माया परिचयो ऽन्यत्र ।
सत्तायां स्तराः - असत्, स्वप्न-सत्ता, व्यावहारिक-सत्ता, पारमार्थिक-सत्ता/ सत्।
त्रिषु कालेषु यत् सत्यम्, सा पारमार्थिक-सत्ता।
मिथ्या - व्यावहारिक-सत्ता
शाङ्कर-परिभाषया सत्यं किञ्चिद् अन्यत् - त्रिकाल-वर्तित्वं सद् इति।
शाङ्करोक्त-मिथ्या त्व् इतर-दर्शनाभिप्रायेण सत्यम् इत्येवोच्येत।
किम् बहुना भाष्यवचनै रामानुजेनेव स्वप्नस्यापि “सत्यत्वम्” शङ्करेण समानम् अङ्गीकृतं दृश्यते। शब्द-प्रयोगे हि व्यत्यासः सत्ता-विषये।
“This is mithyA and that is satya” is merely some sort of word-play with no real semantic significance - just like mAdhyamaka-s saying “all things are svabhAva-shUnya” - it’s just a way of applying therapy to oneself so as to not get “bound” by samsAra. (Every approach has its drawbacks, of course - eg. negation of vedas and conservatives by bauddhas.)
वैचित्र्य-प्रेरणम्
कुत एतादृशं वाग्-वैचित्र्यम्?
तत्र ममोहः - शून्यवाद-प्रतिविवक्षया।
मायावादः शून्य-वाद-सन्निहिततया
तैस् सह (सं)वादे सहाकरोत्,
तेन च ब्रह्माङ्गीकार-साधनमात्रं सिसाधयिषितं शङ्करेण।
स्वप्न-सत्यता
रामानुजवत् स्वप्नम् अपि सत्यम् इव मन्यते शङ्करः (शब्दान्तरैः)। यथा ऽरम्भणाधिकरणे -
विश्वास-प्रस्तुतिः
नैष दोषः -
शङ्का-विषादि-निमित्त–मरणादि-कार्योपलब्धेः,
स्वप्न-दर्शनावस्थस्य च
सर्प-दंशनोदक-स्नानादि-कार्य-दर्शनात्।
English
This objection, we reply, is without force
(because as a matter of fact
we do see real effects to result from unreal causes),
for we observe that death sometimes takes place from imaginary venom,
(when a man imagines himself to have been bitten by a venomous snake,)
and effects (of what is perceived in a dream) such as the bite of a snake or bathing in a river take place with regard to a dreaming person.
विश्वास-प्रस्तुतिः
“तत्-कार्यम् अप्य् अनृतम् एवे"ति चेद् ब्रूयात् ,
अत्र ब्रूमः —
यद्य् अपि स्वप्न-दर्शनावस्थस्य सर्प-दंशनोदक-स्नानादि-कार्यम् अनृतम्,
तथा ऽपि तद्-अवगतिः सत्यम् एव फलम् , प्रतिबुद्धस्याप्य् अबाध्यमानत्वात्।
English
But, it will be said, these effects themselves are unreal!
These effects themselves, we reply, are unreal indeed;
but not so the consciousness which the dreaming person has of them.
This consciousness is a real result;
for it is not sublated by the waking consciousness.
विश्वास-प्रस्तुतिः
तथा च श्रुतिः —
‘यदा कर्मसु काम्येषु
स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्
तस्मिन् स्वप्न-निदर्शने’ (छा. उ. ५। २। ८)
इत्य् असत्येन स्वप्न-दर्शनेन
सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति,
English
–Scripture also (in the passage, ‘If a man who is engaged in some sacrifice undertaken for some special wish sees in his dream a woman, he is to infer therefrom success in his work’) declares that by the unreal phantom of a dream a real result such as prosperity may be obtained.
विश्वास-प्रस्तुतिः
प्रसिद्धं चेदं लोके ऽन्वय-व्यतिरेक-कुशलानाम्
ईदृशेन स्वप्न-दर्शनेन साध्व्-आगमः सूच्यते, ईदृशेनासाध्व्-आगम इति।
English
It is, moreover, known from the experience of persons who carefully observe positive and negative instances that such and such dreams are auspicious omens, others the reverse.
विश्वास-प्रस्तुतिः
तथा अकारादि-+++(शब्द-रूप)+++सत्याक्षर-प्रतिपत्तिर् दृष्टा
रेखानृताक्षर-प्रतिपत्तेः ।+++(5)+++
English
And (to quote another example that something true can result from or be known through something untrue) we see that the knowledge of the real sounds A. &c. is reached by means of the unreal written letters.
विश्वास-प्रस्तुतिः
प्राक्चात्मैकत्वावगतेर् अव्याहतः
सर्वः सत्यानृत-व्यवहारो लौकिको
वैदिकश् चेत्य् अवोचाम। +++(5)+++
English
And that before the knowledge of the unity of the Self has been reached
the whole real-unreal course of ordinary life, worldly as well as religious, goes on unimpeded,
we have already explained.
अध्यासः
- अध्यासो नाम +अतस्मिन् तद्-बुद्धिः। इयम् अविद्या। “कस्यास्तीयम् अविद्या? क्व वर्तते - जीवे वा ब्रह्मणि वा शरीरे वा? कथं जाता?” इत्यादिसषु शङ्करो न वर्तते - “पृच्छतस् तवैवे"त्येवं वारयति समस्या अपरिहरन् - तासाम् अमुख्यत्वात्।
- तत्र मूलाविद्येति न किञ्चिद् अस्तीति शुद्धाद्वैतिनः। ब्रह्मावगत्याय् अध्यासापवादक्रमेण +अविद्यैव +अध्यास्यते बुद्धिपूर्वकम् इति ते।
मूलाविद्यादि-पक्षः
यावन्तो जीवास् तावत्यो ऽविद्या इति केचित्। “ब्रह्मज्ञाने प्राप्ते केनचित्, कथं जगद् अनुवर्तते? नष्टा खल्व् अविद्या।” इति समस्याया अत्र परिहारः।
अविद्याया +++(वस्तु-स्थित्य्-)+++आवरण-शक्तिर्, +++(कल्पनान्तर-)+++विक्षेप-शक्तिर् इति वर्तते। अनिर्वचनीयं तद् इत्य् आहुः। सुषुप्तौ सूक्ष्म-रूपेण मूलाविद्या +इति, स्वप्ने जागृतौ च स्थूलरूपेण कार्याविद्या, कारणाविद्या +इति राजते।
ब्रह्मज्ञाने जातेऽपि मूलाविद्या ऽनुवर्तत इति,
कर्म-समाप्तिं यावत् - देहत्याग एव मूलाविद्या नश्यतीति।
अविद्या न सत्, न चासद् इत्याहुः।
आक्षेपाः
- सुषुप्ताव् अप्य् अविद्याऽस्ति चेत् ब्रह्मवत् तस्यापि पारमार्थिक-सत्तास्तीति। कारणत्वेन वर्तते चेत् - तेनापि ब्रह्मतुल्यताम् एति। सुषुप्तौ शुद्धात्म-साक्षात्कारो न भवेद् अस्मिन् कल्पने।
अनिर्वचनीयतायाम्
अनिर्वचनीया चेद् अविद्या, सा ऽनिर्वचनीयता तत्त्व-ज्ञान-वैकल्यं दर्शयति।
नात्रानुभवावर्णनीयतावद् अनिर्वचनीयताया योग्यता। तत्त्वानुभवयोर् मध्ये कुतो भ्रमः? “भवान् शर्करस्य स्वादं वर्णयतु” इत्यस्मात्, “को नम शर्करः?” इत्य्-एतस्यान्तरं स्फुटम्। पूर्वस् सोदाहरणम् अपि वर्नयितुं कठिनः।
यदि कस्चित् “शर्करो ऽनिर्वचनीयः। तद्-उत्पत्तिर् न वर्णयितुं शक्या” इत्यादि वदति चेत्, तद् एव खलु तदीय-तत्त्व-वाद-वैकल्यं द्योतयेत्?
अनुपपत्तिः
आप ब्रह्म के साथ साथ “अविद्या” नामक अनादि तत्त्वान्तर को मानने मेँ किस समाधान से बुद्धि को शान्त करते हैँ?
इन को अद्वैत चाहिये तु ब्रह्म को भी छोढकर अविद्या को हि पकड कर शून्याद्वैती (बौद्ध) बन जायेँ। (दैव-वशात् वैसे नहि करते हैँ।)