Short url - https://rebrand.ly/vaishvAsam
प्रवेशः
ग्राह्यतमांश-कलनम्
- आधुनिक-भूत-शास्त्रम् अनु परमाणूनाम्, अणूनाम्, रूपस्य, शब्दस्य, तापस्य, क्रियाणां निर्वचनम्।
- तद् अनु नवः कश्चन पदार्थविभागः।
- ऋतस्य सत्यस्य च निर्वचनम्।
- जीवात्मावलोकनम्।
- जीवस्य स्वाभाविकस्य दास्यस्य ज्ञानेन बन्धस्य मोक्षस्य च कलनम्।
- देव-तत्त्व-निर्णयः।
सम्बद्धचर्चा
- २०१७-पाठः कश्चन +अत्र - version history इति द्रष्टव्यम्।
मङ्गलश्लोकः
॥ॐ हयग्रीवाय नमः॥
पदार्थेषु भवेज् ज्ञानं
जीर्णं कुब्जं न धिक्कृतम्।
इति काले नवीकर्तुं
युक्तिं देहि गजानन॥
विस्तारः (द्रष्टुं नोद्यम्)
प्रसिद्धस्य तर्कसङ्ग्रहस्याधुनिक-विज्ञानेन साकम् असामञ्जस्यं लक्ष्यते विशिष्य द्रव्य-लक्षणेषु।
काणादं पाणिनीयञ् च
सर्व-शास्त्रोपकारकम्।
इति नत्वाऽथ तस्यैव
धाराम् अत्रानुवर्तये॥
विस्तारः (द्रष्टुं नोद्यम्)
“प्रतीति-शरणा नैयायिकाः” इति सति परिष्कारो युक्तः। प्रामाणिक-बुद्धेर् धीमतः कणाद-महर्षेर् अप्य् अयं शोधनयत्नो ऽन्-असम्मतः स्यात्।
दर्शने काङ्क्षितम्
सारवत्-तत्त्व-ज्ञान-विशेषो दर्शनम् इति।
अभ्युपगतेन दर्शनेन उल्लास-पूर्णा जयिष्णवश् च स्याम।
विस्तारः (द्रष्टुं नोद्यम्)
ऐश्वर्यम् आनन्दश् चेत्य् उच्यते युगलम् एतत्। तत्त्व-ज्ञानावेशेनैतत् साध्येत।
शास्त्रान्तरेषु कैश्चित् पुनर्जन्म-वारणम् इत्य् अपीतो ऽन्तर्भावयन्तीष्टम्।
क्वचिज् जय-काङ्क्षा दुःख-हेतुर् भवति - पराजयो हि सहजो लोके।
न कश्चित् सर्वदा जयति।
तेनैतयोर् इष्टयोः परस्परविरोधो यथासम्भवं ह्रसनीयः।
जयार्थं बुद्धिमत्-स्वभावाविरोधार्थं च
दर्शनं सत्यं स्याद् इत्य् अपीष्टम्।
अतः प्रामाणिकता ऽपेक्षिता।
सद्-दर्शने आत्म-जिज्ञासाम्, देव-जिज्ञासां चान्तरा देव-विभूति-भूत-लोक-जिज्ञासा ऽपि देवाराधनत्वेन गृह्येत।
विस्तारः (द्रष्टुं नोद्यम्)
A good religion ought to consider understanding nature (not just AtmA and the Gods) a sacred activity. Classical vedAnta (in practice, and often in theory) doesn’t. Must fix.
प्रामाणिकता
ज्ञानस्य करणानि -
अदुष्टं प्रत्यक्षम्, ऊहः, अनुमानं चेति।
विस्तारः (द्रष्टुं नोद्यम्)
मध्वोदाहृते ब्रह्मतर्के तु -
उपपत्ति-स्वरूपत्वाद्
अनुमा +++(एव)+++ सम्भवादिकम् ।
अनुमानम् पूर्व-द्वयम् एवोत्थम्भयतीति न तावत् पृथग् गणना।
जीवान्तर-प्रयुक्तानीमानि तद्-वाग्-आदिभिर् लभामहे।
केचन जीवा विशिष्यैषु कुशलाः - स्वभावतो दैवतो वा।
तद् इदं विश्वस्त-सम्प्रदाय इति ज्ञान-करणान्तरं गण्यताम् - वस्तुतः पूर्वोक्तानाम् एव प्रकारान्तरम्।
अस्य नामान्तरेषु - शब्द, आप्त-वचनम्।
अनुमानस्य स्वयं साधयितुम् बहुदा शक्यत्वात्,
प्रत्यक्षय् ऊहे च विशिष्योपकरोति विश्वस्त-सम्प्रदायः।
प्रत्यक्ष-प्रमाणे स्वानुभूतयः उपलब्धि-शब्द-वाच्या अपि गृह्यन्ते।
स्वप्न-योगि-दृष्ट्य्-आद्य् ऊहे ऽन्तर् भवति।
ऊहम् अपि कामं प्रत्यक्षे ऽन्तर्भावयेत्,
यद्य् अपि स परेषां प्रत्ययाय न स्यात्तराम्।
एवम् अनुमान-शब्दयोस् तन्-मूलकत्वात् स्व-तन्त्र-प्रमाणत्वं नास्ति । किञ्च, प्रत्यक्षम् अप्य् अदुष्टं स्यात्।
ततो ज्ञान-प्राप्तौ (न तु सत्-कार्यान्तरेषु) -
रुद्राक्षाद्य्-आविर्-भावनाद्य् ऐन्द्रजालिकं “प्रकट-विद्या"ख्यं वा नेत्रादि-वञ्चनम् वारणीयम्।
विश्वस्त-सम्प्रदायः
अस्य प्रकारेषु शास्त्रम्, काव्यम्, पुराणम् इत्यादयो भवन्ति।
अत्र शिष्टाचारो ऽप्य् अन्तर्-भाव्यः।
प्रत्यक्ष-मूलकांशः
तत्र कश्चन भागः प्रत्यक्ष-मूलकः -
पुरैवम् अवर्तत।
एवं सत्य् एवम् भवति।
इत्यादि सूचयति।
तस्मिन्न् अंशे प्रत्यक्षानुरोधेन स्वीकारम्, परिष्कारं वार्हति सम्प्रदायः।
अत्र धर्म-शास्त्रैकदेशोऽप्य् अन्तर्भवति - धारकत्वं मेयम् इति।
एवं स्व-भावानुवादो दृश्यते -
सम्प्रदायाः सुपरीक्षिताः प्रयोगाः इति धिया।
इदं हि काल-प्रतिष्ठेत्य् अप्य् उच्यताम्।
विस्तारः (द्रष्टुं नोद्यम्)
ननु पाश्चात्या अपि “traditions are experiments which worked”, “Lindy test”, “Chesterton’s fence” इत्यदि ब्रुवते।
शास्त्रे विधि-प्रेरणार्थम् अतिवादाः, कथाः, उच्छृङ्खल-मूढेषु भय-हर्षाद्य्-उत्पादनम् इत्यादि दृश्यते।
ऊह-मूलकांशः
क्वचित् शब्दे कश्चनांशो योगि-प्रत्यक्ष-मूलकः,
अतीन्द्रिय-सत्य-सूचको ऽपि वास्तविकांशस् स्यात्,
यो ऽस्माभिर् दुर्-विवेच्यो भवति।
सौष्ठवम्
पुनः क्वचित् साम्प्रदायिक-ग्रन्थेषु प्रक्षेपास् सम्भवन्ति,
येषु केचित् स्युस् त्याज्याः।
एतत् सद्भिर् विविच्य
यथा-मात्रं यथोद्देशं चावगन्तव्यम्।
प्रत्यक्षाविरोधे, तत्त्व-लाघव-सामञ्जस्याद्य्-अनति-व्यभिचारे च
गणित-शास्त्र-स्थ-sqrt(-1)-सङ्ख्येव स्वीकर्तुम् उचितम्।
किञ्च, विश्वस्ततर-शब्दैकगम्ये विषये स्व-युक्त्या बाधो नोचितः।
कतमः सम्प्रदायो विश्वसनीयः, कतरो न?
अत्रान्ततः स्वगतविश्वास एव निश्चायकः।
स विश्वासो युक्तो
यदि न्याय-विरोधाभाव–काल-प्रतिष्ठा–ऽऽर्य-ग्राह्यतादि-लिङ्गैः परिपुष्टः।
ईदृशेषु लिङ्गेषु परागमेषु सत्सु, तेऽप्य् अस्मद्-आगमाविरोधेन ग्राह्यास् स्युः।
यथा खलु जयन्तभट्टो वक्ति -
अविच्छिन्ना येषां वहति सरणिः सर्वविदिता,
न यत्रार्यो लोकः परिचय-कथालाप-विमुखः।
यदिष्टानुष्ठानं न खलु जनभयं न सभयं,
न रूपं येषां च स्फुरति नवम् अभ्युत्थितम् इव॥
प्रमत्तगीतत्वम् अलौकिकत्वम्
आभाति लोभादि न यत्र मूलम्।
तथा-विधानाम् अयम् आगमानाम्
प्रामाण्य-मार्गो न तु यत्र तत्र॥
तेनान्ततो ऽयं विश्वासः प्रत्यक्षमूलक एव।
Picking a base tradition
Traditional attempts can provide a good basis. Of the traditional attempts, rAmAnuja’s was brilliant (esp. in contrast to logically deficient shUnyAdvaita + brahman attempt of shankara), and can stand without reliance on non-universally-accepted sectarian texts (as in the case of 28 agama shaiva school). So, seems good to use as a solid foundation.
The later-shAnkara patch of “one Ishvara with multiple personality disorder” (ditching shankara’s original vaiShNavism) is unsatisfactory. Rather, genuine polytheism admitted by R, with it’s sAmarasya logic used in having 2 Ishvara-devatAs provides a better basis.
As far as practice is concerned -
the distinctive principles of the atimArga-s (culminating in the kaula-s) can be dismissed for being degeneracy-recipes.
But, techniques accepted in daxiNa-tantra can bring classical vaidika AchAra up to date.
श्रुत्य्-आदाव् एक-वाक्यता-साधनम्
श्रुतयः, स्मृतयः, पुराणानि प्रमाणम् इत्य् आर्यैर् बहुमतम्।
बहुषु सम्प्रदायेषु श्रुत्य्-आदि-ग्रन्थेष्व् एक-वाक्यता भवतीति किञ्चन कल्पनम्।
तच् चेष्ट एव -
परस्पर-विरुद्धांशवतां सप्रदायानाम् अंशतः सङ्गमः शक्यः।
तेषु सर्वेषु समञ्जसांशाः काल-प्रतिष्ठिताः कलनीया अस्मत्-प्रयोजनाय।
एतद्-अर्थं सम्प्रदायेषु प्रमाण्य-क्रमः कश्चन निश्चेतुम् उचितः।
श्रीवैष्णवाभ्युपगत-प्रामाण्य-क्रमः (वेङ्कटनाथशाखा, विस्तारो ऽन्यत्र द्रष्टव्यः) -
अदुष्टम् प्रत्यक्षम् > वेदाः, ब्रह्म-सूत्राणि > स्मृतयः > इतिहासौ (रामायणं विशिष्य) > सात्त्विक-पुराणानि (विशिष्य विष्णु-पुराणम्) > प्रसिद्धा वैष्णवा आगमाः, द्रविड-गाथाः, सम्प्रदाय-रहस्य-ग्रन्थाः > राजस-तामस-पुराणानि, इतरागमाः > शिष्टाचारः > ऐतिह्यम्।
ज्ञानम्
वर्ण-विन्यासः
ज्ञानं नाम केनचिद् भाषानुसारि–वर्ण-विन्यासेन ज्ञापितो ऽर्थः।
अथवा, ज्ञानत्वं कस्यचिद् वस्तुनः प्रकाशत्वम् (= विधिकल्पैर् वक्ष्यमाणैर् वागादि-व्यवहार-हेतुः)।
तस्याल्पं खण्डकं विज्ञानम् इति,
यज् जीव-गतं कैश्चित् “क्षणिकम्” इति लक्ष्यते।
वर्णः
वस्तुतस् तु वर्णो ऽपि
“अहं वर्णान्तरापेक्षया ऽत्रास्मी"ति,
“अहम् एवं-रूप” इति च
मूलतो ज्ञापयति।
अयं साधारणो ऽर्थो वर्ण-विन्यासस्येत्य् उच्यताम्।
तेन वर्णो ऽपि किञ्चन ज्ञानम् एव, तज्-जातिर् भाषांशश् च।
सार्थ-विशेषो वर्ण-विन्यासो वाक्यम् इत्य् उच्यताम्।
वाक्यस्य गुणेष्व् अन्यतमं ज्ञानम्।
इमे भाषा-गत-वर्णाः भिन्न-रूपाः, यथा -
- पत्त्रे लेखा-रूपाः
- शब्दिताः
- साङ्गणक-मस्तिष्कय् विद्युत्-कणौघः
- प्रकाश-कणाः
- क्रियाः, अभिनयाः
- मस्तिष्क-कोश-शाखाः (synapses) ।
भाषा
वर्ण-जातयः, स-विशेषार्थाश् च वर्ण-विन्यासा भाषा।
भाषा ऽपि किञ्चन ज्ञानम् एव।
भिन्न-भाषाणां समानांशाः केचित् स्युः, यथा वर्णाः।
एकस्यैवार्थस्य
एकस्याम् एव भाषायाम् अपि
भिन्न-वाक्यैर् द्योतनं सम्भवति।
पुनर् एकेनैव वाक्येन, एकस्याम् एव भाषायां
नानार्था भवेयुः।
शब्दिता, चित्रिता, गणिता वापि स्यात् सा भाषा।
लिपिर् इति काचन सीमिता भाषा, या शब्दं ज्ञापयत्य् आकृतिभिर् वर्णैः।
कासुचिद् भाषासु केचनार्था लेखितुम् असम्भवाः स्युः - वर्णाभावादिभिः कारणैः,
यथा - दशमलवाङ्कैः pi-सङ्ख्या-लेखनम्।
ज्ञान-गुणाः प्रकीर्णाः
निश्चयपूर्णं स्याज् ज्ञानम्,
अनिश्चितं, प्रायिकं (probabilistic) वापि।
प्राचीनाभ्युपगतिः (द्रष्टुं नोद्यम्)
ज्ञानम् अजडम् - स्वाश्रयं प्रति स्वयम् प्रकाशत इति
(यद्य् अपि तत्-सम्पादनय् इन्द्रिय-वृत्तयः करणानि स्युः)।
ज्ञानाधारः
एवं भाषाख्यं ज्ञानान्तरं,
वर्ण-विन्यासार्थम् अपेक्षितं किञ्चन फलकं (memory) च
ज्ञानस्य आधारौ।
इदं फलकम् अपि वस्तुतो महा-वाक्य-रूपम्, ततो ज्ञानात्मकम् एव।
निराधार-ज्ञानम्
निराधारं ज्ञानं पराम्रष्टुं न शक्यम्,
अतस् तादृशं प्रायेण न वर्तत
इत्य् एव मन्तुम् अलम् ।
किन् तु - अनवस्था-दोष-वारणाय मूलतो निराधारयोः कयोश्चन
भाषा-ज्ञानस्य फलकस्य च अस्तित्वम् अङ्गीकार्यम् एव।
तच् च निराधारं ज्ञानं सफलकं देवगण एव।
पदार्थभेदः
पदस्यार्थः पदार्थः।
ते ज्ञान-विषय-भूताः -
अथवा ज्ञानान्य् एवेति वक्तुम् अलम्।
पदार्थानां नाना-विध-भेदाः सम्भवन्ति।
तेषु स्थूल-विभागो ऽनुबन्धे दर्शितः कश्चन।
+++( अस्यानुपपत्ताव् अपि शिष्टं न स्यात् तिरस्कार-भाजनम्। स्व-तन्त्रं हि तत्।)+++
स्थूल-पदार्थ-विभाग-विस्तारः॥ (ईक्षितुम् अत्र नोदनीयम्।)
- अवकाशः
- देशः
- कालः
- अपेक्षिताश्रयाः
- द्रव्याण्य् अवकाशाश्रयाणि
- स-परमाणूनि
- परमाणवः
- परमाणु-सङ्ग्रहाः
- अणवः
- अणु-सङ्ग्रहाः
- स-परमाणूनि
- गुणाः पदार्थ-भेदकाः
- …
- जातिः
- सम्बन्ध-मूलाः
- …
- पूर्वत्वम् अपरत्वम् …
- अभावः
- अन्योऽन्याभावः
- अवकाशवृत्तयः
- प्रागभावः
- प्रध्वंसाभावः
- अत्यन्ताभावः
- सम्बन्धः
- समवायः
- कर्म
- द्रव्याण्य् अवकाशाश्रयाणि
विधि-कल्पः
विधि-कल्पो (algorithm) नाम
वर्ण-विन्यास-परिवर्तनादेश-ततिः ।
एष्व् आदेशेष्व् अनिश्चितता (randomness) अपि भवेत्।
अयम् अपि ज्ञान-विशेष एव।
विधि-कल्पः सक्रियो वा निष्क्रियो वा स्यात्।
विधि-कल्पाङ्गत्वेन +++(अहम् इति)+++ प्रत्यक्-प्रकाशो
भवति चेत् चिद् इत्य् उच्यते, चैतन्यम्, चेत इति वा।
ज्ञानोद्भवः, ज्ञातृत्वम्
सक्रिया विधि-कल्पा हि वाक्योद्भव-हेतवः, ततो ज्ञानोद्भव-हेतवश् च।
पुनस् तेषु ज्ञातृत्वं विद्यते -
वाक्यं किञ्चन पराम्रष्टुं शक्नुवन्तीति।
विधि-कल्पश् च वाक्य-समूहान् नाना-भाषा-गतान् जनयेत्।
एवं विधि-कल्पाङ्गत्वेन भाषा-ज्ञानम् अपि स्यात्, यथाऽनुवाद-विधि-कल्पेषु (compilers)।
विधि-कल्पोद्भवः
एको विधि-कल्पो
विधि-कल्पान्तरम् अप्य् एवम् उत्पादयेत्।
तं च जातं विधि-कल्पं सक्रियम् अपि कुर्यात्, समान-फलक-लेखकम् -
यथा ऋतेन निर्मिता मनुष्याः,
सङ्गणके नियन्तृ(Operating system)-चालितः तन्त्रांशः।
अथवा स पृथग् अपि सृज्येत विधि-कल्पः,
यः स्रष्टृ-विधिकल्पाश्रयाश्रितः -
यथा मनुष्य-निर्मिताः सङ्गणक-यन्त्र-स्थाः।
जटिलता (Complexity)
सरल-विधि-कल्पाधारेण जटिल-ज्ञानानां विधिकल्पानां च सम्भवो नाश्चर्य-जनकः -
यथा Conway’s game of life, गणितमात्राधारेण - AI, सङ्गणक-क्रीडा-पात्राणि।
आधारः
एवं सक्रियस्य विधि-कल्पस्य सक्रियम् सफलकं विधि-कल्पान्तरम् क्रियाधारः स्यात्।
तस्याधार-भूत-विधि-कल्पान्तरस्य फलकस्य कश्चन ह्य् अंश
आधेय-विधि-कल्प-फलकम् भवति।
तच्चान्तरिकम् फलकम् इति ज्ञायताम्।
इन्द्रियम्
ज्ञानस्य कर्मणो वा करण-भूता विधि-कल्प–वृत्तिर्
इन्द्रियम् इत्य् उच्यताम्।
सङ्गणकयन्त्रेष्व् अक्षरशो वाक्यपठनक्रमो ऽपीन्द्रियम् एव।
न हि सर्वेषु जीव-जातिषु सर्वाणीन्द्रियाणि वर्तन्ते -
यथा केषुचित् प्राणिष्व् एव +अयःकान्तीयम् इन्द्रियम् (Magnetoreception)।
भिन्न-जीवेषु च समानस्येन्द्रियस्य बाले तारतम्यं वर्तते - यथा शुनके घ्राणबलम् अधिकं मनुष्यापेक्षया, दर्शन-बले विपरीतम्।
आन्तरिकाणीन्द्रियाणि पश्चान् निर्वक्ष्यन्ते।
बाह्येन्द्रियम्
बाह्येन्द्रियेषु ज्ञानेन्द्रियं नाम
कस्यचन विधिकल्पस्य ज्ञेयं वाक्यम् प्रभावयितुं समर्थं
काचन तद्-आधारभूत-विधिकल्पस्य वृत्तिः।
साधारणतया ज्ञानेन्द्रियाणि नाम
+आन्तरिक-विज्ञान-जनन-रक्षण-वृत्तयः।
बाह्येन्द्रियेषु कर्मेन्द्रियं नाम
कस्यचन विधिकल्पस्याज्ञा-वाक्यम् अनु
तद्-आधार-भूत-बाह्य-फलकं प्रभावयितुं समर्थं
काचन तद्-आधारभूत-विधिकल्पस्य वृत्तिः।
ज्ञानेन्द्रियाणि बाह्यानि
ज्ञानेन्द्रियाणि नाम +आन्तरिक-विज्ञान-जनन-रक्षण-वृत्तयः।
श्रोत्र-चक्षुष्-ट्वग्-जिह्वा-नासा अणु-सङ्ग्रहा एव बाह्य-ज्ञान-ग्रहणाङ्गानि।
तैर् एव शब्द-स्पर्श-ताप-प्रभा-रस-गन्धात्मकानि विज्ञानानि गृह्यन्ते।
उर्जा-विन्यास-विशेषैर् अणु-कर्म-जातैर् वाक्य-रूपेण मस्तिष्कादिषु नीयन्ते।
तत्र च तेभ्यो दिङ्-नाम-रूपात्मकानि व्यक्त-तराणि वाक्यानि सृज्यन्ते।
भौतिकता (द्रष्टुं नोद्यम्)
वैशेषिकाः-
कर्णाद्य्-अङ्गान्य् अन्तरा +इन्द्रियाणि विशिष्टानि वर्तन्ते -
यथा दृश्य-ग्रहणार्थं तैजसम् इन्द्र्यम्,
स्पर्श-ग्रहणाय वायवीयम् इन्द्रियम्
इत्य्-आदि कल्पितवन्तः।
अपरे केचिद् इन्द्रियाणां तैजसादित्वम्/ भौतिकत्वम् अपाकुर्वन् -
यथा वेङ्कटनाथार्य
इन्द्रियाणां श्रुत्य्-उक्त्म् आहङ्कारिकत्वम् अङ्ग्य् अकरोत्।
किञ्च ते बहवो विषय-ग्रहणम्
नेत्रादिद्वार बहिर् निर्गच्छता, विकसता, किरणानि प्रकिरता वा
केनचिद् इन्द्रियेण विषय-सन्निकर्षम् ऊचुः।+++(5)+++
नैतद् आधुनिक-भूत-ज्ञानेन सङ्गच्छते।
सङ्गणकयन्त्रस्य webcam, microphone इत्यादिभिर् विषयग्रहणं कथम्?
कथञ्चाधुनिक-विज्ञानानुसारेण नेत्रादिभिर् विषयग्रहणम्?
विषयेभ्यो निर्गच्छद्भिः प्रकाश-शब्दादि-तरङ्गैर्
नेत्रं camera इत्यादि-बाह्याङ्ग-द्वारा प्रविश्य
मस्तिष्के विद्युत्-कण-संस्करणतः
विषय-ग्रहणम् भवति।
यदि विषय-ग्रहणम् इन्द्रिय-वृत्तिः,
तर्हि सर्वेयम् प्रक्रिया भौतिकी सिद्धा।
विद्युत्-कणा भौतिकाः - यन्त्रादि-सहकृतेन्द्रिय-ग्राह्यत्वात्।
अत्र नेत्रादि-बाह्याङ्गम् अन्तरा
नातिरिक्तः कश्चन “विद्युत्-कण-व्यवस्थापको” ग्राह्यः।
“Vision agnosia” इत्यादाव् अपि
(नेत्रे स्वस्थे सत्य् अपि)
भौतिक-मस्तिष्क-दोषा एव विषयाग्रहण-हेतवः।
मस्तिष्कं भौतिकम् एव।
किन्तु, तत्र लेखितो रूपादि-ग्राहको विधिकल्पांशो (sub-algorithm) ज्ञानात्मकः।
तेन, पक्षे - नेत्रादि-बाह्याङ्गान्य् एव सपरिकराणि
+++(रूपादि-ग्राहकानि)+++ +इन्द्रियाणीति ग्राह्यम्।
तानि च स्वयम् भौतिकानि।
(वेङ्कटनाथार्येण सर्वार्थसिद्धौ साधु तद्-उक्तानाम् इन्द्रियाणां देहातिरिक्तताया अननुमेयत्वम् प्रत्यपादि।)
अथवा, आन्तरिको विधि-कल्पांश एवेन्द्रियम् इति ग्राह्यम्।
तस्मिन् पक्षय् इन्द्रियम् अ-भौतिकम्।
तन् मनसोऽपीन्द्रियत्वेन +अभौतिकत्वेन च सङ्गच्छतेतराम्।
अन्ये माध्व-निभा (भौतिकानाम् अपि) इन्द्रियाणाम् अप्राप्य-कारित्वम्, अणुत्वं चोचुः -
योगि-प्रत्यक्षस्य निर्वचनार्थम्।
किञ्च, योगि-प्रत्यक्षे ऽनभ्युपगते, नास्त्य् एवैषाम् अवकाशो ऽपेक्षा वा।
आधुनिक-वैज्ञानिक-प्रयोगैस् सानुमानैस् सिद्धम् एव
शब्द-रूपादीनां बाधिताबाधित-तरङ्गादिद्वारा ग्रहणाग्रहणे।
योगि-प्रत्यक्षस्य सत्यत्वे तु तद्-अर्थः पृथग् ग्राहकश् चिन्तनीयस् स्यात्।
कर्मेन्द्रियाणि
कर्मेन्द्रियाणि नामान्तःकरणवृत्तयो
य उचिता आज्ञा-वाक्यान्य् अभिज्ञाय
पाणि-पाद-नेत्र-जिह्वोपस्थाद्य्-अङ्गानि (स्नायूर् विशिष्य मनुष्यनिभेषु) चालयन्ति।
प्राचीन-कलनम् (द्रष्टुं नोद्यम्)
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥
इति साङ्ख्यकारिकायां पञ्च-कर्मेन्द्रियासामान्य-वृत्तयः।
शरीरम्
इन्द्रिय-फलकादि-ग्रामः शरीरम् उच्यते।
दैवम्
सक्रिय-विधि-कल्पाधारेष्व् अनवस्था-दोषं वारयितुम्,
कश्चन निराधारः सक्रियः सफलको विधिकल्पो ऽङ्गीकार्य एव।
स च प्रागुक्तं निराधार-भाषा-ज्ञानवान् इति स्वीकर्तुम् अलम्।
तत्त्वम् एतद् दैवम्, ईश्वरः, ब्रह्म +इति वोच्यताम्।
केचित् तं वक्ष्यमाणं ऋतं विदुः, तत्-फलकं च ब्रह्माण्डम्।
केचित् तु तद्-आधार-भूतम् आश्रयान्तरम् ऊचुः - यथा प्लातायनाः केचिद् देव-चेतोमयं nous, “ideal realm” इति, वैदिकाः केचित् परमं व्योमेति।
अयम् अस्मत्-पक्षः।
केचित् पुनर् आधार-ततिं वितन्वाना बहु-लोक-ततिं कल्पयाम् आसुः - यथा शैवाः परम-शिवान्तान् लोकाधिपान्।
आधार-शक्तिः
कियता वेगेन, कियच्च स्व-क्रियां साधयति विधिकल्प इति
तद्-आधार-भूत-फलक-गणकादि-परिकरम् अवलम्बते।
यथा समानो विधिकल्पः समर्थतर-सङ्गणक-यन्त्रे प्रभावाधिक्यम् भजेत।
स्मृत्य्-अपेक्षा
विधि-कल्पः स्मृति-फलकस्य प्रयोक्ता सन्न् अपि तद्भिन्नः।
किञ्च, स्व-वर्ण-विन्यास-परिवर्तनादेश-साफल्याय काञ्चिद् अल्पतमां स्मृति-शक्तिम् अपेक्षेत -
सङ्गणक-यत्रेषु तन्त्रांशेषु
minimum memory requirements इति यथा कथ्यते।
इमाम् अल्पतमां स्मृतिम्
विधि-कल्पान्तरङ्ग-भूताम् भावयितुम् अलम्।
अन्तःकरणम्
कस्यचन विधिकल्पस्य +आन्तरिकम् इन्द्रियं तु
तद्-वृत्ति-विशेष एव,
यथा स्मृतिः, अनुमानम्।
मनः
एवं सुख-दुःखादि-वेदकम् अन्तर्मुखं किञ्चित् तादृशम् एवेन्द्रियं वर्तते, मन इति।
मनुष्यादिषु endorphin, adrenaline, dopamine इत्य्-आदीनां दौत्याणूनाम् सञ्चारो ऽनेन लक्ष्यते।
भिन्न-ज्ञानेषु सुखादि-मानम् अस्यैव कर्म।
रूप-रसादिभ्यो भिन्नेषु ज्ञानेषु
स्वस्मिन्, स्वीयेषु, परेषु चाभिमानतः सुखादि-मानम् अस्याङ्गभूतम्।
सैव +अभिमानात्मिका-वृत्तिर् इत्य् अपि वर्ण्यते।
सा अहङ्-कार इत्य् अप्य् उच्यते लोके
(शास्त्रान्तरे यद्य् अपि तत्-कारणत्वेन व्यपदिश्यते)।
विभागान्तराणि (द्रष्टुं नोद्यम्)
“सुखाद्युपलब्धिसाधनम् इन्द्रियं मन” इति तर्कसङ्ग्रहे।
“कर्तुः स्मृत्यादि-कार्ये करणम् इति मन” इति वेङ्कटनथः।
तेन तत्रास्मच्छास्त्रे प्रोक्तं ज्ञातेन्द्रियम् मनस्य् अन्तर्भाव्यते ।
साङ्ख्य-कारिका-व्याख्याता वाचस्पतिः -
महतोऽध्यवसायः, अहङ्कारस्याभिमानः, सङ्कल्पो मनसो वृत्तिर् व्यापारः ।
एवम् अत्र परस्-पर-भिन्नयोः अहङ्काराभिमानयोः कारण-कार्यत्वय् उक्ते।
साङ्ख्य-दृष्टेर् अनुवादे वीरराघवार्यः -
ज्ञानेन्द्रियैर् विषयेष्व् +++(सन्निकर्षेण)+++ आलोचितेषु,
मनसा च तद्-विषय-विकल्पाख्य-विशद-ज्ञाने जनिते
महद्–अहं-कारौ “मयेदं कर्तव्यम्” इति अभिमानाध्यवसाय-हेतू भूत्वा कर्मेन्द्रिय-कार्य-व्यापारेषु करणं भवत इति ।
मनो-रूपम् (द्रष्टुं नोद्यम्)
मनः परमाणु-रूपम् महा-वेगेनेन्द्रियेषु सञ्चरत्,
आत्म-संयोगेन रूपादि-विज्ञानं जनयतीति
तर्कसङ्ग्रह-परम्परा-कल्पनम्।
वेङ्कटनाथार्यो मनसो ऽविभुत्व-मात्रं शरीरापेक्षया लघुतरत्वं च तुल्य-कारणेनोवाच,
इन्द्रियान्तराणां मध्यम-परिमाणत्वं चापि (कर्ण-द्वयाद्य्-अधिष्ठातृतया नाणूनीति)।
नव्य-जीव-शास्त्रानुसारेणास्य प्रमाणं न वर्तते।
अवधान-वृत्तिरूपेण कल्पनं वरम्।
ज्ञातेन्द्रियम्
अनुस्मरणम्, अवधानम्, सम्प्रज्ञात-ज्ञान-सन्तानम् इति पश्चाद् वक्ष्यन्ते।
तानि साधारण-जागृद्-अवस्थासु सन्ततं जनयति किञ्चनेन्द्रियम् -
तद्+हि ज्ञातेन्द्रियम् इत्य् उच्यताम्।
अस्य विषयो नाम शरीर-स्थ-वाक्यानि प्राग्-रचितानि।
एतद् एव दूर-स्थ–क्षण–लेखित-वाक्य-ज्ञानान्य् अपि स्मृतीर् आविर् भावयति।
कर्मेन्द्रियता
ज्ञातेन्द्रियं हीन्द्रियान्तरावधान-प्रेरकम् अपि। यथा -
“किम् इदं मन्नाम श्रुतम्- तत्रावधेहि कर्ण”।
पुनः, कर्मेन्द्रियाण्य् अपि प्रेरयति।
अन्ध-वरणम् +++(=random choice)+++ अपि तद्-वृत्तिष्व् अन्यतमम्।
अनुमानेन्द्रियम्
ज्ञान-खण्डेभ्यो ज्ञान-खण्डान्तरस्य जननम् अनुमानम्।
तत्-सम्बन्धे वृत्तिर् अनुमानेन्द्रियम्।
तद् बुद्धिर् इत्य् अपि प्रसिद्धम्।
इदम् एव कल्पनास्व् अपि करणम्।
विस्तारः (द्रष्टुं नोद्यम्)
अनुमान-सामर्थ्यं हि बुद्धिर् इत्य् उच्यते क्वचित् - “अयम् बुद्धिमान्” इति। क्वचिच् छास्त्रान्तरेष्व् एवम् अपि शब्दप्रयोगः -
संकल्प-विकल्पात्मिका ऽन्तःकरण-वृत्तिर् मनः,
निश्चयात्मिका सा बुद्धिः,
अनुसन्धानात्मिका सा चित्तम्,
अभिमानात्मिका साऽहङ्कारइति ।
यत्तु वेदान्त-प्रकरणेषु प्रायः बुद्धि-मनसोर् एव निर्देशो दृश्यते
तच् चित्ताहङ्कारयोस् तद्-अन्तर्भावाभिप्रायेण।
तत्र चित्तस्य बुद्धाव् अन्तर्भावः - इदम् इत्थम् एवेति विषय-परिच्छित्ति-रूपत्वाविशेषात्।
अन्तर्-ज्ञान-वस्तु–बाह्य-वस्तु-सम्बन्धः
बाह्य-वेद्य-वस्तुन आन्तरिकं रूपं किञ्चन भवति पूर्वोक्तरीत्या वर्णात्मकम् - आन्तरिकं वेद्यम् इत्य् उच्यते।
क्रियार्थं त्व् एतयोः सम्बन्धः स्पस्टः स्याद् एव।
“इदं वर्ण-गुच्छम् अस्य बाह्य-पदार्थस्य सङ्केतो ऽस्त्व्” इति तु
कथं मूलतो निश्चयस् तद्-वर्ण-युक्त-ज्ञानान्तरोदयात् प्राक्?
यथा, “राम-सिंह”-शब्देनेदं बाह्य-वस्त्व् इति कथं सम्बन्धः?
प्राक्तन-साहचर्याज् जाताद् द्रव्य-संस्कारात् -
प्राक्तनानुभवेन वर्णसमूहस्य तद्-वस्तुना (तद्-वस्तु-जन्याकृत्या +इन्द्रिय-ग्राह्यया वा) सम्बन्धो रचितः।
ऊर्ध्व-गत-ज्ञान-स्तरेषु तु
तत्र ज्ञानान्तरम् एव शब्दार्थ-सम्बन्धं साधयेत्
(यथा “Let y = 2*6”, “6 नाम इयती गणना - ॰॰॰ ॰॰॰”, “सम्प्रज्ञात-ज्ञानेऽस्मिन् राजशब्देन रामसिंहाख्यो निरूप्यताम्।")।
वस्तु-भेदाः
ज्ञाने वस्तु-भेदाः क्वचित् स्फुटाः -
वर्ण-गुच्छ-भेदात्।
भिन्न-ज्ञान-खण्डेषु
भिन्ना एव विषया वेद्याः।
वेदको ऽपि भिन्नो भवेद् -
“अस्यायम् अनुभव” इत्य् अनुकम्प-भावने,
देवानाम् आवहनेनावेशेन वा।
ज्ञानं ज्ञानान्तरस्य विषयो ऽपि स्यात्!
यथा “अनुमानम् एतन् न्याय्यम्” इति।
कालस् तु केषुचिज् ज्ञानेष्व् एवानुभूयते।
विशिष्य, “पूर्वं मयैवं निश्चितम् अनुभूतं वा,
तदन्व् एवं चिन्त्यत” इति स्मृति-संस्कारम् अवलम्बते।
आत्मा
प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वं यस्मिन्,
स विधिकल्पश् चेतनम्, आत्मा +इति वोच्यताम्।
चेतनानि द्विविधानि - देवा, जीवाश् चेति।
ते ऽग्रे विचार्यन्ते।
शब्दाः, सम्प्रज्ञात-प्रतीतिः
“अहं”, आत्मा, जीवः, जीवात्मा, क्षेत्रज्ञः, प्रमाता, वेदकः इत्य्-आदिभिः शब्दैर्
उच्यते कश्चन पदार्थः।
आत्माख्यः प्रत्ययस्य सम्प्रज्ञातता च सम्प्रज्ञानान्तरम् इव क्षणिका।
किञ्चासम्प्रज्ञातावस्थाऽपि परिगणिता चेन् शरीर-सत्तां यावद् अविच्छिन्नैव।
शरीर-सम्बन्धः
प्रायेण शरीरं वा
तत्-सम्बद्धं किञ्चिद् अन्यद् वा
ऽत्मेति प्रतीयते।
एवं क्षेत्र-ज्ञ-शब्द उत्पन्नः।
शरीर-सम्बन्धम् अन्तरा ऽऽत्मा न ह्य् अनुभूयते (यद्य् अपि क्वचिच् छास्त्रेष्व् अन्यथापि वर्णयन्ति)।
प्रेतानाम् अपि सूक्ष्मशरीरम् अकथयन्।
आत्म-दर्शन-भेदाः (द्रष्टुं नोद्यम्)
“इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम्” इति गौतमः १.१.१० ।
तर्क-सङ्ग्रहे -
“ज्ञानाधिकरणम् आत्मा।
स द्विविधः - परमात्मा जीवात्मा च ।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।
जीवः प्रतिशरीरं भिन्नो विभुर्नित्यश्च”
इति किञ्चित् पदार्थान्तरम् ऊचुः,
ज्ञानं तस्य गुण इति।
लाघवेप्सुषु नव्य-विज्ञान-प्रभावितेष्व् अस्मास्व् एवं प्रतीतिर् न जायते प्रायेण।
अन्येषु प्रतीतिस् तु तादृशी भवितुम् अर्हति।
चार्वाकास्तु -
“ब्राह्मणोऽहं, गौरोऽहं, स्थूलोऽहं, जानामी"त्य्-आदि सामानाधिकरण्य-प्रतीतेः
ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान-सुखाद्य्-आश्रयत्वं सिद्ध्यतीति
शरीरम् एवात्मा।
पञ्चभूतसङ्घाते सक्रियावस्थायां चैतन्याभास
इति।
अन्ये केचिन् मन-आत्म-वादिनः।
मनः शरीरस्याभ्यन्तरवृत्तिर् एवेति तु वयम्।
अपरे प्राणात्म-वादिनः।
तन्मते - शरीरक्रिया एवात्मा।
बौद्धेषु योगाचारास् तु -
क्षणिक-विज्ञानम् एवात्मा (ततो ऽनात्मवादः) ।
तद् द्विविधं - प्रवृत्तिविज्ञानम् आलयविज्ञानं च।
“तत्रायं घट” इत्य्-आदि प्रवृत्तिविज्ञानं “सुषुप्ताव् अहम्” इत्-यालयविज्ञानम् ।
सुखादिकम् अस्यैव विकारः।
इति।
सौत्रान्तिकास् तु ज्ञानाकारानुमेय-क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति ।
वैभाषिका क्षणभङ्गुर-वादिनस् तु क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति।
अन्ये केचित् पुत्रनिभा सम्बन्धिन एवात्मेति।
एतादृश्यस् तु प्रतीतयो ऽल्पा इति वयम्।+++(5)+++
जैनमते -
“देहातिरिक्तो देहपरिमाण आत्मा,
स च दीप-प्रभावत् सङ्कोच-विकास-शाली”
सांख्याः, तद्-अनुसारिणो वेदान्त्य्-एकदेशिनश् च ज्ञानात्म-वादिनः ।
प्रत्यवमर्शात्मा, प्रकाशः, परा वाग् +++(प्रत्यय-युक्त्या अ-हम्!)+++ इति त्रिक-शास्त्रेषु विरूपाक्ष-पञ्चाशिकायाम्।
जीवश् चैतन्यम् अणुर् ज्ञातृ-धर्म आत्मेति विशिष्टाद्वैतिनः।
(स्वस्मै स्वयम् इन्द्रियादि विना प्रकाशमानं ज्ञानमात्रम् आत्मेति युक्ति-मात्रावलम्बनेन लघुः,
तथापि श्रुत्य्-अनुरोधेन ज्ञानवान् धर्मीष्यते वेदान्तदेशिकादिभिः। )
आन्तरिक-गुणाः
आत्म-गुणेषु प्रत्यक्त्वम् +++(वक्ष्यमाणम्)+++, एकत्वम्, आनुकूल्यं चेति वर्तन्ते।
प्रतीयमान आत्मा शरीर-भिन्नश् चेद् आनन्द-मय एव -
यतो दुःखं बहिष्टाद् एवायाति, न कदाचिद् अन्तत इत्य् अनुभवसिद्धम्।
स्वयम्-प्रकाशता
कस्यचन विधिकल्पस्यापेक्षया
इन्द्रिय-जन्यादि-ज्ञानान्तरं विनैव भानम्
अजडत्वम्, स्वयं-प्रकाशत्वम् इति च व्यवह्रियते।
तादृशम् अजडत्वं प्रत्यग्-विधि-कल्पेषु वक्ष्यमाणेषु वर्तते।
जीवेष्व् इन्द्रिय-जन्य-ज्ञानं स्वयम्-प्रकाशम् इति गृहीतुम् अलम्।
अस्मद्-ब्रह्माण्डाद् बहिः केचित् स्वयम्-प्रकाशम् अप्राकृतं लोकम् ऊचुः।
प्रत्यक्त्वम्
प्रत्यक्त्वं नाम
स्वस्मै स्वयं-प्रकाशमानत्वम् +++(इत्य् अजडत्व-प्रभेदः)+++।
अप्रत्यक् पराग् इत्य् उच्यते।
न प्रत्यक्त्वं साधारण-विधि-कल्पेषु वर्तते।
आत्म-प्रतीतेः (स्वस्मै) स्वाभाविकतां हि “(स्वस्मै-)स्वयं-प्रकाशत्वम्” इति वदन्ति केचित्।
स-शरीरय् आत्मनि प्रत्यक्त्वस्य कानि लिङ्गानि?
स्व-शरीर-रक्षणे वृत्तिः, “इयन् मच्छरीरम्, इतो ने"ति च व्यवहारः।
बाह्य-गुणाः
कर्तृत्वम्, ज्ञातृत्वम्, भोक्तृत्वम् इत्य् अपि दृश्यन्ते।
स्वस्य स्वीय-शरीरापत्यादेश् च रक्षणे सक्तिर् अपि।
शरीर-निष्ठ-गुणाः
शरीर-सम्बन्ध-सापेक्षा ऽऽत्म-सत्तेति कारणेन
शरीर-निष्ठ-गुणाः केचिद् आत्मन्य् अपि स्वभावतः सङ्क्रमन्तय्, आरुहन्ति च।
यथा - देव-गण-शेषत्वम्, नाना-विध-काङ्क्षाभिर् अ-पूर्णता।
तादृशा गुणाः “जीव-गुण”-विभागे चिन्तिताः।
(अ)नित्यत्वम् (द्रष्टुं नोद्यम्)
जीवस्य नित्यत्वं, पुनर्-जन्म च शास्त्रैक-देश-सिद्धं,
नानुभव-सिद्धम् प्रायेण सर्वस्य कृत इति,
तद्-अङ्गीकारो विकल्प्यते।
यथाह भास्कर-कण्ठः -
जन्मान्तरस्य पूर्वस्य भाविनोपि शैथिल्यम् द्योतितम् । … या त्व् अत्रापि कदाचिज् जन्मान्तर-कथा दृश्यते,
साऽवस्थाऽपेक्षया पितृ-पुत्रादि-भावापेक्षया वा भवत्य् एव,
न तु स एव जीव एकतो निर्गत्य
इह लोकेऽन्यं देहमाश्रयतीत्य् अत्र
किम् अपि प्रमाणं दृश्यते ।
…
स्वपुत्रस्योत्तर-जन्मत्वं श्रुत्या स्फुटम् एवोक्तम् -
“आत्मा वै जायते पुत्रः” इति ।
तथा च पितुः पूर्वजन्मत्वं स्फुटम् एव
यथा वेतस-शाखादेर् आरोप्यमाणस्य
यतोऽसाव् आनीतः स वृक्षः पूर्व-जन्म
तच्छाखाया उत्पन्नो वृक्षः उत्तरजन्मेति
को दोषः । …
किं चैकचित्तत्त्वापेक्षया
सर्वाणि जन्म-मरणानि एक-विषयाण्य् एव।
…
यथा ऽब्दौ क्षिप्तो जल-कुम्भः
पुनर् नवीनम् उद्धृतो यदा भवेत्
तदैकत्वापेक्षया तद्-गतं जलम् अपि परिलीय,
नवीनम्, पुनर्-उत्थितं वक्तुं शक्यते। …
किं च देहाभिमानिनं प्रत्य्
एवं कथनं युक्तम् एव -
स हि एतच् छुत्वा पर-लोक-भयेन
यत्र तत्र प्रवृत्तिं न कुरुते।
…
अलम् उच्छृङ्खल-जन-नियमनार्थं कल्पित-शृङ्खला-रूप-वैदिक-विधि-निषेध-चोदना-त्रोटनेन ।
महाजनास् तु स्वयम् एव स्वभावेन नियमिताः सन्तः
एतत् परमार्थं ज्ञास्यन्त एव ।
कथा-साहित्यम्
अपि च, स्मृति-हेतुना प्राक्तनाहं-प्रतीतिभिस् सहैक्यम् अप्य् अनुभूयेत,
येन प्रतीतिर् इयम् कथा-सहिता स्यात्।
प्रमेयाभिभूतिः
लोके जीवात्मसु - तावत् सन्ततः सम्प्रज्ञात आत्मानुभवो न भवति,
यावत् सन्ततो सम्प्रज्ञातो विषयानुभवः -
यतस् स मनस्-सहित+इन्द्रियावलम्बी।
ज्ञान-सन्तानम्
प्राक्-प्राप्त-ज्ञानस्याधारेण ज्ञानान्तरं सृज्यते कदाचन, यथा ऽनुमाने।
प्राक्तन-वाक्य-साहित्येन वाक्यान्तरं रच्यते।
अनुस्मरणम्, अवधानम्
“रामो वनं प्रेरितः” इति ज्ञान-खण्डम्,
“रामो वनं प्रेरित
इति स्वगतम् भाषितम्”
इति ज्ञान-खण्डान्तरम्।
“श्वा धावती"ति ज्ञान-खण्डम्,
“श्वा धावतीति दृष्टम्” इति ज्ञान-खण्डान्तरम्।
एतादृशानि ज्ञात-ज्ञानानि
अनुस्मरणानीत्य् उच्यन्ताम्,
तज्-जनन-क्रिया ऽवधानम् इति च।
सम्प्रज्ञातता
ज्ञान-सन्तानम् अ-सम्प्रज्ञातम्/ सम्मुग्धम्, अ-प्रयत्न-पूर्वकम् अपि स्यात् -
यथा क्लिष्ट-गणितादि-समस्या-परिहार आविर् भवेत् स्वप्ने, क्रियान्तर-निमग्ने वा,
यथा वा ऽल्पतर-धी-शक्तिभिः प्राणिभिर् उपकरण-प्रयोगाः, परस्पर-साहाय्यं च।
विस्तारः (द्रष्टुं नोद्यम्)
- Horseshoe crab rectifying overturned mate - TW.
सम्प्रज्ञात-ज्ञान-सन्ताने
ज्ञातेन्द्रिय-कृतम् प्राक्तन-वाक्यानाम् प्रकृष्टम् अनु-रणनम् उपकरोति -
सङ्गणकेषु RAM इव।
क्वचित् तु बाह्य-लेखनम् अवलम्ब्यते।
सम्प्रज्ञात-ज्ञान-सन्तानम् एव विकल्प इति कैश्चिद् उच्यते।
सम्प्रज्ञात-ज्ञान-सन्तानस्योदाहरणानि -
- स एवम् अवदत्। तस्योत्तर एवम् अवदिष्यम्।
- स एवं करोति चेद् अहम् एवम् करिष्यामि।
- आदाव् आरुहामि गिरिम्, तावत् पचतु, प्रत्यागत्य खादिष्यामि।
शब्दार्थ-विभ्रमः (द्रष्टुं नोद्यम्)
विकल्प-शब्दोऽपीहान्यत्र च +अर्थान्ततरेषु प्रयुक्तो दृश्यते।
साङ्ख्यैः काश्मीर-तान्त्रिकैश् च तूक्तोऽर्थो ऽगृह्यत।
प्राचीन-प्रतिपत्तिः (द्रष्टुं नोद्यम्)
साङ्ख्य-कारिका-भाष्ये वाचस्पतिमिश्रः -
सङ्कल्पेन रूपेण मनो लक्ष्यते ।
आलोचितम् इन्द्रियेण वस्तु
‘इदम्’ इति सम्मुग्धम्
‘इदम् एवम्, नैवम्’ इति सम्यक्-कल्पयति—
विशेषण-विशेष्य-भावेन विवेचयतीति यावत् ।
‘सम्मुग्धं वस्तु-मात्रं तु
प्राग् गृह्णन्त्य् अविकल्पितम् ।
तत् सामान्य-विशेषाभ्यां
कल्पयन्ति मनीषिणः ॥’’
तथाहि—
‘अस्ति ह्य् आलोचन-ज्ञानं
प्रथमं निर्विकल्पकम् ।
बाल-मूकादि-विज्ञान-
सदृशं मुग्ध-वस्तु-जम् ॥
ततः परं पुनर् वस्तु
धर्मैर् जात्य्-आदिभिर् यया ।
बुद्ध्याऽवसीयते साऽपि
प्रत्यक्षत्वेन सम्मता ॥’
—(श्लोकवार्तिक प्रत्यक्षसूत्रम् ११२-१२०)
दीर्घता
सम्प्रज्ञात-ज्ञानानां स्फुटता प्रायेण क्षणिका - तरङ्गा इव सागरे, फेना इव तरङ्गे, वस्तुतो ऽवितताः +++(→discontinuous)+++।
प्रयासेन ध्यानेन तु दीर्घीकर्तुं शक्यते।
केषाञ्चन सम्प्रज्ञात-ज्ञानानां दीर्घतरता सहजा - यथा मानसिकस्य सङ्गितस्य प्रिय-दृश्यस्य वा।
संस्कार-शेषता
सम्प्रज्ञात-ज्ञान-जन्य-संस्कारा +++(रासायनिकादि-)+++वर्ण-विन्यास-रूपेणावतिष्ठन्ति। ततः पुनः क्रियान्तराणि प्रेर्यन्ते - यथा - सम्प्रज्ञात-ज्ञानान्तराणि, करणचालनम्। तेषु केचित् संस्कारा हि “निश्चय” इत्य् उच्यन्ते।
उदयः
कथम् उद्यन्ति ज्ञान-सन्तानानि जीवादि-चेतस्सु?
स्थूल-दृष्ट्या, परम्परया च - परिसर-चोदनया, ऽऽन्तरङ्गिकस्थित्या, ऽऽकस्मिकतया च।
ब्रह्माण्ड-गतेषु सशरीरेषु जीवेषु तु - सूक्ष्म-दृष्ट्या क्रियान्तराणीव परमाणु-चालनेन।
भिन्नास्व् अवस्थासु विभिन्नानि ज्ञानसन्तानानि जायन्त इति प्रसिद्धम् - यथा मद्यपाने, स्वप्ने, श्रान्तौ, दरे … ।
स्वातन्त्र्यानपेक्षा (द्रष्टुं नोद्यम्)
संविदः परस्पर-विरुद्ध-रूप-द्वयम् संभावनीयम् - सम्प्रज्ञाता, असम्प्रज्ञाता चेति ।
अत्र व्याघातश् चेत् संविदः सर्वस्वातन्त्र्यता कारणम्।
इति क्वचित् त्रिक-शास्त्रेषु। इह तु यथा प्रतिपादितं,
क्वचिद् घन-द्रव्य-सन्निधौ वाक्योदयो ऽन्ततः परमाणु-प्रेरण-क्रियैव -
वर्णविन्यास-धारात्मक एव ज्ञान-सन्ततिः, ते च वर्णा परमाणु-घटिता एव - मस्तिष्क-मांस-गता, पत्त्र-गता वापि स्युः।
क्रियान्तरोद्भववद् ऋतम् एवात्र प्रेरणम् - स्वातन्त्र्यम् इति ततो ऽधिकं न किञ्चिद् अपेक्षितम्।
अस्या अ-सम्र्पज्ञातता च लौकिक-वृत्ति-सापेक्षतयैव भवितुम् अर्हति,
अन्यथा सर्वथा स्पन्द-रहिता संविन् न स्वयं सम्प्रज्ञात-ज्ञानोदयने भवत्य् अलम्।
इति च वदन्ति। निस्स्पन्दम् अपि चेतो भवति क्वचिद् ब्रह्माण्डे? न चेत् स्पन्दो नाम क्रियेति ग्रहणेनालम्।
अ-सम्प्रज्ञाता संवित्
असम्प्रज्ञाता काचित् “शुद्धा” संवित् सर्वत्र वर्तत एव।
न खलु संप्रज्ञात-ज्ञानम् एव चेतस एक-मात्र-क्रिया।
शारीरिक-क्रियाः
असम्प्रज्ञाता संविद् अङ्गचालने, सम्प्रज्ञात-ज्ञान-पर्वसु, सुषुप्तौ च बुद्धिमद्भिर् अपि जीवैः सरलतया ऽनुभूयते।
विस्तारः (द्रष्टुं नोद्यम्)
सम्प्रज्ञात-ज्ञान-पर्वणां शुद्धानुभव इति वामनदत्त-संवित्-प्रकाशे संज्ञा।
स्वभ्यस्त-क्रियाः
अवितर्कित-प्रतिक्रियास्व् अपि निर्विक्लम् एव चेतः क्रिया-प्रेरकम् - यथा पाव्लाव-शुनो मुखाल् लालास्रावे घण्टा-श्रवणात् परम् अभ्यास-बलात्।
एवम् अवितर्किते ऽपि स्तोत्रादिवचने, पूजादि-कर्मसु, व्यायामे, युद्धे च अ-सम्प्रज्ञात-ज्ञानं हि प्रेरकम्।
स्मृति-रक्षा क्रिया
तत्क्रियासु क्वचित् स्मृति-रक्षाऽपि वर्तते (“सुषुप्तं मये"ति यथा),
ताश् च स्मृतयो सम्प्रज्ञात-ज्ञानेषु प्रमेयत्वेन लभ्यन्ते।
सम्प्रज्ञात-ज्ञान-जन्य-निश्चया अपि संस्कार-रूपेण रक्षिता
अ-सम्प्रज्ञात–चेतोऽंशस्य क्रियाः प्रभावयन्त्य् एव।
भाषा-च्छाया
स्मृति-रक्षा भाषाधारितैव स्यात् - सा च भाषा, सङ्कुचिता ऽव्यक्ततरा ऽपि वा स्याद् अबुद्धिमत्सु प्राणिषु।
विस्तारः (द्रष्टुं नोद्यम्)
Bhartṛhari & Maṇḍana on pratibhā (via Elisa):
speech—>speech traces—>intuition (in infants & non-human animals). Hence, it doesn’t seem that language is precluded to non-human animals. Non-human animals have remote traces of language (& infants even develop into competent users of it)
साक्ष्य्-अनुभवः (द्रष्टुं नोद्यम्)
अनेन हि स्मृति-रक्षा-क्रिया-साहित्येन
केचिद् अत्र “साक्ष्य्-अनुभव” इति संज्ञां प्रयुञ्जते।
सम्प्रज्ञात-ज्ञानात्मकः साक्ष्य्-अनुभवस् तु बुद्धि-शक्तिम् अपेक्षते शरीरे - स भिन्नः। +++(जागृत्-स्वप्नयोर् अयम् भिन्नः।)+++ अत्र प्रमातृ-प्रमेय-भेदो व्यक्ततरः।
सक्रियता-प्रमाणम् (द्रष्टुं नोद्यम्)
अ-सम्प्रज्ञाता संविन् निष्क्रियेति शुद्ध-शाङ्कराः।
ते सुषुप्तौ प्रमेय-रहित-केवल-प्रमातारम् ऊचुः।
किन्तु तदापि सक्रियम् एव चेतो ज्ञायते।
न ते बत स्मृति-रक्षा-क्रियां क्रियां विदुः, श्वसनं वापि?
यथा - सुषुप्तौ परिसरय् उत्पादितैः शब्द-गन्धादिभिः जागृद्-अवस्थाप्त-स्मृति-विशेष-स्थिरी-करणं प्रत्यक्षसिद्धम् (MNT)।
अर्वाचीनशाङ्करस्तु सुषुप्ताव् अपि मूलाविद्याख्यं किञ्चिद् ऊचुः।
सम्प्रज्ञात-ज्ञाने प्रभावः
सम्प्रज्ञात-ज्ञानानाम् उद्गमे ऽपि अ-सम्प्रज्ञातं चेत एव कारणम्। प्रभावास् स्फुटा यथा -
- अग्रिम-सम्प्रज्ञात-ज्ञान-विषय-निश्चये।
- “रामसिंहो नामेदं बाह्यं वस्त्व्” इति प्रत्यये।
सम्प्रज्ञात-ज्ञानेभ्यः प्रभावः
सम्प्रज्ञात-ज्ञानजन्य-संस्काराः अपि अ-सम्प्रज्ञात-संविदं प्रभावयन्ति -
यथा ऽभ्यासेन स्मृतिः,
endorphin-आदि-जननेन सुख-विषादाद्य्-अनुभवाः।
अनुभव-भेदाः
जीवेषु ज्ञान-विशेषा ह्य् अनुभवाः। स्मृत्यापि क्वचित् सङ्गतास् ते।
अनुभवास् स्युः सार्वत्रिका विशिष्टा वा। सार्वत्रिका यथा जागृद्-अवस्था, स्वप्नः, सुषुप्तिः। विशिष्टा यथा यौगिकानुभवा ध्यान-समावेशादि-जन्याः।
विभागान्तरम् अपि यथा - इन्द्रिय-द्वारा प्रत्ययानुभवः, सन्तोष-विषादादि-वेदनानुभवः।
विस्तारः (द्रष्टुं नोद्यम्)
नैयायिकाः -
स्वप्नो मानस विपर्ययः।
सुषुप्तौ सुखदुःखादिग्राहकं मनः पुरीतत्+++(=अन्ननालं)+++ प्रविशति, तदा सुषुप्तिः।
भावाः
वेदनानुभवा भावाश् चित्त-विकारास् सुखासुखात्मकाः। मनः-शास्त्रे काव्य-शास्त्रे च भावा अधीताः।
केचित् तु भावाः साक्षात् +शारीरिक-जिगीषया प्रेरिता अ-सम्प्रज्ञात-प्रायाः - यथा भयम्, लैङ्गिकाकर्षणम्।
अन्ये त्व् आभिमानिका भावा+++(=self conscious emotions)+++ - व्रीडा-लज्जादयो ऽसुख-कर-प्रायाः स-सम्प्रज्ञात-ज्ञानाः। स्व-कल्पिताद् आत्म-चित्रणाद्, जगत्य् अनुभूयमानाद् आत्म-चित्रणाद् भेदतो जायन्ते।
ब्रह्माण्डे ऽन्वयः
एवं ब्रह्माण्डे ऽन्यत्र वा वर्तमानं सर्वं
वाक्यम् इव ज्ञानात्मकम् एव।
(विधिकल्प-सहित-)ज्ञानस्याधारभूतं (विधिकल्प-सहित-)ज्ञानान्तरम्
इति ज्ञान-परम्परा काचिद् वर्तते।
तत्रान्तिमप्रायघट्टम् अस्मद्-इन्द्रियैर् ग्राह्यम् ब्रह्माण्डम्।
आधेयाधार-क्रमेण -
- जीवात्मानः (नाना-भौतिक-शरीरेषु जाता विधि-कल्पाः। )
- जड-प्रकृतिः (ऋत-फलक-भूतम् ब्रह्माण्डम्), ऋतम् (इति वक्ष्यमाणो विधिकल्प-विशेषः)
- बुद्धितत्त्वम् / ज्ञान-लोकः/ आकृति-लोकः / प्रज्ञा-लोकः +++(=Nous)+++ - इति देव-चेतोभूतम्।
- देव-गणः
प्लातायन-कल्पना (द्रष्टुं नोद्यम्)
यवनेषु प्लातायनाः बाह्यतोऽभ्यन्तराभिव्यक्ति-क्रमेणेमानि स्थूल-तत्त्वानि पर्यगणयन् -
- जड-प्रकृतिः+++(=nature)+++
- जीवात्मानः+++(=soul)+++
- बुद्धि-तत्त्वम् / ज्ञान-लोकः/ आकृति-लोकः / प्रज्ञा-लोकः +++(=Nous)+++
- देव-गणः / प्रत्येकता
देवताः
सर्व-ज्ञानाधारभूतः (सर्व-सत्ता-कारणम्),
स्वतो निराधारो विधि-कल्पो दैवम्, ईश्वर
इति पूर्वम् उक्तम्।
बहुत्वम्
आप्तैस् तथानुभूतत्वान् नैक-देवतामयं दैवम् इति।
वेङ्कटनाथ-पक्ष-श्रीवैष्णव-निभा
अपीश्वरकोटाव् अनेकत्वम्
पर-देवता-द्वित्व-रूपेणोचुः,
पुनः नित्य-सूरीणां बहुत्वम् ऊचुः।
स्वरूपैक्यम् एषां च निराकरोच् चतुश्-श्लोकी-व्याख्यायाम् ।
एषाम् प्रत्येकत्वम् To Hen (τό ἕν), The One, First, The Good, “unity” इत्य्-आदिभिर् उच्यते यावनैः।
स्वरूपैक्य-निराकृति-तन्त्राणि
वेङ्कटनाथार्य आह -
यत्र क्वचिद् अ-भेदोक्तिर्
यद्य् आप्त-वचने भवेत् -
“राम-सुग्रीवयोर् ऐक्यम् (रामा. सु. ३५.५१)
इत्य्-आदिवद् इहास्तु सा +++(लक्ष्मीः)+++॥
विशेषतः सामानाधिकरण्यस्य
“यद्-यद्-विभूतिमत् सत्त्वम् (गीता १०.४१)”
इत्य्-उक्तेन विभूत्य्-अध्याय-न्यायेन निर्वाहात् ।
स्वरूपम्, अप्राकृतत्वम्
प्रत्येकोऽपि तेषु देवः
सक्रियो निराधारो विधि-कल्प एव।
अयम् एव देवानाम् वक्ष्यमाणे ब्रह्माण्डेय् आविर्-भवनात् प्राग् वर्तमानं रूपम्,
यद् एव “यत्र पूर्वे साध्यास् सन्ति देवा” इति श्रुत्योच्यते,
“सदा पश्यन्ति सूरयः” इत्यनया च।
इत्थं पूर्वे साध्या देवाः, साध्या ऋषयः, परे देवाः, नित्याः, नित्य-सूरय इत्यादि-शब्द-प्रयोगस् तेषु तद्-विभागेषु वा।
इदं हि “Gods are prior to Being” इति प्रोक्लस्-आख्यो यवनर्षिर् आह।
आकृति-लोकः
या आकृतयो लक्ष्यन्ते ऽस्मिल्ँ लोके ब्रह्माण्डाख्ये,
तासां प्राग्-रूपं परस्पर-सम्बन्धैस् सार्धं पृथग् अमुष्मिल्ँ लोके देव-फलक-रूपे सुनिश्चितम् आहुः।
अत्रोक्त एव लोक
आकृति-लोकः ज्ञानात्मकः कश्चन,
यद् आहुर् यावनाः केचिद् Ideal/ platonic Realm इति,
अस्मत्पूर्वजाश् च परमं व्योम +इति।
अयं हि देव-लोकः
यत्र मुक्त-जीवात्म–विधि-कल्पा देव-संसर्गेण तत्-तुल्य-ब्रह्माण्डाद्य्-अनुभवेन च तुष्यन्तीति केचित् कल्पयन्ति वैकुण्ठादि-शब्दैः।
तद् देवानाम् प्राक्-क्रीडाङ्गनम् इव, नित्यञ्च ।
ब्रह्माण्डेन सम्बन्धः
ते हि देवा ऋतं नाम विधिकल्पं वक्ष्यमाणम् असृजन्,
तास् ता आकृतीस् स्व-क्रीडाङ्गन-विशेषे ब्रह्माण्डाख्यय् आविर् भावयितुम्।
ईश्वर-कोटिः
यत्राप्तवचनं (श्रुतिः?) यं कम् अपि देववाचकेन शब्देन +ईश्वरं वदति,
तं तं देवम् ईश्वरकोटौ निवेशयेम।
शिष्टा देवा अप्राकृता अप्य् अनीश्वरा मन्यन्ताम्।
तेन +इन्द्रादि-देवतान्तरेश्वर-कथनानि सङ्गच्छेरन्तराम् (रूढार्थाश्रयणमात्रेणापि)।
नारायण-पारम्यम्
वेङ्कटनाथार्य-प्रभृतयो लक्ष्मी-विशिष्टं/सहितं नारायणं
वेदोक्तम् सृष्टि-स्थित्य्-आदि-कारण-भूतम् ईश्वर-तत्त्वम् मन्यन्ते।
तत्र “श्रीमन्-नारायण”-प्रयोगाः,
“ह्रीश् च ते लक्ष्मीश् च पत्न्यौ” इत्यादयः श्रुतयश् च
प्रमाणत्वेन दर्श्यन्ते।
वयन्तु श्री-शब्दं देवतान्तरस्याप्य् उपलक्षणम् मन्तुम् उचितम् भाति।
नारायण-पारम्ये नास्ति विरोधः -
स्यात् स ईश्वरकोटाव् अप्य् एकः स्वतन्त्रः।
किञ्च देवतान्तर-पारम्य-कथन-तिरस्-कारे नास्ति नः सामर्थ्यम् -
प्रमाण-भूतानां ग्रन्थानां श्रुति-सहितानां मानुष-प्रभाव-सहितत्वात्।
स्व-स्वाप्त-वचनानुसारं स स जनो मीमांस्य मन्यताम्।
कर्तृत्व-भोक्तृत्व-नियन्तृत्वानि
ब्रह्माण्डम् इदं देवैर् ऋताख्य-विधि-कल्प-द्वारा चालितं यन्त्रम् इव, नाटकम् इव, पटगतं चित्रम् इव।
देश-कालौ पट-गत-चित्रे नाटक-रङ्गे वा दिश इव।
जीवास् तु यन्त्राङ्गानीव, साङ्गणक-क्रीडा-पात्राणीव।
एकम् ऋतं तेषां देवानां कूर्चम् इव।
पुनस् ते देवा यन्त्र-कर्तार इव, चित्र-पट-कृत इव।
ब्रह्माण्डे वर्तमानम् अखिलं तदीयस् स्वप्न इव।
सर्व-ज्ञ-कल्पता
देश-कालातीता देवा
प्रेक्षका इव युगपद् अखिलं दिक्-कालजातम् अवलोकयितुं समर्थाः।
अथवा, भविष्यत्-कालावलोकने तैः प्रतीक्षा कार्या -
नन्व् अनियतांशा वर्तन्ते परमाणु-क्रियासु,
जीवेषु च कर्मारम्भ-स्वातन्त्र्यं किञ्चिद् वर्तते।
एवं जीवापेक्षया सर्वज्ञास् तेन ते।
एवं देवा विभवः।
विस्तारः (द्रष्टुं नोद्यम्)
मनो ह वै देवा मनुष्यस्याजानन्ति।
(शतपथब्राह्मणम्)
मनसा सङ्कल्पयति। तद् देवान् अपि गच्छति।
- अथर्ववेदः
As per the theory of the SYVs this cognition is passed to gods by tanU napAt manifesting as the metabolism comprised of prANa and udAna.
So the gods do not precognize but the thought reaches them post-facto via an effect on metabolism. - MT
सामरस्यम्
समानं परमाण्व्-आदि-प्रेरकम् ऋतं प्रेरयन्तीति कारणेन -
तेषु सामरस्यम् अपीहानुमीयते।
ब्रह्माण्ड-यन्त्रे ऽस्मिन् स्थूल-स्तरे
व्यवस्थां, गतिञ् च काञ्चन
नेमे व्यभिचरन्ति।
सर्व-देव-सम्मतम् ऋतं हि भरन्ति।
कथम् इदं सामरस्यम् अनेकेष्व् इत्य्-अत्र
केचिद् (यथा श्रीवैष्णवाः) एकं तेषु देवम् स्वतन्त्रं,
अन्यान् तत्-परतन्त्रान् दास्य-साम्राज्य-भाज आहुः।
एषां विधि-कल्पानां समान-फलक-प्रयोगो ऽपि वा स्यात् सामरस्ये कारणम् -
यतस् तेषु परस्-पर-मनो-गतावगतिर् वर्तते निरङ्कुशा।
सूक्ष्म-प्रभावः
तथापि सूक्ष्मस्तरे +++(चित्रपटे तूलयेव)+++ ब्रह्माण्डे ऽनियतांशं यथारुचि प्रभावयन्ति। +++(तेन हि केचिद् आकस्मिकतां दैवम् मेनिरे।)+++
एष तु प्रभावः प्रयोगैः प्रदर्शयितुं तु दुश्शकः।
किञ्च नाना-दैवज्ञाप्तानुभव-कथनेन +उपगन्तुम् उचितम्।
विशिष्य, जीव-चिन्तास्व् अनियतता ऽधिका, तेन देव-प्रभाव-प्रवणास् ताः।
विभवावतारादि
त एव देवा अ-प्राकृतैर् अर्चावताराख्य-रूपैर्
देवालयादिषु प्रतिष्ठितेषु भौतिक-विग्रहेषु शिलादि-निर्मितेषु वर्तन्ते
भक्त-सुलभ-रीत्या, तद्-आराधन-स्वीकाराद्य्-अर्थम्
इति कल्पनं चारु।
“मन्त्र-शब्दार्थ-शरीरवन्तो भवन्ति मन्त्रेशाख्या विधि-कल्पा
यय् उपासकेषु दैवं निग्रहम् अनुग्रहं वा जनयन्ति” - इति केचित्।
तय् ऋतांशा देव-कल्पिता इति गृहीतुम् अलम्।
पुनः केषुचिज् जन्तुषु दैवावेशम् आहुः, अंशावतारं वा -
येनाद्भुतानि कर्माणि कृतान्य् अदृश्यन्त।
तद् अपि साधु।
ब्रह्माण्डे कार्य-वर्तनार्थं विशिष्ट-रूपैर् विभवाख्यैर् देवा आविर्-भवन्तीति केचित्।
किञ्च भूत-विज्ञानोच्छ्राय-काले ऽधुनापि
ते, तदीयाः प्राकृत-लोकाश् च
सूक्ष्म-भौतिक-शरीरान्तर-ग्रहण-समर्थैर् यन्त्रैर् अप्य् अदृश्यानि।
ततस् तत्-पराणि बुध-वाक्यानि ध्यानाराधनादि-प्रयोजकन्य् एवेति गृहीतुं वरम् -
“अप्राप्ते हि शास्त्रम् अर्थवत्”।
पुनर् मानुषे लोके ऽप्राकृतैः प्राकृतैर् वा पशु-निभ-शरीरैर् आविर्भवन्ति देवास्,
तदा ते ऽवतार-शब्द-वाच्या इति।
किञ्च - तत्राप्य् ऐतिहासिकादि-प्रमाण-प्रातिकूल्यात्
तत्-पराणि बुध-वाक्यानि ध्यानाराधनादि-प्रयोजकन्य् एवेति गृहीतुं वरम् -
“अप्राप्ते हि शास्त्रम् अर्थवत्”।
ध्यानाराधनादि-प्रयोजनायास्मत्-कल्पनास्व् आविर्भावो ऽग्रे “प्रथा”-भागे विचारितः।
प्राकृतत्व-वचन-निर्वाहः
“अमुक-देवो ऽप्राकृत-शरीरवान्/ ईश्वरः” इत्य् आप्त-वचनस्य सङ्कोचः
“स देवः प्राकृतः” इति विश्वस्त-प्रबन्ध-गत-वाक्यान्तरं न साधयेत्।
प्राकृत-परिसरेक्षण-बल-समृद्धैर् अपि
शास्त्रोक्तानां कैलास-क्षीराब्धि+इक्षु-सागरादीनां तत्-तल्-लोकानाम्
यागेषु देवानां गमनागमनादेश् चागोचरत्वात्
तत्-प्राकृतत्व-वचनानां यथापठिताभिधार्थ-ग्रहणं खलु बाधितम् एव।
तर्हि, बाधक-वचनानां निर्वाहः कथम् इति चेत् -
“न हि निन्दा” न्यायेन पर-प्रशंसार्थम् इति ग्रहणेन,
समान-नामक-देवता-द्वय-ग्रहणेन वा।
द्वाव् अपि मार्गौ शास्त्रेष्व् आश्रितौ दृश्येते।
समान-नामक-देवता-द्वय-पक्षे
नाम-समता कुत इति चेत् -
अप्राकृत-देवता-नियन्त्रिक्ता प्राकृत-शरीरिणी देवतेति सूचनाय,
अथवा सारूप्यमात्र-सूचनाय।
यत् प्राञ्चः केचित् सामानाधिकरण्यम् ऊचुर् भिन्न-शब्दानाम् ईश्वरादि-वाचकानाम् -
तेन रूढार्थो ऽसकृत् त्यज्यते इति दोषोऽपरः।
सरूप-सनाम-देवता-द्वन्द्व-तन्त्रम्
त एव तु जय-विजयौ प्राकृत-क्षीरसागर-वर्तिनौ कर्म-वश्यौ
वैकुण्ठ-वर्तिभ्यां भिन्नाव्
इत्य् आहुः।
पुनः, इन्द्र-प्रजापती वैकुण्ठे द्वारपालाव् उच्येते श्रीवैष्णवैः।
सारूप्यम् अपि न स्वरूपैक्य-निश्चयायालम् इति वेङ्कटनाथः -
न हि सारूप्य-मात्रेण
त एवैता इति निश्चयः,
अनेकेषाम् एक-जातीय-वाहनादि-दर्शनात् ।
स एव नयो गणेश-दुर्गादिष्व् अपि सङ्गच्छत इत्य् आह
जीव-गोस्वामी भक्ति-सन्दर्भे (पाद्म-भागवतादि-प्रमाणैः) -
ये तु तत्र श्री-भगवत्-पीठावरण-पूजायां
गणेश-दुर्गाद्या वर्तन्ते,
ते हि विष्वक्सेनादिवद्
भगवतो नित्य-वैकुण्ठ-सेवकाः ।
… ततो भगवत्-स्वरूप-भूत-शक्त्य्-आत्मका एव ते । … किं च, भगवद्-अंश-स्वरूपा एव ते ।…
ततश् च ते गणेश-दुर्गाद्याः,
ये परे माया-शक्त्य्-आत्मका गणेश-दुर्गाद्याः,
ते तु न भवन्ति …
सा हि मायांश-रूपा,
तद्-अधीने प्राकृतेऽस्मिन् लोके
मन्त्र-रक्षा-लक्षण-सेवार्थं नियुक्ता
चिच्-छक्त्य्-आत्मक-दुर्गाया दासीयते।… अतो नाम-मात्र-साधारण्येनानन्य-भक्तैर् न भेतव्यम् ।
किन्तु भगवतो नित्य-वैकुण्ठ-सेवकत्वाद् विष्वक्सेनादिवत् सत्-कार्या एव ते।
एवं शैवा अपि “अनपहतपाप्मानं” शिवम् परमशिवाद् भिन्नम् मेनिरे।
कल्पनान्तराणि (द्रष्टुं नोद्यम्)
श्रीवैष्णवा एवम् अमन्यन्त -
ब्रह्मादयो देवा बद्धा एव
कर्म-बलेन पद-विशेषम् प्राप्ता
लीला-विभूताव् एव वसन्ति।
बद्ध-देवेषु केचिच् छिवादयो महा-ज्ञानिनो मुक्ति-रहस्योपदेशका अपि।
बद्ध-देव-शरीराणि प्राकृतान्य् एव -
न शुद्ध-सत्त्व-निर्मितानि।
देवा यज्ञादौ यथोक्तम् आगच्छन्त्य् एव,
यद्य् अपि तच्-छरीराण्य् अस्मभ्यम् वाय्व्-आदिवद् अदृश्यानि स्युः।
उद्देशः
कुतो वर्तते ब्रह्माण्डम् इदम्?
प्रधानतया देव-गण-भोगायैव, न जीव-भोगाय।
स च भोगो लीलारूप इति केचित्।
श्रीवैष्णवैः साधूक्तम् -
एवम्-भूतेनेश्वरेण
स्वानन्द-परीवाहतया +++(न तु श्रमेण)+++ क्रियमाणा व्यापाराः
स-कल-जगत्-सृष्टि-स्थिति-संहार-मोक्ष-प्रदत्वादयः ॥
सहृदय-प्रेक्षका इव स्वस्वातन्त्र्येण सूक्ष्मे क्षेत्रे पात्रे कालक्रमेण चावधायानन्दम् अनुभवन्तीति केचित्।
जीव-दुःखेन देव-लाभः? (द्रष्टुं नोद्यम्)
एतावद् एव संसारं
दृष्ट्वा मूर्च्छाम् उपैम्य् अहम्।
कथं देव समस्तं त्वं पश्यन् नन्दसि तं चिरम्?उत्तमानां हि चेतांसि
गाहसे वातिबन्धुरम्।
तद्-व्यक्त्यै हि सृजन्न् अन्यद्
दुष्टं क्षुद्रं प्रियेतरम्॥
शेष-शेषि-भावः
देव-गणस्य “सर्व-शेषिणः” प्रधान-भोक्तुः
भोगोपकरणानि भोग्यानि च
ब्रह्माण्डे वर्तमानं सर्वम्।
एवम्, देव-गण-शेष-भूता हि जीवा, वस्त्व्-अन्तराणि च।
विस्तारः (द्रष्टुं नोद्यम्)
रामानुजेन तद्-अनुयायिभिश् शेष-शिषि-भावः साधु प्रपञ्चितो
ऽन्यत्र द्रष्टव्यः।
यथा रामानुज आह -
पर-गतातिशय+++(→न प्रतिकूल!)++++आधानेच्छयोपादेयत्वम् एव यस्य स्वरूपं,
स शेषः, परः शेषी ।
स्व-परम-प्रयोजन-भूत–पर-गत-+अतिशय+++(न प्रतिकूल!)+++-+आधायकत्वं शेषत्वम् ।
स्व-परम-प्रयोजन-भूत–
स्व-प्रतिसन्धानार्ह–
पर-गतातिशयाधायकत्वं दासत्वम् ।
इति लक्ष्मीपुर-श्रीनिवासः श्रीवैष्णवः।
आकृत्य्-आकर्षणम्
पूर्वोक्ताद् आकृतिलोकाद् आकृतीर् नानाविधास् स्वाभिमता आकृष्य क्रीडितुं तद्-उपक्रम इति केचित्।
तदन्तर्गतवेन देवताकृतीर् अप्य् आकृश्यन्ते। पर-देवता आकृति-लोके / परमे व्योम्नि परिगण्यन्ते। +++(ἑνάς, Hyper-essential henads, huperousios इति यावनाः।)+++
स्फुटं यत् - ससम्प्रज्ञात-ज्ञानैर् घन-चेतः-क्रियाभिर् आकृत्याकर्षणं सरलतरम्, उर्वरतरम्।
अनेन व्यक्तम् एतेष्व् अधिकम् आसक्ता देवा इति।
तत्र च तेषाम् प्रभावा अपि सरलतराः।
दैव-गुणाः
अवतारावेशादि-विशेष-गुणाः कथा-सुलभाः।
पुनः प्रपञ्चे दृश्यमाना विभूतयः
नाना-स्तुतिभिः कीर्तिता,
विज्ञानिभिर् आविष्कृताश् च वर्तन्ते।
- लीलात्मकता, आनन्दमयता॥
- जीवेषु प्रतिकूलेषु तन्-निग्रहेणानन्दः।
- जीवेष्व् अनुकूलेषु तद्-अनुग्रहेणानन्दः।
- सर्वं भगवते ऽनुकूलम् एव। एवं न हि जीव-दुःखेन देव-गणो लिप्तः।
- पुनर् जीव-दुःखं देव-दृष्ट्या क्रीडायाम् अङ्ग-मर्दनम् इव भवेत्।
- विभुता, जीवेष्व् अन्तर्यामिता, पारमार्थिकतया निराकारता
- शरणागतेषु स्वाभिज्ञातृषु कारुण्यम्, वात्सल्यम्
- अनुग्रह-निग्रह-करणे समता / पक्ष-पात-रहितता -
शरणागतजीवेषु लघुदण्ड इत्य्-आद्य् अन्तरा- यदृच्छया प्राप्तेषु जीवित-परिस्थितिषु तु
देवाः स्व-लीला-विवशा
न हि सुषमा भवितुम् अर्हन्ति।
- यदृच्छया प्राप्तेषु जीवित-परिस्थितिषु तु
संसारकटुत्वाल् लीला-दये देवानाम् परस्पर-विरुद्धेऽपि
प्रियौ गुणाव् आहुर् देवानाम्।
एवं देवेषु दोषा न वर्तन्त इति ज्ञेयम्।
देव-ज्ञानम्
प्रमाणम्
जीवैर् देवताभ्युपगतौ, तद्-गुणेषु चाप्त-वचनम् प्रमाणम्।
तेषाम् आप्तानां पुनः योगि-प्रत्यक्ष-सहितम् प्रत्यक्षम् प्रमाणम्।
केवलेनानुमानेन देवास्तित्व-सिद्धिर् दुष्करा।
प्रतिष्ठितेषु देव-प्रेरित-शास्त्रेष्व् एक-वाक्यता-कल्पनम् अन्यत्र “प्रामाणिकता”-विभागे कलितम्।
परोक्ष-प्रायता
अन्यथा - स्थूल-यान्त्रिकताया ब्रह्माण्डस्य,
देवास्तित्वम् एव सन्देहास्पदं भवेद् -
विशिष्य यन्त्रगत-जीवानां विचारेषु।
ब्रह्माण्डयन्त्रे देव-तूलिका-क्षेपाः सूक्ष्मा यादृच्छिक-प्रायाश् च।
+++(तेन हि परोक्ष-प्रिया हि देवाः, प्रत्यक्षद्विश इत्य् आहुः।)+++
किञ्च, उद्देश-पूर्विका नास्ति गुप्तिर् इयं देवैः -
ऋत-रक्षायां साध्यमानायाम्
आनुषङ्गिकरीत्या सूक्ष्मत्वम् आनुषङ्गिकम्।
केचित् तु जीवा
स्वेषाम् आप्तानां च
प्रतिभया ऽनुभवैर् वा,
देवा सत्यम् इत्य् अनुमान्ति।
तेन पूर्णतरं तत्त्वज्ञानं, तत्फलानि च लभन्ते।
तादृशानां जीवानाम् उद्भवो ऽस्मिन् देवकृतयन्त्रे ऽनिवार्यम् इव।
न च देवानाम् अनिष्टम् एतत् -
ननु लोके चित्रकृतः स्व-हस्ताक्षराणि क्वचित् प्रकाशयन्ति।
न ह्य् अनेन देवाः सर्वेषु देशेषु कालेषु वा
स्व-ज्ञानि-जनन-काङ्क्षिण इति मन्तुम् उचितम्।
प्रथा
नाना-कारणैर् देवा व्यक्तैर् अव्यक्तैश् च भावैः प्रथन्ते जीवेषु।
नाना-देवेभ्यो विभिन्नानि रूपाणि शब्दाः क्रियाश् च प्रियाणि भवन्ति।
चेतस्य् आविष्टा आकृतीः क्रियाश् च काश्चनाऽऽविर् भावयन्ति।
विशिष्य देव-प्रेरित-कथाभिः शास्त्रैश् च काशन्ते सिद्ध-जनोद्गीर्णैः।
विस्तारः (द्रष्टुं नोद्यम्)
यत् तु केचिद् वदन्ति - “ब्रह्माण्डगतम् इदं वस्त्व् एव (प्रकाशात्मिका संविद् वा ऽस्तु, सूर्यो वा, अर्चविग्रहा वा) देवः” इति -
तत् त्व् आराधनादिदृष्ट्या हि साधु।
वस्तुतस् तु ततो ऽपि परा अधिका हि देवाः।
नानेन मातृ-मेय-मान-भेदस्यापारमार्थिकता तिरस्कृता, न चाभेद-ज्ञान-फलानि।
तत्र बहवो ऽंशा बोधन-परा - न बालिश-बुद्ध्या ग्राह्या,
यथा - परस्-पर-विवादाः, स्थूल-भूत-शास्त्र-व्यभिचाराः, देवासुर-सङ्ग्रामाः, देवेषु तारतम्यम्।
परोक्षप्रिया वै देवाः।
+++(यावनैः “intelligible-and-intellectual” level of manifestation इत्य् उच्यते।)+++
ज्ञान-फलम्
गणित-शास्त्र-स्थ-sqrt(-1)-सङ्ख्येव
देवतास्तित्व-स्वीकारे महत् प्रयोजनम्
इति साक्षात्-कार्यम्।
देवा अपि दयालवः।
स्वं यो विजानाति,
स्व-प्रियो जीवो यः,
स्वस्मिन् यो वा शरणागतः,
तद्-अर्थं
जीव-चेतस्स्व् आविश्य
निग्रहानुग्रह-क्षमा औन्नत्यं पुरुषार्थ-कौशलम् अपि प्रेरयन्ति।
एतद् यथा चित्रकृच् चित्रे स्वहस्ताक्षराय स्पृह्यति।
किम् बहुना - देवतानां प्रिय-कल्पना-मात्रत्वेनाप्य् अङ्गीकारय्
स्वभाव-व्यवहार-परिष्कारेण महत् फलम् ऐहिकम्।
देवता-पारम्यम्
साम्प्रदायिकैर् एकवाक्यता-दिशि कश्चन प्रयासो विहितः,
येन “रुद्रादयो देवाः प्राकृत-शरीरवन्त” इत्यादयो निश्चया अजायन्त।
किञ्चास्मिन् प्रयासे कश्चन दोषो मूल-भूतः -
समान-विवक्षया परस्पर-विरुद्ध-वचनान्य् उद्गीर्णानीत्य् आग्रहस्य
प्राचीनेष्व् आरोपो ऽयुक्तः।
प्राचीन-ग्रन्थेषु व्यक्ता भिन्न-दैव-प्रेरित-मतानां स्पर्धा।
अत इमां स्पर्धाम् अवगत्य,
“न हि निन्दा”-न्यायादीन् प्रयुज्य विरोध-परिहारः कार्यः।
विशिष्य, “अमुक-देवो ऽप्राकृत-शरीरवान्/ ईश्वरः” इत्य् आप्त-वचनस्य सङ्कोचः
“स देवः प्राकृतः” इति विश्वस्त-प्रबन्ध-गत-वाक्यान्तरं न साधयेत्।
English
If one is honest historically, one will recognise competing cults even in shruti. the best way then to achieve ekavkyatA is to acknowledge this, subsume their principal deities into Ishvaratattva, and apply nahi nindA/ name sharing logic.
The traditional reconciliation doesn’t account for this history - they did not understand the cult competition factor. They instead relied on sAmAnAdhikaraNya, which in results in a loss of valuable common meanings (rUDhArtha).
जडा भौतिकी प्रकृतिः
ब्रह्माण्डम् पूर्वं निरुक्तम् - देव-क्रीडाङ्गनम् ऋत-चालितं
यत्र वयं वर्तामह इति।
अग्रे तद् ऋतस्य फलकम् इत्य् अपि वक्ष्यते।
सद्यस् तद्-गत-जड-वस्तूनि विचार्यन्ते।
जडत्वं नामात्र ज्ञातृत्वाभावः, पराक्त्वं च।
भूत-लक्षणम् इन्द्रियग्राह्यत्वम् - साक्षाद् वा यन्त्रादिसहकारेण वेति गृह्यताम्।
प्रकृतेः कल्पनान्तरम् (द्रष्टुं नोद्यम्)
मूल-प्रकृतिः (त्रिगुणात्मिका), महद्/ बुद्ध्य्, अहङ्कारः, मनः, १० इन्द्रियाणि, ५ तन्मात्राः, ५ भूतानि इति प्रकृति-घटका इति साङ्ख्यादयः।
एभ्यः पृथक् पुरुषः/ जीवः, ईश्वरश् च/ वा ।
प्रकृत्य्-उत्पत्ति-क्रमे विवदन्ति।
तेषु ५ भूतान्य् एव प्रत्य-क्षग्राह्याणीति केचित्,
शिष्टानि शास्त्रादि-गम्यानीति।
एतैर् भूतैर् एव पञ्ची-करणादि-प्रक्रियया मिश्रितैर् भूत-जातम् उत्पादितम् इति।
नाधुनिक-भूत-विज्ञानेन सङ्गच्छते -
यतो वक्ष्यमाणरीत्या भूत-जातं प्रत्यक्ष-ग्राह्यं
नाना-परमाणु-शक्त्यादि-सङ्घटनम्, न प्रक्-कल्पित-५-भूतानाम्।
इमय् आधुनिक-विज्ञानोक्ताः परमाणव एव ५ भूतैर् घटिताः।
त एव स्थूलतर-द्रव्येषु कम्पन-तरङ्गादीन् उत्पादयन्ति।
इति परिहर्तुं यतन्ते।
५-भूत-घटिता आधुनिक-परमाण्वादयो ह्य् अन्तिमप्रायाणि कार्याणि
न प्राचीनशास्त्रप्रतिपादितानीति
प्राचीन-शास्त्रापूर्णता काचिद् अभ्युपगम्या।
किञ्च नानेन कल्पनेन वैदिक-साम्प्रदायिक-सान्त्वनम् अन्तरा किञ्चित् साध्येत -
सर्वत्र सर्वाणि भूतानि वर्तन्तय् इति हेतुना
रूप-रसादि-ज्ञानाविर्भावानाविर्भावयोः कारणं
यथा-कथञ्चिद् अन्यद् एवार्वाचीन-विज्ञानानुमानैर् ज्ञेयम्।
पुनः १० इन्द्रियाणि त्व् आधुनिक-विज्ञानेन प्रकारान्तरेणैव ज्ञातानि - प्रत्यक्षानुमानाभ्याम् एव (यथेन्द्रिय-प्रकरणय् उक्तम्)।
तेन नात्र शास्त्रावकाशः।
नायं महान् दोषः - सर्वार्थ-सिद्धौ सृष्टि-क्रम-प्रकरणे श्रीमद्-वेङ्कटनाथार्यः -
“न प्रधान-विरोधः स्याद्
ईदृशानवधारणे” ।
इति शिक्षयितुं शिष्यान्
प्राचां क्वचिद् अनिश्चयः ॥
किञ्च +अणु-रूपेन्द्रियाभावे,
तद्-अनु मनसो ऽप्य् अणु-रूपस्याभावे,
ज्ञानाश्रयस्यात्मनो विषये सन्देहो जायते।
यत् शास्त्रीयं कल्पनम् भूतेन्द्रियादिषु व्यर्थम्,
तद् महत्य् अहङ्कारय् अत्मानि च कुतो न व्यर्थं स्यात्?
अवकाशः
देश-कालाव्+++(=Space-time)+++ अवकाशः।
स विभुः। अ-परमाणुः।
अवकाशे परिधिः स्थानम्।
सूचितात् स्थानात् स्थानान्तरस्य भेदः काल-लम्ब्य-दैर्घ्य+उच्चता-भेदैर् लक्ष्यते +++((Time, x, y, z) - spatio temporal coordinates.)+++।
स्थानस्य गुणेषु वक्रता+++(=curvature)+++ अन्तर्भवति।
अतीतादि-व्यवहार-हेतुः कालः।+++(←तर्कसङ्ग्रहाद् इदम्।)+++
ब्रह्माण्डम् इति कश्चन देश-काल-सङ्ग्रहः साश्रित-गणो, यं वयं साक्षाद् अनुभवामः।
+++(तेन हि ब्रह्माण्डोपबृंहणात् प्राक् किम् आसीद् इति प्रश्नोऽबद्धः - कालो हि ब्रह्माण्डाङ्गम्।)+++
परमाणुष्व् आकाशः
अवधेयम्, प्राचीनमतय् आकाशो नाम ether, न तु space इति।
प्राचीनमते ऽणुष्व् आकाशो वा
सर्व-व्यापि ब्रह्मापि वा
न व्याप्नोति।
तत्र “व्याप्त्या” परितो-व्याप्तिर् एवोच्यते -
निरवयस्य नित्यस्यानुपपत्तिः।
कस्मात्? आकाशव्यति-भेदात्।
अन्तर्बहिश् चाणुर् आकाशेन समाविष्टो
व्यति-भिन्नो व्यतिभेदात्
सावयवः सावयवत्वाद् अनित्य इति
(न्यायभाष्यम् 4.2.18)
इति।
Aether does not pervade atoms, but is contiguous to each one of them. This point is already explicit in the Nyāyabhāṣya and is needed because of the point-sized nature of atoms. If these were pervaded by ākāśa, then they would have parts, and thus not be permanent. - Elisa
एवं च “देशवत्त्वे ऽपि निरवयवाः परमाणवः” इति (शब्दान्तरेण) उद्द्योतकारः।
नैतद् उपपन्नम् - अविभाज्यत्वम्, अनवयवत्वं नाङ्गीक्रियते भूत-शास्त्रय् आधुनिके।
अणवः
अवकाशाश्रया अणवः।
परमाणुः
सूक्ष्मतमा अणवः परमाणवः।
परमाणुषु वैशिष्ट्यं तद्-गुण-भेदैश् च तत्-स्थान-भेदेन च वर्तते।
विश्वास-टिप्पनी
अनेनानिर्वचनीयो विशेषो नाम पदार्थो ऽनावश्यको जातः।
मान-सम्भ्रमः
परमाणोः कानिचन मानानि स्थिराणि +++(eg. electron charge, spin)+++, कानिचिन् न।
अस्थिर-मानेषु - मान-क्रियया यत् किञ्चिल् लब्धम्, तत् क्षणिकम् एव -
क्षणान्तरे ऽन्यद् एव स्यात्।
अनवेक्षितेषु परमाणुषु सर्व-स्थिति-व्यापिका सम्भावनैव वर्तते।
किन्त्व् अवेक्षिते+++(=observation, interaction with universe)+++ परमाणौ निश्चयो+++(=“wave function collapse”)+++ भवेत्।
तथा हि, +अग्रिम-मान-निश्चये +अन्तिमम् एव मानम् परिगण्यते, स्थिति-निर्णये, न ततः प्राचीनम्, यथा - 3 polaroid filters paradox इत्यनेन ज्ञायते ।+++(परीक्षणीयम्)+++
विस्तारः (द्रष्टुं नोद्यम्)
परमाणु-स्थितिर् +++(“Quantum state”)+++ निश्चिता वा, उत मान-मात्रं सत्यं वेत्य् अत्र
- “realism” इति केचिद् - अज्ञातधर्मः (hidden variable) कश्चन वर्तते। एतत् तु प्रकाश-वेग-गरिष्ठत्वय् +++(=localism)+++ अङ्गीकृते सति, quantum-entanglement-प्रयोगैर् निरस्तम्।
- केचिद् +++(“orthodox position”)+++ आहुः - “Wave function is the complete description, no hidden variable.”
- केचिद् युगपद् ब्रह्माण्डबाहुल्यं+++(=multiverse)+++ प्रचक्षते।
- अन्ये न तथेति।
सामूहिक-स्थैर्यम्
कदाचित् परमाणुसङ्ग्रहे स्थितौ निश्चये सत्य् अपि
तत्र वर्तमानेषु परमाणेष्व् अनिश्चितता +++(quantum entanglement इति)+++ स्यात् -
भ्रातृ-भगिन्योर् वयोव्यत्यास इव।
तेन +एकस्य परमाणोर् मानम् परमाण्व्-अन्तरम् अवलम्बेत (quantum non-locality, “violation of localism + realism”, “passion at a distance” इति)।
विस्तारः (द्रष्टुं नोद्यम्)
विचारणीयांशा अत्र सङ्गृह्यन्ते। YT इति कन्नड्या रुचिरा चर्चा।
- Bell contextuality - value depends on measurement’s context. Bell/ CHSH inequality.
स्थाने ऽनिश्चयः
अपरं प्रसिद्धम् - परमाणूनां स्थानं गतिञ् च निश्चप्रचं युगपद् वक्तुं न शक्यम्। +++(Heisenberg uncertainty principle, measurement disturbance.)+++
एकविधं विभुत्वं परमाणोर् वर्तते।
किञ् च परमाणूनाम् अस्तित्व-सम्भावनायाः +++(→Probability of presence)+++ महान् भेदो वर्तते स्थानेषु। +++(एतद्धि quantum superposition इत्य् उच्यते।)+++
बहुरूपता
परमाणूनां युगपद् द्वैरूप्यम् - मूर्त्तिश् च +अस्तित्व-सम्भावना-गणना+++(=f(Wave function))+++ चेति।
अनित्यता
न परमाणवो नित्याः। तेषु परस्-पर-परिवर्तनं सम्भवति। +++(Eg: Conversion between massless and massive particles - say in nuclear physics)+++
विभागाः
अयम् प्राचीन-वचनानुकूलो विभागः -
- पृथ्वी - घनकरम् (Quarks, Higgs Boson)
- आपः - रसमूलम् (Leptons, esp. electrons)
- तेजः - रूपमूलम् (photon)
- वायुः - स्पर्शकम् (Other Gauge Bosons)
- आकाशः - inflaton
विभागन्तराण्य् उच्यन्ते। परमाणवो गुरवो ऽगुरवश् चेति।
विस्तारः (द्रष्टुं नोद्यम्)
Massless vs Massive particles: Bosons vs Fermions.
“आद्य-पतनाऽसमवायि-कारणं गुरुत्वम्।” इति तर्कसङ्ग्रहे। विवरणम् अत्र ।
अगुरुषु+उर्जा-वाहका कर्षण-ज्ञान-वाहकाश्+++(=graviton)+++ च।
तेषु केचन प्रकाशगतयः प्रभावाहकाश्च। तेषु प्रभा-वाहकेषूर्जा-वैविध्यम्।+++(→photons of different energies.)+++
परमाणूनां व्यवस्था-विशेषैर् उपाणु-पदार्थानां सम्भवः।
गुरूणाम् परमाणूनां सङ्ग्रहेण जायन्ते ऽणवः+++(=Atoms)+++।
तेषाञ् च शतशः प्रकाराः।
२०२४-वर्षे कलनम् (द्रष्टुं नोद्यम्)
- 6 quarks - up, down, strange, charm, top, bottom
- 6 antiquarks of the same name.
- 6 leptons - electrons, electron neutrino, muon, muon neutrino, tau, and tau neutrino.
- 6 antileptons of the same names
- 4 gauge bosons - photon, two W bosons and one Z boson, three gluons and their anti gluons
- 1 scalar boson - Higgs boson
अणुसङ्ग्रहः
कस्मिञ्चिद् अणु-सङ्ग्रहे ऽणुष्व् अन्तर-जनक-चालन-शक्तिश् चेद् अधिका परस्पराकर्षण-शक्तेर् अपेक्षया, स वायुर्+++(=Gas)+++ भवति। मध्यमञ् चेद् द्रवः+++(=Liquid)+++। अल्पञ् चेद् घनः+++(=Solid)+++।
उर्जा-घनते
अणूनाम् गुणेषूर्जा+++(=Energy)+++ घनता+++(=mass)+++ चेति।
अणुष्व् अस्मिन् तारतम्यम् भवति।
उर्जा नाम क्रिया, क्रियाक्षमता वा।
घनता नाम गुरुत्वाकर्षण-क्षमता।
घनता +उर्जा च वस्तुतः समानस्यैव गुणस्य वचन-भेदौ -
यत उर्जावद् वस्तु घनतरः।
अपि चोर्जा ह्रासेन परमाणुजननं शक्यम्, तद्-विपरीतम् अपि!
+++(अत्र $Δm = ΔE/c^2$ इति प्रसिद्धं सूत्रम्।)+++
अखिलस्य ब्रह्माण्डस्य +उर्जा-घनता-संहतिस् सदा समान एव तिष्ठति।
ऋतम्
ऋतं तावद् ब्रह्माण्ड-स्तरे मूल-स्थः सक्रियो विधि-कल्पः कश्चन।
तत् प्रति-क्षणं
ब्रह्माण्ड-फलके परमाण्व्-आद्य्-अस्तित्व-सम्भावनात्मक-वर्णानां विन्यासेन व्यक्तम्।
ऋतम्+++(=Laws of nature, especially physics.)+++ नाम परमाण्व्-अवकाशादिषु सक्रियासु लक्ष्यमाना काचन सुनियत-व्यवस्था।
किञ्च तेष्व् अपि नियमेष्व् अनिश्चितता काचिद् वर्तते +++(पूर्वोक्तरीत्या ऽणु-स्थान-गत्योर् अपि)+++।
अस्याधारो दैवम् एव,
अस्य फलकं ब्रह्माण्डाख्यं चाकृतिलोकाख्य-फलकस्य लघुः प्रदेशः।
देव-प्रभाव-योग्यत्वाद् ऋतस्येन्द्रियम् अपि किञ्चित् कल्पयितुं शक्यम् -
देव-सूक्ष्म-निर्देश-ग्रहण-रूपम्।
तच्च देव-गत-वृत्ति-विशेष एव।
प्रत्यक्ता?
ब्रह्माण्डे सर्वत्र स्वक्रियया ततम् ऋतं
प्रत्यक्-प्रकाश-सहितम् इत्य् अङ्गीकृतं चेद्
(विभु-)चेत इत्य् अप्य् अभिधीयते।
विभुत्वान् न कदाचिद् अपि “चलति”।
अनुमानम् (द्रष्टुं नोद्यम्)
नानाद्रव्याणां समान-नियमानुसरणे कारणम् एकं स्याद् इति ऋतानुमानम्।
चेतसो मूलद्रव्येषु परिगणने केचित् कारणान्तरम् आचक्षते।
Consciousness joins other building blocks of the universe like space, time, mass
इति यथा Chalmers - Ted2014 Hard problem of consciousness .
एकता, विभुता च (द्रष्टुं नोद्यम्)
अमुके द्रव्ये, रिक्तावकाशे वापि,
स्थितेन केनचिद् एव ऋतांशेन लब्धैर् एव ज्ञानैः
स्वतन्त्रं कर्म निश्चीयत इति न।
पूर्वोक्तं “violation of locality in case of entangled particles” इतिवत्
क्वचिद् दूरस्थ-सम्बद्ध-कणयोः स्थिती युगपन् (कञ्चनानिश्चयांशम् अपि रक्षता) निश्चीयत इत्य् अतः।
तेन यद्य् अस्मिन् ब्रह्माण्डे सर्वस्यापि प्रेरकं विभु किञ्चन ऋतम् इति वस्तु कल्प्यते,
तद् एकम् एव स्यात्।
दैवांशाद् भेदः (द्रष्टुं नोद्यम्)
अनेन, दूर-वर्ति-क्षणम् पराम्रष्टुं समर्थं (तेन कालातीतकल्पं) किञ्चिद् अस्ति चेद्
इहोक्ताद् ऋताद् भिन्नम् तद् (दैवम्?) इति ग्राह्यम्;
अथवाऽत्रोक्तस्यैव ऋतस्य बले विस्तारो ऽङ्गीकरणीयः।
आकृत्य्-आविर्-भावनम्
ऋतस्य गणितमयी भाषा।
आश्चर्यं यत् तास् ता एव काश्चन आकृतयो
दृश्यन्ते नाना स्तरेषु,
यथा पुष्पे मुखे काये तारास्थाल्यां Golden ratio/ fibonacci sequence, वृत्त-षट्कोन-त्रिकोणादयः।
ता आकृतयश् च ज्ञानात्मक-पदार्थाः।
बलम्
आकर्षणापकर्षणात्मकानि बलानि+++(=forces)+++ क्रिया-कारणानीत्य् उच्यन्तय् ऋताङ्गानि।
तत्प्रकारा मुख्याश् ४ -
- विद्युद्-बलम् +++(=Electro-magnetic force)+++
- परमाण्व्-आकर्षणम् +++(=Strong nuclear force)+++
- परमाण्व्-अपकर्षणम् +++(=weak nuclear force)+++
- गुरुत्वाकर्षणम् +++(=Gravity)+++
आदिमानां त्रीणाम् एकतन्त्रता भूत-शास्त्रज्ञैस् साधिता +++(“standard model” इत्य्-अनेन)+++।
क्रिया-विस्तारः
द्रव्य-स्थान-प्रेरण-वृत्ति ऋतम्।
तत्र स्थानप्रेरणम् इति स्थान-वक्रतादि-प्रेरणम्।
द्रव्याणां प्राक्तन(-परतन?)-स्थितीः परिगणय्य,
वर्तमानास् स्थितीर् गतीश् च निश्चिनोति।
भविष्यस्य भूते प्रभावः (द्रष्टुं नोद्यम्)
ननु दिश इव हि काल इति भूत-शास्त्रे।
तत्र केचिद् भविष्यम् अपि भूतम् प्रभावयतीति विचित्रं ब्रुवते - retrocausality। ततः पुनर् भूतम् भविष्यम् प्रभावयेद् इत्य् अविरत-क्रिया-तरङ्गाणि स्पन्दो वा ब्रह्माण्डे।+++(4)+++
तर्हि, न पूर्णतः स्थिरा घटना-ततिः।
एवम् ऋतेन वस्तु-द्वारा क्रिया कार्यते -
परमाणुषु यथा चलनम्।
जीवेषु यन्त्रेषु च तथा चलन-गणनादिकं ऋत-प्रेरितम् एव।
चलनम्
चलनम् इति मुख्या क्रिया परमाणूनाम् - ऋत-दृष्ट्या वर्ण-विन्यास-वद् एव।
तस्मिन् कम्पनम् अप्य् अन्तर्भवति।
अस्मिन् हि शब्द-रूपादि प्रतिष्ठितम्।
वेगस् तावत् पदार्थान्तरापेक्षयैव मीयते।
न किञ्चित् प्रकाशाद् वेगवत्तर इति भूत-शास्त्र-ज्ञाः।
एकतरस्य वस्तुनो ऽपेक्षया ऽपरं यन् नितरां वेगैन गच्छति,
तेन कालो ईषन्-मन्दतरम् अनुभूयते -
यथा, न कदाचिद् अपि प्रकाश-वेगम् अतिक्रान्तुं शक्नोति।
विस्तारः (द्रष्टुं नोद्यम्)
केचित् त्व् ऽऽकर्षणाऽपकर्षणे ऽप्य् अन्ततः परमाणुक्रियेति - दूरस्थ-कार्यं वारयितुम्। Eg. Forces mediated by particle exchange - SE, bending of space-time due to mass.
शब्द-रूप-तापादि
परमाणवो हि सदा चलन्तः कम्पमानाऽपि वा। कम्पन-तीव्रता भिद्यते।
एतद्धि शब्द-ताप-विस्तारादिभिर् मेया। +++(यथा वायुषु PV=nRT।)+++
तत्राणूनां कम्पन-तरङ्गाणि शब्दः, यत्र प्रासङ्गिक-कम्पन-दिक् तरङ्ग-दिग् एव +++(=longitudonal wave)+++। विरलेऽणु-सङ्ग्रहे न शब्दः सम्भवति।
केचनाणु-सङ्ग्रहाः कांश्चन प्रभा-वाहकान् मुञ्चन्ति, स्वकाय-पातिनः प्रतिप्रेषयन्ति वा। एवम् मुक्तैः प्रभावाहक-विशेषैस् तद्-वर्णो निश्चीयते।
जीवः
विन्यास-विशेषाः
क्वचिद् ऋत-प्रेरितानि द्रव्याणि घनी-भवन्ति - तारासु, ग्रहेषु च यथा।
तत्रापि क्वचिद् द्रव्याणां विशिष्ट-विन्यासो जायते।
ततो, मूल-भूत-ऋतम् अवलम्ब्यैव,
विन्यास-विशेषान् स-प्रयत्नम् इव रक्षन्ति वर्धयन्ति च द्रव्याणि सचेतांसि स्वपरिसरे -
यथा शर्कराः +++(=crystals)+++, प्राचीन-सूक्ष्मतम-जीवाश् च।
शरीराभिमानोद्भवः
प्राणाः
एवं केचन भूत-विन्यास-विशेषा “इदम् अन्तः, इदम् बहिः” इति व्यवहार-योग्यताम् प्राप्य,
ततस् स्व-रक्षा-प्रयास-विशेषं च दर्शयन्ति।
ते हि “शरीरम्” इति संज्ञां लभते।
एष एव हि स्व-स्वीय-रक्षार्थः क्रिया-घनी-भावः प्रज्ञा-घनीभावं प्रतिबिम्बयति।
इमा हि क्रियाः प्राणा उच्यन्ते।
आसाम् प्रेरिका प्रज्ञा ऋत-भाग उप-विधि-कल्प (subroutine) इव ऋत-भागान्तराद् विभक्तः।
अस्यैव प्रकर्षः शरीराभिमान उच्यताम्।
अस्य च पुनः प्रकर्षाः प्रजाभिमान-कुलाभिमानादयः।
एवं मनो-बुद्ध्य्-अहङ्कारदि-वृत्तयो ऽपि प्राणा एव।
इदम् अन्तर् इदम् बाह्यम्
इति भेदाच् छरीरजात्।
स्व-स्वीय-रक्षणे जीव-
मूलासक्तिस् स्फुटा मयि॥
अनेकाभिमत-शरीराणि सम्भवन्ति।
Abby and Brittany Hensel इत्यादयोऽपि द्विशिरस्कशरीराः प्रसिद्धा वर्तन्ते,
येनैकस्मिन् शरीर एक एवात्माभिमानीति प्राचां मतं न तिष्ठेत्।
प्राचीन-कल्पना
प्राणान् एव कांश्चन प्राचीना अन्तर्-वात-रूपेणाकल्पयन्।
तैः कैश्चिद् स्थूल-शरीरात्मके ऽन्नमयकोशे
सूक्ष्म-शरीरं (प्राणमयः कोशः, तस्मिन् पुनर् मनुमयकोशः, तस्मिन् विज्ञानमयकोशः,)
ततस् तस्मिन् कारण-शरीरम् आनन्दमय-कोश-युक्तं कल्पितम्।
ततः पृथग् आत्मेति।
आत्मता
अस्मिन् शरीराभिमानय् आत्मत्वं लक्षण-विशेषानुसार्य् अस्ति -
- “इदम् अन्तः, इदम् बहिः” इति व्यवहार एव प्रत्यक्त्वस्य लिङ्गम्। अत्र प्रत्यक्ता शरीर-रक्षा-प्रवृत्ति-सातत्येन प्रमिता। मूर्छावस्थायाम् अपि रोग-कृत्-कृमि-रोध-रूप-व्यापारो दृश्यते हि।
- कोशघटितेषु शरीरेषु न तावद् एकत्वम् अस्ति, किञ्चाभिमाने वर्तते ह्य् एकत्वम्।
- शरीराभिमानस् स्वस्माय् अनुकूलोऽप्य् अस्ति।
इत्थं शरीर-सम्बद्ध ऋतांश-भूतः प्रत्यक् सक्रिय-विधि-कल्प आत्मेति प्राणात्म-वादिनः।
किञ्च
शरीरस्थः प्राकृतिकः शरीराभिमान एव प्राण-क्रियास्व् अन्तर्भूतः,
तद् विहायापरम् अपि कश्चनात्मेति वर्तत
इति शिष्टाः। तद्-अनुसारेण शास्त्रीय आत्मा वक्ष्यते।
प्रमातृ-भेदेन न चेतो-भेदः (द्रष्टुं नोद्यम्)
यत्तु “लोकप्रसिद्ध आत्मभेदः औपाधिकः प्रमात्राश्रितः
न संविद्-भेदं साधयती"ति−
तत्र […] स्वाभाविके भेदे स्व-रसे
औपाधिकत्वम् अप्रतीतं किमिति कल्प्यम्?
प्रमात्र्-आश्रितो भेद इत्य् अपि सत्यम् -
प्रमात्र्-अतिरिक्तस्यात्मनोऽभवात्
इति उत्तमूरु-वीरराघवाचार्यः।
(लाघव-काङ्क्षया) मन्यामहे यद्
“एतद् एव +अजीव-प्रेरकम् ऋतम्
अस्मच्-चिन्तनाद्य् अपि प्रेरयितुम् अलम्” इति -
सिद्ध एव पूर्वोक्तैः प्रयोगैः संविदो ऽभेदः।
तेन, वीरराघवाचार्य-मतं निरस्तम् एव।
पुनः, स्वाभाविके भेदय् औपाधिकत्वम् प्रतीतम् एव -
यथा प्रमेय-सम्बन्धे भेदः स्वाभाविकतया प्रतीयत उपाधिभ्यः
(“राधा मम पत्नी"ति कश्चन, “सीता मम पत्नी"त्य् अपरः।
“शरीरम् मे स्थूलम्” इति कश्चन, “शरीरं मे तुङ्गम्” इत्य् अपरः),
तत्र प्रमातृ-सम्बन्धे भेदो ऽप्य् औपाधिक इति किम् आश्चर्यम्?
शरीरसम्बन्धो ह्य् उपाधिः (यथा धूमवान् वह्निरित्यत्र +आर्द्रकाष्ठं उपाधिः ।)।
+++(सम्प्रज्ञात-ज्ञान-सन्तानम् एव विकल्प इति।)+++
प्रमातृ-प्रमेयादि-भेदा ज्ञान-वाक्य-गत-पात्र-भेदा एव।
पुनः कासुचिद् अवस्थासु देवतावाहनानुकम्पादिषु
प्रमाता ऽन्य एवोपलभ्यते,
क्वचिद् अस्फुट एव च तिष्ठति।
तेन, स्वात्मातिरिक्तः प्रमाता सिद्ध एव ज्ञान-वाक्य-गतः,
तथा च, “प्रमात्र्-अतिरिक्त आत्मा नास्ती"ति सन्देहास्पदम् उपयाति।
शास्त्रीय आत्मा
किञ्च, शास्त्र-ज्ञेयो जीवात्मेति पृथग् अस्माद् विद्यते।
स हि शाश्वत उच्यते, शरीर-धारक इति च।
तद्-अवकाशः
किञ्च शरीर-चालने क्वास्यावकाशः,
यतः शरीराभिमानान्ता बुद्धि-पूर्वका व्यापारास्
तं विनैव सिद्ध्यन्ति
यन्त्र-चालिता पुत्तलिकेव?
तत्रोच्यते -
यद् ब्रह्माण्ड-गत-क्रियास्व् अनिश्चितता (randomness) काचित् प्रत्यक्षादिसिद्धा,
तस्यास् सूक्ष्म प्रभावणे ऽस्त्य् अवकाश आत्मनः।
अयं हस्त-क्षेपः शास्त्रोक्तः प्रमाणान्तरैर् नैतावन् निराकृतः।
तत्र दृष्टान्ताः -
यथा हस्ति-चालको ऽस्व-रुहो वा
स्व-वाहनं न पदे पदे प्रेरयति -
“स्व-पादम् अग्रे निधेहि।”, “सद्यः खाद”, “पिब”, “श्वस” इत्यादिभिः,
प्रत्युत कदाचिद् एव सफलम् आदिशति,
यथा - “वेगं वर्धय”, “उपविश” इत्यादीभिः
तथा ऽऽत्मनः शरीरे बुद्धिमति प्रभावः।
२०२५ इति वर्षे विमानानि वाहनानि च बहूनि
प्रायेण स्वत एव चाल्यन्ते स्म (autopilot-विधिना),
यत्र चालक-हस्त-क्षेपो प्रायेण नापेक्षितः।
किञ्च तदा तदा स्थूलान् मार्ग-परिवर्तनादीन् आदेशान् चालको दातुं शक्नोति स्म। एवम् आत्मनः शरीरे बुद्धिमति प्रभावः।
शरीर-लक्षणम् आह श्रीभाष्ये-
यस्य चेतनस्य यद् द्रव्यम् +++(चेतनम् अ-चेतनं वापि, न क्रियादि)+++
सर्वात्मना+++(=यावद्-द्रव्य-भावितया, न घटादिवत्)+++ स्वार्थे+++(=शरीरार्थे - न मनुष्यशरीरस्य डयनार्थे)+++ नियन्तुम् +++(→शक्यम्, न तु रुग्णावस्थायाम् इव सर्वदा नियाम्यत इति)+++,
धारयितुम् च शक्यं;
तच्-छेषतैक-स्वरूपञ् +++(न तु गृहवद् बहूनां शेषम्)+++ च
तत् तस्य शरीरम्।
निरात्म-प्राणाः?
केचिज् जीवम् अणुं चेतनम् आहुः (तत्त्वमुक्ताकलापे वेङ्कटनाथार्यो यथा)।
एवम् अन्याः कल्पना अन्यत्र सूचिताः।
किञ्च तेषु काश्चन समस्या वर्तन्ते -
यथा शरीरात् कोशं निष्कास्य रक्षामश् चेत्,
स जीवतीति व्यवहारः।
तस्य प्राणा वर्तन्ते।
किं तस्यात्मा न वर्तते?
पुनस् ततो नूतनम् एव शरीरं निर्मातुं शक्यम् (cloning द्वारा)।
कथं तत्रात्माविर्भवति?
एवम् एषु सन्दर्भेषु,
क्वचिन् निरात्म-प्राणान्,
क्वचिद् ईश्वरेच्छया ऽऽत्मान्तर-सम्बन्ध-कॢप्तिम् उपगन्तुम् उचितम्।
शास्त्रे तु सर्वस्मिन्न् अपि नाम-रूप-भाज्य् आत्म-सम्बन्धः क्वचिद् उक्तः।
किञ्च, प्राचीने काले कोश-विज्ञानं नावर्तत।
Schleiden & Schwann इति शूल-पुरुष-बुधाभ्याम् अस्मद्-आदि-शरीराणां कोशैर् घटितत्वम् अवगतम्;
ततः पश्चाद् एव शरीरगत-कोशस्य बही रक्षणम्,
ततो बहुकोशशरीरादि-वर्धनं जातम् (यथा HeLa-कोश-ततिः। )।
शास्त्रीयाणीन्द्रियाणि
कथं शात्रीय आत्मा
प्राणान् प्रभावयेत्?
इति चेत्,
अभौतिकान्य् आहङ्कारिकानीन्द्रियाण्य् उक्तानि शास्त्रेषु।
तद् आधारेण +ऽऽत्मनो ऽस्य ज्ञान-क्रियाः।
एवं भौतिक-शरीरान् निष्क्रमणे प्रयुज्यमानं
सूक्ष्मं शरीरम् अभौतिकम् अपि शास्त्रोक्तं गृह्यताम्।
विचारणीयाः??
- पितृ-प्रज्ञा
- Out of body experience
तत्त्व-परिसङ्ख्याने ऽनपेक्षा
सर्व-कर्म-प्रेरकम् ऋतम् इति तु पूर्वम् एवोक्तम्।
सुख-दुःख-प्रयत्नादि-ज्ञानाधिकरणम् जीव-शरीर-गत-वर्णा इत्य् अप्य् उक्तम्।
ततो भिन्नं न किञ्चिद् आत्माख्यं वस्त्व् अपेक्षितम् ब्रह्माण्ड-वर्णनाय-
तथापि प्रतीतयस् तु स्युः (मानुषेषु भवन्त्य् एव प्रायेण)।
विकास-क्रमः
एवं हि तेषु जीवेषु वैविध्यम् अप्य् उद्भवति।
पुनस् तादृशेषु जीवेषु स्व-स्व-वृद्ध्यै स्पर्धमानेषु
कानिचन रूपाणि तिष्ठन्ति, कानिचन पराजितानि नश्यन्ति।
+++(एतत् “principle of natural selection” इति, “evolution” इति चोच्यते।)+++
अथ कोशाख्यानि शरीराणि वर्तन्ते सात्मानि।
तेषाम् एव सङ्ग्रहेण परस्-पर-सहकारेण च महत्-तरं शरीरम् अपि जायेत - मनुष्यादीनाम् इव।
अत्र तत्-तद्-आत्मानाम् अपि सङ्ग्रहेण महत्तर आत्मा जायते,
यस्य स्वीये बहुकोशके शरीरे तादृशम् एवाभिमानं यथैक-कोशस्य।
एकत्वानुकूलत्व-प्रत्यक्त्वादि-गुणास् तस्मिन्न् अप्य् आत्मनि बहु-कोश-शरीर-व्यापके दृश्यन्ते।
तादृशैक्यादि-गुण-विघटनेन हि बहु-कोशकस्य शरीरस्य “मृत्युर्” अभिज्ञायते -
यद्य् अपि तत्र तत्र कोशा जीवेयुः - एकत्वादि-लक्षण-लक्षितात्मवन्तः।
जरा-रोगापायादि-वारणेन स्थित्याय् एवं मृत्युम् उपायं कृत्वा शरीरान्तराण्य् अप्य् उत्पाद्यन्ते, यत्र स्व-सदृशात्मा ऽप्य् उद्भवेत् - इयं हि प्रजोत्पत्तिः।
पुनर् बहु-कोशक-शरीराणाम् अपि परिवारः, कुलं, समाजो वा
तत्-स्तरे शरीरत्वम्, आत्मत्वं चाप्नुयात्।
यावद् एव +एकत्वानुकूलत्व-प्रत्यक्त्वादि-भावनास् तद्-घटकात्मसु बलवान्,
तावद् एव समाजस्यास्य सात्म-शरीरत्वं प्रतिष्ठितम्।
एवं परम्परया क्रिया-विशेष-वृद्धिर् भवति जयिष्णुषु जीवेषु,
- यथा ऽशनम्, श्वसनम्, स्वतश् चलनम्, यभनम्, चिन्तनम्, यन्त्र-निर्माणम् …।
सर्वम् एतत् क्रिया-जातं प्रायेण द्रव्य-प्रेरणैः, द्रव्य-विन्यास-परिवर्तनैश् च साध्यते।
एवम् ऋतं शरीर-द्वारा गम्भीरतर-विचार-कल्पने प्रभवति क्वचित्,
क्षुद्र-जीविषु सरल-यन्त्रेषु तु गाधतर-चिन्तने, ऽवितर्कित-कर्मण्य् एव वा।
जन्म
शरीरे नश्वरतं, भिन्न-परिसरोचित-भेदोत्पादनं चाभीक्ष्य
शरीरात् शरीरान्तरस्य जननम् अभ्यस्तं दृश्यते प्राणिषु।
तत्र तत्र शास्त्रीयात्मान्तर-सम्बन्धं कथयन्ति कानिचिच् छास्त्राणि।
क्वचित् त्व् “आत्मैव जायते पुत्र” इत्य् अपि।
जीव-गुणाः
एषु केचिन् मूल-भूत-तराः,
केचित् पुष्प-पत्र-शाखादि-स्थानीयाः।
यथा- शरीरित्वं, देव-गण-शेषत्वम्, देव-गण-शरीरत्वम्, जीव-सङ्घर्ष-परम्परोदयश् च स्वभाव-मूलस्य समीपे राजते।
केचन गुणाः शारीराः, केचन मानसाः।
शारीर-गुणेषु बन्धु-मित्रादि-सामाजिक-गुणान् अप्य् अन्तर्भाव्यावगन्तुम् उचितम्।
यथाऽऽह ब्राह्मण्यादि-विषये वेङ्कटनाथः -
अत्र शारीर-गुण-विशेष-निबन्धनतया व्यवस्थिताः
शारीर-जति-विशेषा उत्पत्ति-सिद्धा
आमरणं स्थिरा भवन्ति ।
मानस-सत्त्वादि-गुणोन्मेष-निबन्धनतया प्रतिपादिता ब्राह्मण्यादयः
सर्व-जातीनाम् अपि संभाविताः प्रहादादीनां जन्म-सिद्धा अन्येषाम् आचार्य-सम्बन्धादि-हेतुभिर् आगन्तुकाश् च भवन्ति ।
मानस-ब्राह्मण्यादि-विषयकतया तद्-अनुरूपाः पुरुषार्थ–तद्-उपायाः प्रशंसादयश् च सर्व-जातिषु संभाविताः ।
शारीराः
प्रपञ्च-गत-जीव-स्वभावः शरीर-गुणैर् निश्चितः प्रायेण।
इमे हि गुणाः शरीर-सम्बन्धेनात्मन्य् अपि लिम्पन्ति स्वभावतः।
यथा कस्मिंश्चिद् इमे गुणा वर्तेरन् -
ऋताङ्गत्वम्, जीवत्वम्, शरीरित्वम्,
यौवनम्, स्वास्थ्यम्,
जीव-सङ्घर्ष-परम्परोदयः+++(=evolution-product-ness)+++,
महा-कपित्वम्, पुंस्त्वम्, मनुष्यत्वम्,
आर्यत्वम्, भारतीयता, ब्राह्मण्यम्, भार्गवत्वम्,
धनानुकूल्यम्, संस्कृतप्रीतिः,
शास्त्र-संस्कारः, जिज्ञासुता,
धर्म-रक्षा-परता भूयान्, कामप्रवणता +ईषत्,
स्वातन्त्र्य-प्रीतिः, साङ्गणक-कौशलम्।
(केषुचिच् छास्त्रेषु सत्त्व-रजस्-तमो-गुणा विभक्ताः।)
गुणादि-मूलम्
शरीराणि सम्पत्तयो बुद्धि-गुणाश् चापि बहुदा जन्म-सिद्धाः,
क्वचिद् अनुभवैस् / “कर्मभिः” संस्कृतिं विकृतिं वा यन्ति।
जन्म-सिद्ध-गुणेषु केचित्
प्राक्तन-जन्म-प्रभावम् आचक्षते।
अत्र शास्त्रीयात्म-पक्षे, प्राक्तन-शरीर-सम्बन्ध उच्यते,
शरीर-मात्र-पक्षे, पूर्वजादि-सम्बन्धः।
एवम् परम्परया ऽनवस्था-दोष-वारणार्थम्
“अनादि-कर्म”, “अनाद्य्-अविद्या” इत्यादिभिर्
विभिन्न-गुणादेर् अज्ञेय-मूलत्वम् ऊचुः।
प्राक्तन-जन्मानङ्गीकारेऽपि
प्रस्तुत-शरीरस्य जन्मनि
+इतरापेक्षया दृश्यमानस्य तारतम्यस्य कारणं यादृच्छिकम् उच्यताम् “अनादि-कर्म"-शब्देन।
तत्र वर्तमान-जन्मनि तु कर्मणाम् पौर्वापर्येण प्रभावतः
तेषां “सादिता” +उच्यताम्।
नियाम्यता, गौण-कर्तृत्वम्
भगवद्-गीतायां क्रिया-कारणानि परिसङ्ख्यातानि -
अधिष्ठानं तथा कर्ता+++(=जीवः)+++
करणं च पृथग्-विधम्।
विविधाश् च पृथक् +++(प्राण-)+++चेष्टा
दैवं चैवात्र पञ्चमम्॥18.14॥
काय-गुणाः कर्तारः,
अथवा गुणानां मूलोद्भावक ऋत-परमाणु-सङ्घातः सेतिहासो ऽनादि-कर्म-सहितः।
गुण-कर्तृत्व-व्यपदेशो यथा -
स्त्रीकामे पुंस्त्वं यौवनं च,
प्रायश्चित्ताद्य्-आचारे नित्यकर्मानुष्ठाने शत्र्व्-अभिज्ञाने वा धर्म-रक्षा-परता शास्त्रादिज्ञान-सहिता,
श्वसने जीवच्-छरीरिता।
एवम् प्रकृतेर् मुक्तिर् हि
साङ्ख्यस्य रहस्यम् आह मञ्जुश्रीः - न पुरुषस्य तावत्।
अनादि-कर्मान्तरा दैवम् इति
परमाण्व्-आदि-कर्मस्व् अ-निश्चितांश-प्रभावकम् अपि।
तद् एव प्रधान-कर्तृत्वम् भजेत - बहुत्र बहुवारम् प्रभावावकाशात्।
अपि च, प्रधान-भोक्तृत्वाद् अपि दैवस्य प्रधान-कर्तृत्वं सिध्यति।
अत्र दृष्टान्तः - कल्याणपुराद् वॆङ्कटाचलं गन्तुम् आत्मनः सङ्कल्पेन नालम् - मार्गस् स्यात्, यानं स्यात्, चोरादिभयं न स्यात्, शरीरे शक्तिस् स्यात् … इत्यादि।
परमाण्व्-आदि-कर्मस्व् अ-निश्चितांश-प्रभावकत्वाद् एव
शास्त्रीयात्मनः कर्तृत्वांश उच्यते।
गौण-भोक्ता, गौण-ज्ञाता च
शरीर-सम्बन्धे प्रतीयमान आत्मा भोक्तेति साधारणी प्रतीतिः।
भोगोऽपि ज्ञान-विशेष एव।
किञ्च, लीलार्थं सर्वं सृष्टं तेनेति कारणेन,
देवगणः प्रधान-भोक्तेति तु लभ्यते ऽनुमानेन, शास्त्रैश् च कैश्चित्।
मृत्युः
मृत्युर् नाम शरीरात्म-सम्बन्ध-विनाशः, प्राण-रोधश् च।
सोऽपि स्वाभाविको, ऽनिवार्यश् च।
पुरुषार्थाः
निर्वचनम्
अर्थ्यन्तय् इत्य् अर्थाः।
प्राणिषु मनुष्यादिषु स-सम्प्रज्ञात-ज्ञानेषु
क्रिया-लक्ष्याणि स्फुटतरम् प्रतिभान्ति विचारे -
“इदं मे सिसाधयिषितम्” इति।
त उद्देशाः पुरुषार्थाः।
ननु पुरुषार्थ-पूर्तिर् जनयति सुखम् इन्द्रियेषु साभ्यन्तरेषु।
उपेयानाम् उपायत्वम्
बहुत्र पुरुशार्थस्य +उपायत्वम् अपि वर्तते, उपेयत्वम् अपि।
एषु स्वयम्-प्रयोजनता वर्तत इत्य् उच्यते।
यथा - सद्-भाव-लक्षणानि यानि वक्ष्यन्ते
(यथा ज्ञानशुद्धिः, सम्प्रज्ञात-ज्ञान-शुद्धिः, सदाचार-परता, देव/ब्रह्माण्ड-किङ्करता …),
तान्य् उपेयानि,
उपाया अपीत्य् अत्र वैचित्र्यम्।
तेनाभेदेनोच्यन्ते।
विशिष्य क्वचित् क्रिया-विशेषः स्वयम् एव फलम् उच्येत -
यथा भगवत्-कैङ्कर्यम्, भागवत-कैङ्कर्यम्।+++(5)+++
विभ्रमः, विभागाः
सीमित-साधन-शक्तेर्, ज्ञान-सन्ततिभ्यश् च
भ्रमो ऽपि सञ्जायते -
“चेतसो ऽभीप्सितेषु, कतमो ग्राह्यः क्रियये"ति।
कृतेष्व् अ-सकृत् पश्चात्-तापो ऽपि भवति।
एवम् प्राणि-प्रेरणा आलोक्य,
+एतासाम् इच्छानां सुव्यवस्था काचन कल्पिता
प्राचीनैः प्राज्ञैः
पुरुषार्थविभाग इति।
एसु विभागेष्व् अयम् प्रसिद्धतमः -
कामः, धर्मः, अर्थः।
एतं त्रितयम् अतिरिच्य मोक्षम् अपि पुरुषार्थं परिगणयन्ति केचित् - तत् पश्चाद् वर्णितम्।
स्रोतशः/ प्राप्तेर् अपि विभागो वक्ष्यते।
पुनः प्रबुद्ध-जीव-कैङ्कर्य-दृष्ट्या पुरुषार्था विभज्यन्ते।
स्रोतशो विभागः
प्राणि-कर्म स्व-भावतः प्राप्तम्, रागतः/ कामतः प्राप्तम्, शास्त्रतः प्राप्तम् इति विभजन्ति।
यथा - भोजन-मात्रं स्वभावतः प्राप्तम्, मधुर-भक्षणं रागतः, तन्-नियमनं शास्त्रतः।
वस्तुतस् तु रागः शास्त्रं च प्राणि-विशेष-स्वभावत एव प्राप्ते।
बुद्धिमत्-प्राणिनस् तु शास्त्र-द्वारोत्तम-प्राणि-स्व-भावान् अनुकुर्वन्ति।
सच्-छास्त्राविरोधेन कामो ऽपि प्रशस्तः।
स्वभावतः
स्वभाव-सिद्ध-प्रेरणाः शास्त्राद्य्-अवलोकनं विनाऽप्य् उपलभ्यन्ते ।
किञ्च, स्वभावस्य शास्त्र-सिद्धाद् देव-नियाम्यत्वात्,
प्रायशः स्वभाव-सिद्ध-प्रेरणानि देव-कैङ्कर्य-पराणीत्य् एव निश्चेतव्यम्।
सुखम्, दुःखाभावः
अन्येच्छानधीनेच्छा जायते।
तन् मुख्यम् -
यथा सुखस्य, दुःखाभावस्य चेच्छा।
साक्षात् परम्परया वा तत्-साधनं तु गौणं -
तत्र सुख-दुःखाभावेच्छयैव इच्छोदयात् गौणत्वम्।
इति प्रसिद्धम्।
स्व-स्वीय-प्राण-प्रज्ञादि-रक्षा
यद् आह -
इदम् अन्तर् इदम् बाह्यम्
इति भेदाच् छरीरजात्।
स्व-स्वीय-रक्षणे जीव-
मूलासक्तिस् स्फुटा मयि॥
स्वप्न-साम्येन बन्धुत्वं
तद्-भेदेनान्यता मिता।
इति स्वीय-पर-ज्ञैस् स्याद्
रक्ष्या पर्ज्ञा चिरम् बुधैः॥
सर्वोऽपि जीवः स्व-स्तरे स्व-प्रज्ञां यथा-सम्भवं रक्षितुं हि
भक्षण-जननादि-व्यापारेषु रतो दृश्यते।
“किम् पुना रक्षणेन फलम्?” इति प्रश्नस्यात्रावकाश एव नास्ति,
स्व-स्तरे स्व-प्रज्ञा-सन्तानम् एव फलम्।
एवं स्व-सन्निवेषे यवत्-सम्भवम् आत्मौन्नत्य-सम्पादनं सर्वस्यापि प्रियम्।
सौन्दर्यम्
अन्तन्तः, सौन्दर्यस्योत्पादनं हि जीवितस्य मुख्यं कर्म - तद् एव भुञ्जते देवाः।
तद्-अर्थं धर्मार्थकामाः क्रमशः साध्याः।
न सुख-मात्र-चिन्तया ऽलम्,
यतो भिन्न-प्रकारक-सुखयोः परस्पर-विरोधो वर्तेत -
यथा मधुरातिभक्षणेन स्वास्थ्य-हानिः।
ऊर्ध्व-मतिभिः सुखापेक्षया सौन्दर्यं मूलतः काङ्क्षितम् -
यत्रापि समुदाय-सौन्दर्यम् परमम्।
सौन्दर्यस्य परा काष्ठा तु
दीर्घ-दर्शिभिर् हि ज्ञायतेतमाम्।
तेन तत्-प्रणीतानि शास्त्राणि काव्यानि च स्व-स्वभाव-परिस्थिति-संवादीन्य् अनुसरणीयानि।
उन्नतं सौन्दर्यं च निरन्तर-भू-रस-चोषण-प्रधान-जीवितेन न सम्भवति,
न चाधुनिक-विज्ञानस्य मनुष्यस्वभावस्य वा निस्सीमोपेक्षया प्राचीनवद् वर्तनेन।
अपि तु, भौतिक-ब्रह्माण्ड-सहित-सर्व-गत-विमल-विज्ञान-रक्षया सह
सत्-सन्तत्या दीर्घं जीवितव्यम्।
अभिमानतः
विशिष्य स्व-स्वीयादिष्व् अभिमानः (अहङ्कारः) पुरुषार्थ-चितौ प्रेरकः।
यथा -
- चितं कार्यं साधु साधयामि। कार्योत्कर्षे ममोत्कर्षः। स्व-परिवारम् अप्य् उपेक्ष्य तत्र रतो भवानि।
- अहं लोक-वृत्तौ वञ्चनादौ च चतुरः। धर्मम् उपेक्ष्य लोकान् वञ्चयित्वा स्वार्थं साधयित्वा तुष्यामि।
- अहं दिवो दासः। भगवद्-भागवत-सेवयैव मम सार्थक्यम्।
- वयं क्षत्रियाः। गो-ब्राह्मण-रक्षायै देह-त्यागेनापि नः स्वर्गः। अधृष्याश्च वयम्।
- धनसम्पादनेन मम महत्त्वम्। इयद् इयन् ममार्जनम्।
- ऐश्वर्यतो ऽहं ममान्। मम ४९ भृत्याः। पूर्वं २ एवास्ताम्।
अभिमानम् बहुशः स्वभावमूलम् इति तस्मिन्न् अपि स्रोत इदम् अन्तर्भाव्येत।
“स्व-स्वभावेषु व्यज्यमानम्” इति
ब्रह्मणो मुख्यम् उद्देशं स्व-काय-गतं कञ्चनोहन्ते।
यथा, ससम्प्रज्ञात-ज्ञानेषु जीवेषु सर्व-विज्ञान-सम्पादनात्मावलोकनादि-प्रवृत्तिमत्सु,
ब्रह्माण्डेन +आत्मावलोकनावगमन-प्रयासार्थम् इव निर्मितो ऽहम्
इति प्रत्ययः स्वाभाविकः।
विस्तारः (द्रष्टुं नोद्यम्)
यथाह Bradbury-Ray -
God reaches for the stars. You are His hand. Creation manifest, you go in search. He goes to find, you go to find. …
You Jonahs traveling in the belly of a new-made metal whale, you swimmers in the far seas of deep space, blaspheme not against yourselves or the frightening twins of yourselves you find among the stars, but ask to understand the miracles which are Space, Time, and Life in the high attics and lost birthing-places of Eternity.
अपरो वदेत् स्वभावतः कविः -
“अपारे काव्यसंसारे कविरेकः प्रजापतिः”। काव्य-रचनया विचित्र-कल्पनाविर्भावनाय +आत्मवर्णनार्थं वा पुष्पितो ऽहम् ब्रह्माण्डवृक्षात्।
अपरो गायकः -
नादमयम् ब्रह्म। नादोपासनार्थं ह्य् उद्गीर्णो ऽहम्।
याजको वापि चिन्तयेद् -
ब्रह्माण्डं नाम कश्चन महान् यागः। तदनुरूपतयाहं यजमानः।
एवं नर्तको ऽभियात्रिको गणितज्ञो व्यापारी कृषिको राजन्यो वापि कल्पयेत्।
एतादृश ऊहस् तु सोत्साहे वृत्ति-प्रधाने जीवनय् उपकरोति।
अन्ये तु तावत् -
जीवनानुवर्तनार्थं हि निर्मितम् इदं शरीरम्।
तद् अतिरिच्य न किञ्चित् स्वाभाविकम्
इत्य् उद्देश-कल्पनास् तिरस्कुर्वन्ति।
शास्त्रतः - देव-कैङ्कर्यम्
बुद्धि-गत-दुःखस्य निर्मूलनं (स्व-रचितेनापि) सच्-छास्त्रेण हि सिध्यतितरां,
न स्वभावमात्रतः, रागतो वा - विचार-सापक्षत्वात्।
पारार्थ्यं, नियाम्यत्वम्
ब्रह्माण्डस्य प्रधान-भोक्ता देव-गणः।
एवं जीवानाम् अपि सिद्धो मूल-भूत उद्देशो भगवत्-प्रीणनम् एव।
(सप्रमाणानुकल्पो विस्तारो ऽन्यत्र
“देवाः → ब्रह्माण्डेन सह सम्बन्धः, उद्देशः, शेष-शेषि-भावः” इत्य्-आदिषु विभागेषु।)
एवं शरीरम् इव स्वरूप-स्थिति-प्रवृत्तिषु यथासम्भवं नियाम्यत्वम् अपि शास्त्र-सिद्धम्।
उत्कर्षो मनुष्येषु
देवता-प्रीणने हि प्रबुद्ध-जीवस्य रतिः।
स्व-शेषत्वावबोधे, बुद्धि-पूर्वक-देव-भोजन-सामर्थ्ये चैव
प्रबुद्ध-विचार-क्षम-जीवानाम् उत्कर्षः।
तेन हि मनुष्य-जन्म प्रशशंसुः।
दासत्वस्याक्षुद्रता
लोके दासत्वं “श्व-वृत्तिर्” इति गर्हितम् - तद् गर्हणं तु दुःखोद्भावक-विषयेष्व् एव युज्यते।
भगवति, राम-निभे वा दास्यं साम्राज्य-प्राप्तिर् इव प्रशस्यते।
आकृत्य्-उद्भावनम्
सृष्टिर् देवानां मूलभूतं कर्म।
जीव-साधरणेन, जड-वस्तुभिर् इव लीला-रसम् आप्तुम् इच्छन्ति देवाः।
यथा व्याघ्रे व्याघ्रत्वम् आविर्-भाव्य
तद् आस्वादयन्ति।
पुनर् मनुष्येषु बुद्धिमत्सु विशिष्टापेक्षा भवन्ति - मानुषौन्नत्यम् इत्यादि।
श्रुति-चोदनम् (द्रष्टुं नोद्यम्)
ईदृश-विचारं चोदयन्तीव श्रुतिः -
अथ यद् इदम् अस्मिन् ब्रह्म-पुरे
दहरं+++(=अल्पं)+++ पुण्डरीकं वेश्म,
दहरो+++(=अल्पो)+++ ऽस्मिन्न् अन्तर आकाशस्
तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं
तद् वाव विजिज्ञासितव्यम्
…
तस्मिन् +++(दहराकाशे)+++ कामाः समाहिताः
सृष्टिलयादिकामो हि देवगणः।
ते हि कामा विज्ञेया बुधैः।
सृष्टौ प्रयोज्यता
काश्चनाकृतीर् न स्वयम् एव साक्षाद् उत्पादयति देव-गणः स्व-सृष्टौ -
अपि तु जीवैर् उत्पादयति।
यथा -
विचित्र-नीडं सीवक-पक्षिणः,
मनुष्यकृतानि द्यौर्यानं, सङ्गणकम्, ग्रन्थाः, trans-uranium अणवः,
सर्पस्य सर्पणम्, उदात्त-चरितानि च राम-निभेषु, नृत्य-गीतादि ।
एवं देवापेक्षा जीवेषु तादृश-विशिष्टाकृत्य्-उत्पत्तिर् अपीति गृहीतव्यम्।
विस्तारः (द्रष्टुं नोद्यम्)
अत्र पद्यरूपेण तद् एव प्रस्तूयते।
लोक-कृन्-निमित्ता हि प्रवृत्तिर् इति इयाम्ब्लिच-निभा प्लातायना अपि -
By sharing in the activity of creation
the theurgist would participate in the ordering of matter,
which was the specific function of the Demiurge as described in Plato’s Timaeus. One’s attitude to the body and matter, then, would be an index of the degree and manner of one’s participation in the Demiurge;
सृष्टौ काव्यानि
ऋत-नियमानां सङ्क्षेपो विस्तारश् च स्व-वाक्यैर् निबध्नन्ति जीवा अबुद्धिमन्तोऽपि -
स्वमस्तिष्कादौ व्यापारेषु च लेखितानि काव्यानीव।
यथा ध्वनि-तरङ्गैश् चर्म-चटेन वस्तु-विन्यासावगतिः,
कैश्चन षट्-पदैर् अतिनील-वर्ण-वीक्षणम्,
कवि-कृत-सुभाषितानि च
तत्-तज्-ज्ञेष्व् अपि मनुष्येषु वस्मयं जनयति, तद्वद् देवेष्व् अपि।
एवं सङ्कुचितम् अपि यथार्थ-बुद्धि-मात्रम् अपि देवैर् भोग्यम् भवति।
अत्र मनुष्या विशिष्टाः -
न च खलु क्षुद्र-जन्तवो ब्रह्माण्ड-सूक्ष्माणि सुपरीक्षित-विचारैक-गम्यानि बोद्धुं शक्नुवन्ति,
यद्य् अपि मनुष्येभ्यो ऽगोचरान् शब्द-गन्ध-रूपादीन्
ते ऽबुद्ध्वाऽपि भगवत्-परत इव संगृह्णन्ति।
विस्तारः (द्रष्टुं नोद्यम्)
You are the thin skin of life upon an unsensing Earth, you are that growing edge of God which manifests itself in hunger for Space.
So much of God lies vibrantly asleep. The very stuffs of worlds and galaxies, they know not themselves.
But here, God stirs in his sleep. You are the stirring. He wakes, you are that wakening. God reaches for the stars. You are His hand. Creation manifest, you go in search. He goes to find, you go to find. Everything you touch along the way, therefore, will be holy.
… Woe to you if you do not find all life most holy, and coming to lay yourself down cannot say, O Father God, you waken me. I waken Thee. Immortal, together we then walk upon the waters of deep space in the new morn which names itself: Forever.
- Ray Badbury
औन्नत्य-स्पृहा
वस्तुतस् तु देवेषु प्रबुद्ध-जीवानां दास्यम्
उत्तम-स्वभाव-व्यवहारयोर् दास्यम्।
कथम् अन्यथा सौन्दर्यस्य सत्-काव्यस्य देव-भोग्यस्योत्पत्तिः?
यद् विपुल-दृष्ट्या ऽऽत्म-हितं,
(न तु मुग्ध-दृष्ट्या शरीरेन्द्रियादि-सङ्कोचाधिक्येन क्षुद्र आत्म-हिताभासः)
तत्-साधनम् एवास्मद्-उन्नत-स्वभावः।
तादृशे व्यवहारे हि
ऋत-माध्यमेन देवगणो ऽनुग्रहपरः,
तद्विपरीते च निग्रहपरः।
उभयथाऽपि देवानां लीलारसो भवत्य् एव।
उत्तम-स्वभाव-व्यवहारादि तु सच्-छास्त्र-काव्यादिषु प्रतिपादितम्,
तथा तद्-अध्ययन-पूर्वकं देश-काल-पात्रोचितम् अनुसरणम् उत्तम-स्वभाव-व्यवहारादि-जनकम्।
तेन सच्-छास्त्र-काव्यादि-दास्याद् अभिन्नं हि दिवो दास्यम्।
तद्-अङ्गत्वेन भागवत-कैङ्कर्यम् मुख्यम्।
मानुष-कैङ्कर्य-विभागः
“किङ् करवाणी"ति भावः कैङ्कर्यम्।
भगवत्-प्रीति-परीवाह-रूपेण क्रियमाणं हि कैङ्कर्यं वीर्त्यवत्तमम्, उत्तमं च।
अकरणे प्रत्यवायम् ईक्षित्वा ऽऽज्ञा-कैङ्कर्यम्,
अनुज्ञा-कैङ्कर्यम् इति द्वेधा कैङ्कर्यम्।
शास्त्र-सुलभा आज्ञा भगवतः।
आज्ञा-कैङ्कर्य-वेलायाम् अनुज्ञा-कैङ्कर्यं निषिद्धम्।
उभयत्राप्य् आराधनं नाम कैङ्कर्यम् अन्तर्भवति।
शेषस्य शेषिणि भाव-गतस्य क्रिया-गतस्य वातिशयस्य +++(न प्रतिकूलस्य)+++ +आधानम् एव +”अराधनम्"।
अथ नाम-मन्त्र-स्तेत्र-गीतादिभिर् देव-जीव-सम्बन्ध-ख्यातिर् अप्य् आराधनाङ्गम्।
एवं कल्पित-शरीरेष्व् अर्चा-मूर्त्य्–आदिष्व् अपि
कल्पितानां +++(स्वशरीरपक्षे)+++ वास्तविकानां वेन्द्रियाणां प्रीणनम्
बहु मन्यन्ते केचित्।
ब्रह्मादि-तत्त्व-ज्ञातॄणाम् आराधनम्
भगवत्-कैङ्कर्यय् उत्कृष्टांशो भागवत-कैङ्कर्यम् इत्य् उच्यताम्।
तत्राप्य् आचार्य-कैङ्कर्यं विशिष्यत इति केचित्।
ननु देव-कार्य-भूतानुग्रह-निग्रहयोः करणत्वं जीवे तत्र स्फुटम्।
देव-गत-शरीरित्वं, जीव-गत-शरीरत्वं च मनसि स्थिरं निधाय
स्वस्मिन्न् उत्कृष्ट-भावाद्य्-अनुभूतिर् देवाराधनायते।
तद् इदम् अन्तर्याम्य्-आराधनम्।
किञ्च, शरीर-शरीरि-भाव-विस्मृत्या ऽऽत्म-प्रीणनं काम-मात्रं क्षुद्रतरम्।
एवम् अनुभूयमानं विषय-सुखम्, लीला वापि देवाराधनाङ्गानि भवन्ति।
कामः
जीवेषु बाह्येन्द्रिय-सुखं सरलम् प्रेरणम्।
तद्-अनुकूला उद्देशा हि काम-विभाग-वर्तिनः।
प्राज्ञ-जीविष्व् इदं जीवान्तर्यामि-देवताराधनं हि।
काम-विभागे लीला
प्रपञ्चे च प्रायेण बालान् क्रीडासक्तान् उत्साहपिण्डान् एव सन्तुष्टतमान् ईक्षे -
तत्रापि ये पित्रनुशासने सन्तो ऽपि स्वानन्द-लोके वर्तन्ते।
एवम् अस्मास्व् अप्य् अन्वेति। धर्म-परिधाव् एव कामानुसरणम् उचितम्।
- सम्प्रज्ञात-ज्ञानेषु लीला यथा (विश्वासचित्ते विना श्रमं) - देवादि-कल्पनम्, (नृत्यतां, क्रीडताम्, धावताम्…) प्राणिनां कल्पनम्।
- चलने यदृच्छया धावनं, क्रीडनम्।
- वचने यथेष्टं गानम्।
धर्मः
क्वचित् प्रजादि-प्रज्ञान-सन्तान-समृद्धिः
स्वाभाव-सहजतया काङ्क्ष्यमाणा
कामार्थ-ह्रासेनापि
उद्देशान्तराणि प्रेरयति।
ते ह्य् उद्देशा धर्म-विभाग-स्थाः।
वस्तुतः सङ्कुचिततर-दृष्ट्यापि,
सन्तत-काम-भोगायाप्य्
अनिवार्यो हि धर्मः।
यथा ऽऽह -
“धर्म एव हतो हन्ति,
धर्मो रक्षति रक्षितः”।
धारणात् धर्म इत्य् आहुर्
धर्मो धारयते प्रजाः।
यत् स्याद् धारण-संयुक्तं
स धर्म इति निश्चयः॥
नूनं धर्मो देवानुग्रह-प्रेरकः,
अ-धर्मश् च देवकृत-निग्रह-प्रेरकः।
तद् इदं ऋते विलिखितम् इव,
इतिहासावलोकन-सुलभम्।
प्राज्ञ-जीव-दृष्ट्या
नाना-जीव-विषयक–
स्व-करणकौ देवाभीष्ट-निग्रहानुग्रहौ हि धर्म इति कथ्यमानौ।
तादृशः प्राज्ञः स्व-भावतो देवानुकूल-निग्राहानुग्रह-क्षण-प्रतीक्षो भवति।
तद् इयम् अपि प्रतीक्षा धर्मे ऽन्तर्भवति - सदाचाराख्य-कर्म-रूपेणापि।
अभिज्ञानम्
धर्माभिज्ञानम् एवम् आह-
वेदो ऽखिलो धर्म-मूलं
स्मृति-शीले च तद्-विदाम्।
आचारश् चैव साधूनाम्
आत्म-सन्तुष्टिर् एव च॥
तत्रोपविभागौ - साधारणधर्मः, विशेषधर्म इति।
विशेष-धर्मे ऽन्तर् भवन्ति - वर्ण-धर्मः, आश्रम-धर्मः, वर्णाश्रम-धर्मः, गुण-धर्मः, आपद्-धर्म इत्य्-आदि।
देश-काल-पात्रानुसारेणापि धर्मो भिद्यते। यथा-
न खलु शबलित-जन-समुदाये वर्तमानो राष्ट्र-धर्मो
वर्तेत समानतर-जन-समुदाये।
अ-धर्मेषु भागवतापचार आचार्यापचारश् च विशिष्यते।
पुनस् तत्र “सत्य-वचन-मात्रेणापचरितम्”
इति न मन्तव्यम् - सत्य-विवक्षायाः सदाचारङ्गत्वेन धर्मत्वात्।
अर्थः
धर्म-कामयोस् साधनम् अत्र प्रेरणं स्वस्थेषु।
धर्म-कामयोस् साधनार्थं साधनानां वित्तगृहादीनां सङ्ग्रहो ऽत्र।
उत्तमस्थितौ देवाराधनार्था एवार्था इष्यन्ते, नेतरे।
- तत्र प्रधानं स्वास्थ्यं दैहिकं मानसिकं च। ततः - प्रजाः, सत्सङ्गः, वित्तम्, ऐश्वर्यम्।
ज्ञान-सम्पत्तिः
प्रवृत्तौ निवृत्तौ वा तत्त्व-दर्शनानुसारेण क्रिया-कल्पः फलति, सुख-दुःखे च।
तत्र सम्प्रज्ञात-ज्ञान-धाराः प्रयुज्यन्ते - ज्ञान-सम्पादने ऽपि।
तेषु शुद्धिर् विशिष्य लक्ष्येत।
तत्त्व-ज्ञान-पूर्णस्य सद्-भावाः सहजाः।
अवर-जन्तुषु
सिंह-कुक्कुरादि-प्राणिनः शरीरात्मवादितमाः।
नास्ति तेषां प्रायेण लेश-मात्रम् अपि ब्रह्म-ज्ञानम् -
विचाराभाव एव व्यावर्तको भाति मनुष्येभ्यः।
विचार-नैयून्यात् तु तेषु विचार-व्याधयो न्यूनतराः।
शुनकेषु जाति-द्वेषोऽपि दृश्यत
इति प्रत्यक्ष-सिद्धम्।
न च ते बुभुक्षामात्रेण परान् हन्ति - चापलेनालम्।
शुद्धि-लक्षणानि
उत्तमे जने ज्ञानं सु-परिष्कृतं वर्तते।
स्व-ज्ञान-सीमाऽपि तेन प्रज्ञायते।
शुद्धेषु सम्प्रज्ञात-ज्ञानेषु
प्रामाणिकता, ऽमानिता, सत्यान्वेषणं च भवति।
आनन्दोल्लासाद्य् अपि लक्ष्यते।
नियाम्यता-स्मृताव् आनन्दस्रोतः (द्रष्टुं नोद्यम्)
आ-वैफल्य+आ-पूर्ण-साफल्य-सम्भावनां +++(→probability distribution)+++ पुरस्कृत्य जीवन्
न निराशाम् अश्नुते -
फलाग्रहं हि सा वारयति।
लीलायाम् एतल् लक्ष्यते।
भोजोक्तरीत्या नाट्य-प्रेक्षकेण पात्रैक्यभावनेन रसानुभवो हि नाट्यानन्द-जनन-प्रक्रियां बोधयितुं समर्थतरम् (अभिनवगुप्तोक्त-साधारणीकरण-प्रक्रियाया अपेक्षया)।
खेलेक्षणे ऽप्य् एतद् अन्वेति।
नटस्य तु प्रायेण प्रेक्षकवद्-भावेन प्रेक्षकवद् आनन्दो जायते।
एवं क्रीडकस्यापीति प्रतिभाति।
सर्वत्रेह सहृदयभावो मूलं दुःखाभावस्य सुखाप्तेश् च।
पात्रैक्यभावो स्व-मिथ्यात्वाङ्गीकार-सङ्गत इति कारणेन
प्रयत्न-वैफल्ये प्रातिकूल्ये वा
न विषादः।
प्रयत्न-साफल्ये ऽन्यथानुकूल्ये तु
पात्रैक्य-भाव-मात्रेणानन्दाप्तिः ।
रूढिः
ज्ञानम् अवितर्कितम् उपलभ्येत
अ-सम्प्रज्ञात-ज्ञानावस्थायाम् अपि -
भाव-स्तरे रूढः स्यात्।
अयं तत्त्वावेश इत्य् उच्यते।
एवं श्रीवैष्णवा अपि स्वरूपोपाय-प्राप्येषु निष्ठां प्रशशंसुः।
तदा मनस्य् अहङ्कारः, स्मृतिः, कल्पना इत्य् अन्तरङ्गेन्द्रिय-वृत्तयः सुख-द-प्राया भवन्ति।
उपायाः
अध्यात्मादि-सुविचारे पुनः पुनः क्रियमाणे रूढिर् जायते।
यथा वेङ्कटनाथार्य आह -
+++(पूर्वोक्त-स्वरूपोपाय-प्राप्य-निष्ठया)+++ सन्तोषार्थं विमृशति मुहुस् सद्भिर् अध्यात्म-विद्यां,
नित्यं ब्रूते, निशमयति च स्वादु सु-व्याहृतानि ।
परं सम्पादित-ज्ञानस्य प्रयोग-प्रवणतायाम्, परिशोधने, स्थिरीभावे
चाभ्यासः शरणम्।
प्रारम्भिक-दशायां तु सन्तापो ऽनिवार्यः।
यथोचुः -
“पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
आपत्काले समुत्पन्ने न सा विद्या न तद् धनम्।
प्रवृत्ति-निवृत्ति-विभागयोर् विस्तारेणोपाया द्रष्टव्याः।
ज्ञान-शुद्ध्या सुरूढया सुस्मृतया सम्प्रज्ञात-ज्ञान-शुद्धिर् अपि सङ्गच्छते।
दोषाभावार्थं गाम्भीर्यार्थं च काश्चन सम्प्रज्ञात-ज्ञान-शृङ्खला लिख्येरन्, परीक्ष्येरन्, वर्ध्येरन्।
स्रोतांसि
विचार-स्पष्टता प्रथमं लभ्या। तत्र नैके मार्गाः। यथा -
- ज्ञान-संस्कार उत्तम-जन-चरित्रावलोकनैः काव्यादिभिः साध्यः।
- बुद्धिम् आत्मनि वर्तयेत्। “कोऽहम्” इति चिन्तयेत्। शास्त्रं चिन्तयेत्। तत्त्वावेशं सम्पादयेत्।
- बुद्धिं देवेषु वर्तयेत्।
बहुशस् तु देवा एव +असह्य-परिस्थितिभिर्
बुद्धिमन्तं तत्त्व-ज्ञं विदधति।
विषयाः
मुख्यं ज्ञानं चेतो-विषयकम्।
तत्रापि विशिष्य
बन्ध-मोक्ष-विषयः, तर्क-शुद्धिः, पुरुषार्था, देव-कथाश् च ज्ञेयाः।
जीवेषु प्रवृत्ति-निवृत्ति-नैपुण्यात् सुखोद्रेकः।
शक्तिः
तथा स्व-शक्तिर् अपि गणनीया।
अ-शक्तस्य धर्माचाराद्य्-अभावे तुष्टि-नाशो न स्यात्।
यथा-सम्भवं शक्तिर् वर्धनीया, तद्-अभावे शक्ति-विकलता ऽङ्गी-करणीया।
एवञ् च विना विश्रान्तिम्
एषाम् अनुधावने ऽप्य् आनन्द-नाशः -
अ-सम्प्रज्ञात-ज्ञानावस्थासु सुविश्रान्तेनैव साधनीयाः।
वास-परिसरः
वास-परिसरः प्रजा-प्रज्ञानुकूलस् स्यात्।
शारीरिक-सुरक्षा स्यात्।
तद्-अन्तरा प्रजोत्पत्त्यै योग्यानां वराणां वधूनां वा सौलभ्यं स्यात्।
प्रजा-प्रज्ञा-वृद्ध्याय् उचितो ऽवकाशः स्यात्।
जन-साधारणे
स्वस्मिन्, स्व-परिसरे चोल्लासो वर्धनीयो रक्षणीयश् च।
तद्-अर्थं कलुषा जना क्वचिद् दूरे निधातव्याः,
क्वचिद् योद्धव्याः,
क्वचिद् यथासम्भवं चिकित्सनीयाश् च।
लोकापकारतो हि क्रोधादि बहु जायतेतमाम्।
बन्धु-मित्रादिषु
बन्धु-मित्रादिषु स-जातीयेषु स-देशीयेषु च धर्मतो ऽर्थतश् च
स्वाभाविकः सम्बन्धो वर्तते।
धर्म-सम्बन्धो ऽन्यत्रोक्तः।
अर्थ-दृष्ट्या बन्ध्व्-आदिभ्य इमे लाभाः -
सद्-वृत्तिषु सदाचार-रक्षणे च प्रेरणम्,
आपदि साहाय्यम्,
प्रजा-वधू-वर-सम्पर्क
इत्य्-आदि।
क्वचित् तु बन्ध्वादिभ्य इमे ऽनर्था अपि लभ्येरन् -
ईर्ष्या-प्रेरितो दुर्-अहङ्कार-प्रेरितो वा द्वेषः,
सद्-वृत्त्य्-आदौ प्रतिकूलाग्रहः,
कस्यचिद् औन्नत्यय् ईर्ष्या-वञ्चनादि,
राक्षस-मतादि-स्वीकारः,
सत्-प्रज्ञा-विनाश-पथ-ग्रहणम्।
सत्य् एवं तत्-त्याग एव वरः -
त्याज्यो दुष्टः प्रियोऽप्य् आसीद्।
अङ्गुलीवोरगक्षता॥
इत्य् उक्तया रीत्या।
आप्त-त्यागेऽस्मिन्न् अनर्थाभासश् चेद् अपि,
वस्तुतो ऽर्थ एव स्पष्ट-चिन्तकैर् ईक्ष्यते।
एवं प्रह्लादो, विभीषणः, सुग्रीवः, युयुत्सुः, भरतः, पाण्डवा इत्य्-आदयो ऽवर्तन्त।
प्राणिषु cordyceps-रोग-ग्रस्तम् बन्धुं सत्वरं निष्कासयन्ति पिपीलिकाः।
पुनः प्राज्ञ-वैमुख्यम् इदम्
तेषु त्यक्तेषु देव-प्रेरितो निग्रह-रूपो धर्म एव,
यद्-अग्रिम-दशा युद्धम् अपि स्यात् - महाभारतवत्।
वस्तुतस् तु बान्धव्यम् एवम् परिभाष्येत -
स्वप्न-साम्येन बन्धुत्वं
तद्-भेदेनान्यता मिता।
इति स्वीय-पर-ज्ञैस् स्याद्
रक्ष्या पर्ज्ञा चिरम् बुधैः॥
रामानुजोक्तिः
तत्र रामानुजोपदेशो ऽपि ग्राह्यः -
एवं वर्तमानेनाधिकारिणा
अग्रे पद-न्यास-स्थल-दर्शनेन वर्तितुम्
अपेक्षितास् त्रयो विषयाः सन्ति ।
ते यथा — अनुकूलाः, प्रतिकूला अनुभये चेति ।
अनुकूलाः श्रीवैष्णवाः ।
प्रतिकूला भगवद्-द्विषः ।
अनुभये एतद्-उभय-हीनाः संसारिणः ।अत्रानुकूलेषु दृष्टेषु चन्दन-कुसुमादिष्व् इव
चन्द्रिका दक्षिणानिलयोर् इव
अभिमत-विषयेष्व् इव आहत्य वर्तत ।प्रतिकूलानां दर्शने सर्पाग्नि-दर्शन इव
समुद्विजमानो वर्तेत ।अनुभयेषां दर्शने
काष्ठ-लोष्टादि-दर्शन इव
तृणवत् कृत्य वर्तेत । एते चेद् अनुकूलाः,
एतेभ्यो ज्ञानस्योत्पादनम्,
एते चेन् नानुकूलाः,
तर्हि “हा हन्ते"ति +एषां विषये कृपा-करणम् अपि युक्तम्।एवं-वर्तनस्य प्रतिबन्धकम् अर्थकामयोः प्रावण्यम् ।
अर्थकामौ निमित्तीकृत्य
श्रीवैष्णवान् अनादृत्य स्थितश् चेत्, तर्हि -सार्वभौमस्य सतः कस्यचिद् राज्ञः पुत्रं
राज-सन्निधौ परिभवेच् चेत्
राजा यथा जुगुप्सेत -
तथा भगवान् कुपित-मनस्कः स्यात् ।अर्थ-काम-वशात् प्रतिकूलान् आदृत्य स्थितश् चेत्,
राज्ञि सार्वभौमे वर्तमाने
राज-महिष्याः क्षुद्र-जन्तूनां सविधे वसनाञ्चलं प्रसार्य भिक्षणे प्रवृत्तौ
तस्य राजावद्यावहत्वात्
तेन निमित्तेन तां स यथा तिरस्-कुर्यात्तथा भगवान् अन्तःकरणेनैनं तिरस्-कुर्यात् ।
अर्थ-काम-वशाद् अनुभयेषाम् आदरणे,
“रत्न-पाषाणयोस् तारतम्यम् अजानत इवास्य जातं ज्ञानं
कार्यकरं न संपन्नं किले"ति
तद्-विषये भगवान् अनादरं कुर्वीत।
वृत्तिः
बहुदा ऽर्थोपार्जनाय, काम-प्राप्त्यै, धर्म-साधनाय च काचित् प्रधाना वृत्तिर् अवलम्भ्यते।
धर्माविरोधिनी स्वभानुसारिणी पर्याप्तार्थदात्री च स्यान् मुख्या वृत्तिः।
+++(एतद्ध्य् उषःपुत्राः केचिद् ikigai-शब्देनाहुः।)+++
मनुर् आह -
यत् कर्म कुर्वतो ऽस्य स्यात्
परितोषो ऽन्तर्-आत्मनः ।
तत् प्रयत्नेन कुर्वीत
विपरीतं तु वर्जयेत् ॥ ४.१६१ ॥
भिन्नास्व् अवस्थासु भिन्ना वृत्तयः प्रामुख्यं भजेरन्,
यथा बाल्ये विद्यासङ्ग्रहणम्,
ब्राह्मण्ये यौवने च सत्य् अध्यापनम्,
यौवने दारिद्र्ये धनिक-सेवा …।
यद् ऊहन्ते
शरीर-स्व-भावान् अवलम्ब्य केचिद्
“ब्रह्माण्डं मत्-कायेनात्मानं कवयितुम् इच्छति”,
“ब्रह्माण्डं मत्-कायेनात्मानं जिज्ञासते” इत्य्-आदि,
तैर् ऊहैः कर्मसु काचित् सन्तृप्तिर् उत्साहश् च लभ्यते।
तेन जीव-ब्रह्मणोश् शरीर-शरीरि-भावो राजते।
शरीर-स्वभाव-वैशिष्ट्याभावे कुल-स्वभावः, कुल-धर्मश् चावेक्षणीयः।
पुनः, धर्म-शास्त्रेषु लिङ्ग-वर्ण-पात्रादि-धर्माः प्रोक्ताः तत्-तत्-स्वभाव-प्रेरिताः - तद् अप्य् आश्रयणीयम्।
देव-पूजैक-परता
देव-पूजैक-चित्तानां वृत्तिर् विलक्षणा।
स्व-भावतस् ते कर्मान्तरेभ्यो निवर्तन्त इव।
देवता-कल्पनय् उन्मत्ता इव लक्ष्यन्ते।
वैष्णवैषु परमैकान्तिनस् तादृशा उच्यन्ते।
तेषां च “पञ्च-काल-परायण”-वृत्तिर् उच्यते आह्निक-ग्रन्थेषु रामानुजादिकृतेषु।
तद्-भिन्न-स्वभावैस् तु
सा वृत्तिर् नानुकरणीया देव-दत्त-स्वभाव-विरोधिनी।
केचन स्युर् नान-तत्त्व-जिज्ञासा-गृहीत-मानसः, अपरे नादोपासकाः,
इतरे राज्यपालनपराः …।
मृत्युः
स्वाभाविक-प्रवृत्तिम् अनुसृत्य
+उल्लासपूर्णा,
प्रामुख्य-क्रमशो - मानसिकैः शारीरिकैः प्रापञ्चिकैश् च व्याधिभिर् अपराजिताश् च यथा स्याम,
तथा जीवनीयम्।+++(5)+++
यदा त्व् एतन् न सम्भाव्यते,
तदा, न च ततः पूर्वम्,
शरीरं यथाशक्ति सुखेन त्याज्यम्।
ततः प्राक्, स्वसम्पत्तिं जगत्-परिस्थितिं चावेक्ष्य,
यद्य् उल्लास–लोक-कल्याणे नव-शरीरान्तरेण साध्ये भातः,
परिमितानि शरीरान्तराणि प्रजोत्पत्त्या स्रष्टव्यानि।
एवं ज्ञानिनो
जीवनानुवर्तने, तन्-निरोधे च
काम-धर्मौ हेतू।
एतद् एव जनान्तरे ऽभीप्सेत्,
विशिष्य स्वानुरूपेषु स्व-शरीरान्तर-निभेषु स्व-प्रजासु।
तेन, विशिष्ट-सन्दर्भेषु,
तद्-अनुत्पत्तिः, शरीर-त्यागे-साहाय्यं वापि प्रसज्येत।
प्रभुत्व-स्पर्धासु च क्षत्रियादि-सहजेषु पर-मारणम् अप्य् अन्तर्भवति।
जीव-मृत्यु-सूत्राणि
उल्लास-पूर्णाः स्याम,
मानसिकैः शारीरिकैः प्रापञ्चिकैश् च व्याधिभिर् अपराजिताः।
तस्मिन्न् असाध्ये वरा मृतिः।
प्रजोत्पत्त्या शरिर-पातेऽपि जीवनानुवृत्तिः।
आनन्द-साध्यतां, स्वं, लोक-कल्याणं चावेक्ष्य हि सा।
ज्ञानिना जीवनानुवर्तने काम-धर्मौ हेतू।
युगेऽस्मिन् लोको भ्रष्ट इति
विज्ञानादि-लयं प्रति धावतीव।
तेन स्व-शक्ति-परिमाणान्य् अवगत्य
प्रामुख्य-क्रमशः - स्वस्मिन्, प्रजासु, परिवारे, मित्रेषु, लोके च
सद्-उल्लासो वर्धनीयो रक्षणीयश् च।
तद्-अभावे वरं मृत्यौ साहाय्यम्।
क्षात्र-स्पर्धासु तु मारणम् अपि युज्यते।
अस्यैव पद्यरूपं किञ्चन ।
English
- Bodies die. Societies die. Entire species die. Planets become uninhabitable. Universe will die too.
- How do we respond to this? We can’t hope to extend our lives or the lives of our genes or the lives of our thoughts for ever. We can only try to ensure that while we (as individuals, societies or cultures) live, we live gloriously.
यत् तु शरीर-लोभेन
प्रजा-सहोदराद्य्-अर्थ-महा-क्षयेण मृत्युं विलम्बयन्ति, तद् अनुचितम्।
व्याधयः
बहुविधा जीवानां स-शरीराणां व्याधयः, यैः पीड्यन्तेतरां जीवाः।
केचिद् बहिरङ्ग-निष्ठाः शारीरिकाः, केचिद् अन्तःकरण-निष्ठाः।
अन्तःकरण-निष्ठेषु -
बन्धः, धर्म-विरोधः, नाना-विधोन्मादाश् च।
व्यक्ति-व्याधि-सङ्ग्रहो हि लोक-व्याधीयते।
उन्मादाः
उन्मादेषु एक-राक्षसाराधनाग्रहाः, अ-देवताग्रहः, शोषक-शोषितताग्रहः प्रसिद्धाः।
अ-सम्प्रज्ञात-ज्ञानावस्थायां संशय-राहित्यं क्षुद्र-(पिशाचादि)-ग्रहेष्व् अपि दृश्यते -
उन्मादावेशे ऽपि।
किञ्च तद् अहितं हेयं चान्ततः।
पूर्णतर-ज्ञान-मूला ऽसंशीतिर् हि वरीयसी।
स्वात्मानुभवमात्र-मत्तास् तुष्टाः धर्मोपेक्षापरा निषिद्ध-परिग्रह-पराः दृश्येरन्।
तीव्रो धर्म-विरोधः
तीव्रो धर्मविरोधो ऽपि कश्चन रोगः।
अ-पक्व-दशायां कामादि-वशाद् ईषद्-विरोधस् तु स्वाभाविकः।
क्षुद्रा लोकाः उत्कर्षं द्विषन्ति -
ईर्ष्या-पूर्णास् तय् अभिजातान् अपि जनान् स्व-स्तरम् प्रत्य् आकर्षन्ति।
धर्म-विरोधेन मुमुक्षा ऽपि व्याधिर् एव।
सद्-ब्रह्म-क्षत्र-नेतृत्व-विहीन-प्रायो लोकः
प्राक्तन-युगापेक्षयाप्य् अस्मिन् कलौ “घर्म”-युगे मध्ये
प्रायेण धर्माच् च्युतः -
नाना-विधैर् उन्मादैः, परिसर-दूषणेन, लुब्धवद् वसु-चोषणेन च।
तेन सत्-सभ्यता-नाशम् प्रति, शिला-युगम् प्रति, मानव-सर्व-नाशम् प्रति वा धावतीव।
धर्म-स्वाभाविकता
यद् वदन्ति केचित् -
जानामि धर्मं न च मे प्रवृत्तिः
जानाम्य् अधर्मं न च मे निवृत्तिः।
केनापि देवेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥
तत्र तेषां स्वभाव-परीक्षा ऽसमीचीनैव स्याद् इति वाच्यम्,
यतो धर्मः स्वभावानुकूल एव - सोल्लास-स्व-जीवितानुवर्तनस्यानुकूल्यत्वात्।
स च धर्मो बहुसहस्र-वर्षाणां परीक्षाम् तीर्त्वा
व्यवस्थापितो महा-जनैः क्रान्त-दर्शिभिः।
बन्धो मोक्षश् च
जीवस्य दुःखाप्तिर् अ-कौशलं च कर्मसु बन्धः।
तद् यथा - सम्प्रज्ञात-ज्ञान-श्रमेण समस्या-परिजिहीर्षैव समस्यायते!
+++(शास्त्रान्तरे पुनर्जन्म-संसृतिर् इत्य् आहुः।)+++
उल्लासादि-सद्-भाव-स्थीरी-करणं तन्-मोक्षः।
मृत्योः प्राक्? (द्रष्टुं नोद्यम्)
एतन् मृत्योः प्राक् सम्भवति नवेति विवदन्ते - आत्यन्तिक-मोक्षः शरीरपातं यावन् न भवतीति तु बहवो नानाशब्दैर् अङ्गीचक्रुः।
साधनानि
सद्-भाव-निष्ठा ऽग्रे वर्ण्यते।
सैव मृत्योः प्राक् सम्भाव्यमाना ऽस्मद्-अभीष्टतमा मोक्षाख्येया।
अन्यथापि मोक्ष-साधनानि धर्मार्थ-काम-साधनानीव
देव-प्रेरितानि प्रसिद्धानि
प्राचीनेषु शास्त्रेषु।
शरीर-व्याधयः
शौचम्
नाना-विधैर् विषैः शरीर-स्वास्थ्यं नश्यति।
तेष्व् अतिशयेन मदिरादि-मादकाः, सीसादि-कुलोहाः, धूमश् चेति बहूनि सबुद्धिकानि शरीराण्य् अनाशयन्।
औद्यमिके युगे तु “औषध”-नाम्ना बहुविधानि विषाण्य् अपि मुग्ध-जन-शरीरेषु प्रवेशितानि।
सूक्ष्म-कृमयः virus, bacteria, protozoa, fungus इत्य्-आदयो ऽपि शरीरम् आक्रम्य
स्वार्थाय तत्-स्वास्थ्यं नाशयन्ति।
यथा-शक्ति तत्-प्रतिबन्धः कर्यः।
ततः शौचम् अत्यावश्यकम्।
श्वसनम्, पानम्, पचनं, भोजनं, यभनम्, पर-प्राणि-दंश इत्य् एतेषु विशिष्य शुद्धिः स्यात्।
शुद्धि-प्रकारो भूत-जीवादि-विज्ञानतः, बुध-जनानुभवतश् च विज्ञेयः -
यथा - पाक-भोजन-पात्र-शुद्धिः, जल-शुद्धिः, हस्त-शुद्धिः, दन्त-शुद्धिः, वायु-शुद्धिः, सुरक्षित-जनेष्व् एव यभनम् ।
नाना-विध-शुद्धि-क्रिया अभ्यास-रूढास् स्युः -
पवित्रम् इति मतायां दिनचर्यायाम् अन्तर्भावेन।
विषैः कृमिभिर् वाक्रान्ते शरीरे,
तच्-चिकित्सा तु चिन्तनीया।
क्षते रक्षा
स्थूलाः प्राणिनः कुक्कुर-मनुष्यादयो, वाय्व्-आदीन्य् अचेतांस्य् अपि शरीरं च्छेत्तुं भञ्जितुं च शक्नुवन्ति।
यद्य् अप्य् अल्पाः क्षतयो ऽनिवार्याः, स्पृहणीयाश् च शक्ति-वीर्यादि-वृद्ध्यै,
महा-व्रणा वारणीयाः।
व्रणे जाते, तच्चिकित्सा तु चिन्तनीया।
तत्र व्यायामः, शस्त्राभ्यासः, नीति-प्रयोगश् चोपादेयाः।
पुष्टिः
अपर्याप्त-पुष्ट्या रोग-व्रणादि वर्ततेतराम्।
पुनः कुपोषणतो मधुमेहादि-रोगा जायन्ते।
ततः, सद्-आहारो ग्राह्यः - हितः, मितः, पुष्टिदायकः।
व्यायामश् चाप्य् अनिवार्यः, सुनिद्रा च।
ईदृश्यः पौष्टिक-क्रिया अभ्यास-रूढास् स्युः -
पवित्रम् इति मतायां दिनचर्यायाम् अन्तर्भावेन।
पुष्टेर् लक्षणान्य् अस्थूलता, स्नायु-समृद्धिः, सन्तत-व्यायाम-सामर्थ्यं, वीर्यं चेति।
पुष्ट्याय् अलं सूर्यकिरणानि सेवनीयानि, जल-स्थ-कणा अपि ग्राह्याः।
क्वचित् क्षीनरो-गाणु-सेवनेन महारोगा वारणीयास् स्युः -यथा chicken-pox रोगतः small-pox।
जीवानन्दः
कथं तेनानन्दः साध्यः?
इत्य् अत्र विचार्यते।
प्रमाणानि
पुरुषार्थ-विभागौचित्ये,
तेषु परस्-पर-विरोधे प्रामुख्य-निश्चये,
तत्-साधन-तारतम्येनानन्द-तारतम्ये च
प्राज्ञतमानां -
लोको (आन्तरिको बाह्यो वा) हि मूलम् प्रमाणम्।
लोक-ज्ञानार्थं प्रत्यक्षानुमानागमादीनि प्रयुञ्जीरन्,
तत्-प्रतिबिम्बकानि काव्यानि च पठेयुः,
देश-काल-पात्राद्य्-उचित-परिष्कारेण सह।
दर्शन-पटुषु केचिद्
वर्णन-पटवः कवयो
ऽन्योपदेशे निपुणा लोकम् उपकुर्वन्ति।
भिन्न-भिन्न-जनाः कथम् अजीवन्,
किम् अकुर्वन्,
कानि फलान्य् अलभन्तेत्य् अवेक्षणीयम्।
विस्तारः (द्रष्टुं नोद्यम्)
अन्यत्रावलिः काचित्।
आनन्द-लक्षणानि प्रकीर्णानि
तापानिवार्यता
शरीर-बद्ध-जीवेष्व् अविच्छिन्नोल्लासो न शक्यः।
न हि साधारणं जीव-शरीरम्
एक-तान-रीत्या कञ्चन भावम् अनुभवितुं क्षमम्।
उल्लास-क्षण-बाहुल्यं तु कलयितुं शक्यम्।
अल्पत्वम् अस्थिरत्वम्
+++(प्रयासतः→)+++ दुःख-मूलत्वम् दुःख-मिश्रत्वम् दुःखोदर्कत्वम् +++(←फलत्वम्)+++
विपरीताभिमान-मूलत्वम् स्वाभाविकानन्द-विरुद्धत्वम्
इति दोष-सप्तकम् आह वेङ्कटनाथार्यः।
सैव बुद्धि-शक्तिः, स एव संसारः, सैव च दुर्-ग्राह्या शुद्धा संवित्, तान्य् एव कर्माणि, तद् एव शरीरम्, त एव बान्धवाः -
एभ्य आत्मानम् मोचयितुं कथञ्चिद् अपि न शक्यम्
(“आहा - अ-सम्प्रज्ञात-संविदं साक्षात्-कृत्य धन्यतमो भवामी"ति वा, “ओहो - श्रीकृष्णवद् अहम् प्राज्ञो भवामी"ति वा, “मत्सहाय्या मॊङ्गोल-सेनापति-सदृशा भवितार” इति वा) ।
यद् एवास्ति
तेनैव लीलात्मकताम् प्रधानंं कृत्वा
पुरुषार्थास् साधनीयाः स्वतृप्त्यै।
English
Barring freaks, You’ll never escape “samsAra”, “nirvikalpAvasthA” will never be experienced. Your bandhus will not magically turn into geniuses (same with you).
Rather focus on being “playful” (ergo joyful) while pursuing the 3 puruShArtha-s with the limited apparatus provided.
सद्-भाव-निष्ठा
स्वावस्थासु च सन्तृप्तिः स्यात्। सौन्दर्यं स्यात्।
सद्-भावो नाम ज्ञान-विशेषो यः सुख-कर-प्रायः, हितश् च।
विविधास् ते भवन्ति।
तादृश-ज्ञानानाम् पुनर्-आवर्तन-सन्ततिस् सद्-भाव-निष्ठा।
लोकान्तरय् आनन्दः
केचित् तु श्रीवैष्णव-निभाः लोकान्तरे ऽप्य् आनन्दं दुःखामिश्रम् अकल्पयन्।
इन्द्रियाधीनता
अस्मिन् प्रपञ्चे
शरीर-बद्ध-जीवानाम् भोगा मनस्-सहितेन्द्रिय-द्वारा भवति।
इन्द्रिय-शक्तयस् तु परिमिताः,
तेन तादृश-भोगोऽपि परिमितः।
देवानां मुक्तानां च नायं दोषः।
पुनर् बद्धावस्थायां भोगास् स-व्यवधानाः।
ऐश्वर्यम् अप्य् अन्तत इन्द्रिय-द्वारैव सुखं जनयति।
तथाऽपि, “प्रथमं प्रीति-साधनानीमानि मनआदीनी"ति यः स्मरति, स तुष्टतमः।
कारिकाः
बाह्येन्द्रियैः स्मृतेर् बुद्ध्या
विषैर् वैव मनस्-तुदैः।
प्रीतिर् लभ्या तनौ बद्धैश्,
चेयं योग्यं बुधैस् ततः॥
प्रीति-साधन-सम्पत्तिं
लब्ध्वा को वा महामतिः।
दुःखानि साधयेन्, मुग्धा
यथा लोका इमे बत॥
अन्तःकरण-प्रामुख्यम्
अन्तःकरणाख्येष्व् इन्द्रियेषु मनः, अहङ्कारः /अभिमानम्, ज्ञातेन्द्रियम्, अनुमानेन्द्रियं च वर्तेते।
तेषं त्व् इतरापेक्षया ऽल्पतरा परिमितता।
पुनर्, अन्तरङ्गम् एव हीन्द्रियान्तर-नियमने समर्थतरम्।
अतोऽह्य् अग्रे ऽन्तःकरण-प्रधाना भवति विचारणा।
परोपपत्तिः (द्रष्टुं नोद्यम्)
“अहङ्कारस्य तृप्तिर् एव सन्तोषो ऽन्तत” इत्य् आहुर् गणेश–दॆवुडु-नरसिंह-कवि-निभाः।
ततस् सुखम्
स्मृति-रूपा भक्तिस् तद्-आधारेण वर्तत इति
भगवताम् भोग्यत्वातिशयो बद्धावस्थायाम् अपि।
यत् किञ्चित् सुखं च बहिष्टाल् लभ्यते, तत् क्षणिकम्।
आत्मनः स्वानुकूल्यं, भगवत्-स्मृत्य्-आदि हि शाश्वत-तरम् इति स्थितिः।
ततो दुःखम्
अन्तःकरण-मूलं दुःखम् अपि बहु दृश्यते, विशिष्य दुर्-अहङ्कारतः -
यथा
अहम् आत्मानम् ईदृशम् मन्ये ऽन्यपेक्षया,
अन्ये तु माम् अन्यादृशम् ईक्षन्ते
इति क्षोभः।
एवं-विधं दुःखम् इतरेन्द्रियपीडनाद् अभ्यधिकम्।
आत्मानन्दः
अन्ततः स्वात्मा तद्-दिव्य-चिन्तनानि चैव स्थिर-भोग्यानि।
शिल्प-परिश्रम-योग्यतमं वस्तु चात्मैव, नान्यत्।
English
Ultimately, the only lasting, reliable enjoyment is one’s own self (+divine thoughts);
the only thing really worth working on is one’s self.
अवस्थान्तर-कल्पनम्
श्रीवैष्णव-निभाः केचिद्
इन्द्रिय-निरपेक्ष-स्वेतर-ज्ञानानुभव-स्थितिम् आहुर्
जीवस्य मुक्तस्य।
तत्रेन्द्रियापेक्षां विनैव स-विभूतिक-भगवद्-अनुभव-जं सुखं लभ्यत
इति कल्पनम्।
तद् अन्तरा भगवत्-कैङ्कर्योचिताम् इन्द्रिय-सम्पत्तिं यथापेक्षं लभन्त इत्य् अपि भाव्यते।
पुरुषार्थ-निश्चयः
वृत्तिनिश्चयाद्य् अन्योत्रोक्तम्। अत्र क्षणिक-दृष्ट्या पुरुषार्थनिश्चयो विचार्यते।
प्रयोजनम्
ननु पुरुषार्थ-पूर्तिर् जनयति (प्रज्ञा-सहकारेण)
सुखम् इन्द्रियेषु साभ्यन्तरेषु।
विशिष्य स्व-स्वीयादिष्व् अभिमानः (अहङ्कारः) पुरुषार्थ-चितौ प्रेरकः।
ज्ञानम्, सन्नाहः/ यत्नः, करणम्, फलानुभवः
इति क्रमशो ऽवस्थाः पुरुषार्थ-प्राप्तौ वेङ्कटनाथार्येणोक्ताः।
तत्रादौ साध्य-ज्ञानम् अपेक्षितम्।
तज्-ज्ञाने स्पष्टतरे,
स्वानन्दादि-साधने विभ्रमो ऽल्पतरः,
चित्त-सुखं सन्तत-कल्पं किञ्चन लब्धुं शक्यः।
स्वयम्-प्रयोजनताभासः
स्वयम्-प्रयोजनतया यत् किञ्चित् क्रियते,
तेनानन्दः सिध्यति सरलतया।
वेङ्कटनाथार्येणाप्य् उक्तम् -
“स्वयम्-प्रयोजनतया यश् शास्त्रोक्तान्य् आज्ञानुज्ञानुसारीणि कैङ्कर्याणि करोति,
स धन्य”
इति, शब्दान्तरैः।
स्वयम्-प्रयोजनताभावेऽपि
प्रयोजन-स्पष्टतया, तत्र निष्ठया च
स्वयम्-प्रयोजनताभासो भवति।
तद् एव कर्म
प्राज्ञ-दृष्ट्या स-मूल-विचारं कृतं चेत् तोषयतितराम्,
प्रज्ञा-विरहेण क्षुद्र-दृष्ट्या कृतं चेत् खेदयतितराम्।
एवं रीत्यन्तरेणापि प्रज्ञा-सन्तानादि-विचारतः पुरुषार्थ-निश्चयः सुलभः।
सम्पादनम्
समासेन स्वयम्-प्रयोजनाभासं लब्धुम् उपायो
ऽन्तर्यामिणे ऽर्चा-काय-स्थाय वा भगवते
स्व-चिकीर्षितं निवेद्य करणम्।
तत्र भगवत्-सेवा स्वयम्-प्रयोजनम् इत्यतः,
सर्वा ऽपि तद्-अङ्ग-भूता क्रिया स्वयम्-प्रयोजनम् भवति।
यथोक्तम् (रामायणम् - अयोध्या-काण्डम् ११५-२७ इत्यस्य विकारेण )-
स्मराणि यत् कार्यम् उपैति किञ्चिद्
उपायनं चोपहृतं कृतं च ।
स पादुकाभ्यां प्रथमं निवेद्य
कैङ्कर्य-राज्ये भरतो जहर्ष॥
अल्पत्व-प्राप्तिः
बृहन्त्य् अपि ध्येयानि विखण्ड्य लब्धैर् लघु-कृत्यैस् तोषोऽधिकः। यथोक्तम् -
दुःख-मूलत्व-मिश्रत्वे
बृहताम् बाधके ऽधिकम्।
दुःखोदर्को न चेद् - ग्राह्यो
ऽल्पोऽस्थिरस् तुष्टये बुधैः॥
ततो ऽल्प-ध्येय-प्राप्तिर् अभ्यसनीया।
मूलतो विचारः
नूनं सर्व-शेषी देवगणः
स्व-शेष-भूतं जीवम् आज्ञापयति
जीव-लब्धेन स्वभावेन, शास्त्रैश् च।
तद्-अनुरोधेन स्वानन्दाय पुरुषार्था निश्चेतव्याः।
सेयं समष्टि-दृष्टिः।
तद्-विपरीता तु देव-सम्बन्धादि-विस्मृति-रूपा व्यष्टि-दृष्टिर् दुःखाय कल्पते।
तत्र विचारबीजानि -
- “कथं स्व-स्वीय-प्रज्ञां सन्तनुयाम्?”
- “देवगणो मत्तः किम् इच्छति सद्यः?”
- “कथं सौन्दर्यम् उत्पादयानि?”
- “केन सद्यस् तृप्यामि?”
तत्रोत्तरं च स्व-भाव–शास्त्रयोर् ज्ञानेन, परिथितेर् अवलोकनेन च सुलभः।
विस्तारः (द्रष्टुं नोद्यम्)
यथाह रामानुजः -
अहो महद् इदं वैचित्र्यं
यद् एकस्मिन् एव कर्मणि वर्तमानाः
सङ्कल्प-मात्र-भेदेन केचिद् अत्यल्प-फल-भागिनः, च्यवन-स्वभावाश् च भवन्ति;
केचन अनवधिकातिशयानन्द-परम-पुरुष-प्राप्ति-रूप-फल-भागिनो ऽपुनर्-आवर्त्तिनश् च भवन्ति;
सार्थकता, निर्वेद-वारणम्
आनन्दार्थं पुरुषार्थाः साधनीयाः।
तद्-अर्थं तु निर्वेदो वार्येत।
एवं विचारणीयं -
इदं जीवितं देवानां स्वं, न मम।
तर्हि तत् त्यक्तुं व्यर्थी-कर्तुं वा कोऽहम्?
“कुतो जीवः? कुतः कष्टम्?”
इत्य् आक्षिप्ते प्रतिक्रिया ।
“कुतो ऽजीवः? कुतो ऽवीर्यम्?
कुतोऽतोषः स्वतः स्वतः?”
प्रलय-निश्चये ऽपि सार्थकता
सर्वं प्रलयास्पदम्।
तर्हि किं सोत्साहेन पुरुषार्थ-साधन-प्रयासेन?
यथा - मा चिरं प्रजा-सन्ततिर् नङ्क्ष्यति।
किम् पुनः प्रजा-जनन-भरण-रक्षणादिभिः?
इति निराशा-जनक-विचार-सन्ततिः।
“किम् अ-जननादिना?”
इति तु प्रष्टव्यम्।+++(5)+++
सत्यं, सर्वं नश्वरम्।
यावत् तु जीवामः,
तावत् तु स्वाभाविकी प्रवृत्तिस् सैवादरणीया +उल्लास-काङ्क्षिभिः।
स्वभावाधारो हि पुरुषार्थ-विचारः,
न शाश्वतता-भ्रमाधारितः।
“जीते हैँ शानसे, मरते हैँ शानसे” इति यथा गीतम्,
“दोसतोँ से प्यार किया,
दुशमनोँ से बदला लिया,
जो भि किया, हमने किया
शान से”
इति वा।
तथा चास्मिन्न् अपि लघुनि कालावधाव् अनुभूयमाना
ब्रह्माण्ड-शरीरे ब्रह्मणि प्रिय-गुणानां कलनेन जायमाना प्रीतिर्
अन्-अल्प-तोषदा।
न ह्य् अस्मिन् क्षणे ह्य् उपलभ्यमाना अनन्ताः प्रेय-गुणाः कलयितुं शक्याः!
नश्वरता-स्मृतिर् अपि वर्तमान-क्षणस्य महार्हत्वं स्मारयेत्,
सौन्दर्याभिज्ञानं च वर्धयेत्।
एतद्धि “वाबि-साबि”-तत्त्व-गुच्छान्तर्गतो ऽनित्यता-भाव उषःपुत्रैः प्रशस्तः।
पुनः शरीर-पात-मात्रेण निराशा न स्यात् -
शरीर-पाते ऽपि प्रजा-सन्ततिर् अनुवर्तते दीर्घतरम्, कुलं, देशश् च।
तथा च, ब्रह्माण्डं शाश्वतं, देवाश् च, यच्-छेषभूता वयम्।
तद्-आराधने, तदीय-सृष्टि-कर्म-भाग-वाहित्वे, सौन्दर्योद्भावने च भवति सार्थकता।
पर-नियन्तृत्वे ऽपि सार्थकता
हन्त! केवलं मांस-यन्त्रम् इवास्मि किञ्चन।
यन्त्र-कृद्-अपेक्षयैव चाल्ये
नाना-विधार्थान् प्रति।
कुत एषा पुरुषार्थचिन्ता?
इति चेत् -
बुद्धि-प्रयोगोऽपि देव-चोदित एवेत्य् अवगन्तव्यम्।
एवं जीव-दृष्ट्या पुरुषार्थ-चिन्ताऽनुसरणादि सङ्गच्छते, देव-दृष्ट्या ऽपि।
तथा पर-नियन्तृत्वे,
परेणैव हि निर्मितः स्वभावः,
स्वभावावगति-रूपो ऽपि स्वभावांशो देव-प्रेरित एव।
अथवा कर्मारम्भेषु स्वातन्त्र्यं दत्तम् एव -
येन देवस्यापि जीवक्रियासूक्ष्मेषु प्राङ्-निश्चितिर् न स्यात्।
बुद्धि-बलाद्य्-अल्पत्वे ऽपि सार्थकता
हन्त! अल्प-धीर् अहम्।
न तावच् चमताकरान् उद्भावयितुं वैभवान् अवगन्तुं वा शक्तः।
जीवन्तु तादृशा अन्ये, किम् मया ससन्तानं जीवितेन?
इति मा भूत्।
चिक्रोड-भल्लूक-वानर-गृध्र-मनुष्य- राक्षस-र्षि-देवा रामस्य रावण-वधे साहाय्यं चक्रुः स्व-स्व-शक्ति-विशेषानुसारेण ।
एवं सद्-भावनावतां वर-शरीराणां पारम्ये ऽभ्युपगते ऽपि
भगवद्-भागवत-सेवा सोत्साहं ग्राह्या।
तत्र स्वसदृश-लोक-सङ्ख्या-सौख्यादि परिमितं चेद् अपि,
कस्यास् तन् न भवति धीमतां बलवतां वाऽपि जातेः?
आसाम् परस्परापेक्षा वर्ततय् इति सर्वाः परिमिताः।
सद्-आचार-परता
“धर्मप्रतिष्ठा स्वानुकूल्यायैवे"ति, “स्वाभिमता चैवे"ति च स्पष्टं स्यात्।
जनेषु सद्-आचार-परो हि क्रियासु वर्तत उत्तमः, आर्यैः प्रशस्यो
- यद्य् अपि क्वचिद् देश-काल-पात्रापदाद्य्-अनुरोधेन शास्त्रम् उल्लङ्घेत।
“धर्माविरुद्धो भूतेषु
कामोऽस्मि भरतर्षभ”
इति गीतोक्तं स्मार्यं विशिष्य।
देवेषु सम्प्रज्ञात-ज्ञानार्थं शरणागतिः
“देवा एव मत्-संप्रज्ञात-ज्ञान-धारा अधुना प्रेरयन्त्व्” इति
स्व-प्रयास-त्यागः नितरां सुखप्रदः।
एतत् स्वभावे शरणागतेर् अभिन्नम्,
यदेव केचिच् छून्यतायां शरणागतिम् आहुः।
हेतवः (द्रष्टुं नोद्यम्)
सम्प्रज्ञात-ज्ञानोद्भवे यथाकथञ्चिन् न प्रयत्नो ऽपेक्षितः।
सम्प्रज्ञात-ज्ञान-दिक्-परिवर्तने मानुषप्रयत्नो ऽसकृद् विफल एव।
देव-प्रेरण-काङ्क्षामात्रया ऽपि कल्याणतरा भवन्ति सम्प्रज्ञात-ज्ञानदिशः।
बहिः-प्रवृत्तिः
अपेक्षा
बाह्यान्तरेन्द्रियाणां च सुखाय सर्वम्।
स्वावस्थासु सन्तृप्तेः, सौन्दर्यस्य वा साधनाय,
सद्-भावा मानसिका जीवेन परिकल्प्याः।
परम्परया बाह्या परिस्थितिर् अपि परिष्करणीया विचारणीया वा।
बहिः-प्रवृत्तिर् नाम
बाह्य-परिसर-स्थ-वस्तुनि विचारे परिवर्तने वापि यत्नः।
अन्ये तु - मोक्ष-भगवत्पारार्थ्यादि-चिन्ता-विरहेण धर्मार्थ-काम-मात्र-प्रेरितानि कर्माणि प्रवृत्तिर् इत्य् आहुः। ततो भ्रमो मा भूद् इति “बहिः-प्रवृत्तिर्” इति प्रयोगोऽत्र क्रियते।
स्वरूप-रक्षा
पूर्वोक्त-पुरुषार्थ-स्रोतांसि विचार्य
बहिः-प्रवृत्तौ वर्तमानो न मुह्यति -
स्वस्था बहिः-प्रवृत्तिर् यतस् ततो जायते।
विरूपा बहिः-प्रवृत्तिर् (पुरुषार्थ-चिताव् उक्तेन ) समष्टि-ज्ञानेन विरहा
अ-देव-कैङ्कर्य-रूपा हेया।
देव-कैङ्कर्यालम्बनम्
पुरुषार्थ-चिताव् उक्तया रीत्या दास्य-भावेन भगवत्-सम्बन्धं स्मरेत्।
देव-कैङ्कर्यम् स-विशेषम् “पुरुषार्थ”-विभागे प्रपञ्चितम्।
बाह्य-वस्तु-विचारण-मात्रेऽपि “भगवद्-विभूत्य्+++(=सम्पत्त्य्)+++-अङ्गम्” इदम् इति भगवत्-सम्बन्धं स्मरेत्।+++(5)+++
बहिः-प्रवृत्तिः सौन्दर्योद्भावनम् प्रति भवति।
तद्धि प्रधान-भोक्तरि देव-गणे प्रीतेः परीवाह इव स्यात्।
अस्य प्रकारो निवृत्ति-विभागय् उक्तः ।
तन्त्राणि
श्रीवैष्णवेषु प्रसिद्धं सात्त्विक-त्याग-वाक्यं क्रिया-सन्धिषु (देवाराधनादि-कल्पान् अन्तराऽपि)
पाञ्चरात्रिक-पञ्च-काल-सन्धिषु च
प्रयोक्तुम् उचितम्।
+++(परार्थत्वात्)+++ फल-त्यागेन, प्रधान-कर्तृत्व-त्यागेन च
नैर्भर्यं प्राप्नोतितमां जीवः।
एवं तदीयो बलमन्त्रो ऽपि।
अभिगतिर् उपादानम्
इज्या स्वाध्याय-योगकौ।
पञ्च कालास् सुसंकॢप्ता
दासस्योत्साह-पूरकाः॥
प्रयासे गुणवत्ता
सोत्साहाः प्रयत्ना उल्लास-जनका भवन्ति।
एवं सात्त्विकोत्साहे सति,
क्रियमाणे कर्मणि स्वयम्-प्रयोजनताभासो भवति।
ये ऽभिमन्यन्ते -
“कर्मण्य् अहं चतुरः, कुशलः स्याम्।
एतत् साफल्येन रक्षितं मन्-महत्त्वम्।”
तदीयं कर्म सफलतरम् भवेत्,
न त्व् अन्येषां यद्-अभिमानम् एवम् -
नैतत् कर्म मुख्यम्।
यथाकथञ्चिन् निर्वर्तनीयम्।
सुनिश्चित-कर्मण्य् आत्म-निक्षेपः
कासुचन कर्मस्व् आत्म-विस्मृतिर् इव भवतितराम्।
अनया ऽऽत्म-विस्मृत्या सम्प्रज्ञात-ज्ञान-जन्य-वस्तु-भेद+उपरमः कश्चन भवेत्,
ततो मनसि काचिद् विश्रान्तिः -
विशिष्य सुख-कर-सम्प्रज्ञात-ज्ञानाद् अनन्तरम्।
सुषुप्तौ तु भवत्येवेयम् - जागृद्-अवस्थायां कथं लब्धव्यम्?
मार्गः
कञ्चन सुख-कर-सम्प्रज्ञात-ज्ञानं जनयित्वा,
चेतो निश्शङ्कं क्रियान्तरे निमज्जेत् -
यथा प्राणे, ऽङ्गचालने,
सु-स्मृत-मन्त्र-गीतादि-वचने, स्वभ्यस्त-पूजादि-यागे,
चित्र-रचने, गणिते, सङ्गणकादेश-लेखने,
चलच्चित्रादि-वीक्षणे, गीतादि-श्रवणे,
क्रीडायाम्, मैथुने, युद्धे ऽपि।
कर्मण्य् आत्म-निक्षेपे दवेषु वा स्वभावे वा शून्यतायां वा शरणागतिर् युज्यते।
एषु सम्प्रज्ञात-ज्ञानाभाव-तार-तम्येन, प्राक्तन-ज्ञान-भेदेन च
विश्रान्ताव् अपि तार-तम्यम्।
अ-संशीतिः
क्रियमाणस्यावश्यं सोत्साहं कार्यत्वे ऽसंशयता लक्ष्यते
सुखाय रोमाञ्चनाय च -
स्वपात्र-निर्वहणे क्रोधादिष्व् अप्य् अभिनीयमानेषु,
यद्य् अपि च सूक्ष्म-विधि-विषयेषु वर्तेत क्वचिद् सम्प्रज्ञात-ज्ञानम्, प्रतिवचनादि च।
प्रसिद्धोदाहरणानि (द्रष्टुं नोद्यम्)
- असंशयस्य दृश्यानि निरूपणानि यथा - ऽस्मिन् दृश्ये प्रारम्भ-निमेषे - Hattori Honzo restaurant scene । अथवाऽत्र - Last samurai - no mind scene , Bruce Lee teaching scene इत्य् अत्र वा।
- “bicameral mind” इति केचिद् आहुर् इमां स्थितिम्।
- “What is called ’No Mind’ is a mind that is pure and lacks complication .” इति बौद्ध-ध्यान-गुरवः। तदर्थं तत्त्वावेशाय यतन्ते। तेन हि “Harmony of pen and sword” इत्य् उषः-पुत्र-योद्धृषु प्रसिद्धम्।
वेङ्कटनाथार्य एवम् -
दृष्टानुश्रविक-विषय-वितृष्णस्य परमात्मैक-रतेः पुरुषस्य
कृत्यानुष्ठाने प्रयोजनाभावो
ऽकृत्य-करणे प्रत्यवायाभावश् च प्रतिपाद्यत इति यद् उच्यते;
… तत एव “हत्वाऽपि स इमाल्ँ लोकान्” [18।17] इत्य्-आदेर् अपि
…
अथ चेत् समाधि-दशायां कर्तव्यान्तराभावो
ऽस्मिन् श्लोकद्वये विवक्षित इत्य् अभिप्रायः;
तदा तु मुक्त-दशायाम् इव विरोधाभावाद् अभ्यनुजानीमः।
दोषाः
असंशीताव् अपि दोषास् सम्भवन्त्य् एव, पश्चाद् विषादेन फलन्ति।
प्राक्तनेषु सम्प्रज्ञात-ज्ञानेषु दोषेषु सत्सु,
तेषां फलरूपा दुष्टसंस्कारा अ-सम्प्रज्ञात-ज्ञानावस्थायाम् अपि दोषान् जनयेयुर् एव।
तथा, क्वचित् कर्मणि गुणवत्तायै सम्प्रज्ञात-ज्ञाननानि अनिवार्या -
तेनावितर्कित-पद्यादि-रचनं यद् देवावेशावस्थायां कैश्चित् प्रियेत,
तत्र छन्दो-व्याकरणादि-भ्रंशो भवत्य् एव।
निवर्तनम्
कर्मण्य् उत्साह-नैयून्यम् अभिलक्ष्य
निवृत्त्या प्रीतिम् पुनः पूरयेत्।
रौद्र-वीर-बीभत्सादयो ऽपि प्रीति-पुरस्कृत्या गूणी-कृतास् स्युः।
अन्तर् निवृत्तिः
सुखमयं स्वरूपम्
सद्-भावान् उद्दिश्य +अनल्पाऽऽन्तरिकी प्रवृत्तिर् “अन्तर्-निवृत्तिर्” इत्य् उच्यताम्।
तत्र स्वात्म-स्वरूपम् एव प्रथमं सोपानम्।
ततश् च देव-गणे स-चिद्-अचिच्-छरीरे प्रीतेः पूरणम्।
एवं निवृत्तिः प्रायेण स्मृति-रूपैव, याऽन्ततो भक्ति-शब्द-वाच्या भवति।
पीडामयो विकारः
दुर्-अभिमानतो दुःखानुभूतिर् अप्य् आन्तरिक्याम् एव प्रवृत्तौ वर्तते।
पुनः पुनश् चिन्तयति जनः -
अहो द्रोहः। खलाः। अहं पीडितः।
इत्यादि।
सद्भिस् तत्-पारं गत्वा सुखमये ऽन्तर्-निवृत्ताव् अवस्थेयम्।
अहम् ईदृङ्, मदीयास् ते,
तादृशा, मां न मन्वते।
इद्य्-आद्य्-अभिमति-स्फोट-
दीप्ति-धूमौ सुखासुखे॥
अभिमानोपनेत्र-स्थ-
दुःख-बीज-प्रमार्जनैः।
सन्ततैर् लक्ष्यतां व्याप्तं
सु-खं श्याम-मनो-हरम्॥
प्रयोजनम्
प्रधान-ध्येय-साधनम्
ननु सम्प्रज्ञात-ज्ञान-सहितेषु सर्वेषु कर्मसु बाह्येष्व् आभ्यन्तरेषु वा
मूलं प्राप्यं स्वावस्थासु सन्तृप्तिः, सौन्दर्यं वा।
दुःख-साध्यानाम् उपध्येयानाम् अनुसरणे
मूलस्यैव विस्मृतिर् मा भूच् चिरन्तनी।
तेन पौनःपुन्येनोल्लासानुभूतिर् भवेत्।
सम्प्रज्ञात-ज्ञान-शोधनम्
सम्प्रज्ञात-ज्ञानेतर-क्रियासु ध्याने वा विश्रान्त्याय् अपि,
सुख-कर-सम्प्रज्ञात-ज्ञानैर् ज्ञान-धारोपसंहार इष्यते।
एवम् अग्रिमासु क्रियासु पुरुषार्थ-सिसाधयिषा ऽपीष्यते - न निर्वेदः।
एतद्-अर्थं शुभाश्रया ध्येयाः।
कालः
दुःख-कर-सम्प्रज्ञात-ज्ञानादिभ्यो निवृत्तिः प्रशस्ता।
निद्रया निवृत्तिश् शक्या।
पर्वसु प्रयोगः
कर्म-पर्वाणि, सम्प्रज्ञात-ज्ञान-सन्धयश् चात्यन्तं पवित्राणि,
प्रयत्नेन सङ्ग्राह्याणि।
तेष्व् एव क्षणेषु बुद्ध्या सद्-भाव-प्रतिष्ठापनं सम्भवति।
सज्-ज्ञान-विषयाः
प्रथमतः स्वात्मा हि सुलभतमो ज्ञान-विषयः,,
ततस् तत्-सत्ता-कृतो देवाः,
ये जीवस्यापि जीवाः,
ततो देवानां विभूतयो, गुणाश् च।
सुनिष्ठित-धियस् तु तद्-विपरीत एव क्रमो योग्यतरः।
अनेनैवार्थ-पुरुषार्थेषूक्ता ज्ञान-शुद्धिस्, तद्-रूढिश् च सम्पद्यते।
जगद्-आनन्द-भावनम्
सर्वं देवानाम् अनुकूलम् एव भवति - तेन सदा तुष्टास् ते।
मुक्ताव् अपि केचिज् जीवानां तादृशम् एव सर्वानुकूलत्वम् आहुः।
तद् इह निवृत्ति-विशेषे स्पृहणीयम्।
तद् एवोक्तं श्रुतौ - “आनन्दम् ब्रह्मणो विद्वान्” इति।
जगति लसन्ति नाना-विधा अद्भुता आकृतयः, यथा -
पृथिवी-त्वचि हरिद्-वर्ण-विस्फोटः,
आकाशगङ्गायां तारावर्त्तः,
पादपेभ्यः पुष्पाणि, सुगन्धि-वातः, तद्-आकृष्टानि कृमीणि,
विद्वत्-कल्पनाः, गम्भीर-तत्त्वान्वेषणानि
उन्मत्त-जीवानां निश्चितो निग्रहः,
सतां धीमतां निश्चितो ऽनुग्रहः … ।
तेषु तत्-स्रष्ट्रूणां देवानां साफल्यस्य +उल्लासस्य चानुसन्धानेन
जीवस्याप्य् उल्लासः।
इदं हि सौन्दर्य-कलनम्॥
देव-गुणाद्य्-अनुसन्धानम्
देव-गुणादि-स्मरणेन तत्-प्रीतिर् जायेत,
ततश् च तद्-दास्य-रूपे निज-स्वरूपय् उत्साहः।
देव-गुणाः पृथक् परिगणिताः।
देव-प्रीत्य्-अनुसारम् आकृतीः, शब्दान्, क्रियास्, सम्प्रदाय-सम्बन्धं चावलम्ब्य
देवाराधनं +++(θεουργία)+++ सफलं शक्यम्।
किञ्च न हि देवास् तादृशम् आराधनं जातूपजीवन्ति - जीवा हि पिपीलिकायन्ते तद्-दृष्ट्या।
तथा, देवा देश-कालातीताः,
अतः स्वाभिमतम् अर्चनं
यद्-ऋच्छया क्वचिद् देश-काल-परिधौ वर्तत एव तेषाम्।
उपास्याः
देवताश् शुभाः॥
धर्म-प्रधान-पुरुषार्थ-प्रेरणाधिक्येन विशिष्यन्ते शुभावतारा,
यथा कृष्णो, रामश् च।
भोग-प्रधान-पुरुषार्थ-प्रेरणाधिक्येन सुरा-सुरतादि-रता देवता विशिष्यन्ते -
किञ्च तत्र धर्म-विरोध-चोदनापायो ऽधिकतरः -
देवानुकृत्या पञ्च-मकार-सिसेवयिषया।
परिपूर्णता-दृष्ट्या- स-प्रिवारा देवा विशिष्यन्ते।
एवं गुण-पात्रादि-भेदेन शरण्येषु वैविध्यम्।
ऋषयस् सन्तो गुरवः शुभाः पितरो वा ध्येयाः - पुरुषार्थ-प्रेरणाधिक्येन गृहस्थास् सवर्णा विशिष्यन्ते।
किञ्च तेष्व् अपि मानुषेषु दोष-सद्-भावाद् सत्याद् भ्रंश उद्भवेद् इत्य् अपायः।
अतो देवतावेशरूपेण दव-शरीर-रूपेण वा ध्येयाः।
देश-कालाध्व-परामर्शः
स-क्रम-परामर्शेन देश-कालयोर् महान् विस्तार आविर् भवतीव,
यद्-अग्रे जीव-समस्या अहङ्काराश् च क्षुद्रतां यन्ति।
कर्मसु सङ्कल्पवचने सविस्तरेण काल-देश-सङ्कीर्तनम् एवं ह्य् उपकरोति।
तन्त्रसार-विस्तारः
एवम् अखिलं कालाध्वानं
प्राणोदय एव पश्यन्
सृष्टिसंहारांश् च विचित्रान् निःसङ्ख्यान्
तत्रैव आकलयन्
आत्मन एव पारमेश्वर्यं प्रत्यभिजानन्
मुक्त एव भवति इति ।
समस्तम् देशाध्वानं
देहे विलाप्य,
देहं च प्राणे,
तं धियि,
तां शून्ये,
तत्-संवेदने निर्भर-परिपूर्ण-संवित् सम्पद्यते।
भक्तिः, तत्-परीवाहः
भक्तिर् नाम सात्त्विक-परिशीलनादि-जन्यो भगवद्-विषयक-प्रीति-विशेषः।
देवेषु प्रीत्यै, तत्-परिवाहाय कैङ्कर्याय चापेक्षिततमं ज्ञानम् -
- सर्व-शेषित्वं जानीयाद् देवगणस्य।
- शेषत्वात् फल-त्यागः।
- स्वरूप-स्थिति-प्रवृत्तिषु भूयो नियाम्यत्वं (ततः कर्मारम्भे मितं सापेक्षं स्वातन्त्र्यं), भगवच्-छेषत्वं (परार्थत्वं) च जानीयाज् जीवस्य।
- नियाम्यत्वात् प्रधान-कर्तृत्व-त्यागः।
- भगवद्-विभूत्यादि स्मरेत्, तत्र भगवत्-तोषं च। भक्तिर् नामेतादृश एव स्मृति-विशेषः शास्त्रेषु प्रशस्तः।
शेषत्वं दिवि पूर्वम् एव घटितं, तस्मिन् रसात् सन्तता
तुष्टिश् चेद्, रसिता कथं भवतु चेत् तत्रेयम् अस्मद्-गतिः।
ब्रह्माण्डादि-चमत्-कृतिं कलयतां, तत्-कर्तृ-तोषं ततः,
प्रीत्य्-अब्धेः परिवाह एक-रसता कैङ्कर्य-राज्याभिधा॥
आत्म-स्वरूपम्
आत्म-निश्चय-शुद्ध्या तु महती सुखाप्तिस् सम्भवति।
यस्याः कस्याश् चिद् आत्म-प्रतीतेर् एभिर् विशेषणेनालं प्रायेण सुखाप्तये -
- स्वरूप-स्थिति-वृत्तादौ देवगणेन भूयो-नियाम्यता
- देव-गणं प्रति पारार्थ्यम्
भूयो-नियाम्यत्वात् पारार्थत्वाच्च देव-गण-शरीरत्वम् अपि वर्तते।
तद्-अभिज्ञानं भेदाभेदोपेत-वेद-वाक्यावगताव् उपकरोति।
गौण-कर्ता
कर्तृत्व-निश्चय-भेदेन सुखाद्य्-अनुभवे ताररम्यम्, कर्मसूत्साहे ऽपि।
कर्त्र्-अन्तर-व्यपदेशोऽपि शक्यः, यथा -
- केचित् समावेशेन देवान्तरं, देवता-गणम्, भूतान्तरम् अपि वा कर्तारम् मत्वा समाधानम् आपुः।
भ्रम-प्रभावः (द्रष्टुं नोद्यम्)
प्रायेण “शरीर-सम्बद्ध-जीवो ऽहं प्रधानः कर्ता” +इति भावेनापन्नो लोकः।
तेन च जीव-गुणानां, ऋतस्य, देवानां वा यद् अधिकम् एव कर्तृत्वं, तद् विस्मर्यते।
तेन तस्य पाप-पुण्य-शोकाभिमानादि–कर्म-फल–सङ्ग-प्रसक्तिः।
प्रवृत्तौ निर्वेदं वारयितुं, स्वभावाद् दूरं नापेयम् इति च
प्रतीयमानस्य शरीर-सम्बद्धस्यात्मन ईषत्-कर्तृत्वम् अङ्गीकार्यम् -
विशिष्य कर्मारम्भे, यद्य् अप्य् आफलं निर्वाहे तत्-पात्रं न स्यात् तावत्।
आत्म-गणानुसन्धानम्
शरीर-सम्बन्धत आत्मन्य् आरोपितान् गुणान् अपास्य
शिष्टा आत्म-गुणा “आत्म”-विभागे परिगणिताः ।
कोऽहम् इति विचारः
कोऽहम् इति विचारयेत्। “मनोबुद्ध्यहङ्कार चित्तानि नाहं …” इत्य्-आदि विचारयेत्। अध्यारोपापवादक्रमेण नेति नेति वदन् यायात्, यथा -
“शरीरम् अहम्।
न - मनोऽहम् - तेन किं दुःखं शरीरसम्बन्धिन्या द्रोहेण?
न - ऋतम् अहम्”।
- शरीर-सम्बन्धत आत्मन्य् आरूढा गुणा
“जीव-गुण”-विभागे परिगणिताः।
तत्रैतौ विशिष्येते मूल-भूतत्वात्-- शेषत्वं (तत्रापि दासत्वं) जीवस्य, शेषित्वं देवगणस्य।
- जीव-ब्रह्मणोः शरीर-शरीरि-भावेनाभेदः।
- “मूलतः संविन्-मात्रो ऽयम् आत्मा ब्रह्माण्डं च” इत्यादि तत्र।
देव-गुणानुसन्धाने पर्यवसायः
केषाञ्चन +आत्म-गुणानां शेषत्व-शरीरत्वादीनाम् अनुसन्धानेन
देव-गणानुसन्धानं स्वभावत आविर्-भवति।
अभेदे ऽसुखोपपत्तिः
ननु जीव-दुःखं तद्-अङ्गित्वात् देव-गणे/ब्रह्मणि प्रसज्येत।
तत् त्व् अनुपपन्नम् - तस्य सदानन्दत्व-श्रुतेः।
इति सन्देहो जायेत। अङ्ग-निपीडनं नाङ्गि-दुःख-हेतुर् इति स्मार्यम्। यथाह -
देहेऽस्मितया यद्वज्
जडयोर् आस्फालनं मिथो बाह्वोः ।
इच्छामात्रेणेत्थं
गिर्योर् अपि तद्-वशाज्-जगति ॥
(विरूपाक्षपञ्चाशिका)
सुख-साधनान्तराणि
मन-आदीनीन्द्रियाणि सुख-साधनान्य् अपि ध्येयानि,
एवम् भोग्यवस्तूनि बाह्यानि।
सज्-ज्ञाति-प्रकारः
देवानां देवक्रियायाश् च ध्येयं रूपं चित्र-मन्त्र-यन्त्रादि।
कल्पनमात्रम्, अर्चनम्, जप इत्य्-आदिभिर् ध्यानं साध्यते।
ध्यानानि
चिदग्नौ भोग्याहुतयस् तन्त्रसरय् उक्तः।
देव-भूतादि-समावेशः तन्त्रोक्तः।
काल-भेद एव संवेदन-भेदकः,
न वेद्य-भेदः शिखर-स्थ-ज्ञानवत्।
- तन्त्रसारे
मन्त्रः, सूत्रम्
सार्थं स्व्-अधीतस्य मन्त्र-विशेषस्य सूत्रायमाणस्य
सकृद् अप्य् उच्चारणं
व्युत्पत्ति–देव-कथादि-बलेन
झटिति स-प्रत्ययं तत्त्व-प्रपञ्चं महता प्रयासेनाधिगतं स्मारयति।
जपस् ततो ऽधिकं स्थिरं करोति।
अयं हि प्रधान उपायः।
तत्रोदाहरणानि -
जीवेश्वर-सम्बन्ध-बोधकः प्रणवः,
पारार्थ्यस्य, जगत्-कारणस्य, ब्रह्मणो सर्व-व्यापकस्य सर्व-व्याप्तस्य, कैङ्कर्यरूपपुरुषार्थस्य च बोधको “नमो नारायणाये"ति,
सप्त-लोक-स्मारिका व्याहृतयः।
केचन तु देव-नाम-रूप-भावाद्य् आविर्भावयन्ति।
केचिद् +ह्रस्वा - बीजमन्त्रा, नाम-मन्त्रा यथा।
केचिद् दीर्घाः।
स्तोत्र-काव्य-पाठः
आवेदेभ्यः स्तुतयो वर्तन्ते
गद्य-पद्य-गानात्मका
देवात्म-गुण-कीर्तनपराः।
साभिनयं ध्यानम्
पूजा-होम-तर्पणादिभिश् शास्त्र-सम्प्रदाय-चोदितैर् अभिनयैर्
ध्यानं सुलभतरम् भवति। मनोविक्षेपादि सहतेतराम्।
दिनचर्यादौ रूढाव् अपि योग्यतरम् भवति।
अन्य-जीवेष्व् अपि सद्-भावं सामरस्यं चोत्पादयन्ति -
तेन स्व-परिसरम् अपि पावयन्ति, स्वानुकूलं कुर्वन्ति।
कर्म, ब्रह्म-कर्म, शिल्पम् +इत्य्-आदयो ऽत्र पर्याय-वाचिनः।
तत्र विशिष्टा ऋत्विजः पुरोहिता उपकुर्वन्ति, विशिष्याज्ञेषु।
अभिनयय् आङ्गिक-वाचिकाहार्य-सात्त्विकांशा नाट्य-शास्त्रोक्ता अन्तर्भवन्ति।
अभिनय-भाषया काचित् कल्पनोच्यते।
पुनस् तद्-आधारेण (विशिष्यावहिते)
सद्-भावान्तराणि ध्वन्यन्ते।
पर-निवृत्तौ प्रयोजनम्
विस्तारः (द्रष्टुं नोद्यम्)
यथाह सोराय्-महाशय उषःपुत्रः -
The former sage kings realized that words alone were insufficient to edify people, and therefore created ritual and music.
अन्ये चोषःपुत्राः -
If li were used to “carry” the people, there would be no need to rely on strident and ultimately ineffective sermonizing. The people would instinctively “keep within the current” of what was correct.
दुर्-भाव-प्रतिकारः
विषयाः
अ-सुख-कर-भाव-प्रशमनम् अपि सम्बद्धं शास्त्रम्।
वरं दुर्भावोपशमनात् तद्-अनुद्भव एव।
अ-सम्प्रज्ञात-ज्ञाने विश्रान्त्या ऽपि शाम्यन्ते भावाः। तद् अन्यत्रेह वर्ण्यते।
प्रकीर्ण-तन्त्राणि
अत्रापि केचिन् मन्त्राः सूत्राणि चोपकुर्वन्ति।
केचनैतद्-अर्थं रसान् सेवन्ते - यथा मदिराम्।
तत्र तु दुष्प्रभावस्यापि सम्भावना - विशिष्य दीर्घ-काल-प्रयोगे।
मनो-यन्त्रं कथं चलतीति स्फुटेन ज्ञानेनापि भावग्रहः शिथिल-तरो भवति,
तेन शीघ्रं शान्तिं लभामहे।
अभिमान-परिष्कारः
अ-सज्-जन–कु-वाक्-कर्मादीनि महान्ति दुःख-कारणानि।
प्रवृत्त्य्-अङ्गत्वेन तद्-विनिवर्तनम् “जीवः →पुरुषार्थाः → अर्थः → बन्धु-मित्रादिषु” इत्यत्रोक्तम्।
निवृत्तौ तु रोग-द्वेषाद्य्-अभिज्ञानम् अपि,
तद्-विपरीत-महाऽऽत्म-स्वास्थ्याद्य्-अनुध्यान-सहितं
सुख-दम् भवति।
वस्तुत इदम् स्व-स्वीय-पर-निष्ठ+अभिमानस्य परिष्कारः।
रोग-द्वेषादि-ग्रस्ताभिज्ञानं
भगवति भागवतेषु स्वस्थेषु
मानसम् अपि सङ्गमनम् प्रति, तत्-सेवाम् प्रति चोत्तेजयति।
सम्प्रज्ञात-ज्ञान-संहारः
सम्प्रज्ञातं ज्ञान-सन्तानं वाक्य-धारा,
वाक्यं वर्णात्मकम्,
वर्णा जगन्-मातृका
इति स्मृत्वा
सम्प्रज्ञात-ज्ञानस्य मातृकासु विलयं कल्पयित्वा
निवृत्तिः शक्या -
विशिष्य स्मृत्य्-अहङ्कारादाव् अ-प्रियज्ञान-विप्लवे सति।
बाह्येन्द्रिय-प्रीतिः, कामः
कामानुसरणेन काचिन् निवृत्तिः सुलभा।
उपसंहारः
इत्थं परिष्कारः। सद्योऽपूर्णः।
अत्राप्रतिशिद्धं यथापूर्वं गृहीतुम् उचितम्। शोधन-खण्डन-मण्डनानि प्रार्थये।
भविष्ये ऽनुयोजनीयाः
- पितृ-प्रज्ञा
- sympathetic magic, देव-प्रश्नाः, Cleromancy।
सूत्राणि
मूल-ज्ञानम् भाषाकृति।
फलक-गत-वाक्यानि ज्ञानम्।
विधि-कल्पो वाक्य-पठन-लेखन-यन्त्रम्।
साहम्-भाव आत्मा।
देव-गणे सामरस्यम्।
स भगवान्।
तद्-गुणा आनन्द-कारुण्य-समत्वादि।
तद्-विभूती परं, ब्रह्माण्डं च।
तस्य
स्वरूप-स्थिति-वृत्त्यादिषु भूयो नियाम्यता
पारार्थ्यं च।
आभ्यां शरीरत्वम्।
स्वेच्छया गृहीतत्वान् न भगवति दुःखादि।
जीव-स्वभावः स्व-स्वीय-रक्षणम् पर-हानम्।
स्वप्न-साम्यात् स्वीयत्वम्।
सौन्दर्योद्भावनम्।
देव-नियतः।
तत्रोत्कर्षाच् छास्त्राणि।
पुराणादीनि देव-प्रकाशकानि।
क्वचिद् भ्रमः।
तत उन्मादाः।
सुखम् इह-
अल्पम् अस्थिरम्।
दुःख-मिश्रं मूले मध्ये फले।
विपरीताभिमान-मूलम्।
इन्द्रियाण्य् अवलम्बते।
स्मृति-बुद्ध्याद्य्-उत्कर्षः।
अमुत्रामितम्।
पुरुषार्थाः सुखाय।
स्वभावतः रागतः शास्त्रतः प्राप्ताः।
धर्मार्थ-काम-मोक्षाः।
कामो ऽल्पविचारेणेन्द्रिय-तुष्ट्या।
धर्मः शास्त्र-मूलः।
आचार-प्रभवः।
अर्थः पुरुषार्थान्तर-साधनम्।
मोक्षः पर-प्राप्तिः।
भगवति प्रपत्त्या, परया भक्त्या वा।