(Short URL - https://rebrand.ly/vadhU )
(२०३०-वर्ष-परिसरे प्रचारार्थं रचितोऽयम् प्राग्-लेखः। )
द्वाभ्याम् अ-साधारण-वराभ्याम् असाधारणे वधू अन्विष्येते -
सत्-समृद्ध-प्रजा-प्रधानाय गृह-मेधाय।
अखिलम् पठित्वा सम्पर्कोऽत्र विधेयः।
वर-परिचयः
२०१५ इति वर्षे ऽमेरिका-सङ्घटित-राज्ये जातः सुप्रत्ययः,
२०१९ वर्षे तत्रैव जातश् च वज्रयुध्मः।
कुलादि
हॆब्बार्-श्रीवैष्णवस्य श्रीवत्स-गोत्रस्य विश्वासस्य वासुकि-सुतस्य, अगस्त्य-गोत्रोद्भवायाः श्रुत्याश् च पुत्रौ।
कर्णाटेषु कल्याणपुर्यां (बॆङ्गळूरु-नगरे) वर्धितौ।
संस्कारः, शिक्षा
आजन्म-संस्कृत-भाषिणौ, अल्पे हि वयसि सूपनीतौ।
काञ्ची-ताताचार्य-कुलानुगृहीत–श्रीवैष्णव-पञ्च-संस्कार-समन्वितौ।
भगवत्-सेवोचित-कलासु गीत-नृत्य-जप-होमादिषु सुशिक्षितौ।
पाकोऽपीषज् ज्ञातः।
ब्रह्मचर्ये नित्य-समिद्-आधान-सन्ध्यावन्दन–देव-ब्रह्म-पितृ-यज्ञ–तर्पणादि-परौ।
एकादशीसु सकृद्-भुक्त्य्-अवलम्बिनाव् उपवसतः।
सदैव प्रायेण शिखोपवीतोत्तरीय-वेष्टि-तिलक-कुण्डलादि-भूषितौ - क्रीडापत्-कालान् विहाय।
कासाञ्चन देवतानां मन्त्रोपासनम् अपि कुरुतः।
“नापणीयम् अश्नीयाद्” इत्य्-आद्य्-आदेशान् अस्साम-राजस्थान-प्रभृति–दूर-देश-यात्रास्व् अपि पालयतः।
पलाण्डु-लशुनादि-निषिद्धान् वर्जयतः।
(किञ्चाण्डानि खादतः पुष्ट्यै - यान्य् अस्मन्-मते ऽनिषिद्धानि।)
(आपदि त्व् अनियमः।)
तैत्तिरीय-शाखाया आपस्तम्ब-गृह्य-धर्म-सूत्रानुयायिनौ।
तत्र सव्रतं काण्डशो स्व-शाखायां वेदाध्ययन-संस्कार-सम्पन्नौ।
किञ्च प्रसिद्ध-मन्त्रान् अन्तरा -
उप-उञ्चाशत्सु सामसु शिक्षितौ।
भागवत-शास्त्रेषु कतिपय-काव्येषु च प्रवेशवन्तौ।
लौकिक-विद्याः
किञ्च - नाधुनिक-विज्ञानम् अवगणयतः -
“(प्रत्यक्षादिभिर्) अप्राप्ते शास्त्रम् अर्थवत्” इत्य् उक्तया रीत्या,
यथापेक्षं स्वीयान् मताचारादीन् परिष्कुरुतः, यथा स्फुटम् अत्र सङ्कल्प-वचने।
तत्-पितुर् दर्शन-विशेषः पृष्ठान्तरे लभ्यते ।
उभाव् अपि कन्नड-द्राविड-हिन्द्य्-आङ्ग्ल-भाषाभिज्ञौ।
सुप्रत्ययस् तु स्पानीय-पोर्चुगीय-तॆलुगु-भाषा अपि वेत्त्ति।
विज्ञाने, गणिते, इतिहासे, सङ्गणकादि-यन्त्र-प्रयोगे च तज्-ज्ञौ।
न शालां प्रेषिताव् अपि साङ्गणकाभियान्त्रिक-तज्ञेन पित्रा,
जीव-शास्त्र-विज्ञानिन्या च मात्रा शिक्षितौ।
मरून्माद-प्रेतोन्माद-साम्योन्माद-नव्योन्माद–सर्व-मत-समतावादादिषु
मानसिक-रोगोचित-तिरस्कारं क्वचित् सानुकम्पम् अपि बिभ्रतः।
आधुनिकार्थिक-परिस्थित्यभिज्ञाव् अपि तन्-नश्वरतया सुपरिचितौ।
शिक्षा-विस्तारोऽत्र - सुप्रत्ययः, वज्रयुध्मः।
शारीरं स्वास्थ्यम्
बहिर्-अभ्यन्तर-क्रीडा-पटू - लौकिक-सज्-जन-सुतैस् सुखेन क्रीडतः।
वज्रयुध्मस् त्व् २०२५ इति वर्षे ऽपरिचितेषु मित-भाषी।
अल्प-व्रणेभ्यो न बिभ्यतो ऽपि न साहसातिशयदौर्भाग्य-भाजौ।
स्वस्थौ, स्वास्थ्य-प्रियौ।
हित-मित-भोजन–व्यायामादिषु सावधानौ।
सम्पत्तिः, वृत्तिः
यद्य् अपि ब्राह्मणानां तपो विद्या चैव प्रधानं धनम्
भ्रष्टे लोके ऽर्थान्तरम् अपि चिन्तनीयम्।
आर्थिक-पौरोहित्य-ऽऽभियान्त्रिकादि-सेवा-कलासु तज्-ज्ञाव् अपि
आर्थिक-स्वातन्त्र्य-भाजौ भूरि-पैतृक-धनेन।
उर्वर-कृषी-भूमिं (भारतेषु दक्षिणाभ्याले दूरे वा) रक्षिष्यतः।
लौकिक-भागवतादि-शास्त्र-रक्षा-प्रचार-रूपां ब्राह्मणोचित-वृत्तिं हि प्रधानं मन्यतः।
वधू-गुणाः
ध्येयम्
वधूः गृहस्य लक्ष्मीः स्यात्।
गृह-मेधेन सत्-सन्तति-वृद्धिर् एव ध्येयम् प्रधानम्।
त्र्य्-अम्बक-मखि-रचितायां स्त्री-धर्म-पद्धताव् आश्वलायन-वचनम् सद्-आचार-पूर्णम् अनुसरेत् -
भक्तिं श्वशुरयोः कुर्यात्
पत्युश् चापि विशेषतः ।
धर्म-कार्ये ऽनुकूलत्वम्
अर्थ-कार्येऽपि संयमम् ॥
प्रागल्भ्यं काम-कार्येषु
शुचित्वं निज-विग्रहे ।
मङ्गलं सततं पत्युः
सततं प्रिय-भाषणम् ॥
हरिद्रा-कज्जलं चैव
सिन्दूरं कुङ्कुमं तथा ।
कूर्पासकञ् च ताम्बूलं
मङ्गल्याभरणं शुभम् ॥
केश-संस्कार-कबरी-
कर-कर्ण-विभूषणम् ।
भर्तुर् आयुष्यम् इच्छन्ती
दूषयेन् न पतिव्रता ॥
धार्मिक-पत्यौ पारतन्त्र्यम् अत्य्-अपेक्षितम्।
नित्यं प्रातः पतिं नमस्-कुर्यात्, न वृथा तन्-नाम गृह्णीयात्।
सतां पक्षे पातः
पुनः, सुदृढं भगवत्-परत्वं, नाना-रोग-ग्रस्त-लोक-तिरस्कारश् च स्यात् (सद्-देवतान्तरस्यापि प्रीतौ नास्ति दोषः) -
" अद्य प्रभृति हे लोका
यूयं यूयं, वयं वयम् ।
(स्वतन्त्र-)अर्थ-काम-परा यूयं
नारायण-परा वयम् ॥"
आचारः
ततः शुद्ध-वैदिक-विवाह-संस्कारात् परं तप्त-मुद्रा-धारणेन वैष्णवी करिष्यते वधूः।
पत्या सह संस्कृतेन व्यवहर्तुम् (तद्-अर्थ-शिक्षणात् परम् अपि वा) उत्सुका स्यात्।
(वर-मात्रा पत्य्-अनुरोधेन विवाहात्-परं संस्कृत-सम्भाषणम् आश्रितम्।)
वर-परिवार-जीवन-धाराम् बहु मन्येत,
रजस्वला-नियमादीन् सद्-आचारान् उचित-मात्रया सोत्साहम् अङ्गीकुर्याच् च।
यथा - रजः-प्रादुर्भावाद् रात्रि-त्रयम् अन्-अत्य्-अगत्य-विषयेष्व् अभाषणम्, अपाकः, देव-कार्यादि-वर्जनम्।
नित्यौपासन-वैश्वदेव-स्थालीपाकादौ सहकुर्यात्।
शारीरं स्वास्थ्यम्
शारीरिकम् अपि स्वास्थ्यम् भूयात्।
तत्-परिवारे बुद्धि-भावादिष्व् औन्नत्यं, कौशलं च दृश्येत -
आनुवंशिक-गुणा अपत्येष्व् अपि खलूद्भवन्ति।
वयः - वरापेक्षया कनीयसी स्यात्।
लौकिक-नियमान् उपेक्ष्य रहसि योग्य-देशान्तरे वा विवाहः शक्यः
(वरस्य षोडशे वर्षे यथा)।
जाति-जातक-पत्त्रादि
सत्-परिवार-वृद्धा ब्राह्मणी ब्राह्मणी-प्राया वा स्यात्।
सापिण्ड्य-दोषाभावे समान-गोत्रा ऽप्य् अत्यन्त-सद्-वधू-दौर्लभ्ये स्वीकरिष्यते।
यस्यां मनश्-चक्षुषोर् निबन्धस् तस्याम् ऋद्धिर् नेतरद् आद्रियेतेत्य् एके २
इत्य् आह भगवान् आपस्तम्बः।
वृत्तिः
लौकिक-वृत्तिर् न निषिद्धा -
किन्तु, पति-परिवाराद्य्-आनुकूल्यस्यापेक्षया गौणीति मन्येत।
परीक्षा-प्रकारः
- वध्वा ऽखिलम् इदम् पठित्वा ऽवगत्य प्रस्तोतव्यः।
- वधूवरौ मिलित्वा रामायणस्य +अयोध्याकाण्डम् पारायणरूपेण पठेताम् - यत्र गृहस्थाश्रम-समस्यादयः कैकयी-मन्थरादिभिः प्रकटिताः।