वरा मृतिः

जरा-मृत्यू न वार्यौ स्तः
भुवि सूर्ये ऽण्डके ऽप्य् उत।
व्यक्ति-सन्तति-राष्ट्रेषु
स्यातां किञ्च न कुत्सितौ

स्यात् स्वावस्थासु संतृप्तिर्
व्याधिभिश् चापराजितिः।
जीवनोद्देश एवं सन्न्
असाध्यश् चेद् वरा मृतिः॥

तद्-अर्थं वा ततः पूर्वं
जनयेत् तु नवं वपुः।
तोषे साध्ये हि तत् कार्यं
दुस्साध्ये तु वरा ऽजनिः॥

साध्ये तोषे हि जीवातुस्
सुते मित्रे जने भवेत्
दुस्साध्ये तु वरं तेषां
देह-त्यागोपकारकः॥

क्षात्र-स्पर्धासु, यागेषु,
भक्षणे धार्मिके ऽपि च।
हन्याद् अन्यं, अनिन्द्यं तत्,
देवाविष्ट इवोल्लसन्॥

स्यात् पराजितिः स्वीयाः!
नोपसादो भवेद् बत।”
सन्त एवं मुमूर्षन्ति
तेनोत्साहे स्थिरा बुधाः॥

अमरैर् मृतिः क्षुद्रा
नाजातैश् च जनिस् तथा।
अङ्गीक्रियेत, तेनैषाम्
आदाव् अन्ते च वैभवम्॥