
मध्यमे वयसि स्थितः ॥ ३२ ॥
संस्कृताध्ययनं कर्तुं
पण्डितान् शरणं गतः ।
प्राचोदयच् च मां बालं
संस्कृताध्ययनाय सः ॥ ३३ ॥
दिष्ट्या ममापि गुरवस् त
एवासन् स्मरामि तान् ।
सप्रश्रयं तान् आचार्यान्
नमामि च पुनः पुनः ॥ ३४ ॥
नारायणं शास्त्र्य्-उपाह्वं
नृसिंहाचार्यम् एव च ।
अय्यङ्गार्योपाह्वम् आर्यं
रामस्वामिनम् एव च ॥ ३५ ॥

मम संस्कृत-साहित्य-
यात्रायां ये पदे पदे ।
दत्त्वा करावलम्बं मे
मार्गं संदर्शयन्त्य् अहो ॥ ३६ ॥
महा-महोपाध्यायान्स्
तान् पद्मश्रीभूषितान् अहम् ।
शुक्लोपाह्वान् रमाकान्तान्
प्रणमामि पुनः पुनः ॥ ३७ ॥
तैर् एव चन्द्रिकानामा
पद्यानां मम सञ्चयः
देववाणी-परिषदः
सन्निधाने प्रकाशितः ॥ ३८ ॥

सन्धि-सम्बद्ध-तन्त्रांशः
तन्त्रांशो वृत्त-सूचकः।
जावा-गणक-भाषायां
मया विरचितौ पुरा ॥ ३९ ॥

छन्दः-शास्त्रस्य विषये
प्रबन्धौ द्वौ कृतौ मया।
भण्डार्कर्-संस्थया नूनं
ख्यातया संप्रकाशितौ ॥ ४० ॥

सुभाषितानां नीवीति
श्लेषालङ्कार-भूषिता।
वेदान्ताचार्य-वर्याणां
कृतिः ख्याता मनोहरा ॥ ४१ ॥
कृता कन्नड-भाषायां
मेलुकोटे-स्थ-संसदा
नीता प्रकाशं विधिवद्
वेदान्ताचार्य-सन्निधौ॥ ४२ ॥

वर्ष-द्वयात् प्राक् संपन्ने
वाङ्कुवर्-नगरे मया
छन्दः-प्रबन्धः पठितो
विश्व-संस्कृत-संसदि ॥ ४३ ॥

धन्योऽस्म्य् अनुगृहीतोऽस्मि
प्रथितं रूपकं कवेः
ईब्सनस्य प्रसिद्धस्य
संस्कृतेऽनूदितं मया ॥ ४४ ॥
देव-वाणी-परिषदे-
दानीं तत् पुत्रिका-गृहम्
प्रकाशं नीयत इति प्रह्वः
शृण्वन् शमस् तु भोः॥ ४५ ॥

मूलम्

स्फटिकस्वच्छसलिला नदी हेमवती शुभा ।
कर्णाटके प्रवहति क्षेत्राजीवाश्रया सती ॥१ ॥
न्यग्रोधाम्रवणोपेते तीरे यस्या विहङ्गमाः ।
रटन्तो निर्भयं नित्यमुत्पतन्ति सहस्रशः ॥ २ ॥
गावश्च ग्रामवृषभा यस्याः शीतलवारिणा ।
सिक्ता यस्यां निमज्जन्ति हृष्टाः पुष्टाः पदे पदे ॥ ३ ॥
ग्रामकन्या वृथालापाः कुचकुम्भभरानताः ।
वहन्ति लीलया यस्या वारि कुम्भैः शिरःस्थितैः ॥ ४ ॥
यां सूर्यतापसन्तप्ताः पोगण्डा ग्रीष्मवासरे ।
सलीलमवगाहन्ते दर्शयन्तः स्वपौरुषम् ॥ ५ ॥
यां शुभजलां विप्राः सेवन्ते व्रतिनो नदीम् ।
सन्ध्याकालेऽर्घ्यदानार्थं स्नानार्थं च विशेषतः ॥ ६ ॥
तस्याः स्रवन्त्याः पूर्वाभिमुखं वामे मनोहरः ।
नृसिंहो योगमुद्रायामासीनः कमलासनः ॥ ७ ॥
प्रतीच्यभिमुखः भक्तैः सेव्यतेऽहर्निशं मुदा ।
भक्तानामाश्रयस्तेषामार्तिनाशव्रते स्थितः ॥ ८ ॥
अयं नृसिंहसेवार्थं निर्मितः किं जनैरिति ।
सन्देहं जनयन्नास्ते ग्रामः शिष्टजनाश्रितः ॥ ९ ॥
गोरूरुनाम्ना प्रथितः स्थितो हासनमण्डले ।
यत्र विप्राः कर्षकाश्च वणिजः कर्मकारिणः ॥ १० ॥
हिन्दवश्च तुरुष्काश्च सौहार्देन परस्परम् ।
स्वकर्मसु रता नित्यं वर्तन्ते स्मेरभूषिताः ॥ ११ ॥
उत्सवेषु नृसिंहस्य वहन्तो भागमुत्सुकाः।
दर्शयन्तोऽहमहमिकां भगवन्तमुपासते ॥ १२ ॥
अस्मिन् ग्रामे जनिं लब्ध्वा नैके देशे सुशिक्षिताः ।
स्वप्रागल्भ्यबलादेव ख्याता देशान्तरेषु च ॥ १३ ॥
तत्र श्रीवैष्णवो धीमान् पण्डितः शास्त्रपारगः।
सम्पत्कुमाराचार्याह्वो गोत्रमात्रेयमाश्रितः ॥ १४ ॥
वेङ्कटाम्बाह्वया सत्या न्यवसद्भार्यया सह ।
स्वयमाचार्यतां प्राप्तः शिष्यवर्गेण पूजितः ॥ १५ ॥
मूर्त्युपाह्वः श्रीनिवासः तस्य पुत्रोऽभवत् सुधीः ।
लौकिकव्यवहारेषु प्रगल्भो मितवाक् घृणी ॥ १६ ॥
द्रव्यार्जनरतो भूत्वा शालाशिक्षणवञ्चितः ।
क्षेत्रस्वामीति कथितो रंहसा सोऽभवद्धनी ॥ १७ ॥
गङ्गाम्बायां धर्मपत्न्यां तस्य पुत्रोऽभवत्प्रियः।
शेल्वपिल्लै इति ख्यातः सर्वसद्गुणसन्निधिः ॥ १८ ॥
आर्जयत्ससुखं योऽसौ पदवीं स्नातकोत्तराम् ।
सस्यशास्त्रे महापुर्यां चेन्नैनाम्न्यां प्रचण्डधीः ॥ १९ ॥
तथैव पदवीं चापि न्यायशास्त्रे श्रमं विना ।
मुम्बईनाम्नि नगरे यदा विधिहतोऽभवत् ॥ २० ॥
पिता दिवमगात् त्यक्त्वा कुटुम्बं बालकैर्युतम् ।
कुटुम्बभारः सहसा ज्येष्ठपुत्रेऽपतत्तदा ॥ २१ ॥
तदारभ्य निजग्रामे न्यवसत् कर्मठो वशी ।
पितृस्वयोगक्षेमार्थं भ्रातॄणां पालनाय च ॥ २२ ॥
सीताम्बा तस्य भार्यासीत् साध्वी वाधूलगोत्रजा ।
नृसिंहय्यङ्गार्यपुत्री भर्तुर्बहुमता सदा ॥ २३ ॥
तस्यां जातस्तृतीयोऽहं कनिष्ठश्च सुतः प्रियः।
ग्रहाङ्गुलीवसुशशीसंख्याते शकवत्सरे ॥ २४ ॥
अमायां मास्याश्वयुजे प्रीणयन् पितरौ मम ।
मूर्त्युपाह्वः श्रीनिवासः स्मारयन् मत्पितामहम् ॥ २५ ॥
लब्ध्वा प्राथमिकीं शिक्षां ग्रामे शिक्षणतत्परः ।
हासने मण्डलपुरे बेङ्गळूरौ तथैव च ॥ २६ ॥
उच्चशिक्षणमालभ्य पदवीं स्नातकोत्तरां ।
विज्ञाने दूरसम्पर्कशास्त्रे परिणतिं गतः ॥ २७ ॥
स्पर्धात्मकपरीक्षायां सलीलं सफलो ऽभवम् ।
विभागे सर्वकारस्य दूरसम्पर्कनामके ॥ २८ ॥
प्राप्योद्योगं त्रयस्त्रिंशद् वर्षाण्युत्सुकमानसः ।
सेवामकरवं नैके स्थले नैके पदे स्थितः ॥ २९ ॥
अन्ते दिल्ल्यां विभागस्य मन्त्रदातृपदे स्थितः।
निवृत्तिं प्राप्य निवसामीदानीं भार्यया सह ॥ ३० ॥
मैथिल्या बेङ्गळूरौ मत्कालं संस्कृतसेवया ।
यापयामि विना दैन्यं विनाहङ्कारमादृतः ॥ ३१ ॥
उषसि स्मरणीयो मे पिता संस्कृतशिक्षणात् ।
स्वबाल्ये वञ्चितो भूत्वा मध्यमे वयसि स्थितः ॥ ३२ ॥
संस्कृताध्ययनं कर्तुं पण्डितान् शरणं गतः ।
प्राचोदयच्च मां बालं संस्कृताध्ययनाय सः ॥ ३३ ॥
दिष्ट्या ममापि गुरवस्त एवासन् स्मरामि तान् ।
सप्रश्रयं तानाचार्यान्नमामि च पुनः पुनः ॥ ३४ ॥
नारायणं शास्त्र्युपाह्वं नृसिंहाचार्यमेव च ।
अय्यङ्गार्योपाह्वमार्यं रामस्वामिनमेव च ॥ ३५ ॥
मम संस्कृतसाहित्ययात्रायां ये पदे पदे ।
दत्त्वा करावलम्बं मे मार्गं संदर्शयन्त्यहो ॥ ३६ ॥
महामहोपाध्यायान्स्तान् पद्मश्रीभूषितानहम् ।
शुक्लोपाह्वान् रमाकान्तान् प्रणमामि पुनः पुनः ॥ ३७ ॥
तैरेव चन्द्रिकानामा पद्यानां मम सञ्चयः
देववाणीपरिषदः सन्निधाने प्रकाशितः ॥ ३८ ॥
सन्धिसम्बद्धतन्त्रांशः तन्त्रांशो वृत्तसूचकः।
जावागणकभाषायां मया विरचितौ पुरा ॥ ३९ ॥
छन्दःशास्त्रस्य विषये प्रबन्धौ द्वौ कृतौ मया।
भण्डार्कर् संस्थया नूनं ख्यातया संप्रकाशितौ ॥ ४० ॥
सुभाषितानां नीवीति श्लेषालङ्कारभूषिता।
वेदान्ताचार्यवर्याणां कृतिः ख्याता मनोहरा ॥ ४१ ॥
कृता कन्नडभाषायां मेलुकोटेस्थसंसदा
नीता प्रकाशं विधिवत्वेदान्ताचार्यसन्निधौ॥ ४२ ॥
वर्षद्वयात्प्राक् संपन्ने वाङ्कुवर्नगरे मया
छन्दःप्रबन्धः पठितो विश्वसंस्कृतसंसदि ॥ ४३ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि प्रथितं रूपकं कवेः
ईब्सनस्य प्रसिद्धस्य संस्कृतेऽनूदितं मया ॥ ४४ ॥
देववाणीपरिषदेदानीं तत् पुत्रिकागृहम्
प्रकाशं नीयत इति प्रह्वः शृण्वन् शमस्तु भोः॥ ४५ ॥