मण्डलब्राह्मणोपनिषत्

[[मण्डलब्राह्मणोपनिषत् Source: EB]]

[

[TABLE]

PREFACE.

The Maṇḍala-Bráhmaṇopanishad professedly belongs to one of the S’ákhás of the S’ukla-Yajur-Veda and treats of what is called Rája-Yoga, that method of attaining a direct knowledge of Brahman whose process consists in the psychological development of mind by concentration and meditation upon certain aspects of the Supreme Entity in man at their respective centres of manifestation. Along with the text is given a sort of commentary treating of the same subject in the same order, sometimes repeating the original verbatim and at other times adding some explanatory matter, and said to have been written by S’rí S’aṅkaráchárya. In one of the MSS. the colophon at the end of the first section of the so-called Bhâshya runs as follows:—

इति श्रीसदानन्दावधूतशिष्यविरचिते विजृम्भितयोगशास्त्रे प्रथमप्रकरणं समाप्तम्.

Similar colophons giving the name of the same author are found with necessary changes at the end of several other sections of the Rája-Yoga-Bháshya. In all other MSS. S’rí S’ankaráchárya is mentioned in the colophons as the author of the commentary. But the Rája-Yoga-Bháshya so differs in its style and language from his genuine bháshyas on the Upanishads, the S’áríraka-Sútras and the Bhagavad-Gítá, and the philosophy embodied in the Rája-Yoga-Bháshya so differs in some important details from that taught in the bháshyas referred to, that it is hard to believe that he is really the author of the Rája-Yoga-Bháshya. It is more likely that the other person mentioned as a disciple of Sadánandávadhùta has written the commentary.

Though this Upanishad cannot be allowed to occupy the same rank in the Vedic literature as some other Upanishads which are often referred to by S’rí S’ankaráchárya and other eminent writers on Vedàntic philosophy in their genuine works, the teaching therein embodied is not the less authoritative on that account. As Tradition has it, a full knowledge of

such practices as are taught in the Upanishad is as a rule imparted by a Guru to his disciple orally and by means of secret initiations and is hardly ever committed to writing. It is only in extreme cases that such occult teachings are allowed to see the light of the day. They are, moreover, not easy of verification by ordinary methods of investigation. Under these circumstances one would naturally hesitate to subject writings embodying mystic teachings of this class to ordinary canons of criticism. It is often in a most incomplete form that such teachings are published and committed to writing; and as they pass from hand to hand among the uninitiated, they are often distorted beyond recognition. Thus the MSS. of the Upanishad and the Bhàshya abound in errors of various kinds. The present edition, prepared from a careful collation of several MSS., is tolerably correct.

A synoptical view of the contents of the Upanishad is given in the accompanying Sanskrit Preface.

26/8/99.

A. M.

<MISSING_FIG href="../books_images/U-IMG-1732027768उपनिषद१.jpg"/>

**पीठिका.


मण्डलब्राह्मणोपनिषदियं शुक्लयजुर्वेदीया अष्टोत्तरशतोपनिषदामन्यतमा दुरन्तसंसारकान्तारानारतचङ्क्रमणसंक्रान्तश्रान्तिशान्तिकरं राजयोगमविलम्बितमहाफलयोगं जिज्ञासूनां सुसूक्ष्मतरतत्त्वसाक्षात्काराधानोपदेशं विदधती विराजते॥

आदित्यमण्डलान्तस्स्थपुरुषयाज्ञवल्क्ययोः प्रश्नोत्तररूपेण प्रवृत्ततया ब्राह्मणरूपतया चास्याः मण्डलब्राह्मणोपनिषदिति संज्ञा समजनि यथा कौषीतकिब्राह्मणोपनिषदित्यादिः.

तत्र पञ्च ब्राह्मणानि, आद्ये—राजयोगस्याष्टावङ्गानि, लक्ष्यत्रयं च। द्वितीये—अन्तर्लक्ष्यादेर्विस्तरः। तृतीये—अमनस्कविस्तरः। चतुर्थे—व्योमपञ्चकम्। पञ्चमे—अमनस्कफलम्। इति विषयविभागः॥

एतस्या एवोपनिषदोऽर्थं स्फुटं प्रतिपादयति राजयोगभाष्यं नाम। तदिदं भाष्यं ब्रह्मसूत्रादिभाष्यकाराः शङ्कराचार्या एव रचयामासुरिति प्रथते किंवदन्ती. दृश्यते च तथैव प्रायस्तत्कोशान्तिमभागे उपसंहारवाक्यम्. रुाजयोगभाष्यगतां पदवाक्यादिशैलीं शीलयन्तस्तु विचक्षणा अत्र विप्रतिपद्यन्ते. केषुचित्तु कोशेषु“सदानन्दावधूतविरचितं राजयोगभाष्यं समाप्तम्" इत्यपि लिखितमुपलभ्यते.

तदिदं राजयोगभाष्यंकस्यचिदपि मूलस्य प्रतीकादिग्रहणेन पदच्छेदादिना च विनाकृतं स्वातन्त्र्येणैव राजयोगं निरूपयत् यद्यपि न मण्डलब्राह्मणोपनिषदो व्याख्यानपदं लब्धुमर्हति. तथाऽपि अर्थतः तदर्थावबोधपरं सत्तद्भाष्यस्थानापन्नमिति भाष्यमिति व्यवहरन्ति व्यवहर्तारः.

अत्रादौ “एवं हठयोगलक्षणं विस्तरेण निशम्य प्राकृतस्सद्गुरुमेवमवादीत्" इत्येवमुपक्रमो दृश्यते. तेन च हठयोगभाष्यमनेन समानकर्तृकमस्यैव पूर्वभागरूपं स्यादित्युन्नीयते. परंतु नाद्यापि तदुपालभ्यत.

अत्र वैयासकिदर्शनाद्विलक्षणा अपि केचिदर्था विज्ञायन्ते। यथा—अत्र पञ्चसु भूतेषु एकैकस्माद्भूतात् प्रत्येकं अन्तःकरणप्राणज्ञानेन्द्रियतद्विषयकर्मेन्द्रियाणामेकैकयुत पञ्चकं जायते इत्यभिधाय ज्ञातारं पुरुषमन्तःकरणेष्वन्तर्भाव्य पञ्चान्तःकरणानीत्यभिहितम्। पञ्चदश्यादौ तु मिलितैः पञ्चभूतैरन्तःकरणानि जायन्ते तानि चान्तःकरणानि चत्वार्येवेति दृश्यते—

मनोऽन्तःकरणं सर्वैर्वृत्तिभेदेन तद्द्विधा।
मनो विमर्शरूपं स्याद्बुद्धिस्स्यान्निश्चयात्मिका॥इति॥
मनो बुद्धिरहंकारश्चित्तं करणमान्तरम्।
संशयो निश्चयो गर्वस्स्मरणं विषया अमी॥इति च॥

अत्र भष्येआदौराजयोगस्याष्टावङ्गानि निरूपितानि. तेषु चाङ्गेषु यमनियमप्रत्याहाराः शमदमादिरूपाः आसनप्राणायामौहठवदेव. धारणाध्यानसमाधयोऽपि च हठवदेव.त्रयाणामेषां आत्मयाथात्म्यविषयकत्वमत्र विशेषः। अष्टस्वपि चाङ्गेषु आत्मयाथात्म्यज्ञानसाहित्यं हठयोगादत्र वैलक्षण्यमिति बोध्यम्॥

अनन्तरं —शास्त्रान्तराभ्यासापेक्षया राजयोगाभ्यासस्य विशेषज्ञानाधायकतया अतिशयः प्रदर्शितः.

ततः—जडाजडविवेकविज्ञानाय आकाशादितत्त्वोत्पत्तिक्रमं प्रदर्श्य प्रकृत्यष्टकविकारषोडशकेन्द्रियदशकादिरूपाः संख्याविशेषविशिष्टतया प्रसिद्धाः केचन पदार्थांअभिहिताः।

ततः—प्रकृतितद्विकारेभ्योऽन्यत्वेनात्मनो ज्ञानं प्रकृतिपुरुषविवेकापरपर्यायं संपाद्य लयविधानक्रमेण आत्मनि विकाराणां मेलने अनुसंहिते ततो मनोलये च स्वरूपावस्थानमात्मनो मोक्षो भवितेति कापिलसांख्यानां मतमभ्यधायि.

अथ—प्रकृतिपुरुषेश्वराणां त्रयाणां विवेकेन ज्ञानं संपाद्य लयविधानक्रमेण भगवति सर्वेश्वरे तत्त्वलये भाविते आत्मनस्स्वस्वरूपावस्थानं मुक्तिर्भवितेति सांख्यैकदेशिनां सेश्वरसांख्याभिधानानां पातञ्जलानां मतं प्रादार्शि। तत्र लयगतिक्रमश्चेत्थं—अतिसूक्ष्मो जीवः सूक्ष्ममार्गालम्बनेन भूमेरुपरि स्थितान् सप्त वायुस्कन्धान् अतिक्रम्य शुद्धाकाशं प्राप्य तमोरजस्सत्त्वान्यतीत्य भगवन्तं नारायणं प्रविशेदिति. सप्त वायुस्कन्धाश्च आवहप्रवहोद्वहसंवहसुबह परिवहपरावहसंज्ञकाः पुराणेषु सिद्धान्तशिरोमणौच प्रदर्शिताः.

अत्र—मतद्वयेऽपि चिदद्वैतज्ञानाभाव एव तारकयोगमताद्विशेषः. इदमेव च प्रकृतिपुरुषभेदज्ञानं नित्यानित्यवस्तुविवेकशब्देन श्रवणपूर्ववृत्तं मन्यन्ते तारकयोगिनः.

ततः— तारकयोगपदार्थः निरूपितः। खेचर्यादिमुद्रादिभिःभ्रूदहराद्यालम्बनस्य चित्तस्यैकाग्र्यंसच्चिदानन्दाद्वितीयब्रह्मावलोकनहेतुभूतं तारकयोगः इति वेदितव्यम्.

ततः— तारकयोगसिद्ध्युपायभृतं अन्तर्लक्ष्यबहिर्लक्ष्यमध्यलक्ष्यभेदभिन्नस्य लक्ष्यत्रयस्यावलोकनं निरूपितम्।

तत्र— अन्तर्लक्ष्यं नाम— देहमध्ये मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तस्थितसुपुम्नामध्यगता कुण्डलिनी। फालोर्ध्वभागे निरन्तरं तेजः, तार्जन्यग्रोन्मीलितकर्णरन्ध्रद्वयेन श्रूयमाणघूङ्कारशब्दे स्थापिते चित्ते चक्षुर्मध्यनीलज्योतिहृत्पङ्कजमध्ये विराजत्तेजश्शिखा चेति। तत्तदवलोकनं तारकावलोकनोपायः।

बहिर्लक्ष्यं तु— नासिकाया अग्रभागे चतुर्भिः षड्भिः,अष्टभिः, दशभिः, द्वादशभिर्वा अङ्गुलैः परिमिते देशे क्रमेण तारकयोगस्फुरणेन दृश्यमानं नीलद्युतिश्यामत्वसद्रत्नभङ्गीशुक्लपीतवर्णैर्युक्तं व्योमतत्त्वं, भ्रूदहरवीक्षितुः पुरुषस्य दृष्ट्यग्रभागस्थिता मयूखाः शीर्षोपरि द्वादशाङ्गुलमानं तेजश्चेति तत्तद्दर्शनेन तारकयोगसिद्धिर्विज्ञेया।

मध्यलक्ष्यं तु— प्रातःकालीनचित्रादिवर्णसूर्यमण्डलवत् वह्निज्वालावलीवत् प्रकाशादिविहीनान्तरिक्षवत् तारकयोगकाले परिदृश्यमानं व्योम।तच्च व्योम पञ्चविधम्।अभ्यासवशेन दीप्त्यादिविकारहीनतया दृश्यमानमाकाशं गुणरहिताकाशं।विस्फुरत्तारकाभिर्युक्तं चद्गाढं तमः तद्वद्दृश्यमानं पराकाशं। कालानलवद्विभासमानं महाकाशं।सर्वोत्कृष्टदीप्तियुक्ततया भासमानं तत्त्वाकाशं।कोटिसूर्यप्रकाशयुक्ततया भासमानमाकाशं सूर्याकाशं।इति। तदेवं पञ्चानां व्योम्नां तारकयोगकाले दर्शनात् तारकयोगसिद्धिर्विज्ञेया।

एष्वेव पञ्चसु व्योमसु प्रथमं गुणरहिताकाशं परित्यज्य अन्ते निरतिशयानन्दपरब्रह्मलक्षणं परमाकाशं परिगणय्य व्योमपञ्चकं चतुर्थब्राह्मणे मूले प्रदर्शितम्।

तत्र—राजयोगो द्विविधः तारकममनस्कं चेति।पूर्वभागस्तारकं. उत्तरभागस्तु अमनस्कमिति। तारकमिति द्विविधं मूर्तितारकं मूर्तितारकं चेति।तत्र नेत्राधःपर्यन्तभागस्थगणपत्यादिलक्ष्यालम्बना दृष्टिः मूर्तितारकं।अमूर्तितारकं नाम भ्रूयुगोर्ध्वदहरालम्बना अन्तर्दृष्टिः।अमनस्कं तु प्राणेन्द्रियलयकरणपूर्वकं ब्रह्मात्मैक्ये मनसो लयकरणम्,तदैव च समुन्मन्यवस्थाप्राप्तिःजीवन्मुक्तिश्च तदनन्तरभाविनीइति वेदितव्यम्।

ततः द्वितीयब्राह्मणे— लक्ष्यस्यात्मनस्स्वरूपं शाम्भवीमुद्रा षण्मुखीकरणं जाग्रदादिपञ्चावस्थाश्च दर्शिताः.

तत्र शाम्भव्येव खेचरीति केचित्. शिवसंहितायां तु खेचरीलक्षणमेव निरूपितम्—

भ्रुवोरन्तर्गतां दृष्टिं निधाय सुदृढां सुधीः।
उपविश्यासने वज्रे नानोपद्रववर्जिते॥
लम्विकोर्ध्वस्थिते गर्ते रसनां विपरीतगाम्।
संयोजयेत् प्रयत्नेन सुधाकूपे विचक्षणः॥
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः। इति॥

षण्मुखीकरणप्रकारोऽपि तत्रैवोक्तः—

अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जिनीभ्यां द्विलोचने।
नासारन्ध्रे च मध्याभ्यां अनामभ्यां मुखे दृढम्॥
निरुद्धं मारुतं योगी यदैवं कुरुते भृशम्।
तदालक्षणमात्मानं ज्योतीरूपं प्रपश्यति॥इति॥

ततः तृतीयब्राह्मणे— अमनस्कयोगः विस्तरेण निरूपितः.

ततः चतुर्थब्राह्मणविवरणं भाष्ये न दृश्यते. तन्नूनं व्योमपञ्चकस्य प्रथमे निरूपितप्रायत्वादिति गम्यते। चतुर्थब्राह्मणान्ते च योगिभिः नवचक्रषडाधारलक्ष्यत्रयव्योमपञ्चकानि अवश्यवेद्यानीत्युक्तम्. तत्र नव चक्राणि सौभाग्यलक्ष्म्युपनिषदि विवृतानि आधारचक्रस्वाधिष्ठानचक्रनाभिचक्रहृदयचक्रकण्ठचक्रतालुचक्रभ्रूचक्रब्रह्मरन्ध्रचक्राकाशचक्राणीति षडाधाराश्चमूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्धाज्ञारूपाः योगचूडमण्याद्युपनिषत्प्रसिद्धाः. लक्ष्यत्रयं व्योमपञ्चकं च प्रागेव विवृतमिति ज्ञेयम्.

ततःअन्तिमे ब्राह्मणे मनोलयस्य अमनस्कापराभिधस्य फलं विवृतमिति संक्षेपः.

शुक्लयजुर्वेदे मण्डलब्राह्मणोपनिषत्.

<MISSING_FIG href="../books_images/U-IMG-1732105172उपनिधद्२.jpg"/>

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदञ्चयते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

ॐ शान्तिश्शान्तिश्शान्तिः.

** ¹ॐ॥ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम। तमादित्यं नत्वा भो भगवन्! आदित्य! आत्मतत्त्वमनुब्रूहीति॥**

** ²स होवाच नारायणः। ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते॥**

** ³शीतोष्णाहारनिद्राविजयः, सर्वदा शान्तिः, निश्चलत्वं विषयेन्द्रियनिग्रहश्चएते यमाः॥**

           *

¹एवं हठयोगलक्षणं विस्तरेण निशम्य प्राकृतस्सद्गुरुमेवमवादीत्— राजयोगं वद कृपयेति॥

²स तु तं विनयसद्वचनं गुरुभक्ताग्रगण्यं शिष्यं ‘शृणु सावधानेन’ इत्यादरेणेदमाह— राजयोगः, राज्ञ उपयुक्तो योगस्तथोच्यते। योगानां राजेति वा राजयोगः। पूर्वोक्तयोगाः देहप्रयासकराः। अयं तुं निरायासेन मोक्षरूपपुरुषार्थप्रदः। हठवदस्यापि अष्टाङ्गानि सन्ति। किन्तु तदङ्गं विस्तृतं हठे भवति। सूक्ष्माङ्गं संक्षेपादस्य वक्ष्ये॥

³शीतोष्णाहारनिद्राविजयः, सर्वदा शान्तिः, निश्चलत्वं, विषयेन्द्रियनिग्रहश्चैते यमाः कथिताः॥

⁴गुरुभक्तिः, तत्त्व मार्गानुरक्तिः, सुखानुगतवस्त्वनुभवश्च, तद्वस्त्वनुभवेन तुष्टिः, निस्सङ्गता, एकान्तवासेन मनोनिवृत्तिः, फलानभिलाषो, वैराग्यभावश्च नियमाः॥

⁵सुखासनवृत्तिः, चिरवासश्च एवमासननियमो भवति॥

⁶पूरककुम्भकरेचकैः षोडशचतुष्षष्टिद्वात्रिंशत्सङ्ख्यया यथाक्रमं प्राणायामः॥

⁷विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः॥

  •                             *
    

नियमस्तु— गुरुभक्तिः, तत्त्वमार्गानुरक्तिः, सुखागतवस्त्वनुभवः, तद्वस्त्वनुभवेन तुष्टिः, निस्सङ्गता, एकान्तवासेन मनोनिवृत्तिःफलाभिलाषे वैराग्यभावश्च एवं नियमः॥

** ⁵**आसनं तु— इष्टासने सुखासीनवृत्तिः, चिरवासश्च एवमासननियमः॥

** ⁶**प्राणायामस्तु— रेचकपूरककुम्भकानप्रयत्नेन स्ववशगतवायुना स्वाधीनान् कृत्वा प्राणवायुस्थैर्यं संपादयेत्, जगन्मिथ्येति स्मरेत्; अयं प्राणायाम इति साङ्ख्ययोगविद्भिर्निरुक्तः॥

** ⁷**

प्रत्याहारस्तु—स्वान्तर्मुखचित्तेन चैतन्यं परमात्मनि लीनं विभाव्य नानाविधविकारग्रसनशीलता, तथोच्यते॥

** ⁸विषयव्यावर्तनपूर्वकं चैतन्ये चेतस्स्थापनं धारणा भवति॥**

** ⁹सर्वशरीरेषु चैतन्यैकतानता ध्यानम्॥**

** ¹⁰ध्यानविस्मृतिस्समाधिः॥**

** ¹¹एवं सूक्ष्माङ्गानि। य एवं वेद स मुक्तिभाग्भवति॥१॥**

           *

** ⁸**बाह्याभ्यन्तरगततत्त्वविलोकनं तद्गतचित्तवृत्तिर्धारणेत्युच्यते॥

** ⁹**सोहम्भावेन शुद्धाद्वैतस्वभावस्सर्वप्रकाशकः परमात्मेति ज्ञात्वा सर्वभूतदयारतिः, सदृशात्मानुभावनात्सर्वसमदृष्टिः, नित्यतृप्तिः ध्यानमिति मुनिमतम्॥

** ¹⁰**समाधिस्तु—परमयोगिभिस्तत्त्वदर्शनेन निश्चलस्थैर्यचित्तत्वं, निर्विकल्पकचित्तवृत्तिः, सततं मनोनैर्मल्यं, शमसहितत्वमिति च समाधिरित्युच्यते॥

** ¹¹**एवं सूक्ष्माष्टाङ्गयोगनिरतः सद्गुरूपदेशेन राजयोगवेत्ता मुक्तिभाग्भवति॥

ननु अन्यशास्त्राणि साङ्ख्यादीनि बहूनि विद्यन्ते, तानि च तत्त्वप्रधानान्येव, तद्द्वारा ब्रह्मप्राप्तिरस्तु, किमेतदुपदेशेन? इति न वाच्यम्। शास्त्रप्रागल्भ्यपराणि तानि मुख्यवृत्त्या ब्रह्म न ह्युपदिशन्ति। इदं त्वज्ञानदृष्ट्या परिदृश्यमानं ब्रह्माण्डमुररीकृत्य शृणु शिष्य! एवमेव पिण्डाण्डमिति हस्तविन्यासपुरस्सरमुदाहृत्य दर्शयति।विशेषज्ञानं तेनाशु जायते। तस्मात्सर्वप्रयत्नेन योगाभ्यास एव ब्रह्मप्राप्तये कर्तव्यः॥

तत्र तत्त्वमेवं भवति— आत्मन आकाशस्सम्भूतः, तस्मात् ज्ञातृसमानश्रोत्रशब्दवाच उत्पन्नाः। आकाशाद्वायुः, तस्मान्मनोव्यानत्वक्स्पर्शपाणयश्च। वायोरग्निः, तस्माद्बुद्ध्युदानचक्षूरूपपादाश्च। अग्नेरापः, ताभ्यश्चित्तप्राणजिह्वारसपायवश्च। अद्भ्यःपृथिवी, तस्या अहङ्कारापानघ्राणगन्धोपस्थाश्च। सर्वत्राकाशादिपञ्चतत्त्वानि भवन्ति। श्रोत्रमध्यात्मम्, श्रोतव्यमधिभूतम्, दिशोऽधिदैवतम्। त्वगध्यात्मम्, स्पर्शमधिभूतम्, वायुरधिदैवतम्। चक्षुरध्यात्मम्, द्रष्टव्यमधिभूतम्, सूर्योऽधिदैवतम्। जिह्वाऽध्यात्मम्, रसोऽधिभूतम्, वरुणोऽधिदैवतम्। घ्राणमध्यात्मम्, घ्रातव्यमधिभूतम् अश्विनावधिदैवतम्। वागध्यात्मम्, वक्तव्यमधिभूतम्, अग्निरधिदैवतम्। पाणिरध्यात्मम्, दातव्यमधिभूतम्, इन्द्रोऽधिदैवतम्। पादोऽध्यात्मम्, गन्तव्यमधिभूतम्, विष्णुरधिदैवतम्। पायुरध्यात्मम्, विसर्जनमधिभूतम्, मृत्युरधिदैवतम्। गुह्यमध्यात्मम्, आनन्दमधिभूतम्, विरिञ्चिरधिदैवतम्॥

ज्ञातृमनोबुद्धिचित्ताहङ्काराः पञ्चान्तःकरणानि। ज्ञाता पुरुषः, संशयात्मकं मनः, निश्चयात्मिका बुद्धिः, सुविचारात्मकं चित्तं, अहमभिमानात्मकोऽहङ्कारः। मन अध्यात्मं, मन्तव्यमधिभूतं, चन्द्रोऽधिदैवतम्। बुद्धिरध्यात्मं, बोद्धव्यमधिभूतम्, बृहस्पतिरधिदैवतम्। चित्तमध्यात्मं, चेतव्यमधिभूतं, क्षेत्रज्ञ अधिदैवतम्। अहङ्कारोऽध्यात्मं, अहङ्कृतिरधिभूतं, रुद्रोऽधिदैवतम्॥

एवं सर्वपरिज्ञानादेव तदतीतं ब्रह्मेति ज्ञानमुत्पद्यते। कथं? नाहमाकाशादिभूतगुणोपेतः, तत्सम्भूतेन्द्रियं च, नाहमन्तःकरणं, नाहं प्राणादिवायवः, नाहं वर्णाश्रमाचारवान्, नाहं धर्मनिरतोऽधर्मनिरतश्च, नाहं प्रपञ्चोऽयम्; किं तु— अहं निरुपमसत्यज्ञानानन्दलक्षणलक्षितः

परमात्मैवेति चिन्तयन् परं ब्रह्म भूयात्। ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः। किं च—

अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम्।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्स शृणोम्यकर्णः।
अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम्॥

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्।
न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति॥

न भूमिरापो न च वह्निरस्ति न चानिलो मेऽस्ति न चाम्बरं च।
एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम्॥
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम्

इति श्रुतेश्च, पुरा ब्रह्मभिन्नोऽहमिति प्रकृतिवासनाभिदुरमिथ्याज्ञानवानहमेवेदानीं ब्रह्मास्मीति ज्ञानी मुक्तस्स्यात्। वक्ष्यमाणविकारादीनपि नाहमिति त्यक्त्वासत्यज्ञानी भव॥

श्रोत्रादिपञ्च ज्ञानेन्द्रियाणि, वागादिपञ्च कर्मेन्द्रियाणि, शब्दादिपञ्च विषयाः, मनश्च षोडश विकारा इत्युच्यन्ते। पञ्चप्राणज्ञानेन्द्रियकर्मेन्द्रियमनोबुद्ध्यात्मकं लिङ्गशरीरमित्युच्यते। पञ्चमहाभूतज्ञानेन्द्रियकर्मेन्द्रियमनोबुद्ध्यात्मकं लिङ्गमिति केचिद्वदन्ति। कर्तृज्ञातृभोक्त्रादयो नव पदार्थाः। पञ्च महाभूतानि प्रकृतिरहङ्कारो महच्चेत्यष्टौ प्रकृतयः। ब्रह्मविष्णुरुद्रा इति मूर्तित्रयम्। इच्छाज्ञानक्रिया इति शक्तित्रयम्। विश्वतैजसप्राज्ञा इति जीवत्रयम्। प्रातर्मध्याह्नास्तभेदात्कालत्रयम्। गार्हपत्याहवनीयदक्षिणानिभेदादग्नित्रयम्। स्वर्गमर्त्यपातालभेदाल्लोकत्रयम्। जाग्रत्स्वप्नसुषुप्तिभेदादवस्थात्रयम्। स्थूलसूक्ष्मकारणभेदाद्देहत्रयम्। कार्मिकं

मायिकं आणविकमिति मलत्रयम्। आध्यात्मिकाधिभौतिकाधिदैविकमिति तापत्रयम्। धनदारपुत्रादयश्चेषणात्रयम्। सत्त्वरजस्तमोभेदाद्गुणत्रयम्। एतानि सर्वाण्यपि मायाकल्पितानीति ज्ञात्वा, तद्विलक्षणोऽहमिति निश्चयबुद्धिं कुरु। तत इममुपदेशं शृणु॥

आकाशादिभूतगुणान् सम्यक् ज्ञात्वा स्थूलस्य सूक्ष्मेऽन्तर्धानविधिरुच्यते —

भूमौ घ्राणं जले जिह्वामग्नौ दृष्टिं तथैव च।
वायौ त्वचं व्योम्नि श्रोत्रं क्रमाद्योगी तु मेलयेत्॥

एवं सावधानेन भूतेन्द्रियैक्यम्। तत्कथं?’

भूमिं जले जलं वह्नौ हुत्वाऽऽज्यमिव चिन्तयन्।
वह्निं वायौ तथा वायुमाकाशे गगनं क्रमात्॥

चित्ते चित्तमहङ्कारे ज्ञात्वा प्राप्तरति क्रमात्।
अहङ्कृतिं बुद्धिमध्ये गूढां कृत्वा मतिं तथा॥

मिथोदर्शनमध्ये तद्दर्शनं परमात्मनि।
पूर्वोक्तरीत्या सद्योगी परमात्मनि मेलयेत्

एवं चेत् पञ्चीकरणरूपंस्यादित्याहुः परमयोगिनः ॥

अस्येन्द्रियात्मा केवलात्मा चेति द्वैविध्यमङ्गीकर्तव्यम्। बुद्ध्यापरमात्मस्वरूपं सच्चिदानन्दलक्षणं ज्ञांतं भवति, तद्दर्शनेन बुद्धिसङ्कोचादात्मैक्यम्। इति समञ्जसमुक्तम्॥

इति योगशास्त्रे प्रथमोऽध्यायः.

  •   *
    

** ¹देहस्य पञ्च दोषा भवन्ति कामक्रोधभयनिश्वासनिद्राः। तन्निरासस्तु निस्सङ्कल्पक्षमालध्वाहाराप्रमादतातत्त्वसेवनम्॥**

** ²निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं संसारवार्धिंतर्तुं सूक्ष्ममार्गमवलम्ब्य सत्त्वादिगुणानतिक्रम्य॥**

           *

¹एवं प्रतिपादितं साङ्ख्यमोक्षलक्षणम्। इदानीं साङ्ख्यैकदेशिमतं वक्ष्ये। देहस्य पञ्च दोषास्सन्ति— कामक्रोधनिश्वासभयनिद्राभेदात्। तत्परिहारमार्गस्तु, सङ्कल्पवर्जनं कामस्य, क्षमा क्रोधस्य, लघुभोजनं निश्वासस्य, अप्रमादता भयस्य, सत्त्वसेवनं निद्रायाः; इति क्रमेण भवति॥

²दुःखोदकं व्याधिमृत्युग्राहं भयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं दारपङ्कं नानाकल्पितमुखरत्नं आत्म्यैक्यतरं सत्यातीतं संसारवार्धिं तर्तुमयमुपायः। जीवस्स्वयमतिसूक्ष्मः सूक्ष्ममार्गमवलम्ब्य सप्तपवनानुत्तीर्य प्रत्यग्रूपस्थितो भूत्वा वर नभोगतिं प्राप्य तद्व्योम तमसि स्थापयेत्। तमो रजसि लीनं कृत्वा रजस्सत्त्वे प्रवेशयेत्। सत्त्वं नारायणे प्रवेशयेत्। श्रीमन्नारायणं परं पदं प्रापयेत्। तदा नित्यानन्दसुखमश्नुते। ज्ञानादेव मोक्षस्स्यादिति बुद्ध्या सङ्ख्यायते ज्ञायते आत्मा यैस्ते साङ्ख्याः सम्यग्ज्ञाननिरताः। एवं मोक्षलक्षणमाहुः॥

** ³तारकमवलोकयेत्। भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म। तदुपायं लक्ष्यत्रयावलोकनम्॥**


                       ***

³

एवमुक्तसाङ्ख्यादुत्तमं तारकमिति तारकयोगिनो मन्यन्ते। तल्लक्षणमतिविचित्रं शृणु सावधानेन प्राकृत!।गोप्यतरमेतदपीदं त्वद्भक्तितुष्टोऽहं वक्ष्ये। स्वल्पबुद्धयः पुरुषाः मन्त्रलयहठयोगारण्ये चिरं चरन्ति। तान् संत्यज्य गुरुमुखात्तारकाभ्यासी चेत्तदा सिद्धो भवति। तस्मात्तारकयोगस्त्वेवमभ्यसितव्यः॥

सम्यङ्निमीलिताक्षो वा किञ्चिदुन्मीलिताक्षो वा अन्तर्नेत्रेण भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परब्रह्मावलोकयेत्। तारकाग्रवृत्त्या लक्ष्यं गगने गुरोरेव लब्धं चेत्तदा तारकयोगसिद्धिः, तदभ्यासिनस्तारकयोगसिद्धा भवन्तीति। प्राणायामाद्यनुष्ठानप्रयासाभावेन तारकयोग एव उत्तम इत्याहुः परमयोगिनः। किञ्च— लक्ष्यत्रयं तारकयोगिना विदितं भवति। तस्मात्त्वमपि गुरुकथनासक्तः तारकाभ्यासं कुरु। तारयति अभ्यासपरं पुरुषमिति तारः, तार एव तारकः, स्वार्थे कप्रत्ययविधानात्। स चासौ योगश्च तारकयोग इत्यर्थः। ‘युजिर् योगे’ इत्यस्माद्धातोर्जीवेश्वरयोर्भेदकमज्ञानं परिहृत्य ऐक्यं करोतीति तथोच्यते॥

ब्रह्मणो जीवत्वं अविद्योपाधिकं, मुखद्वैविध्ये दर्पणमिव, आकाशभेदे घटादिकमिव, सूर्यभेदे जलपात्रमिव। सद्गुरूपदेशात् ज्ञानाग्निना अज्ञानोपाधिविरहे जाते ब्रह्मैकमेवाद्वितीयं परं अवशिष्टं भवति॥

यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः।

⁴मूलाधारादारभ्यब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा। तन्मध्ये तटित्कोटिसमा मृणालतन्तुसूक्ष्मा कुण्डलिनी। तत्र तमोनिवृत्तिः। तद्दर्शनात्सर्वपापनिवृत्तिः। तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये फूत्कार1शब्दो जायते। तत्र स्थिते मनसि चक्षुर्मध्यनीलज्योतिः पश्यति। एवं हृदयेऽपि॥

           *

तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी

इति श्रुतेः,

अशरीरं शरीरेषु अनवस्थेष्ववस्थितम्।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति

इति श्रुतेश्च। अतः परमात्मा तारकवेद्य इति फलितार्थः॥

⁴किमिदं लक्ष्यत्रयमित्यत्रोच्यते —देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्रामा वर्तते। सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तगामिनी भवति। तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत्सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धाऽस्ति। तां दृष्ट्वामनसैव नरः सर्वपापबन्धविनाशनद्वारा मुक्तो भवति। फालोर्ध्व गललाटशशिमण्डले निरन्तरं तेजः तारकयोगविस्फुरणेन पश्यति चेत्सिद्धो भवति। तर्जन्यग्रोन्मीलिते कर्णरन्ध्रद्वये फूत्कारशब्दो जायते। तत्र स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्थलं विलोक्य अन्तदृष्ट्या समानरहितं सुखं प्राप्नोति। एवं हृत्पङ्कजमध्ये विराजत्तेजश्शिखादर्शनेनापि। एवमन्तर्लक्ष्यलक्षणं परमयोगिकल्पितं वेदितव्यं सर्वं मुमुक्षुभिरुपास्यं च॥

⁵बहिर्लक्ष्यं तु नासाग्रे चतुष्षडष्टदशद्वादशाङ्गुलीभिः क्रमात् नीलद्युतिश्यामत्वसदृग्रक्त2भङ्गीस्फुरच्छुक्लपीतवर्णद्वयोपेतं व्योमतत्त्वं पश्यति। स तु योगी। चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रेज्योतिर्मयूखा वर्तन्ते। तद्दृष्टिः स्थिरा भवति। शीर्षोपरि द्वादशाङ्गुलमानज्योतिः पश्यति तदाऽमृतत्वमेति॥

⁶मध्यलक्ष्यं तु स्वान्तश्चित्रादिवर्णसूर्यचन्द्र वह्नि-

           *

अथ बहिर्लक्ष्यं तु—नासिकाग्रे चतुर्भिष्षड्भिरष्टभिर्दशभिर्द्वादशभिरङ्गुलैर्वाऽन्ते क्रमात् नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरच्छुक्लपीतवर्णं व्योमतत्त्वं यः पश्यति स तु योगी भवति। चलदृष्ट्या3व्योमभागमीक्षितुः पुरुषस्य सामीप्ये वा दृष्ट्यग्रेवा ज्योतिर्मयूखा वर्तन्ते। तद्दर्शनेन योगी भवति।

तप्तकाञ्चनसङ्काशान् ज्योतिर्मयूखान् अपाङ्गान्ते भूमौ वा पश्यति। तेन दृष्टिस्स्थिरा भवति। शीर्षोपरि द्वादशाङ्गुलसमुन्नतभागे प्रादेशमात्रे वा ज्योतिःपुञ्जं यदि लक्ष्यते तदीक्षितुरमृतत्वं भवति। यत्र कुत्र स्थितेनापि शिरसि व्योम ज्योतिस्वरूपेण दृष्टं चेत् स तु योगी भवति। एवं बाह्यलक्ष्यलक्षणम्॥

इदानीं मध्यलक्ष्यलक्षणमुच्यते—स्वान्तःचित्रादिवर्णाखण्डसूर्यच-

ज्वालावलीवत् तद्विहीनान्तरिक्षवत्पश्यति तदाकाराकारी भवति॥

⁷अभ्यासान्निर्विकारं गुणरहिताकाशं भवति। विस्फुरत्तारकाकारगाढतमोपमं पराकाशं भवति।‌ कालानलसमद्योतमानं महाकाशं भवति। सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति। कोटिसूर्यप्रकाशं सूर्याकाशं भवति। एवमभ्यासात्तन्मयो भवति। य एवं वेद॥२॥

¹तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः।

           *

न्द्रादिवत्, वह्निज्वालावलवित्, तद्विहीनान्तरिक्षवत्पश्यति। तदा आत्मा तदाकाराकारी अवतिष्ठते। तन्मध्यलक्ष्यलक्षणमिति॥

⁷पुनःपुनः निर्विकारं चेत्तदिदंगुणरहिताकाशं भवति। विस्फुरत्तारकाकारसन्दीप्यमानगाढतमोपमं पराकाशं भवति। कालानलसमद्योतमानं महाकाशं भवति। सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति। कोटिसूर्यप्रकाशवैभवसङ्काशं सूर्याकाशं भवति। एवं बाह्याभ्यन्तरस्थितं व्योमपञ्चकं तारकलक्ष्यं चेत्स तु योगी मुक्तिफलस्तादृग्व्योमसमानो भवति। तस्मात्तारकमेव लक्ष्यास्पदममनस्कफलप्रदं च॥२॥

इति योगशास्त्रे द्वितीयोऽध्यायः.

  •   *
    

¹किमिदममनस्कं नाम? तारकमेव उत्तरार्धेन अमनस्कं भवति,

पूर्वं तु तारकं विन्द्यादमनस्कं तदुत्तरमिति।
तारकं द्विविधं मूर्तितारकममूर्तितारकमिति॥

²यदिन्द्रियान्तं तन्मूर्तितारकम्। यद्भ्रूयुगातीतं

           *

पूर्वार्धेन तारकमित्येव। अत उत्तरार्धेन अमनस्कराजयोग इत्युच्यते। तदुक्तं योगशास्त्रे—

तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः।
पूर्वं तु तारकं विन्द्यादमनस्कं तदुत्तरम्॥ इति।
अमनस्कं राजयोगमित्याहुर्ब्रह्मवादिनः॥ इति च॥

अस्यायमर्थः— राजयोगो द्विविधः तारकामनस्कभेदात्। तारकं तावत्पूर्वभागः, उत्तरभागस्त्वमनस्कमिति। तारकशब्दस्वारस्यात् भ्रूयुगान्तःप्रदेशे लयगतिक्रमेण, वामदक्षिणनेत्ररूपचन्द्रसूर्यगतेः तारकाश्रयत्वात्, इदानीं अश्विनीनक्षत्रप्रथमपादेऽर्क इत्यादिताराधीनग्रहगतेर्ज्योतिश्शास्त्रप्रसिद्धेः। अत्राप्यक्ष्णोस्तारकयोश्चन्द्रसूर्यप्रतिफलनात्तानि तदेवेत्यूहनीयानि [फलनात्ते तावेवेत्यूहनीयं]। तस्मात्तारकाभ्यां सूर्यचन्द्रमण्डलदर्शनं कर्तव्यमिति प्राप्ते ब्रह्माण्डे गगनमध्ये रवीन्दुमण्डलद्वयमिव पिण्डाण्डे शिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति निश्चयेन तारकाभ्यां तद्दर्शनमत्रापि कर्तव्यमुभयैक्यदृष्ट्याप्राप्तम्। तत्र मनोपि कारणमिति वक्तव्यम्, तद्योगाभावे इन्द्रियप्रवृत्तेरनवकाशात्। अतो मनस्तारकैक्यवृत्त्या द्रष्टव्यमिति च। लक्ष्यमान्तरमिति कृत्वा अन्तर्दृष्टिप्राधान्यात् तारकयैव तद्वेद्यता भवति। अत एव तत्तारकमित्युच्यते। तच्च द्विविधं, मूर्तितारकममूर्तितारकमिति॥

²एतदुक्तं भवति —यदिन्द्रियान्तं तन्मूर्तिमत्, यद्भ्रूयुगातीतं तदमूर्तिमत्॥

तदमूर्तितारकमिति। उभयमपि मनोयुक्तमभ्यसेत्॥

** ³मनोयुक्तान्तर्दृष्टिस्तारकप्रकाशाय भवति।**


                       ***

ननु एवं वक्तव्यं— नेत्रादधस्तात् गणपत्यादीनां तदवेद्यत्वात् तदूर्ध्वं तु दहरमार्गेण नालप्रदेशमवलम्ब्यसम्यगुपरिगमनेन तदुपरिस्थविशेषदर्शनमिति। तत्रोच्यते —सर्वत्रान्तःपदार्थविवेचने मन एव कारणं, मनोयुक्ताभ्यामेव तारकाभ्यां तदूर्ध्वस्थतत्त्वदर्शनात् मनोयुक्तेनान्तरीक्षणेनैव सच्चिदानन्दस्वरूपं परब्रह्मेत्यवगम्यते। ब्रह्मणः किं लक्षणमिति विशये ‘यच्छुक्लं तद्ब्रह्म’इत्युपनिषदा शुक्लतेजोमयं ब्रह्मेत्यनुप्राप्तम्। शुक्लादिवर्णानां मायिकत्वेन तदतीतं ब्रह्मेति वक्तव्यमिति चेत्; तन्न, शुक्लवर्णं ब्रह्मेत्यन्यत्र विशेषेणाङ्गीकारात्।

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमाग्नि।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥

इतिश्रुतेः। केवलशुक्लरूपमपां, रोहितरूपमग्नेः, कृष्णरूपमन्नस्येति नियमः। ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति श्रुतेः। अतः शुक्लतेजोमयं ब्रह्मेति सिद्धान्तः।

द्ब्रह्ममनस्सहकारिणा चक्षुषा अन्तर्दृष्ट्या वेद्यमिति फलितार्थः इत्यमूर्तितारकलक्षणम्॥

³मूर्तितारकं तु मनोयुक्तेन चक्षुषैव वेद्यं भवति रूपग्रहणप्रयोजनस्य मनश्चक्षुरधीनत्वात्, बाह्यवदान्तरेऽप्यात्ममनश्चक्षुस्संयोगेनैव रूपग्रहणकार्यस्योदयात्, प्रकृते मनोयुक्तान्तर्दृष्टिस्तारकप्रकाशाय भवति। तारकप्रकाशो नाम भ्रूयुगमध्यबिले दृष्टिः, तद्द्वारा ऊर्ध्वस्थले तेज आविर्भूतं भवति, तत्तथोच्यते। तेन सह मनोयुक्तं तारकं सुसंयोज्य

भ्रूयुगमध्यबिले तेजस आविर्भावः। एतत्पूर्वतारकम्॥

⁴उत्तरं त्वमनस्कम्। तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते। तदर्शनादणिमादिसिद्धिः। लक्ष्येऽन्तस्स्थे बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी मुद्रा भवति। सर्वतन्त्रेषु गोप्या महाविद्या भवति। तज्ज्ञानेन संसारनिवृत्तिः। तत्पूजनं मोक्षफलदम्॥

            *

प्रयत्नेन भ्रूयुग्मं सावधानमूर्ध्वं किञ्चिदुत्क्षिपेत्। ततः क्षणेन समुन्मनोहेतुकं भवतीति तावत्पूर्वतारकार्थः॥

⁴उत्तरं तु अमूर्तममनस्कमिति। स एव राजयोग इति। तल्लक्षणमतिविचित्रमुच्यते। योगज्योतिःकुण्डे चित्ताध्वर्युणा बुद्धिहोत्रा अहङ्कारोद्गात्रा सह मनोयजमानः प्राणेन्द्रियाणि हवीषि हुनेत्। अनेन यागेन निर्मलात्मभूतो यजमानः सर्वदेवरूपो भवति, सर्वैरुपास्यो भवति॥

अयमर्थः—‘छागस्य वपाया मेदसोऽनुब्रूहि’इति पशोर्मनसो हवनरूपलयार्थे प्राप्त चित्तं बुद्ध्यहङ्कारोपसंहारमाश्रयति। तादृक्चित्तिं प्राणादिहविर्होमानन्तरं यजमाने लीनं भवति। स तु यजमानस्सिद्धयागफलः संस्कारातिशयेन समुन्मन्यवस्थां प्राप्य स्वर्गफलनिर्विषये परमात्मनि लीनो भवतीत्यतिशयो राजयोगस्य, मनोलयस्यान्यथाऽसम्मवात्॥

तालुमूलोर्व्वभागे च महज्ज्योतिर्मण्डलं वर्तते। तद्योगिभिर्ध्येयं अणिमादिसिद्धिदं च भवेत् इति॥

⁵अन्तर्लक्ष्यंजलज्योतिस्स्वरूपं भवति। महर्षिवेद्यमन्तर्बाह्येन्द्रियैरदृश्यम्। सहस्रारे जलज्यो4तिरन्तर्लक्ष्यम्। बुद्धिगुहायां सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे। शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित्। अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके। उक्तविकल्पं सर्वमात्मैव। तल्लक्ष्यं शुद्धात्मदृष्ट्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति। जीवः पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य षड्विंशः परमात्माऽहमिति निश्चयाज्जीवन्मुक्तो भवति। एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो भूत्वा परमाकाशाखण्डमण्डलो भवति॥३॥

इति प्रथमं ब्राह्मणम्॥

              *

⁵लक्ष्येऽन्तरस्थे बाह्यायां दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी मुद्रिका भवति। सर्वतन्त्रेषु गोप्या महाविद्या च भवति। संसारनिवृत्तिफलं सैव जनयति। तन्मुद्रापरिज्ञानिनिवासाद्भूमिः पवित्रा भवति। तं दृष्ट्वा सर्वे लोकाः पवित्रा भवन्तीति परमार्थः। तथाविधपरमयोगिपूजा यस्य लभ्यते तस्यापि मुक्तिरस्तीति तात्पर्यं, तस्य चान्तर्लक्ष्यगतदृढचित्तत्वात्॥

अन्तर्लक्ष्यं तु जलज्योति5स्स्वरूपं भवति, ‘आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्’इति गायत्रीशीर्षात्। तदेवान्तर्लक्ष्यं परब्रह्म गोप्याद्गोप्यतरं महर्षिवेद्यं च। ‘अयमात्मा पूर्णः’ इत्यनेन बाह्येन्द्रियैर्न दृश्यते। ‘अन्तस्स्थः’ इत्यनेन मनसाऽपि सत्वरं नेष्यते। किं तु परमगुरूपदेशेन सहस्रारे जलज्योतिः परममन्तर्लक्ष्यं भवतीति वदन्ति। केचित् बुद्धिगुहायां चक्षुश्श्रोत्रादिपरिपूर्णाङ्गः सृष्टिस्थितिलयशून्यः परमात्मा सर्वमनुजान्तर्लक्ष्यमिति गोप्यमेव तद्वदन्ति। पुनः केचिच्छीर्षान्तर्गतगगनार्कमण्डलमध्यगं पञ्चवक्त्रमुमासहायं नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति वदन्ति। अङ्गुष्ठमात्रः पुरुषो द्विदलान्तर्लक्ष्यमिति वदन्ति, ‘अङ्गूष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः’‘तमेवं मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम्’ इति श्रुतेः।

अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठंच समाश्रितः।
ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्॥इति श्रुतेश्च॥

दशेन्द्रियपुरे परिवर्तमानं जीवात्मानं ब्रह्मणा सहैक्यभावनया साध्याद्वैतवृत्त्या शुद्धाद्वैतवृत्त्या वा यः पश्यति स एव ब्रह्मनिष्ठो भवति। पञ्चविंशको जीवः स्वकल्पितां चतुर्विंशतितत्त्वात्मिकां प्रकृतिं परित्यज्य, तत्सङ्गं विहायेत्यर्थः, षड्विंशकः परमात्माऽहमिति कृतनिश्चयः स तु जीवन्मुक्तो भवति॥

एवमनेकधा प्रोक्तान्तर्लक्ष्यदर्शनेन स्वयमन्तर्लक्ष्यं व्योम भवति। तदेव नादबिन्दुकलानां मूलं स्यात्, यतो नादाद्युत्पत्तिरपि ब्रह्मण एव भवतीति निगमात्॥३॥

इति योगशास्त्रे तृतीयोऽध्यायः.

  •     *
    

¹अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ। भगवन्नन्तर्लक्ष्यादिकं बहुधोर्क्त; मया तन्नज्ञातं; तद्ब्रूहि मह्यम्॥

²तदुहोवाच। पञ्चमहाभूतकारणं तटित्कटाभं तद्वच्चतुःपीठम्। तन्मध्ये तत्त्वप्रकाशो भवति। सोऽतिगूढः, अव्यक्तश्च। तत् ज्ञानप्लवाधिरूढेन ज्ञेयम्। तद्बाह्याभ्यन्तरलक्ष्यम्। तन्मध्ये जगल्लीनम्। तन्नादविन्दुकलातीतमखण्डमण्डलम्। तत्सगुणानिर्गुणस्वरूपम्। तद्वेत्ता विमुक्तः॥

³आदावग्निमण्डलम्, तदुपरि सूर्यमण्डलम्,

            *  

¹एवमुपदिष्टः प्राकृतः परमयोगिनमिदमाह—इति बहुप्रकारे भवद्भिरुक्ते आत्मस्थानं मुख्यतया न मया विदितमिव सामान्यार्थास्पदमभवत्। तदादरेण वक्तव्यमिति॥

²उच्यते— पञ्चभूतादिवर्णयुक्तं तत्त्रिकूटस्थलं प्रसिद्धम्। तद्वच्चतुःपीठम्। तन्मध्ये तत्त्वप्रकाशोऽस्ति। सोऽतिगूढोऽतिरम्यस्त्वव्यक्तश्च। तदेवात्मस्थानमिति गुरुणा ज्ञानप्रवाधिरूढेन ज्ञेयम्। तद्बाह्याभ्यन्तरमध्यान्तर्लक्ष्यं स्थितम्। तन्मध्ये सर्वजगल्लीनमिति ज्ञेयम्। किं च—तदेव रम्यं नादबिन्दुकलान्वितं सगुणनिर्गुणं परमनयनोत्सवकारणं नित्यात्मस्थलं ‘आपो ज्योतिः’ इति प्रसिद्धं श्रीमन्नारायणस्थलम्। तद्वेत्ता मुक्तिभागिति॥

³आदावग्निबिम्बम् । तन्मध्ये मितिहीनदीप्तिविराजितं सूर्यबिम्बम्।

तन्मध्ये सुधाचन्द्रमण्डलम्, तन्मध्येऽखण्डब्रह्मतेजोमण्डलम्, तद्विद्युल्लेखावच्छुक्लभास्वरं तदेव शाम्भवीलक्षणम्॥

** ⁴तद्दर्शने तिस्रो दृष्टयः, अमा प्रतिपत्पूर्णिमा चेति। निमीलितदर्शनममादृष्टिः। अर्धोन्मीलितं प्रतिपत्। सर्वोन्मीलनं पूर्णिमा भवति। तासु**

            *

तन्मध्ये अक्षयसुधाधारास्पदं चन्द्रबिम्बं वर्तते। तन्मध्ये अङ्कुररूपेण परब्रह्म वर्तत इति केचिद्वदन्ति। इदं सर्वजगद्बीजं सच्चिदानन्दरूपं परब्रह्मतत्त्वंशोभते। तच्च नीलज्योतिः किंचिच्छुक्लवर्णम्। तदन्तराले विद्युल्लेखेव भास्वरं प्रकाशमानं मुख्यतेजःकूटस्वरूपस्वच्छच्छविः तच्छिखाया मध्ये परमात्मा अणुरूपेण व्यवस्थितः। स एव ब्रह्म। स एव हरिः। स एवेश्वरः। स एवेन्द्रादयश्च। तथाऽऽह श्रुतिः—

नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा॥
तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः।

स ब्रह्म स शिवरस हारस्सेन्द्रस्सोऽक्षरः परमस्स्वराट्॥ एतादृग्विधं ब्रह्माहमस्मीति शाम्भवीमुद्रिकया ज्ञातुं शक्यते॥

तन्मुद्रालक्षणमुक्तमपि विस्तार्योच्यते—प्रतिपदमापूर्णिमासंज्ञास्तिस्रो दृष्टयो ज्ञेयाः। किञ्चिदुन्मेषशीला प्रतिपदृष्टिः। सर्वास्तलोचनदृक् अमां। सर्वविदारितचक्षुर्द्वन्द्वेक्षणा पौर्णमासी भवति। दृङ्नियमेस्थिते च एवं पौर्णमासीदृष्ट्या अभ्यासः कर्तव्यः।

पूर्णिमाभ्यासः कर्तव्यः। तल्लक्ष्यं नासाग्रम्। तदा तालुमूले गाढतमो दृश्यते। तदभ्यासादखण्डमण्डलाकारज्योतिर्दृश्यते। तदेव सच्चिदानन्दं ब्रह्म भवति। एवं सहजानन्दे यदा मनो लीयते तदा शाम्भवी भवति। तामेव खेचरीमाहुः। तदभ्यासान्मनस्स्थैर्यम्। ततो वायुस्थैर्यम्॥

अथाभ्यस्तदृष्टिलक्ष्यं नासाग्रं भवति, नासाग्रन्यस्तपूर्णिमादृष्टेः सम्यग्राजयोगफलजनकत्वात्। अतः पूर्णिमादृङ्नासाग्रयोगाभ्यासस्सततं कर्तव्यः। तस्मिन् सिद्धे तस्यासाध्यं नास्तीति फलितार्थः। पूर्णिमादृष्टियोगेन प्रोक्ततारकमार्गेणावलम्बिते चित्ते तालुमूलद्वादशाङ्गुलाग्रभागे अन्तःपुरोभागे च गाढतमो दृश्यते। तत्तमोमध्यंनिरन्तरं पश्येत्। तदानीमखण्डमण्डलाकारज्योतिर्दृश्यते। तदानीं सच्चिदानन्दब्रह्म भवति। एवं सहजलिङ्गे परमात्मनि मनोविलीनं कृत्वा अचलितचञ्चत्तारान्वितवान् यस्तु सोऽपि सद्गुरुस्स्यात्। इयं शाम्भवी मुद्रिका भवति—

अन्तर्ल्लक्ष्यं बहिर्दृष्टिनिमेषोन्मेषवर्जिता।
एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता॥

तामेव खेचरीति केचिद्वदन्ति। सद्गुरोस्तामभ्यसेत्। यामद्वयमात्मेक्षणेऽभ्यस्ते मनोवायू साम्यभावेन प्रवर्तितौ भवतः। तस्मान्मनस्स्थैर्ये सिद्धे तद्वशाद्वायुस्स्थिरो भवति। वायुचाञ्चल्ये वा मनश्चाञ्चल्ये वा प्राप्ते तद्वशादितरत्सर्वं चञ्चलमेव भवति। अतो राजयोगाभ्यासेन मनोवायुस्थैर्यं भवतीति निश्चयः। शताब्दकृता

** ⁵तच्चिह्नानि—आदौ तारकवद्दृश्यते। ततो वज्रदर्पणं, ततः परिपूर्णचन्द्रमण्डलं, ततो नवरत्नप्रभामण्डलं, ततो मध्याह्नार्कमण्डलं, ततो वह्निशिखामण्डलं क्रमादृश्यते॥**

** तदा पश्चिमाभिमुखः प्रकाशः। स्फटिकधूम्रबिन्दुनादकलानक्षत्रखद्योतदीपसुवर्णनवरत्नादिप्रभा दृश्यन्ते। तदेव प्रणवस्वरूपम्॥१॥**

** ¹प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्र-**


                       ***

भ्यासे हठेऽपि मनोवायुलयो न भवति। एवं खेचरीमुद्राभ्यासेन ब्रह्मणि मनोवायुलयः कर्तव्य इति फलितार्थः॥

5

तद्ध्यानाभ्यासादौ ब्रह्मस्वरूपाण्येव बहुचिह्नानि जायन्ते;तारकवत् वज्रदर्पणवत् परिपूर्णचन्द्रमण्डलवत् रत्नदीपवत् मध्याह्नार्कबिम्बवत्वह्निशिखावच्च। इदमन्तर्लक्ष्यलक्षणम्। तेन परमयोगिना ध्यानानुभवः कर्तव्यः। पूर्वाभिमुखो योगी सम्पूर्णमण्डलाकारमात्मचिह्नं यदि पश्यति, तत्पश्चिमाभिमुखः प्रकाशः स्वीकर्तव्यः तारकमार्गात् किश्चित्प्रत्यक्स्थानस्य ब्रह्मावगतिहेतुत्वात्। किञ्च —तेजस्तटिद्धूम्रबिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसुवर्णकञ्जलिञ्जल्कदण्डनवरत्नान्यात्मनः प्रत्ययानि भवन्ति। तत्प्रत्ययविदितं ब्रह्मैव परममृतमोङ्काररूपमापो ज्योतिस्स्थलं शिवं विष्णोः परं पदं चेति वदन्ति तदुक्तं योगशास्त्रे—

ओङ्कारममृतं ब्रह्मेत्यापो ज्योतिस्स्थलं शिवम्।
विष्णोः परं पदं चेति प्राहुर्ब्रह्मविदो जनाः॥१॥

** ¹**प्राणापानयोरैक्यं कृत्वा धृतकुम्भकः स्थिरभावनया श्रोत्रनेत्रनासा-

दर्शनदृढभावनया द्विकाराङ्गुलीभिष्षण्मुखीकरणेन प्रणवध्वनिंनिशम्य मनस्तत्र लीनं भवति। ²तस्य न कर्मलेपः। रवेरुदयास्तमययोः किल कर्म कर्तव्यम्। एवंविदश्चिदादित्यस्योदयास्तमयाभा-


                       ***

गोलानिद्विकरषडङ्गुलीभिर्निरुध्य षण्मुखीकरणेन प्रणवध्वनिं निशम्य तत्र केचिल्लयं कुर्वन्ति। केचिद्दीपचन्द्रसूर्येभ्यः प्रत्यङ्मुखासीनास्सदा तत्तच्चिह्नमुक्तमण्डलप्रकारेणालोकयन्ति। गुरूपदिष्टखेचरीमुद्रया पूर्णचन्द्रदृष्ट्या बाह्याभ्यन्तरतेजःप्रकाशो भवतीति निश्चयः। तद्दृष्ट्यग्रभागे तेजःप्रतिफलनमावश्यकमित्युक्तं च। एवमनुलक्षणमात्मदृष्ट्यासक्तस्य सर्वाणि कर्माणि नश्यन्तीति फलितार्थः॥

आत्मलिङ्गार्चनम्। अहिंसा, सर्वेन्द्रियनिग्रहः, अधिकदयालुत्वं, क्षमा, सदाऽखण्डज्ञानपूर्णत्वं, सत्यं, तपोनिष्ठा, सर्वज्ञता, इत्येतैरष्टपुष्पैरात्मलिङ्गार्चनपरो राजयोगी भवति॥

²निमीलनोन्मीलनद्वितयं विना राकाकारदृष्टिस्संशयविवर्जितः परमपुरुषो राजयोगी भवति। तं जात्याद्यौपाधिकं कर्म न हि बाधते। कर्म यावज्जीवं कार्यमपि राजयोगिनं न स्पृशति। तथा हि तावत्कर्मणः सूर्याश्रयत्वं प्रतिफलति। तदुदयास्तमयकालेयास्सन्ध्यादिक्रियाणां अत्यावश्यकत्वात् ‘उद्यन्तमस्तयन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान्सकलं भद्रमश्नुते’ इति श्रुतेः। अतः अस्तोदयसमययोः कर्म कर्तव्यमिति प्राप्तं तदभावेन राजयोगिनो न घटते। कुतः? तस्य सदा भानुः खमध्यं गत एव भवति, तत्त्वदृष्टिसिद्धेः। तस्मादुदयास्तमयाभावात्कर्माभाव इति सिद्धान्तः॥

वात्सर्वकर्माभावः। ³शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञाननोन्मन्यवस्थावशेन ब्रह्मैक्यं भवति। उन्मन्या अमनस्कं भवति।तस्य निश्चिन्तता ध्यानं, सर्वकर्मनिराकरणमावाहन, निश्चयज्ञानमासनं, उन्मनीभावः पाद्यं, सदामनस्कमर्घ्यं, सदादीप्तिराचमनम्, अपारामृतवृत्तिस्स्नानं, सर्वात्मभावना गन्धः, दृक्क्स्वरूपावस्थानमक्षाताः, चिदाप्तिः पुष्पं, चिदग्निस्वरूपं धूपः, चिदादित्यस्वरूपं दोषः, परिपूर्णचन्द्रामृतस्यैकीकरणं


                       ***

³चतुष्पीठे मनो निधाय तदुपरि त्रिकूटस्थमग्न्यर्केन्दुमण्डलैक्यमन्तर्दृष्ट्या वेदितव्यम्। तदेव तदिति तदा भवतीति सामरस्यभावनया ब्रह्मैक्यानुभवी राजयोगी भवति। तज्जं दृश्यं तल्लयमिति दृग्दृश्याभावस्तदा भवति। एवं जीवन्मुक्तिकरं राजयोगमङ्गीकृत्य प्राकृत! कृतार्थो भवसि। शब्दकाललयेन दिवारात्र्यतीतो भूत्वा सर्वपरिपूर्णज्ञानेन मनसा प्राप्तोन्मन्यवस्थावशेन ब्रह्मैक्यं भवति। समुन्मनीभावेन मनसा तदैव तव अमनस्कं भवति। तस्य निश्चिन्तता ध्यानं, सर्वकर्मनिराकरणमावाहनं, निश्चयज्ञानमासनं, समुन्मनीभावः पाद्यं, सदाऽमनस्कमर्घ्यं,सदादीप्तिराचमनं, परमामृतप्लुतिस्स्नानं, परान्वितस्मरणं वस्त्रं, सर्वपरिपूर्णज्ञानमुपवीतं, सर्वात्मकत्वदृश्यलयो गन्धः, दृगवशिष्टावस्थानमक्षताः, चिदाप्तिः पुष्पम्, चिदग्निमण्डलरूपत्वं धूपः, सूर्यात्मकत्वं दीपः, परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम्, निश्चलत्वं प्रदक्षिणम्, सो-

नैवेद्यं, निश्चलत्वं प्रदक्षिणं, सोऽहम्भावो नमस्कारः, मौनं स्तुतिः, सर्वसन्तोषो विसर्जनमिति, य एवं वेद॥२॥

¹एवं त्रिपुट्यांनिरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीपवदचलसम्पूर्णभावाभावविहीनकैवल्यज्योतिर्भवति॥

** ²जाग्रन्निद्रान्तपरिज्ञानेन ब्रह्मविद्भवति॥**

            *

हम्भावो नमस्कारः, परमेश्वरस्तुतिर्मौनम्, सर्वसन्तोषो विसर्जनम्, एवं सर्वपूर्णराजयोगिनस्सर्वात्मकपूजा स्यात्॥२॥

¹ध्यानादित्रिपुव्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवातस्थितदीपवदचलत्वेन सम्पूर्णभाव एव तन्मयत्वमित्याचक्षते। भावाभावविहीनवृत्त्या अमृतभावमापन्नस्संन्यस्तसर्वावस्थः कैवल्यसिद्धिफलभाग्भवति॥

²जाग्रन्निद्रान्तपरिज्ञानेन ब्रह्मविद्भवतीत्येतदुक्तम्—

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥ इति श्रुतेः। मनआदिचतुर्दशकरणैरादित्याद्यनुगृहीतैश्शब्दादीन् स्थूलान् विषयान् यदोपलभते तदा जाग्रदवस्था स्यात्। सर्वेन्द्रियोपरमकाले मनोमात्रेणैव स्वप्नावस्था स्यात्। तत्र साक्षिमात्रात्मनो गमकत्वेन तद्विद्ब्रह्मविदिति सुष्ठूक्तम्। जाग्रदन्ते इन्द्रियविरामे सुषुप्त्यवस्थैव स्यात्, ततः स्वप्नावस्थेति व्यवस्था। तथाहि— सोपाधिकस्य नित्यं ब्रह्मैक्यानन्दाभिलाषस्थितिप्राप्त्यै जाग्रदवस्थायां बहिर्मुखोऽपि समालम्बितनिद्रस्तूर्णं ब्रह्मलयगतो बहुलीकृतदेहप्रारब्धवशात्तमोऽभिभूतो भवति।

** ³सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयोर्भेदः, तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च। समाधौ मृदिततमोविकारस्य तदाकाराकारिताखण्डाकारवृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयस्सम्पद्यते, प्रपञ्चस्य मनःकल्पितत्वात् ततो भेदाभावात्, कदाचिद्बहिर्गतेऽपि मिथ्यात्वभावनात्॥**

** ⁴सकृद्विभातसदानन्दानुभवैकगोचरो ब्रह्मवित्तदेव भवति॥**


                       ***

अतस्सुषुप्तौ तमोरूपपरब्रह्मणि जीवैक्यं भवति। तेन किञ्चित्कालं सुखेन स्थित्वा स्वान्तर्लीनमनसा स्वप्नं पश्यतीति सिद्धान्तः। स्वप्नान्ते सोपाधिकस्य मनोगोचरत्वं सम्पद्यते। तस्मादुक्तं तत्त्वज्ञानान्मुक्तिरिति॥

³एवमवस्थात्रयनियमे विचार्यमाणे सुषुप्तिसमाध्योर्न ह्यस्ति भेदः; उभयोर्मनोलयतौल्यात्, मनोलय एव मुक्तिरिति यद्युच्येत तथा न वक्तव्यम्; तत्र तु मनसस्सत्त्वान्मुक्तिहेतुत्वाभाव एव। तर्हिकोऽत्र मुक्तिहेतुर्वक्तव्यः? तत्र विशेषोऽयं परिग्राह्यः—परिच्छिन्नस्य मनसो लयः सुषुप्तौ भवति, समाधौ तु मृदिततमसः अपरिच्छिन्नत्वं ईश्वरस्येव भवति तदाकाराकारितान्तःकरणस्य पूर्णत्वात्। उभयैक्ये प्रपञ्चलयस्सम्पद्यते; महाभूतादिप्रपञ्चस्य मनःकल्पितत्वात्। ततः परं भेदगन्धाभावान्मुक्तिरिति दिक्॥

⁴बाह्याभ्यन्तरयोरभिमानशून्यवृत्त्या सदानन्दानुभवेन यश्चरति सोऽपि मुक्त एव। अज्ञत्वहीनज्ञप्तिं ज्ञप्तिहीनमज्ञत्वं च यो वेद स तु नित्यानित्यार्थविवेकवान् भवति। तद्विवेकसम्पन्नोऽपि अज्ञ इव वर्तते चेत्

** यस्य सङ्कल्पनाशस्यात्तस्य मुक्तिः करे स्थिता॥ तस्माद्रावाभावौ परित्यज्य परमात्मध्यानेन मुक्तो भवति। पुनःपुनः सर्वावस्थासु ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत्। य एवं वेद॥३॥**

** ¹पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः॥**

** ²जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः। पापफलनरकादि मास्तु.शुभकर्मफलस्वर्गफलमस्त्विति काङ्क्षते॥**


                       ***

स मुक्तिभागेव यस्य सङ्कल्पनाशस्स्यात् तस्य भावयोगसिद्धिरुन्मन्यवस्थापरिपक्वमनस्सिद्धिश्च भवति। यदि सङ्कल्पमात्रे स्थितिलेशस्स एव बन्धहेतुस्स्यात्। तस्माद्भावाभावौ परित्यज्य सर्वपरिपूर्णज्ञानेन मुक्तो भवति। मुहुर्मुहुः सर्वावस्थासु अकृतप्रयत्नो भूत्वा ज्ञानज्ञेये ध्यानध्येये लक्ष्यालक्ष्ये दृश्यादृश्ये ऊहापोहादीनि सर्वाणि परित्यज्य निश्चलचित्तो भूत्वा यस्तु वर्तते स तु जीवन्मुक्तो भवति॥३॥

¹इतः परं पारिभाषिकावस्थाः पञ्च ज्ञेयाः, जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतभेदात्॥

²तल्लक्षणं तु पापकर्माणि त्यक्त्वाशुभकर्माणि समाचरेत्; एवं वर्तमानस्तु प्रवृत्त इत्युच्यते। स एव जाग्रदवस्थाप्त इति नाम; जाग्रदवस्थायामाप्तः संयुक्त इत्यर्थः। प्रवृत्तिमार्गासक्तः प्रवृत्तः पापकर्मफलनरकाद्यनुभवो मास्तु शुभकर्मफलस्वर्गाद्यनुभवोऽस्त्विति॥

** ³स एव स्वीकृतवैराग्यात्कर्मफलजन्मालं संसारबन्धनमलीमति विमुक्त्यभिमुखनिवृत्तिमार्गप्रवृत्तो भवति॥**

** ⁴स एव संसारतारणाय गुरुमाश्रित्य कामादि त्यक्त्वा विहितकर्माचरन् साधनचतुष्टयसम्पन्नो हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूपमासाद्य सुषुप्त्यवस्थायामुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहमद्वितीयः कञ्चित्कालमज्ञानवृत्त्या विस्मृतजाग्रद्वासनासु फलेन तैजसोऽस्मीति तदुभयनिवृत्त्या प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य परं तु, न हि मदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्या-**


                      ***

³स एव स्वीकृतवैराग्यः कर्मालं जन्मालं संसारबन्धनमलमिति नित्यमनुचिन्तापरः सम्यङ्मुक्त्यभिमुखः सन्निवृत्ताख्यो भवति॥

स एव संसारवार्धिप्लवार्थी जननमरणप्रवाहतरणसाधनाभिलाषी भक्त्या सदा गुरुसेवानिरतः कामादीन्परित्यज्य विहितकर्माचारसमाश्रितः मौननिष्ठः शमदमयुतः शुचिर्भूत्वा महाधैर्यवान् योगाभ्यासपरः प्राप्तप्रायणोऽपि स्वर्गसौख्यानुभवी पुनर्भूमिमासाद्य पूर्वाभ्यासात्स्वप्नावस्थादृतयोगफलः स्वप्नबहुलशरत्कालप्राप्तस्वप्नवल्लो-

नतदाकाराकारितपरब्रह्माकारमुक्तिमार्गमारूढः परिपक्वो भवति। सङ्कल्पादिकं मनोबन्धहेतुः। तद्विमुक्तं मनो मोक्षाय भवति। तद्वान् चक्षुरादिबाह्यप्रपञ्चोपरतः विगतप्रपञ्चगन्धस्सर्वं जगदात्मत्वेन पश्यन् त्यक्ताहङ्कारो ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति भावयन् कृतकृत्यो भवति॥४॥

** ¹सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति।**


                       ***

काननित्यान् सम्भाव्य हृदयकमलमध्ये भगवत्सत्तामात्रं उक्तान्तर्लक्ष्यरूपमवाप्य सुषुप्त्यवस्थायां भुक्तब्रह्मानन्दस्मृतिं लब्ध्वा एक एवाहं न द्वितीयः कञ्चित्कालमज्ञानवृत्त्याविश्वोऽस्मि जाग्रद्वासनाबलेन तैजसोऽस्मि तदुभयनिवृत्त्या प्राज्ञ इदानीमस्मि; अहमेक एवं स्थानभेदादवस्थाभेदवान् स्यां न हि मत्तोऽन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यानस्तदाकाराकारितः परब्रह्माभूवमिति मुक्तिमार्गं एवमारूढोऽपि चक्षुर्द्वारा स्वीकृतबाह्यप्रपञ्चलक्षणः स्वहृत्प्रवृत्तिरतो भूत्वा चित्ररूप इव विगतप्रपञ्चगन्धः सर्वं जगदात्मत्वेन पश्यन् क्षमासत्यशौचान्वितो वर्तते॥४॥

¹स एव त्यक्ताहङ्कारः प्राज्ञातीतमशेषभूतोत्पत्तिकारणं ब्रह्माहं इदं मज्जं मल्लयमेवेति विवेकेन यो वर्तते स एव समुद्रपरिपूरितनिमग्नघटवत् ‘वस्तघटनिष्ठाकाशवत् जीवपरैक्यं कृत्वा सर्वपरिपूर्णतुरीयातीतब्रह्मीभूतो योगी विराजते तं ब्रह्मेति गोविन्द इति परमशिव इति स्तुवन्ति। सर्वलोकस्तुतिपात्रं सर्वदेशसञ्चारशीलः कृता-

तं ब्रह्मेति स्तुवन्ति। सर्वलोकस्तुतिपात्रसर्वदेशसञ्चारशीलः॥

** ²परमात्मगगने बिन्दुं निक्षिप्य शुद्धाद्वैतजाड्यसहजामनस्कयोगनिद्राखण्डानन्दपदानुवृत्त्या जीवन्मुक्तो भवति। तच्चानन्दसमुद्रमग्ना योगिनो भवन्ति। तदपेक्षया इन्द्रादयस्स्वल्पानन्दाः। एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत्॥५॥**

इति द्वितीयं ब्राह्मणम्.

** ॐ॥¹याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ।**

              *

र्थफलेन दत्तात्रेयादिवद्विराजते। तस्मात्सर्वप्रयत्नेन योगाभ्यासं कुरु॥

²तुरीयातीतमानन्दं स्वीकृत्य सर्वावस्थाः परित्यज्य संन्यस्तसर्वकार्यः सम्यग्दृढयोगनिष्ठः परमात्मनि गगने बिन्दुं निक्षिप्य शुद्धाद्वैतसामरस्यं कुर्यादिति योगशास्त्रोपदिष्टममनस्कविधानं कुरु॥

एवमुन्मनी मनोन्मनी सहजामनस्कमजाड्यनिद्रा योगनिद्रा अनन्ताखण्डानन्द इति पर्यायपदानुवृत्त्या राजयोगस्य विदितानि नामानि भवन्ति। एवं कृतामनस्कसौख्यमपरिमितमत्यन्तमक्षरं भवति। तदानन्दसमुद्रमग्नामहायोगिनस्सन्ति तदानन्दापेक्षया सर्वानन्दास्स्वल्पा इव भवन्ति, ‘स एको ब्रह्मण आनन्दः‘इत्यादिश्रुतेः। एवं प्राप्तानन्दः परमयोगी भवेति॥५॥

इति द्वितीयं ब्राह्मणम्.

** ¹**एवमुपदिष्टः प्राकृतः पुनरिदमवादीत्, स्वामिन्! अमनस्कलक्षण-

स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं पुनस्तल्लक्षणं ब्रूहीति। तथेति मण्डलपुरुषोऽब्रवीत्॥

** ²इदममनस्कमतिरहस्यं यज्ज्ञानेन कृतार्थो भवति। तन्नित्यं शाम्भवीमुद्रान्वितं परमात्मदृष्ट्या तत्प्रत्ययलक्ष्याणि दृष्ट्वातदनु सर्वेशमप्रमेयमजं शिवं पराकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीनामेकलक्ष्यं सर्वकारणं परब्रह्मात्मन्येव पश्यमानो गुहाविहरणमेवं निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतस्संविदितमनोन्मन्यनुभव-स्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्कसुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थि-**

              *

मिदानीं श्रुतमपि विस्मृतमिव भाति तद्दार्ढ्याय पुनर्वक्तव्यमिति प्रार्थितः परमयोगी शिष्यं प्रत्यब्रवीत्॥

²अद्यैतदत्यन्तरहस्यं शृणु, सद्यः कृतार्थो भवसि। नित्यं शाम्भवीमुद्रान्वितः पूर्वोक्तप्रकारेण परमात्मदृष्ट्या प्रत्ययानि लक्ष्याणि दृष्ट्वा दृश्यहीनः पूर्वपुण्यतपोदृष्टप्रत्ययानि शून्यान्यनुभाव्य सर्वत्रैकमप्रमेयमजं शिवं पराकाशं निरालम्बमद्वयं हरिमच्युतं नित्यमानन्दमयं सर्वकारणं परं ब्रह्मात्मत्वेनैव पश्यन्मनोगुहाविहरणशीलमेवं निश्चयेन ज्ञात्वा भावाभावौ स्वप्नास्वप्नौ निद्रानिद्रे इत्यादिद्वन्द्वातीतस्सन् विदितमनोन्मन्यनुभवानन्तरं अखिलेन्द्रियजयवशादमनस्कसुखं ब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपं लब्ध्वा ततःपरं निवातस्थितदीपवदचलं ब्रह्म प्राप्स्यसि, ततस्त्वं शुष्ककाष्ठ-

तदीपवचलं परं ब्रह्म प्राप्नोति। ततश्शुष्कवृक्षवत् मूर्छानिद्रामयनिश्वासोच्छ्वासाभावान्नष्ट-द्वन्द्वस्सदाऽचञ्चलगात्रः परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति। पयस्स्स्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति तदेवामनस्कम्॥

** ³तदनु नित्यशुद्धः परमात्माऽहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति॥१॥ परिपूर्ण परमाकाशमग्नमनाः प्राप्तोन्मन्यवस्थस्संन्यस्तसर्वेन्द्रियवर्गोऽनेकजन्मार्जितपुण्यपुञ्जपक्वकै-**


                       ***

वन्मूर्छानिद्रामयनिश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाऽचञ्चलगात्रः शान्तिं स्वीकृत्य स्थितो भवसि। तदा तव मनः प्रचारशून्यं परमात्मनि लीनं भवति। स्त्रावानन्तरंधेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशमङ्गीकुरुष्व तदेवामनस्कमिति॥ –

³तदनु नित्यानन्दस्सच्चिदानन्दरूपः परमात्माऽहमेव त्वं स्वीकृतगुरुमार्गोऽसि तदाऽहमेव त्वं त्वमेवाहमिति निजकरं शिष्यशिरसि निक्षिप्य सम्यग्ज्ञात्वा तत्त्वमसीति त्रिवारमुपदिश्य पश्य तारकयोगमार्गेण ब्रह्मेत्युपदिष्टः प्राकृतः परमयोगिनमिदमाह —‘अहं ब्रह्मास्मि’,‘अयमात्मा ब्रह्म’,‘नेह नानास्ति किञ्चन’ इति च एवमुच्चरन् अखण्डानन्दपरिपूर्णब्रह्म पश्यन् गुरुमभिवाद्य कृतार्थोऽस्मि भवत्कटाक्षादिति वदन् ततः पूर्णाकाशपरायत्तमानसः त्यक्तप्रापञ्चिकः प्राकृतः

वल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति कृतकृत्यो भवति॥

** ⁴त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः। इत्युच्चरन् समालिङ्ग्यशिष्यं ज्ञप्तिमनीनयत्॥२॥**

इति तृतीयं ब्राह्मणम्.

ॐ॥ अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ। व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति। स होवाचाकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति पञ्च भवन्ति। बाह्याभ्यन्तरमन्धकारमयमाकाशं, बाह्याभ्यन्तरे कालानलसदृशं पराकाशं, सबाह्याभ्यन्तरे अपरिमितद्युतिनिभं तत्त्वमहाकाशं,


                    ***

प्राप्तोन्मनीफलः संन्यस्तसर्वेन्द्रियवर्गः परब्रह्मणि गुरूपदिष्टमनोलयमभिनीय मर्यादाशून्यानन्दमुखमनुभूय चिरादनेकजन्मतपः फलान्मोक्षभागभवत्॥

4एवमखण्डानन्दानुभवनिरस्तसर्वक्लेशमाश्रितदमाह योगिराट्—

त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः।
इत्युच्चरन् समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत्॥
बाह्याभ्यन्तरतौल्येन शुक्लतेजोमयं शिवम्।
योगदृष्ट्या सदा पश्यन्ननाम गुणसत्तमः

इति तृतीयं ब्राह्मणम्

एवं विदितब्रह्मानन्दमपि शिष्यं उपाधिं कृत्वा लोकानुग्रहाय योगिराडिदमब्रवीत्॥

सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशं, अनिर्वचनीयज्योतिस्सर्वव्यापकं निरति-शयानन्दलक्षणंपरमाकाशम्, एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति।

नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम्।
सम्यगेतन्न जानाति स योगी नामतो भवेत्॥१॥

इति चतुर्थं ब्राह्मणम्॥

** ॐ॥ ¹सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति। अतस्सर्वं जगच्चित्तगोचरं तदेव चित्तं**


                       ***

श्रृणु सावधानेन शिष्यवर! तस्मात्तव कर्म किञ्चिदपि दुःखकरं भवति नैष्कर्म्यं सुखावहमित्यर्थात्सिद्धं भवति। दृढतरयोगाभ्यासेन तत्कर्म नौतारितपथिकवदष्टाङ्गं निवृत्तं स्यात्। अतो योगाभिलाषी धैर्येण सर्वातिगं ब्रह्म ध्यायेत्। अभ्यासेन सगुणं वा यदि निष्कलं वा भवति। तेन कर्मत्याग आवश्यकः आभ्यन्तरबाह्यैकीकरणप्रवृत्तेः तत्प्रयोजनाभावात् कर्माण्यनन्तानन्तजन्मप्रदानि। इदानीं तत्तज्जन्मसञ्चितादिभेदादतिदृढानि परित्यक्त-मतिदृढास्पदगुणयोगादनुचितानीति ममातिकल्पनायां प्राप्तायां तन्निरायासता एव भवति रात्रौ नष्टकलादिने अत्यन्तगाढान्धकारे जगद्व्याप्तेऽपि आदित्योदयात्सर्वंतत्कारणमप्यनवशिष्टं भवति॥

एवं योगाभ्यासेनैव मार्ताण्डोदये पिण्डाण्डे विदिते सृष्ट्यादिजन्मान्तरसर्वकर्मध्वंसस्स्यादेव। तस्मान्निष्क्रियः परमयोगी प्रकृतिबन्धमुक्तः सुखी भवति॥

¹सविषयमेव चित्तं बन्धाय। निर्विषयं मुक्त्यै भवति। अत-

निराश्रयं मनोन्मन्यवस्थापरिपक्कं लययोग्यं भवति। तल्लयं परिपूर्णे मयि समभ्यसेत्॥

** ²मनोलयकारणमहमेव।**

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः।
ध्वनेरन्तर्गतं ज्योतिः ज्योतिरन्तर्गतं मनः॥

यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत्।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्॥

** ³तल्लयाच्छुद्धाद्वैतसिद्धिः भेदाभावात्। एतदेव**

             *

स्सर्वं जगच्चित्तगोचरं तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपक्कं मनोलययोगं सम्पाद्य तन्मनोलयं भगवति परिपूर्णे समभ्यसेत्॥

** ²**मनोलयकारणं विष्णुनोक्तमुत्तरगीतायाम्—

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः॥

यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसन कर्मकृत्।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्॥

** ³**

तन्मनोलयानन्तरं शुद्धाद्वैतसिद्धिर्भवति, तदानीं भेदगन्धाभावात् एतत्परमतत्त्वं गोप्यं कर्तुं परमयोगी बालोन्मत्तपिशाचवत् स्वरूपं जडवृत्त्या समाच्छाद्य वर्तते पूर्वयुगकालजाः ऋभुनिदाघजडभरत-

परमतत्त्वं स तज्ज्ञो बालोन्मत्तपिशाचवज्जडवृत्त्या लोकमाचरेत्॥

** ⁴एवममनस्काभ्यासेनैव नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गाजाड्यनिद्रादृग्वायु-चलना-भावब्रह्मदर्शनज्ञातसुखस्वरूपसिद्धिर्भवति॥**

** ⁵एवं चिरसमाधिजनितब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंसोऽवधूतो भवति। तद्द-**

                    *

दत्तात्रेयरैवतप्रभृतयः अव्यक्तलिङ्गाः अव्यक्ताचाराः उन्मत्तवदाचरन्तीति श्रुतेः। निश्रेयसफललाभभाक्योगी गुप्त्यै राग्यादिम्यो निवृत्तप्रकृतिरपि वह्ननादिप्रकृतिबद्ध इव संलक्ष्यते। तस्मात्सर्वयोगिश्रेष्ठोऽमनस्कयोगीति सिद्धान्तः॥

⁴तादृशयोगिनः तैलाभ्यङ्गघृतपानादिस्वेदनिरासार्थं मर्दनं च न कर्तव्यं अमनस्काभ्यासेनैव सौकुमार्यादिदेहफलसिद्धिलाभात् अमनस्काभ्यासेनैव दिव्यौषधं भवति तेन सर्वसिद्धिः राजयोगसिद्धिः नित्यतृप्तिः अल्पमूत्रपुरीषनिस्सरणं मितभोजनं दृढाङ्गत्वमजाड्यं निर्निद्रत्वमित्यादिशुभफलानि सम्भवन्ति। दृग्वायुचलनाभावाच्च तेन निरन्तरं ब्रह्मदर्शनजातसुखमद्भुतं प्राप्य न कुतश्चन विभेति॥

तस्मात्सिद्धाद्यासनादिभ्यः स्वमूलादिबन्धेभ्यः प्राणवायुनिरोधाद्विषयेन्द्रिय-निग्रहध्यानदृग्दृश्य-विवेकाच्च एभ्योनियमेभ्यः अतिक्रमितशुद्धाद्वैतमार्गावलम्बी परमयोगी सदानन्दः सर्वसिद्धिभागमनस्कविधानेन प्रतिदिनं क्षणमात्रं वा कालक्षेपाय अनुभवं प्राप्नोति॥

⁵स एव चिरसमाधिजनितब्रह्मामृतपानपरायणो भवति। ‘तस्य

र्शनेन सकलं जगत्पवित्रं भवति। तत्सेवापरोऽज्ञोऽपि मुक्तो भवति। तत्कुलमेकोत्तरशतं तार-

                  *

तावदेव चिरं यावन्न विमोक्ष्ये’ इति श्रुतेः तादृक्परमयोगी स एव परमहंसः स एवावधूतः। तद्दृष्ट्या सकलमिदं जगत्पवित्रं भवति। तत्सेवापरः अज्ञोऽपि मुक्त एव भवति। तत्कुलमेकविंशतिसङ्ख्याकं पूर्वमपरं च मुक्तं भवति। तन्माता मुक्ता कृतार्था फलेन भावेन च पिता स्वपूर्वापरबहुपितृगणैस्सह मुक्तो भवति। इति योगिश्रेष्ठमहत्त्वमितीदं प्रपञ्चितम्॥

नारदादयस्सर्वे राजयोगाभ्यासेन जरामरणविहीनाः नित्यानन्दवैभवास्सन्ति। तदेवेदानीमप्यूहनीयम्। अन्ये तु तापत्रयषट्कोशषडूर्मिपञ्चकाशषड्भावविकारषडरिषड्भ्रम-सहिता भवन्ति॥

तापत्रयं तु आध्यात्मिकाधिदैविकाधिभौतिकाभिधम्। कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय-भोक्तृभोग्यभोगा इति नवविधव्यवहारा ज्ञातव्याः।

त्वङ्मांसशोणितास्थिस्नायुमज्जाः

षट्कोशा भवन्ति। कामक्रोधलोममोहमदमात्सर्याण्यरिषट्ङ्कम्। अन्नमयप्राणमयमनोमयविज्ञानमया-नन्दमया इति पञ्च कोशाः। प्रियत्वजननवर्धनपरिणामापक्षयविनाशनानि षड्भावविकाराः। क्षुत्पिपासाशोकमोहजरामरणानि षडूर्मयः। कुलगोत्रजातिनामवर्णाश्रमरूपाः षड्भ्रमा भवन्ति॥

एतत्सम्पन्नाः पुनःपुनः यमवशं गताः नित्यसंसारिण इति ख्याता भवन्ति। तस्मात्संसारान्निर्विण्णः परमयोगी ब्रह्ममार्गमवलम्ब्य मूलाधारस्थकुन्डलिन्या वायुमिडापिङ्गलसञ्चारविकलं व्युत्क्रमेण सुषु-

यति। तन्मातृपितृजायाऽपत्यवर्गं च मुक्तं भवति॥ इत्युपनिषत्॥

पूर्णमद इति शान्तिः॥

इति पञ्चमं ब्राह्मणम्।

मण्डलब्राह्मणोपनिषत्समाप्ता।

               *

म्नाविलं प्रापथ्य एतदुड्घाटितवैपुल्ये तन्मार्गे ब्रह्मविष्णुरुद्रग्रन्थिभेदपुरस्सरं आज्ञादहरं भित्त्वा तारकानुसन्धानेन तारके सार्धविम्बमध्यमार्गेण अनर्गलपरिविजृम्भमाणं अग्निसूर्यतेजः-कूटपवनास्फोटनथलथलायमानतेजो भूत्वा तत्समीपविश्वव्योमव्याप्तिपरिपूर्णचन्द्रमण्डलनिष्ठ-सान्द्रामृतनिष्यन्दबिन्दुसन्दोहपानपरितृप्तस्सदानन्दरूपं श्रेयः प्राप्य निस्संशयस्तत्त्वाकाशो भूत्वा सदानन्दावधूतकृपालेशान्मुक्तोऽस्मीति भावयेत्॥

इति योगशास्त्रे मण्डलब्राह्मणोपनिषद्भाष्ये

पञ्चमं ब्राह्मणम्।

  •   *
    

राजयोगभाष्यं।

समाप्तम्।
<MISSING_FIG href="../books_images/U-IMG-1732344797मन्डल१.jpg"/>

]


  1. “घूङ्कार.” ↩︎

  2. %C2%A0 “सद्रत्न.” ↩︎

  3. “चलद्दृष्ट्या, स्थिरदृष्टथा.” ↩︎

  4. “ज्वलज्ज्यो.” ↩︎

  5. “ज्वलज्ज्योति.” ↩︎