अथ द्वितीयः पटलः ।
अथ योगस्तु विज्ञेयो गुणैश्वर्यविमुक्तिदः । चित्तवृत्तिनिरोधं तु
योगमाह पतञ्जलिः ॥ १ ॥
युजेर्धातोः समाधौ तु क्षेत्रज्ञपरमात्मनोः । युक्तिर्योगः
समुद्दिष्टस्तथाचाह महामुनिः ॥ २ ॥
मनो हि सर्वभूतानां कारणं बन्धमोक्षयोः । वृत्तिहीनं
मनः कृत्वा स्वात्मानं परमात्मनि ॥ ३ ॥
परमात्मा [रात्मना स] समायोज्य योगं कु * * * * । * * * *
विमुक्तः [क्: क्ति] स्यान्मुख्योऽयं योग इष्यते ।
इति ।
सम्यक् शिवगतं चित्तं यदा न चलति स्थिरम् ।
शिवत्वव्यक्तभावस्य कैवल्यं योग इष्यते ॥ ३ ॥
तच्च रागादिदोषाणां वर्जनेन प्रकाशते । ते च नश्यन्ति
रागाद्या योगा–न्गानां निषेवणात् ॥ ४ ॥
योगाङ्गानि च तान्यष्टौ प्रवदन्ति हि तद्विदः ।
तद्यथा -
यमाश्च नियमास्तद्वदासनं प्राणसंयमाः ॥ ५ ॥
प्रत्याहारा धारणाश्च ध्यानानि च समाधयः । यमाः
पञ्चप्रकाराः स्युर्नियमाश्चैव पञ्चधा ॥ ६ ॥
आसनानि च पञ्च स्युः प्राणायामास्तु नैकधा । प्रत्याहाराः
पञ्चविधा धारणा बहुधा स्मृताः ॥ ७ ॥
ध्यानानि नैकधा त्वकः समाधिरथवा त्रिधा । अहिंसा
सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥ ८ ॥
यमाः पञ्चविधास्तेषां पृथग्भेदा भवन्ति हि ।
मनोवाक्कर्मभिहिंसास्त्रिविधाः प्राणिनामिह ॥ ९ ॥
ताभ्यो निवृत्तिं सर्वत्र अहिंसां परिचक्षते । सत्यं
यथार्थकथनं सर्वभूतहितं च यत् [तत् परपीडाकरं
सत्यं यदा] ॥ १० ॥
परपीडाकरं सत्यमेवं सय्तं विदुर्बुधाः । असत्यमपि
भूतानां हितं चेत् सत्यमेव तत् ॥ ११ ॥
परपीडाकरं सत्यं यदा मौनं तदा भजेत् । अन्यैः
परिगृहीतानां त्यक्तानां वाश्रमादिषु ॥ १२ ॥
निक्षिप्तानां तृणानां वा कर्मणा मनसा गिरा ।
परार्थानामनादानमस्तेयं परमं स्मृतम् ॥ १३ ॥
ब्रह्मचर्यमिति प्राहुरिन्द्रियाणां तु संयमम् ।
तत्राप्युपस्थविषयनिवृत्तिं तु विशेषतः ॥ १४ ॥
किन्तु
दर्शनस्पर्शनापेक्षासङ्कल्पाभाषणादिभिः ।
योषित्सम्भोगवैमुख्यं ब्रह्मचर्यं परं विदुः ॥ १५ ॥
तत्रापि च गृहस्थानां स्वदारान्नव्यतिक्रमात् ।
ऋतुस्नाताभिगमनं ब्रह्मचर्यं परं स्मृतम् ॥ १६ ॥
अ[क्: आ]र्जनक्षयसंरक्षाहिंसादोषादिदर्शनात् ।
अस्वीकरणमर्थानां मुख्यः स्यादपरिग्रहः ॥ १७ ॥
भिक्षूणामयमुद्दिष्ट अन्येषामन्यथा स्मृतः । ब्रह्मचारी
गृहस्थो वा वानप्रस्थोऽथवा मुनिः ॥ १८ ॥
सकुटुम्बस्तु यस्तस्य गुर्वादीनां तु पुष्टये ।
असत्प्रतिग्रहेभ्यस्तु निवृत्तिरपरिग्रहः ॥ १९ ॥
॥ एवं यमाः ॥
नियमाः शौचसन्तोषौ स्वाध्यायस्तप एव च ।
तद्वदीश्वरपूजेति पञ्च भिन्नास्तु ते पुनः ॥ २० ॥
शौचं तु शुद्धिर्विज्ञेया मनोवाक्कायकर्मणाम् ।
अचिन्तनमकृत्यानां यत् तच्छौच तु मानसम् ॥ २१ ॥
अक्ली(नं? बं) वाचिकं स्यात् तु कायिकं तु मृदा जलैः ।
मलानां क्षालनञ्चान्तःकरणस्य विशोधनम् ॥ २२ ॥
पापानामननुष्ठानं कर्मिणां शौचमिष्यते ।
वर्णाश्रमादिधर्माणामविरोधागतेन तु ॥ २३ ॥
धनधान्यादिना वृत्त्या तृप्तिः सन्तोष उच्यते ।
(ग)तेष्वननुशोकः स्याद् भविष्यार्थेष्वलोलता ॥ २४ ॥
वर्तमानेष्वसक्तिश्च सन्तोषः परिपठ्यते ।
हर्षागमेष्वनुत्सेकः शोकस्थानेष्वशोकता ॥ २५ ॥
समता चापि सर्वेषु सोऽपि सन्तोष उच्यते । प्रणवस्य
तथाभ्यासस्तथोपनिषदामपि ॥ २६ ॥
तत्फलानभिसन्धानात् स्वस्वमन्त्रजपोऽपि च । स्वाध्याय इति
निर्दिष्टस्त्रिविधोऽपि च योगिनाम् ॥ २७ ॥
तथाचाहुः -
स्वाध्यायाद् योगमासीत योगात् स्वाध्यायमात्मनि ।
स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥
शब्दब्रह्म च तद् ब्रह्म वेदितव्ये उभे अपि । शब्दब्रह्मणि
निष्णातः परं ब्रह्माधिगच्छति ॥
इति ।
एकभुक्तोपवासाद्यैः कृच्छ्रचान्द्रायणादिभिः । कर्शनं तु
शरीरस्य यत्तत्तप उदाहृतम् ॥ २८ ॥
तत्राप्यनशनं नेष्टं नेष्टमत्यशनं तथा ।
व्रतचोदितकालाशी तपस्वी योगभाग् भवेत् ॥ २९ ॥
तथाचाह भगवान् -
नात्यश्नतस्तु योगोऽस्ति नचैकान्तमनश्नतः ।
नचातिस्वप्नशीलस्य जाग्रतो नापि चार्जुन! ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य
योगो भवति दुःखहा ॥
इति ।
आभ्यन्तरैस्तथा बाह्यैर्द्रव्यैर्गन्धादिभिः क्रमात् ।
चोदिताराधनं शम्भोर्यत् तदीश्वरपूजनम् ॥ ३० ॥
तत्राप्यनभिसन्धाय फलं भक्त्योपपत्तितः । देवस्येष्टस्य
यजनं कर्मणा मनसापि च ॥ ३१ ॥
योगिनां योगसिध्यर्थं शस्तमीश्वरपूजनम् । याज्ञवल्क्यो
वसिष्ठश्च योगाचार्यौ महामुनी ॥ ३२ ॥
पृथग्यमांश्च नियमान् दशभेदानिहोचतुः । अहिंसा
सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ ३३ ॥
क्षमा धृतिर्मिताहारः शौचं चेति यमादयः । तपः सन्तोष
आस्तिक्यं दानमीश्वरपूजनम् ॥ ३४ ॥
सिद्धान्तश्रवणं चैव ह्वीर्मतिश्च? जपो हुतम् ।
एते तु नियमाः । इति
॥ नियमाः ॥
आसनान्यपि चोक्तानि बहुधा पूर्वपद्धतौ ॥ ३५ ॥
तेषां पञ्चैव शस्तानि योगसिद्धिकराणि वै । स्वस्तिकं
पद्मसञ्ज्ञं च भद्रं योगासनं तथा ॥ ३६ ॥
गोमुखं चेति तेषां तु लक्षणं पृथगुच्यते ।
उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं
विधाय । ऋजुमध्यगलक्षणाग्रकायो भवति स्वस्तिकमासनं
निविष्टम् ॥ ३७ ॥
चरणाग्रयुगं तथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे ।
उपविश्य पुरेव पद्मसञ्ज्ञं कथितं तद्विपरीततस्तु भद्रम् ॥
३८ ॥
अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्यं चरणं तु
दक्षिणोरौ । अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं
तदाहुः ॥ ३९ ॥
वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगुरूः
। उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः ॥
४० ॥
॥ आसनानि ॥
प्राणस्य धारणं देहे प्राणायाम इतीरितः ॥ ४१ ॥
स च नैकविधः प्रोक्तो योगशास्त्रविऽसारदैः । पूरकः
कुम्भकश्चैव रेचकश्चेति ते त्रयः ॥ ४२ ॥
प्राणसंयमनानां तु खात्यान्यङ्गान्यनुक्रमात् । (?)
त्रिभिरङ्गैर्युतस्त्र्यङ्ग स्याकुत्पूरकं विना (?) ॥ ४३ ॥
नासापुटेन वामेन पूरयेदुदरेऽनिलम् ।
निर्दिष्टोद्घातमात्राभिर्विज्ञेयः स तु पूरकः ॥ ४४ ॥
पूरितस्याथवा वायोः केवलस्य निरोधतः । सम्पूर्णकुम्भवत्
तिष्ठेद् यदासौ कुम्भकः स्मृतः ॥ ४५ ॥
वामेतरेण घ्राणेन (मा? म)रुतः पूरितस्य तु । शनैः
क्रमेण यो मोक्षो रेचकः परिपठ्यते ॥ ४६ ॥
तत्र षोडशमात्रस्तु सामान्यः पूरको मतः । कुम्भकः
षष्टिमात्रः स्यात् पञ्चोद्धातस्तु संस्मृतः ॥ ४७ ॥
युग्मोद्धातो रेचकः स्याच्चतुर्विंशतिमात्रकः । प्राणायामो
ह्ययं मन्दो मध्योऽस्माद् द्विगुणो भवेत् ॥ ४८ ॥
त्रिगुणस्तूत्तमो ज्ञेयः क्रमेणाभ्यासयोगतः । अगर्भाश्च
सगर्भाश्च प्राणायामास्तु ते स्मृताः ॥ ४९ ॥
अन्तर्मन्त्रजपोपेताः प्राणायामाः सगर्भकाः ।
अन्तर्जपविहीना ये ते त्वगर्भा इति स्मृताः ॥ ५०॥
प्राणयामादगर्भात् तु सगर्भः श्रेष्ठ उच्यते ।
तद्यथा -
कुम्भीकृत्योदरे वायुं स्वस्वमन्त्रं धिया जपेत् ॥ ५१ ॥
प्राणायामं सगर्भं तु कुर्यात् तद्गतमानसः । एकाक्षरः
स्वमन्त्रश्चेत् तस्य स्याद् द्विशतं जपः ॥ ५२ ॥
प्रत्यक्षरविवृद्ध्यात्वा त्रिंशद्वर्णाननुक्रमात् । भावयि[ख्:
हापयि]त्वायतप्राणः प्राणायामं समाचरेत् ॥ ५३ ॥
अष्टार्णादिप्रकृत्यन्तं तत्राप्येकैकलोपतः । प्राणायामा
विधातव्यास्तत्तद्ध्यानोपबृंहिताः ॥ ५४ ॥
तत्र विज्ञाय देहं च नाडीर्वायुं च तत्स्थितम् । तच्छुद्धिं
च विधायाथ प्राणायामं समाचरेत् ॥ ५५ ॥ तद्यथा -
षण्णवत्यङ्गुलो देहो देहो लब्धा–न्गुलैः स्वकैः । ऊर्ध्वं
शरीरादधिकं प्राणः स्याद् द्वादशाङ्गुलम् ॥ ५६ ॥
मेढ्रादूर्ध्वं द्व्यङ्गुलं तु देहमध्यमुदीरितम् । मूलाधारः
स च त्र्यश्रो देवादीना नृणामपि ॥ ५७ ॥
पश्वादीनां तु वेदाश्रस्त्वण्डजानां तु वर्तुलम् ।
चतुष्पदानां हृन्मध्ये क्रोडमध्येऽण्डजन्मनाम् ॥ ५८ ॥
मूलादूर्ध्वं मनुष्याणां नाभिकन्दो नवाङ्गुलात् ।
नाभिचक्रं तदूर्ध्वं तु द्वादशारमसुस्थितिः ॥ ५९ ॥
नाभेरधस्तात् कन्दाख्ये कुण्डलिन्यष्टवर्तुला ।
प्रसुप्तभुजगाकारा चतुरङ्गुलविस्तृता ॥ ६० ॥
द्वासप्ततिसहस्राणि नाड्यस्तन्मध्यनिर्गताः ।
अष्टाविंशतिसङ्ख्याः स्युस्तासां मुख्यास्तु नाडयः ॥ ६१ ॥
तासां च दश वै श्रेष्ठा इडाद्यास्तास्वपि त्रयम् । इडा
पिङ्गा सुषुम्ना च गान्धारी हस्तिजिह्विका ॥ ६२ ॥
सुयशालम्बुषा पूषा कुहूश्चैव च शङ्खिनी । एतास्विडा
पिङ्गला च सुषुम्ना चोत्तमाः स्मृताः ॥ ६३ ॥
तासामथ सुषुम्नाख्या ब्रह्मनाडी परा स्मृता ।
इति नाडीदशकम् ॥
विमला घोषणी पृथ्वी ततस्त्वाप्यायनी मता ॥ ६४ ॥
तेजोवती वायवी च गगना चैव रोधनी । रसावाहा च
मृद्वङ्गी स्नंसनी? चापि मर्शनी ॥ ६५ ॥
शब्दस्पर्शवहे दूर्णा सुरूपा रसधारणी । सर्वगा चेति
निर्दिष्टा नाडयोऽष्टादश क्रमात् ॥ ६६ ॥ प्। ६२७)
अथ प्राणादयः पञ्च नागाद्याश्चापि पञ्च हि । प्राणस्तु
हृत्पद्मगत आसनाद्धृदयस्थितिः ॥ ६७ ॥
निःश्वसोच्छ्वासकासादीन् कुर्वन् वक्षः समाश्रितः । प्रयाणं
कुरुते नित्यं य(स्या? स्मात्) प्राणः प्रकीर्तितः ॥ ६८ ॥
अवाङ्मूत्रमलादीनामपानोक्: नां व्यानो ह हस्तादिसन्धिगः
। हानोपादानकर्मा च तस्माद् व्यान इति स्मृतः ॥ ६९ ॥
ऊर्ध्वं नयत्युदानस्तु नाभेराशिरसि स्थितः ।
गात्रनेत्रविकाराद्यं कर्मोदानस्य तु स्मृतम् ॥ ७० ॥
समानः सर्वकायं तु व्याप्य सन्धिषु च स्थितः ।
त्वगसृङ्मांसमेदोस्थिसंस्था नागादिवायवः ॥ ७१ ॥
ललाटिकोरश्शङ्खांसनाभिस्थास्ते त्वनुक्रमात् (?) ।
अथ वर्णाः -
नीलेन्द्रगोपगोक्षीरविद्युदर्केन्दुसप्रभाः ॥ ७२ ॥
कुन्दभिन्नाञ्जनार्काश्मकुसुम्भकुसुमोपमाः ।
आहारपचनाद्यन्तं प्राणकृत्यमितीरितम् ॥ ७३ ।
पोषणाद्यं समानस्य कर्मेति परिपठ्यते । उद्गाराद्यं तु
नागस्य कूर्मस्योन्मीलनादिकम् ॥ ७४ ॥
कृकरस्य क्षुतं कर्म जृम्भाद्यं देवदत्तजम् । धनञ्जयस्य
शो(भा? षाद्यं) मृतं च न विमुञ्चति ॥ ७५ ॥
मध्येन तु शरीरस्य सुषुम्ना सूत्रवत् स्थिता ।
बिन्दोर्मूर्धानमासाद्य ब्रह्मरन्ध्रेण निर्गता ॥ ७६ ॥
इडा च पिङ्गला चैव वामतोऽस्याश्च दक्षिणे । सुषुम्नायां
स्थिते वामदक्षिणप्राणयोः सृते [ख्: स्मृ] ॥ ७७ ॥
इडापृष्ठात्तु गान्धारी सव्यनेत्रविनिर्गता । हस्तिजिह्वा च
वामाङ्घ्रेरङ्गुष्ठाग्राद् विनिर्गता ॥ ७८ ॥
सुयशा दक्षिणस्याङ्घ्रेर्ज्य्ष्ठिकाग्रान्तनिर्गमा । अलम्बुषा
त्वधो नाभेः पायुमूलान्तनिर्गमा ॥ ७९ ॥
पूषा तु पिङ्गला[ख्: कुण्डला]पृष्ठाद् दक्षिणश्रोत्रनिर्गता
। नाडयो विमलाद्यास्तु दश हस्ताग्रनिर्गताः ॥ ८० ॥
कुहूस्तु पिङ्गलापृष्ठाद् दक्षिणा[क्: णो]क्षिविनिर्गता ।
विश्वोदरोदरं याता सरस्वत्यपि मेढ्रगा ॥ ८१ ॥
अन्तस्सुषिरसंयुक्ताः सर्वा अपिच नाडयः । पूर्णरक्ताश्च
ताः सर्वाः पद्मतन्तुवि * * * ॥ ८२ ॥
तासां शाखोपशाखानां भेदस्तु बहुधा स्मृतः । देहाद्
बहिर्निर्गताग्रा रोमसञ्ज्ञाः शरीरगाः ॥ ८३ ॥
श्मश्रूणि मुखजातानि केशाः शिरसि निर्गताः । तिस्रः
कोट्योऽर्धकोटिश्च केशरोमाणि देहगाः ॥ ८४ ॥
जरायुजानां देहेषु पशूनां त्रिगुणाः स्मृताः । पक्षिणां
तु ततोऽर्धार्धं सिरारोमाणि सङ्ख्यया ॥ ८५ ॥
सिरारोमादिनियमो नहि कीटादिजातिषु । स्थावराणामपि तथा
सर्वे ते प्राणिनः [ना] स्मृताः ॥ ८६ ॥
एवं नाडीर्विदित्वा तु प्राणायामं समाचरेत् ।
एवं यमाश्च नियमा (नि? श्च) तथासनानि प्राणादयश्च
पवना अपि नाडिचक्रम् । योगस्य या[ख्: हा]नि बहिरङ्गतयोदितानि
सेव्यानि तानि विदितानि यथोपदेशम् ॥ ८७ ॥
इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे
योगपादे योगलक्षणादिपटलो द्वितीयः ॥