ब्रह्म
ब्रह्म। स एवात्मा। प्रमाता ह्य् अस्मिन् शास्त्रे मुख्यः प्रमेयः! तेन न न्यायाद्य्–आधुनिक-विज्ञानान्तैस् सह विरोधः।
सगुणम् ब्रह्म
निर्गुण-ब्रह्म माया-सहकृतं सगुणम् ब्रह्म भवति।
सगुण-ब्रह्म = निर्गुणम् ब्रह्म + माया।
किञ्च, स मायाधीनो न, अपि तु माया-नियामकः।
सगुणम् ब्रह्म कतमो देव इति विचारो ऽन्यत्र।
अभिधानानि
तत्र तत्र शङ्करेण सगुणम् ब्रह्म + एतैर् अपि शब्दैर् उच्यते -
- परमेश्वरः
- परमात्मा
- प्रत्यग्-आत्मा (एक एवात्मा प्रत्यग् एव परम इति सिद्धान्तः।)
- परम् ब्रह्म
- श्रुत्या ऽपि “नारायणम् परम् ब्रह्म” इत्य् उक्तम्।
- अपरम् ब्रह्म
तेषु केचन निर्गुण-ब्रह्म-परा अपि प्रयुक्ताः - प्रकरणानुसारेण विवेक्तव्यम्।
निर्गुण-ब्रह्म-सहितं हि सगुण-ब्रह्म - अत इमय् उभयार्थकाः प्रयोगाः।
परमेश्वरः
सगुणम् ब्रह्म परमेश्वरादि-शब्दैर् व्यवह्रियते ।
किञ्च, परमेश्वर-शब्देन न कदापि निर्गुणम् ब्रह्मोच्यते।
यतः - निर्गुणे वस्तुनि कथं पारम्यम् ऐश्वर्यं चेति गुणे स्याताम्?
neither पारम्य nor ऐश्वर्य can be attributed to an “attributeless” thing.
(Very unlikely that shankara would have made that error - I have my opinions about shankara - but it’s not that low!)
अतः सविशेषापकर्षम् एव परमेश्वर-शब्देन निर्गुणम् ब्रह्म वाच्यम्, यथा -
अपि च, यत्र तु निरस्त-सर्वविशेषं पारमेश्वरं रूपम् उपदिश्यते,
भवति तत्र शास्त्रम् ‘अशब्दम् अस्पर्शम् अरूपम् अव्ययम्’ (क. उ. १ । ३ । १५) इत्यादि ।
इति ब्रह्म-सूत्र-भाष्ये शङ्करः।
बहुरूपता
स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् ,
‘माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसि’ इति स्मरणात् ।
इति ब्रह्मसूत्रभाष्ये। अत्र सगुणम् एव ब्रह्मोच्यते - सेच्छत्वात्।
रूपान्तरेणाविर् भवितुं देवाः प्रभवः (राक्षसा अपि कामरूपिणः!) ।
किञ्च परस्पर-भेदस् तेषु तावता न निराक्रियते (शाङ्कर-व्यावहारिक-सत्तायाम् अपि)।
माया
मायेयम् अनादिः - श्रुत्य्-अनुसारेण जीवोत्पत्ति-विरोधतः।
कदाचिन् माया-नाशे सगुण-ब्रह्मापि नङ्क्ष्यति।
तद् भविता न वेति न ज्ञायते।
अतो हि, माया न सद्, न चासत्, अपि त्व् अनिर्वचनीय इत्य् उच्यते प्रायेण।
मिथ्या-वादस्य विस्तारो ऽन्यत्र ।
जीवाः
मायया सार्धं जीवा भवन्ति।
ते जीवा वस्तुतो न सगुणब्रह्मणो भिन्नाः,
तथा तु प्रतीयन्ते मायया।
ते च मायाधीना एव भवन्ति।
तथा तेषां सृष्टि-संहारादि-शक्तयो न भवन्ति सगुण-ब्रह्म-विशेषाः।
अन्तःकरण-विशेषो ऽहङ्कार एव जीव-स्थानियस् तेषु।
तेष्व् एकः पर्यायेण हिरण्य-गर्भो भवति।
स लोकपालनादि निर्वहति।
मायान्विते प्रपञ्चे
मुक्तिर् वर्तते, बन्धोऽपि
(यद्यपि सा मिथ्येत्यादि प्रयोगा भ्रामयेयुः श्रोतॄन्)।
तद्-विचारो ऽन्यत्र ।