प्रमेयाः

निर्गुणम् ब्रह्म = आत्मा

ब्रह्म। स एवात्मा।

अयम् औपनिषदः पुरुषः, कूटस्थः, नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावः इत्य् उच्यते समन्वयाधिकरणे।

तन् निर्गुणम् उच्यते।
अस्य निष्क्रियता, अनुपास्यता च सगुण-ब्रह्म-प्रकरणे द्रष्टव्या।

साक्षिता

अहं-प्रत्यय-विषय-कर्तृ-व्यतिरेकेण
तत्-साक्षी सर्व-भूत-स्थः सम एकः
कूटस्थ-नित्यः पुरुषः
+++(वेदेनैवाधिगत)+++

इति शङ्करः समन्वयाधिकरणे।

विश्वास-टिप्पनी

वस्तुतस् तु निर्विशेषय साक्षित्वम् अपि नोपपद्यतय् इति रामानुजेन साध्व् आक्षिप्तम्।

माया

मायेयम् अनादिः - श्रुत्य्-अनुसारेण जीवोत्पत्ति-विरोधतः।
कदाचिन् माया-नाशे सगुण-ब्रह्मापि नङ्क्ष्यति।
तद् भविता न वेति न ज्ञायते।
अतो हि, माया न सद्, न चासत्, अपि त्व् अनिर्वचनीय इत्य् उच्यते प्रायेण।

मिथ्या-वादस्य विस्तारो ऽन्यत्र ।

अहङ्कारः

अन्तःकरण-विशेषो ऽहङ्कार एवाहम्-अर्थः।
अयं द्विविधः - सगुणम् ब्रह्म, जीवश् चेति।

सक्रियता, फल-भोक्तृता

मिथ्या-ज्ञानापायश् च ब्रह्मात्मैकत्व-विज्ञानाद् भवति। … न स्वाश्रया क्रिया ऽऽत्मनः सम्भवति।
… तेनैव ह्य् अहं-कर्त्रा
अहं-प्रत्यय-विषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते।. तत्-फलं च स एवाश्नाति,

‘तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो ऽभिचाकशीति’ (मु. उ. ३। १। १)

इति मन्त्र-वर्णात् —

‘आत्मेन्द्रिय-मनो-युक्तं भोक्तेत्य् आहुर् मनीषिणः’ (क. उ. १। ३। ४)

इति च ।

इति समन्वयाधिकरणे।
एवं निर्गुणस्य ब्रह्मणः क्रियैव न सम्भवति।

उपास्यता ऽनुपास्यता

निर्गुणस्योपासनम् एव न सम्भवति -
उपासनाय गुणानाम् अपेक्षया।
सगुणं ब्रह्मैवोपास्यम्, न निर्गुणम् इति शङ्करः —

तथोपास्ति-क्रिया-कर्मत्व-प्रतिषेधो ऽपि भवति —

‘यद्-वाचानभ्युदितं येन वाग् अभ्युद्यते’

इत्य् अविषयत्वं ब्रह्मण उपन्यस्य,

‘तद् एव ब्रह्म त्वं विद्धि,
नेदं यद् इदम् उपासते’ (के. उ. १। ५)

इति ।

“उपाधि-सम्पर्केण निर्गुणस्योपासनम्” इति तु सगुणस्यैवोपासनम् उक्तम् -
अपगतम् एव निर्गुणत्वम् उपाधिसम्पर्केण।

सगुणम् ब्रह्म, ईश्वरः

निर्गुण-ब्रह्म माया-सहकृतं सगुणम् ब्रह्म भवति।
सगुण-ब्रह्म = निर्गुणम् ब्रह्म + माया।

माया-नियामकः

किञ्च, स मायाधीनो न, अपि तु माया-नियामकः।

यया योगमायया समावृतं मां लोको नाभिजानाति
नासौ योगमाया मदीया सती
मम, ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति -
यथा अन्यस्यापि मायाविनो मायाज्ञानं, तद्वत्॥

इति शङ्करो गीताभाष्ये।
सर्वं वाक्यं सावधारणम् असति बाधकय् इति न्यायेन
ईश्वरस्यैकत्वम् प्रतीयते।

सगुणम् ब्रह्म कतमो देव इति विचारो ऽन्यत्र।

अभिधानानि

तत्र तत्र शङ्करेण सगुणम् ब्रह्म + एतैर् अपि शब्दैर् उच्यते -

  • परमेश्वरः
  • परमात्मा
  • प्रत्यग्-आत्मा (एक एवात्मा प्रत्यग् एव परम इति सिद्धान्तः।)
  • परम् ब्रह्म
    • श्रुत्या ऽपि “नारायणम् परम् ब्रह्म” इत्य् उक्तम्।
  • अपरम् ब्रह्म

तेषु केचन निर्गुण-ब्रह्म-परा अपि प्रयुक्ताः - प्रकरणानुसारेण विवेक्तव्यम्।
निर्गुण-ब्रह्म-सहितं हि सगुण-ब्रह्म - अत इमय् उभयार्थकाः प्रयोगाः।

परमेश्वरः

सगुणम् ब्रह्म परमेश्वरादि-शब्दैर् व्यवह्रियते ।
किञ्च, परमेश्वर-शब्देन न कदापि निर्गुणम् ब्रह्मोच्यते।
यतः - निर्गुणे वस्तुनि कथं पारम्यम् ऐश्वर्यं चेति गुणे स्याताम्?
neither पारम्य nor ऐश्वर्य can be attributed to an “attributeless” thing.
(Very unlikely that shankara would have made that error - I have my opinions about shankara - but it’s not that low!) अतः सविशेषापकर्षम् एव परमेश्वर-शब्देन निर्गुणम् ब्रह्म वाच्यम्, यथा -

अपि च, यत्र तु निरस्त-सर्वविशेषं पारमेश्वरं रूपम् उपदिश्यते,
भवति तत्र शास्त्रम् ‘अशब्दम् अस्पर्शम् अरूपम् अव्ययम्’ (क. उ. १ । ३ । १५) इत्यादि ।

इति ब्रह्म-सूत्र-भाष्ये शङ्करः।

बहुरूपता

स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् ,
‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’ इति स्मरणात् ।

इति ब्रह्मसूत्रभाष्ये। अत्र सगुणम् एव ब्रह्मोच्यते - सेच्छत्वात्।

रूपान्तरेणाविर् भवितुं देवाः प्रभवः (राक्षसा अपि कामरूपिणः!) ।
किञ्च परस्पर-भेदस् तेषु तावता न निराक्रियते (शाङ्कर-व्यावहारिक-सत्तायाम् अपि)।

जीवाः

मायया सार्धं जीवा भवन्ति।

हिरण्य-गर्भः

तेष्व् एकः पर्यायेण हिरण्य-गर्भो भवति।
स लोकपालनादि निर्वहति।

बन्ध-मोक्षौ

मायान्विते प्रपञ्चे
मुक्तिर् वर्तते, बन्धोऽपि
(यद्यपि सा मिथ्येत्यादि प्रयोगा भ्रामयेयुः श्रोतॄन्)।
तद्-विचारो ऽन्यत्र ।

उपाधि-कृतो भेदः

ते जीवा वस्तुतो न सगुणब्रह्मणो भिन्नाः,
तथा तु प्रतीयन्ते मायया।

सत्यं नेश्वराद् अन्यः संसारी;
तथापि देहादि-सङ्घातोपाधि-सम्बन्ध इष्यत एव,
घट-करक-गिरि-गुहाद्य्– -उपाधि-सम्बन्ध इव व्योम्नः।
तत्-कृतश् च शब्द-प्रत्यय-व्यवहारो लोकस्य दृष्टः
— ‘घटच्-छिद्रम्’ ‘करकच्-छिद्रम्’ इत्य्-आदिः,
आकाशाव्यतिरेके ऽपि;
तत्-कृता चाकाशे घटाकाशादि-भेद-मिथ्या-बुद्धिर् दृष्टा;
तथेहापि देहादि-सङ्घातोपाधि-सम्बन्धाविवेक-कृतेश्वर-संसारि-भेद-मिथ्या-बुद्धिः।

इति शङ्कर ईक्षत्य्-अधिकरणे।
आनन्दमयाधिकरणे च -

परमेश्वरस् त्व् अविद्या-कल्पिताच् छारीरात्
कर्तुर् भोक्तुः विज्ञानात्माख्याद् अन्यः —
… यथा वा घटाकाशाद् उपाधि-परिच्छिन्नाद्
अनुपाधि-परिच्छिन्न आकाशो ऽन्यः।
ईदृशं च विज्ञानात्म-परमात्म-भेदम् आश्रित्य
‘नेतरो ऽनुपपत्तेः’, ‘भेद-व्यपदेशाच् च’ इत्य् उक्तम् ॥

मायाधीनता

ते च मायाधीना एव भवन्ति।
तथा तेषां सृष्टि-संहारादि-शक्तयो न भवन्ति सगुण-ब्रह्म-विशेषाः।

आह च शङ्कर ईक्षत्य्-अधिकरणे -

देहाद्य्-अपेक्षम् ईक्षितृत्वम् उपपन्नं संसारिणः।