१२ अश्वमेध-दश-हविष्केष्टि-याज्यापुरोनुवाक्याः

विस्तारः (द्रष्टुं नोद्यम्)

विश्वेदेवा ऋषयः

रथन्तरम्, मधुः

सायणोक्त-विनियोगः

(अथ चतुर्थकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः)
एकादशानुवाक ऋतव्यद्या इष्टका उक्ताः।
तावता चितयः समान्ताः।
अथान्तिमे द्वादशे याज्यानुवाक्या उच्यन्ते।
अश्वमेधप्रकरणे कल्पः— पठ्यते “अग्नये गायत्रायेति दशहविष सर्वपृष्ठा निर्वपति समिद्दिशामिति यथालिङ्गं याज्यानुवाक्याः” इति।

तत्राग्नये गायत्राय त्रिवृते राथन्तराय वासन्तायाष्टाकपाल इत्यस्य पुरोनुवाक्यामाह— समिद्दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मिद् दि॒शाम् +++(→विषुवस्थानीयो ऽग्निः, equinotical colure)+++ आ॒शया॑ नस् सुव॒-र्विन्
मधो॒र् अतो॒ माध॑वᳶ पात्व् अ॒स्मान् ।
अ॒ग्निर् दे॒वो दु॒ष्-टरी॑तु॒र्+++(←स्तॄ आच्छादने)+++ अदा᳚भ्य
इ॒दङ् ख्ष॒त्रꣳ र॑ख्षतु॒ पात्व् अ॒स्मान् ।

सर्वाष् टीकाः ...{Loading}...

Keith

May the kindling-stick of the quarters, that winneth the heaven, (Guard us) according to our hopes;
from Madhu may Madhava protect us;
Agni, the god, hard to overcome, the undeceivable,
May he guard our kingly power, may he protect us.

मूलम्

स॒मिद्दि॒शामा॒शया॑ नस्सुव॒र्विन्मधो॒रतो॒ माध॑वᳶ पात्व॒स्मान् ।
अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदा᳚भ्य इ॒दङ्ख्ष॒त्रꣳ र॑ख्षतु॒ पात्व॒स्मान् ।

सायण-टीका

दिशां मध्ये या दिक् समित् समिन्धनहेतुः।
तदेव कथ मिति तदुच्यतेसुवांवेत्स्वर्गस्थमादित्यं विन्दते लभत इति सुवर्वित्।
आदित्यो दयस्थानत्वात्प्रच्या दिशः समिन्धनहेतुत्वम्।
तादृशी दिग् नोऽस्मानाशया पातु।
अस्माकं धनादिविषया या काचिदाशा विद्यते तस्याः पूरणेनास्मान्रक्षत्वित्यर्थः।
मधुश्चैत्रमासः।
माधवो वैशाखः।
तावुभावपि पूर्वदिग्वत्समिन्धनहेतू।
तयोर्मा सयोरादित्यस्यातितीक्ष्णप्रकाशत्वात्।
तत्राप्यतोऽस्मान्मधोश्चैत्रमासादधिकप्रकाशो यो माधवो वैशाखमासः सोऽस्मान्संतापभयात्पातु।
दुःखेन स्तरीताऽऽच्छादयिता दुष्ठरीता यो वैरी प्रावरणवस्त्रेणेव दुःखेनाऽऽच्छादयति तस्यापि दुःखकारिणो वैरिणोऽदाम्यो दम्भितुं हिंसितुमशक्यो योऽग्निर्देवः सोऽयमिदं क्षत्त्रमस्मदीयमिदं बलमस्मांश्च रक्षतु।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह— रथंतरꣳ सामेति।

विश्वास-प्रस्तुतिः ...{Loading}...

र॒थ॒न्त॒रꣳ साम॑भिᳶ पात्व् अ॒स्मान्
गा॑य॒त्री छन्द॑साव्ँ वि॒श्व-रू॑पा ।
त्रि॒वृन् नो॑ वि॒-ष्ठया॒+++(←स्था)+++ स्तोमो॒ अह्नाꣳ॑
समु॒द्रो वात॑ इ॒दम् ओजᳶ॑ पिपर्तु+++(←पूरणे)+++ ।

सर्वाष् टीकाः ...{Loading}...

Keith

May the Rathantara with the Samans protect us,
The Gayatri with every form of metres,
The Trivrt Stoma with the order of the days,
The ocean, the wind, make full this strength.

मूलम्

र॒थ॒न्त॒रꣳ साम॑भिᳶ पात्व॒स्मान्गा॑य॒त्री छन्द॑साव्ँवि॒श्वरू॑पा ।
त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्नाꣳ॑ समु॒द्रो वात॑ इ॒दमोजᳶ॑ पिपर्तु ।

सायण-टीका

यद्रथंतरं साम तदन्यैः सामभिः सहास्मान्पातु।
छन्दसां मध्ये गायत्रो विश्वरूपा यवमध्यपिपीलिकामध्यादिभेदैर्बहुरूपा, सा २१०५ नोऽस्मान्रक्षतु।
त्रिवृदाख्यो यःस्तोमोऽह्नामेकाहादीनां संबन्धिन्या विष्ठया विविधया स्थित्या युक्तः, अहःसु विविधं प्रयुज्यत इत्यर्थः।
तादृशोऽस्मान्पातु।
समुद्राख्यो यो वातोऽस्ति “समुद्राय त्वा वाताय स्वाहा” “समुद्रोऽसि नभस्वान्” इत्यादावाम्नातस्तादृशो वायुरिदमोजोऽस्मदीयं बलं पिपर्तु पालयतु पूरयतु वा।

इन्द्रः

भास्करोक्त-विनियोगः

अथेन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्मायैकादशकपाल इत्यस्य पुरोनुवाक्यामाह— उग्रा दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒ग्रा दि॒शाम् अ॒भिभू॑तिर् वयो॒-धाश्
शुचि॑श् शु॒क्रे अह॑न्य् ओज॒सीना᳚ ।
इन्द्र!+अधि॑पतिᳶ पिपृता॒द् अतो॑ नो॒
महि॑ ख्ष॒त्रव्ँ वि॒श्वतो॑ धारये॒दम्

सर्वाष् टीकाः ...{Loading}...

Keith

(May) the dread among the quarters, the overpowering, giver of strength,
Pure, full of might on a bright day (protect us);
O Indra, as overlord, make full,
And for us [1] on all sides do thou preserve this great kingly power.

मूलम्

उ॒ग्रा दि॒शाम॒भिभू॑तिर्वयो॒धाश्शुचि॑श्शु॒क्रे अह॑न्योज॒सीना᳚ ।
इन्द्राधि॑पतिᳶ पिपृता॒दतो॑ नो॒ महि॑ [33] ख्ष॒त्रव्ँवि॒श्वतो॑ धारये॒दम् ।

सायण-टीका

दिशां मध्ये येयमुग्रा दक्षिणा दिक्, उग्रत्वे हेतुः—अभिभूतिः, पापानामभिभवहेतुत्वादुग्रत्वं, सा वयोधा वय आयुष्यं तस्मिन्नतीते सति मृतान्पुरुषान्यमलोके दधाति स्थापयतीति वयोधाः।
वयसोऽन्ते दधातीति मध्यमपदलोपो द्रष्टव्यः। शुचिराषाढमासः शुक्रो ज्येष्ठस्तयोः संबन्धिनि दिवसे यदौष्ण्यमस्ति ततोऽपि शुचिरोजसीनाऽतिशयेनौष्ण्यरूपौजोयुक्तः। हे इन्द्र परमैश्वर्ययुक्त त्वमधिपतिस्तस्या उग्राया दिशस्तयोरत्युष्णयोश्च स्वामी। तादृशस्त्वमत उभयस्मान्नेऽस्मान्पिपृतात्पालय । किंच विश्वतो महि सर्वस्मान्महदिदं क्षत्त्रं बलं धारय संपादय।

विश्वास-प्रस्तुतिः ...{Loading}...

बृ॒हथ्-साम॑ ख्षत्र॒-भृद् वृ॒द्ध-वृ॑ष्णियन्,
त्रि॒ष्टुभौज॑श् शुभि॒तम् उ॒ग्र-वी॑रम् +++(इति सन्ति, तैः)+++।
इन्द्र॒ स्तोमे॑न पञ्च-द॒शेन॒ मध्य॑म्
इ॒दव्ँ वाते॑न॒ सग॑रेण +++(च)+++ रख्ष

सर्वाष् टीकाः ...{Loading}...

Keith

(May) the Brhat Saman, which supporteth kingly power, with vast strength,
The force made beautiful by the Tristubh, that of fierce strength (protect us);
O Indra, with the fifteenfold Stoma
Do thou guard this in the midst with the wind, with the ocean.

मूलम्

बृ॒हथ्साम॑ ख्षत्र॒भृद्वृ॒द्धवृ॑ष्णियन्त्रि॒ष्टुभौज॑श्शुभि॒तमु॒ग्रवी॑रम् ।
इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दव्ँवाते॑न॒ सग॑रेण रख्ष ।

सायण-टीका

तत्रैव याज्यामाह बृहत्सामेति बृहदाख्यं यत्साम तत्त्रिष्टुभा छन्दसा सह पिपर्त्वित्यनुवर्तते। अस्मान्पालयत्वित्यर्थः। कीदृशं साम, क्षत्त्रभृब्दलस्य धारयितृ, वृद्धिवृष्णि यमुत्थितपुस्कम्, ओजो बलप्रदं, शुभितं शोभमानम्, उग्रवीरं तीव्रपुत्रप्रदम्। हे इन्द्र पञ्चदशाख्येन स्तोमेन सगराख्येन वातेन सहितः सन्निदं मध्यं रक्षातीतानागतयोर्मध्ये स्थितमिदमस्मदीयं शरीरं पालय।

विश्वे देवाः

सायणोक्त-विनियोगः

अथ विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपाल इत्यस्य पुरोनुवाक्यामाह— प्राची दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

प्राची॑ दि॒शाꣳ स॒ह-य॑शा॒ यश॑स्वती॒
विश्वे॑ देवाᳶ प्रा॒वृषाह्ना॒ꣳ॒ सुव॑र्वती ।
इ॒दङ् ख्ष॒त्रन् दु॒ष्टर॑म् अ॒स्त्व् ओजो
ऽना॑धृष्टꣳ सह॒स्रिय॒ꣳ॒ सह॑स्वत् ।

सर्वाष् टीकाः ...{Loading}...

Keith

(May) the eastern among the quarters, famous and renowned,
O ye All-gods, heavenly with the rain of the days (protect us);
Let this kingly power be unassailable,
Force unoverpowerable, a thousandfold and mighty.

मूलम्

प्राची॑ दि॒शाꣳ स॒हय॑शा॒ यश॑स्वती॒ विश्वे॑ देवाᳶ प्रा॒वृषाह्ना॒ꣳ॒ सुव॑र्वती ।
इ॒दङ्ख्ष॒त्रन्दु॒ष्टर॑म॒स्त्वोजोऽना॑धृष्टꣳ सह॒स्रिय॒ꣳ॒ सह॑स्वत् ।

सायण-टीका

अत्र प्रशब्दः प्रतिशब्दार्थे वर्तते। तथा सति दिशां मध्ये प्राची पश्चिमा दिगित्यर्थः। सा च सहयशा अस्मासु संपाद्यमानेन २१०६ यशसा सहिता स्वयमपि यशस्वती। सा च सुवर्वती स्वर्गनिवासिनी सूर्येणास्तमयकालभाविना युक्ता। तथाविधा दिगस्मान्पात्विति शेषः। तथा विश्वे देवाः प्रावृषा वर्षर्तुना तदीयानामह्नां समूहेन सहिताऽस्मान्पालयत्विति शेषः। इदं क्षत्त्रमस्मत्परिपालकं राजशरीरं केनाप्यन्तेन् वैरिणा तरितुं लङ्घीयतुमशक्यमस्तु। ओजो मदीयं वलमनाधृष्टं केनाप्यतिरस्कृतमस्तु। तथा सहस्त्रियं सहस्त्रसंख्यायोग्यं सहस्वत्प्रवलं धामास्तु।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह– वैरूपे सामन्निति।

विश्वास-प्रस्तुतिः ...{Loading}...

वै॒रू॒पे साम॑न्न् इ॒ह तच् छ॑केम॒
जग॑त्यैनव्ँ +++(यजमानं)+++ वि॒ख्ष्व्+++(←विश्)+++ आ वे॑शयामः
विश्वे॑ देवास् सप्त-द॒शेन॑ [34] वर्च॑
इ॒दङ् ख्ष॒त्रꣳ स॑लि॒ल+++(→सागर)+++-वा॑तम् उ॒ग्रम् ।+++(4)+++

सर्वाष् टीकाः ...{Loading}...

English

Here in the Vairupa Saman may we have strength for this;
With the Jagati we place him in the people;
O ye All-gods [2] through the seventeenfold (Stoma) this radiance,
This kingly power with the ocean wind (be) dread.

मूलम्

वै॒रू॒पे साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनव्ँवि॒ख्ष्वा वे॑शयामः ।
विश्वे॑ देवास्सप्तद॒शेन॑ [34] वर्च॑ इ॒दङ्ख्ष॒त्रꣳ स॑लि॒लवा॑तमु॒ग्रम् ।

सायण-टीका

वैरूपाख्यं यत्सामास्ति तस्मिन्नाश्रिता वयमिह कर्मणि यत्फलमपेक्षितं तच्छकेम् संपादयितुं शक्ताः स्मः।
तथा जगत्याख्यया छन्दोदेवतयाऽनुगृहीता वयमेनं यजमानं विक्षु प्रजास्वावेशमामः प्रजानां स्वामिनं कुमं इत्यर्थः। हे विश्वे देवाः सप्तदशाख्येन स्तोमेन युष्माभिश्चानुगृहीतमिदं क्षत्त्रमस्मत्पालकं राजशरीरं वर्चस्तेजोयुक्तं सलिलाख्येन वायुविशेषेणानुगृहीतम्। स च वायुः “सलिलाय त्वा वाताय स्वाहा” इत्याम्नातः। उग्रं वैरितिरस्कारक्षममस्तु।

मित्रा-वरुणौ

सायणोक्त-विनियोगः

अथ ‘मित्रावरुणाभ्यामानुष्टुभाभ्यामेकावि+शाभ्यां वैराजाभ्याꣳ शारदाभ्यां पयस्या’ इत्यस्य पुरोनुवाक्यामाह— धर्त्री दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

ध॒र्त्री दि॒शाङ् ख्ष॒त्रम् इ॒दन् दा॑धार+
उ॒प॒-स्था ऽऽशा॑नाम् मि॒त्रव॑द् अ॒स्त्व् ओजः॑
+++(पुरा शरदि सूर्ये ऽनुराधायां सति, शतभिषजि च रात्रौ खे राजति)+++
मित्रा॑-वरुणा श॒रदाऽह्ना᳚ञ् चिकित्नू+++(=ज्ञातारौ)+++
अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम्

सर्वाष् टीकाः ...{Loading}...

English

The supporter among the quarters doth support this lordly power,
The stay of the regions; may force rich in friends be ours;
O Mitra and Varuna, ye wise ones with the autumn of the days,
Do ye accord great protection to this kingdom.

मूलम्

ध॒र्त्री दि॒शाङ्ख्ष॒त्रमि॒दन्दा॑धारोप॒स्थाशा॑नाम्मि॒त्रव॑द॒स्त्वोजः॑ ।
मित्रा॑वरुणा श॒रदाह्ना᳚ञ्चिकित्नू अ॒स्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यच्छतम् ।

सायण-टीका

दिशां मध्ये धर्त्र्यस्माकं धारयित्रीयमुदीची दिगिदं क्षत्त्रमस्मत्पालकं क्षत्रियशरीरं दाधार पोषयामास। कीदृशी, आशानामुपस्था, अस्माकं धनादिविषयाणामाशानां सिद्ध्यर्थं सेव्या। य(त)स्या दिशः प्रसादादस्मदीयमोजो बलं मित्रवदस्तु बहुभिर्मित्रैरुपेतमस्तु। हे मित्रावरुणा शरदा शरन्नामकेनर्तुना तदीयानामह्नां चिकित्नू ज्ञातारौ युवामस्मा इदानीं वर्तमानाय राष्ट्राय महि शर्म यच्छतं महत्सुस्त्रं संपादयतम्।

सायणोक्त-विनियोगः

तत्रैव याज्यमाह— वैराजे सामन्निति।

विश्वास-प्रस्तुतिः ...{Loading}...

वै॒रा॒जे साम॒न्न् अधि॑ मे मनी॒षा
ऽनु॒ष्टुभा॒ सम्भृ॑तव्ँ वी॒र्यꣳ॑ सहः॑ ।
इ॒दङ् ख्ष॒त्रम् मि॒त्र-व॑द् आ॒र्द्र-दा॑नु॒ +++(वातः)+++
मित्रा॑-वरुणा॒ रख्ष॑त॒म् आधि॑पत्यैः ।

सर्वाष् टीकाः ...{Loading}...

Keith

In the Vairaja Saman is my devotion;
By the Anustubh (be) manly strength collected;
This kingly power rich in friends, with dripping wet,
Do ye, O Mitra and Varuna, guard through your overlordship.

मूलम्

वै॒रा॒जे साम॒न्नधि॑ मे मनी॒षानु॒ष्टुभा॒ सम्भृ॑तव्ँवी॒र्यꣳ॑ सहः॑ ।
इ॒दङ्ख्ष॒त्रम्मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रख्ष॑त॒माधि॑पत्यैः ।

सायण-टीका

वैराजाख्य यत्सामास्ति तस्मिन्मे मदीया मनीषा बुद्धिराश्रितोऽस्त्विति शेषः तथा वीर्यमस्मदीयं शरीरव्यवहारसामर्थ्यं सहो वैरितिरस्कारकं बलं चानुष्टुभा छन्दोदेवतया संमृतं संपादितमस्तु।
मित्रावरुणा हे मित्रावरुणाविदं क्षत्त्रं राजशरीरं मित्रवन्मित्रैर्बहुभिरुपेतम् आर्द्रदानु आर्द्रस्य जल २१०७ संपूर्णस्य क्षेत्रादेर्दातृ यथा भवति तथा युवामधिपपत्यै रक्षतमाधिपत्याद्विदित्वा (दि दत्त्वा) पालयतम्।

बृहस्पतिः

सायणोक्त-विनियोगः

अथ बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्किया चरुः, इत्यस्य पुरोनुवाक्यामाह– सम्राड्दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

स॒म्राड् दि॒शाꣳ स॒ह-सा᳚म्नी॒ सह॑स्वत्य्
ऋ॒तुर् हे॑म॒न्तो वि॒ष्ठया॑+++(←स्था)+++ नᳶ पिपर्तु
अ॒व॒स्यु-वा॑ताः बृह॒तीर् नु शक्व॑रीर्
इ॒मय्ँ य॒ज्ञम् अ॑वन्तु नो घृ॒ताचीः᳚

सर्वाष् टीकाः ...{Loading}...

Keith

May the victorious among quarters, with the Saman, the strong one,
The season winter in order make us full;
May the great ones, the Śakvari (verses), with favouring winds [8]
Aid this sacrifice, full of ghee.

मूलम्

स॒म्राड्दि॒शाꣳ स॒हसा᳚म्नी॒ सह॑स्वत्यृ॒तुर्हे॑म॒न्तो वि॒ष्ठया॑ नᳶ पिपर्तु ।
अ॒व॒स्युवा॑ताः [35] बृ॒ह॒तीर्नु शक्व॑रीरि॒मय्ँय॒ज्ञम॑वन्तु नो घृ॒ताचीः᳚ ।

सायण-टीका

दिशां मध्ये सम्यग्राजात इति सम्राडूर्ध्वा दिक्, सा च सहसाम्नी सामभिः सहिता सहस्वती बलवती नोऽस्मान्पिपर्तु पालयतु। तथा हेमन्ताख्य ऋतुर्विष्ठया विशिष्टया स्थित्या नः पिपर्तु। अवस्युवाता अवस्यवो क्षयितारो वाता वाययो यासां बृहतीनामृचां ता अवस्युवाता बृहतीर्बृहत्याख्यच्छन्दोयुक्तः शक्वरीर्नु शाक्वरसाम्नो योनिभूता ऋचोऽपि घृताचीर्घृताहुतियुक्ताः सत्यो नोऽस्मदीयमिमं यज्ञमवन्तु।

सायणोक्त-विनियोगः

तत्रैव याज्यमाह— सुवर्वतीति।

विश्वास-प्रस्तुतिः ...{Loading}...

+++(ख-गङ्गा-रूपा?)+++ सुव॑र्वती सु॒दुघा॑ न॒ᳶ पय॑स्वती
दि॒शान् दे॒व्य् अ॑वतु नो घृ॒ताची᳚ ।
त्वङ् गो॒-पाᳶ पु॑र ए॒तोत प॒श्चाद्
बृह॑स्पते॒ याम्या᳚य्ँ +++(दिशि)+++ युङ्ग्धि॒ वाच᳚म् ।

सर्वाष् टीकाः ...{Loading}...

Keith

May the heavenly of the quarters, the easily milked, the rich in milk, The goddess aid us, full of ghee;
Thou art the protector, who goest in front and behind;
O Brhaspati, yoke a voice in the south.

मूलम्

सुव॑र्वती सु॒दुघा॑ न॒ᳶ पय॑स्वती दि॒शान्दे॒व्य॑वतु नो घृ॒ताची᳚ ।
त्वङ्गो॒पाᳶ पु॑रए॒तोत प॒श्चाद्बृह॑स्पते॒ याम्या᳚य्ँयुङ्ग्धि॒ वाच᳚म् ।

सायण-टीका

दिशां स्वामिभूता देवी सुवर्वती स्वर्गयुक्ता स्वर्गप्रदेत्यर्थः। नोऽस्मान्प्रति सुदुधा कामधेनुवत्सुष्ठु दोहनशीला। अत एव पयस्वती क्षीरादिरसद्रव्यपूर्णं विशेषतो घृताची घृतं प्राप्नुवती। हे बृहस्पते त्वं पुरएता पुरतो गन्ता सन्गोपा रक्षक उतापि च पश्चात्पृष्टतोऽपि रक्षकस्तादृशस्त्वं याम्यां यममयीं वाचं युङ्ग्धि योजय, एवमेवं वर्तस्वेत्यादिशेत्यर्थः।

सविता

सायणोक्त-विनियोगः

अथ ‘सवित्र आतिच्छन्दसाय त्रयस्त्रिꣳशाय रैवताय शैशिराय द्वादशकपालः’ इत्यस्य पुरोनुवाक्यामाह— ऊर्ध्वा दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वा दि॒शाꣳ रन्ति॒र्+++(←रम्)+++ आशा॒+औष॑धीनाꣳ
सव्ँवथ्स॒रेण॑ सवि॒ता नो॒ अह्ना᳚म् ।
रे॒वथ् साम+अति॑च्छन्दा उ॒ छन्दो+
ऽजा॑त-शत्रुस् स्यो॒ना नो॑ अस्तु

सर्वाष् टीकाः ...{Loading}...

Keith

(May) the upright of the quarters, the bounteous region of the plants, And Savitr with the year of the days (aid us);
The Revat Saman, and the Atichandas metre;
Without a foe, be kindly to us.

मूलम्

ऊ॒र्ध्वा दि॒शाꣳ रन्ति॒राशौष॑धीनाꣳ सव्ँवथ्स॒रेण॑ सवि॒ता नो॒ अह्ना᳚म् ।
रे॒वथ्सामाति॑च्छन्दा उ॒ छन्दोजा॑तशत्रुस्स्यो॒ना नो॑ अस्तु ।

सायण-टीका

दिशां मध्ये येयमूर्ध्वा दिक्सा रन्तिः प्रीतिहेतुः, सा चौषधीनां वृष्टिद्वारी संषादिकेति शेषः। तादृसी नोऽस्मान्प्रति स्योना सुखदाऽस्तु। तथाऽह्नां समूहरूपेण संवत्सरेण सह सविता सुखप्रदोऽस्तु। तथा रेव द्रवताख्यं यत्सामातिच्छन्दा उ अतिच्छन्दोयुक्तर्गाषि तथा तस्यामृचि वर्तमानं छन्दश्चेत्येष समूहोऽजातशत्रुरस्तु, अस्मदीयः शत्रुर्यथा नोत्पद्यते तथा करोत्वित्यर्थः

सायणोक्त-विनियोगः

तत्रैव याज्यामाह— स्तोमत्रयस्त्रिꣳश इति।

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोम॑ त्रयस्त्रिꣳशे॒! भुव॑नस्य पत्नि॒!
विव॑स्वद्-वाते! अ॒भि नो॑ गृणाहि+++(←गृ शब्दे)+++ ।
घृ॒तव॑ती सवित॒र्! आधि॑पत्यै॒ᳶ
पय॑स्वती॒ रन्ति॒र्+++(←रम्)+++ +++(इयम्)+++ आशा॑ नो अस्तु

सर्वाष् टीकाः ...{Loading}...

Keith

O thou of the three-and-thirtyfold Stoma, lady of the world,
Breathed on by Vivasvant, do thou be gracious to us [4];
Rich in ghee, O Savitr, through thy overlordship,
Be the bounteous region rich in milk, for us.

मूलम्

स्तोम॑त्रयस्त्रिꣳशे॒ भुव॑नस्य पत्नि॒ विव॑स्वद्वाते अ॒भि नो॑ [36] गृणाहि ।
घृ॒तव॑ती सवित॒राधि॑पत्यै॒ᳶ पय॑स्वती॒ रन्ति॒राशा॑ नो अस्तु ।

सायण-टीका

हे स्तोमत्रयस्त्रिंशे त्रयस्त्रिंशाख्यः स्तोमो यस्या ऊर्ध्वाया दिशः स स्तोमत्रयस्त्रिंशा, तत्संबोधनमिदम्। भुवनस्य पत्नि भूतजातस्य पत्नी पालीयत्री (तत्संहबोधनमिदम्)। हे विवस्तद्-वाते विवस्वन्नामको वातो २१०८ वायुर्यस्याः सा विवस्वद्वाता तत्संबोधनमिदम्। विवस्वते त्वा वाताय स्वाहेत्य् अन्यत्राऽऽम्नातम्।
तथाविधा नोऽभिगृणाह्य् अस्मान् प्रति हितमुपदिश।
हे सवितर् इयम् आशा दिङ्नोऽस्मान्प्रति घृतवती बहुलघुसंपादिका ऽऽधिपत्यैर् अधिकपालनशक्तिभिर् योजयित्री पयस्वती क्षीरसंपादिका रन्तिः प्रीतिहेतुर् अस्तुः।

अदितिः

सायणोक्त-विनियोगः

अथादित्यै विष्णुपत्न्यै चरुरित्यस्य पुरोनुवाक्यामाह— घ्रुवा दिशामिति।

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रु॒वा दि॒शाव्ँ वि॑ष्णु-प॒त्न्य् अ-घो॑रा॒
ऽस्येशा॑ना॒ सह॑सो॒, या म॒नोता᳚ +++(←मनस् + ऊता)+++।
बृह॒स्पति॑र् मात॒रिश्वो॒त वा॒युस्
स॑न्धुवा॒ना+++(←धु कम्पने)+++ वाता॑ अ॒भि नो॑ गृणन्तु

सर्वाष् टीकाः ...{Loading}...

Keith

The firm among the quarters, lady of Visnu, the mild,
Ruling over this strength, the desirable,
Brhaspati, Matariśvan, Vayu,
The winds blowing together be gracious to us.

मूलम्

ध्रु॒वा दि॒शाव्ँवि॑ष्णुप॒त्न्यघो॑रा॒स्येशा॑ना॒ सह॑सो॒ या म॒नोता᳚ ।
बृह॒स्पति॑र्मात॒रिश्वो॒त वा॒युस्स॑न्धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु ।

सायण-टीका

दिशां मध्ये या घ्रुवा स्थिरा सूर्यगतिसाषेक्षप्राच्या+++(=??)+++ दिवि भागरहिता समानरूपा दिग्
यश्च ब्रृहस्पतिर्यो ऽपि मातरिश्वाख्यो मुख्यवायुर्येचान्ये संधुवानाः सम्यक्तत्र तत्र कम्पयन्तो वातास्ते सर्वेऽपि नोऽभिगृणन्त्वस्मान्प्रति हितमुपदिशन्तु। कीदृशी घ्रुवा, विष्णुपत्नी विष्णुः पतिः पालको यस्याः सा विष्णुपत्नी, अघोरा शान्तरूपा, अस्य सहसः सर्वस्य बलस्येशाना नियामिका, मनोता मनस्यूता पूजितेत्यर्थः।

सायणोक्त-विनियोगः

तत्रैव याज्यामाह— विष्टम्भो दिव इति।

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒ष्ट॒म्भो दि॒वो, ध॒रुणᳶ॑ पृथि॒व्या,
अ॒स्येशा॑ना॒ जग॑तो॒, विष्णु॑-पत्नी ।
वि॒श्व-व्य॑चा इ॒षय॑न्ती॒+++(←इषम् = अन्नम्)+++ सुभू॑तिश्
शि॒वा नो॑ अ॒स्त्व् अदि॑तिर् +++(त्वद्-)+++ उ॒प-स्थे᳚ ।

सर्वाष् टीकाः ...{Loading}...

Keith

Prop of the sky, supporter of the earth,
Ruling this world, lady of Visnu,
All-extending, seeking food, with prosperity,
May Aditi be auspicious to us in her life.

मूलम्

वि॒ष्ट॒म्भो दि॒वो ध॒रुणᳶ॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी ।
वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑तिश्शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे᳚ ।

सायण-टीका

अदितिरखण्डनीया दिक् सामान्य-रूपा
देवतोपस्थे स्वोत्सङ्गे स्थितान् नोऽस्मान्प्रति शिवाऽस्तु शान्ता सुखकरी भवतु।
कीदृश्यादितिः, दिवो विष्टम्भो द्युलोकस्याऽऽधारभूता
पृथिव्या घरुणो भूमेर्धारयित्री,
अस्य जगत ईशाना सर्वस्य जगतः स्वामिभूता,
विष्णुः पतिः पालको यस्याः सा विष्णुपत्नी, विश्वव्यचा जगद्व्यापिनी, इषयन्तीषमन्नं कुर्वती, सुभूतिः शोभनैश्वर्योपेता।

वैश्वानरः

सायणोक्त-विनियोगः

अथाग्नये वैश्वानराय द्वादशकपाल इत्यस्य याज्यानुवाक्ययोः प्रतीके दर्शयति—

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि ।

Keith

Vaiśvanara to our help. Present in the sky.

02 वैश्वानरो न ...{Loading}...

वै॒श्वा॒न॒रो न॑ ऊ॒त्या
ऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निर् उ॒क्थेन॒ वाह॑सा ॥

02 वैश्वानरो न ...{Loading}...
Keith

Let Vaiśvanara with succour for us
Come from afar,
Agni through the hymn which brings (him).

मूलम्

वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽप्र या॑तु परा॒वतः॑ ।
अ॒ग्निरु॒क्थेन॒ वाह॑सा ॥

भट्टभास्कर-टीका

वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी अग्निः । ‘नरे संज्ञायाम्’ इति पूर्वपदस्य दीर्घत्वम् । ऊत्या मार्गेण करणेन अस्मद्रक्षणेन वा हेतुना आत्मनो वा तर्पणेन प्रयोजनेन । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते, ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वं, ‘ज्वरत्वर’ इत्यादिना ऊठ् ।

स नो ऽस्मान् आप्रयातु आभिमुख्येनान्येभ्यश्च प्रकर्षेणास्मान् प्राप्नोतु परावतः दूरादप्यायातु । ‘उपसर्गाच्छन्दसि’ इति वतिः । उक्थेन स्तोत्रेण वाहसा वहनसमर्थेन अभीष्टार्थवाहनसमर्थेनेत्यर्थः ।

यद्वा - प्रापणसमर्थेन मार्गेण । ‘वहिहाधाञ्भ्यश्छन्दसि’ इत्यसुन्, ‘णित्’ इति हि तत्रानुवर्तते । आगत्य चास्मानभिशस्तेर्मुञ्चन्पापं वर्णमपहन्त्विति शेषः ॥

०२ पृष्टो दिवि ...{Loading}...

पृ॒ष्टो+++(←पृच्छ्)+++ दि॒वि, पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां,
पृ॒ष्टो विश्वा॒ ओष॑धी॒र् आ वि॑वेश
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - अग्निरग्निर्वैश्वानरो वा
  • ऋषिः - कुत्स आङ्गिरसः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

पृष्टो꣡ दिवि꣡ पृष्टो꣡ अग्निः꣡ पृथिव्या꣡म्
पृष्टो꣡ वि꣡श्वा ओ꣡षधीर् आ꣡ विवेश
वैश्वानरः꣡ स꣡हसा पृष्टो꣡ अग्निः꣡
स꣡ नो दि꣡वा स꣡ रिषः꣡ पातु न꣡क्तम्

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M
genre M

Morph

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

pr̥thivyā́m ← pr̥thivī́- (nominal stem)
{case:LOC, gender:F, number:SG}

ā́ ← ā́ (invariable)
{}

óṣadhīḥ ← óṣadhī- (nominal stem)
{case:ACC, gender:F, number:PL}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

víśvāḥ ← víśva- (nominal stem)
{case:ACC, gender:F, number:PL}

viveśa ← √viś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}

pr̥ṣṭáḥ ← √praś- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}

sáhasā ← sáhas- (nominal stem)
{case:INS, gender:N, number:SG}

vaiśvānaráḥ ← vaiśvānará- (nominal stem)
{case:NOM, gender:M, number:SG}

dívā ← dívā (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}

pātu ← √pā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

riṣáḥ ← ríṣ- (nominal stem)
{case:ABL, gender:F, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः॑ । ओष॑धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह॑सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

Hellwig Grammar
  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • dividiv
  • [noun], locative, singular, masculine
  • “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • pṛthivyāmpṛthivī
  • [noun], locative, singular, feminine
  • “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • viśvāviśvāḥviśva
  • [noun], accusative, plural, feminine
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • oṣadhīroṣadhīḥoṣadhi
  • [noun], accusative, plural, feminine
  • “herb; plant; drug; simple; oṣadhi [word]; remedy.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • viveśaviś
  • [verb], singular, Perfect indicative
  • “enter; penetrate; settle; settle.”

  • vaiśvānaraḥvaiśvānara
  • [noun], nominative, singular, masculine
  • “Agni; fire; Vaiśvānara; Vaiśvānara; sacrificial fire; sun.”

  • sahasāsahas
  • [noun], instrumental, singular, neuter
  • “force; strength; might; sahas [word]; conquest.”

  • pṛṣṭopṛṣṭaḥpracch
  • [verb noun], nominative, singular
  • “ask; ask; ask; consult; interrogate.”

  • agniḥagni
  • [noun], nominative, singular, masculine
  • “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • divā
  • [adverb]
  • “by day; divā [indecl.].”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • riṣaḥriṣ
  • [noun], ablative, singular, feminine
  • “injury; riṣ; damage.”

  • pātu
  • [verb], singular, Present imperative
  • “protect; govern.”

  • naktamnakta
  • [noun], accusative, singular, neuter
  • “night; night.”

सायण-भाष्यम्

अयं वैश्वानरः अग्निः दिवि द्युलोके आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वाः ओषधीः पृष्टः संस्पृष्टः सः अग्निः विवेश पाकार्थमन्तः प्रविष्टवान् । अन्तःप्रविष्टेन पार्थिवेनाग्निना’ हि सर्वा ओषधयः पच्यन्ते। सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टः वैश्वानरः नः अस्मान् दिवा अह्नि रिषः हिंसतः शत्रोः पातु रक्षतु । तथा सः वैश्वानरः नक्तं रात्रवप्यस्मान् हिंसकात् पातु ॥ पृष्टः । ‘ स्पृश संस्पर्शने ‘। छान्दसः सकारलोपः । यद्वा । ‘ पृषु सेचने ’ । निष्ठायां यस्य विभाषा ’ इति इट्प्रतिषेधः । दिवि । ‘ ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । पृथिव्याम् ।’ उदात्तयण: ’ इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् ’ । ‘ क्विप् च’ इति क्विप् ।’ सावेकाचः’ इति पञ्चम्या उदात्तत्वम् ।

भट्टभास्कर-टीका

अयं वैश्वानरोग्निः दिव्यादित्यात्मना पृष्टः स्पृष्टः । छान्दसो व्यञ्जनलोपः । यद्वा - पृष्टो निषिक्तः निहितः दिव्यादित्यात्मना । पृष सेचने ।
पृथिव्यां च पार्थिवेषु । ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वमुक्तम् । पृष्ट एव भूत्वा विश्वा ओषधीराविवेश, पक्तिस्थितिहेतुत्वेन सर्वं व्याप्य स्थितः ।

स एवम्भूतो वैश्वानरो ऽग्निस् सहसा बलेन पृष्टस् सम्बद्धो नोस्मान् रिषः रेष्टुर्हिंसितुः दिवा पातु रक्षतु । नोस्मान् नक्तंपातु अतिपत्तिदोषात्पात्विति ॥

Wilson
English translation:

Agni, who is present in the sky, and present upon earth, and who, present, has pervaded all herbs; may the Agni Vaiśvānara, who is present in vigour, guard us night and day, against our enemies”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Pṛṣṭa = saṃspṛṣṭa = in contact with, or nihita, plural ced or present inth esky: Agni is in contact with, or present, in the sun; on earth, in sacred and domestic fire, and in herbs, or annuals, as the cause of their coming to maturity

Jamison Brereton

Sought in heaven and sought on earth, being sought, Agni entered all the plants.
Sought forcefully, let Agni Vaiśvānara protect us from harm by day and by night.

Jamison Brereton Notes

As noted in the published introduction, I take this verse as an allusion to the well-known story of Agni’s disappearance and the gods’ search for him (treated in detail in X.51- 53). (So also Oldenberg SBE.) However, this mythic allusion must be mediated by reference to the here-and-now, given the hope for Agni’s protection expressed in the final pāda. This mediation is perhaps signaled by pāda b, where Agni’s hiding place is identified. Instead of the waters, where Agni takes refuge in the myth, he has entered “all plants” (víśvā óṣadhīḥ). Agni’s hidden presence in plants, the quality that allows him to be born from them, is a standard trope in hymns treating the kindling of the ritual fire and is in fact alluded to at the end of a nearby Kutsa hymn, I.95.10d antár návāsu carati prasū́ṣu “he roams within the new, fruitful (plants).”

Griffith

Present in heaven, in earth, all-present Agni,–all plants that grow on ground hath he pervaded.
May Agni, may Vaisvanara with vigour, present, preserve us day and night from foemen.

Oldenberg

Agni who has been looked and longed for 1 in Heaven, who has been looked for on Earth—he who has been looked for, has entered all herbs. May Agni Vaisvânara, who has strongly been looked for, protect us from harm by day and by night.

Keith

Desired in the sky, Agni, desired on earth,
Desired he entereth all the plants;
Agni Vaiśvanara eagerly desired,
May he by day [1] and night protect us from the foe.

Geldner

Im Himmel gesucht, auf Erden gesucht ist der gesuchte Agni in alle Pflanzen eingegangen. Mit Kraft gesucht wird der Agni Vaisvanara; er soll uns am Tag und Nachts vor Schaden behüten.

Grassmann

Begehrt im Himmel Agni und auf Erden, begehrt auch ging er ein in alle Pflanzen, Mit Kraft begehrt der Hort der Männer, Agni, er schütze uns bei Tag und Nacht vor Feinden.

Elizarenkova

Тот, кого ищут на небе, кого ищут на земле,
Агни, которого ищут, вошел во все растения.
Агни-Вайшванара, которого решительно ищут,
Да охранит он нас днем от беды, (да охранит) он ночью!

अधिमन्त्रम् (VC)
  • अग्निर्वैश्वानरः
  • कुत्सः आङ्गिरसः
  • त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - जो (अग्निः) ईश्वर वा भौतिक अग्नि (दिवि) दिव्यगुण सम्पन्न जगत् में (पृष्टः) विद्वानों के प्रति पूछा जाता वा जो (पृथिव्याम्) अन्तरिक्ष वा भूमि में (पृष्टः) पूछने योग्य है वा जो (पृष्टः) पूछने योग्य (वैश्वानरः) सब मनुष्यमात्र को सत्य व्यवहार में प्रवृत्त करानेहारा (अग्निः) ईश्वर और भौतिक अग्नि (विश्वा) समस्त (ओषधीः) सोमलता आदि ओषधियों में (आ, विवेश) प्रविष्ट हो रहा और (सहसा) बल आदि गुणों के साथ वर्त्तमान (पृष्टः) पूछने योग्य है वह (नः) (सः) हम लोगों को (दिवा) दिन में (रिषः) मारनेवाले से और (नक्तम्) रात्रि में मारनेवाले से (पातु) बचावे वा भौतिक अग्नि बचाता है ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को चाहिये कि विद्वानों के समीप जाकर ईश्वर वा बिजुली आदि अग्नि के गुणों को पूछकर ईश्वर की उपासना और अग्नि के गुणों से उपकारों का आश्रय करके हिंसा में न ठहरें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: योऽग्निर्विद्धद्भिर्दिवि पृष्टो यः पृथिव्यां पृष्टो यः पृष्टो वैश्वानरोऽग्निर्विश्वा ओषधीराविवेश सहसा पृष्टः स नो दिवा रिषः स नक्तं च पातु पाति वा ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनस्तौ कीदृशावित्युपदिश्यते ।

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (पृष्टः) विदुषः प्रति यः पृच्छ्यते (दिवि) दिव्यगुणसंपन्ने जगति (पृष्टः) (अग्निः) विज्ञानस्वरूप ईश्वरो विद्युदग्निर्वा (पृथिव्याम्) अन्तरिक्षे भूमौ वा (पृष्टः) प्रष्टव्यः (विश्वाः) अखिलाः (ओषधीः) सोमलताद्याः (आ) सर्वतः (विवेश) प्रविष्टोऽस्ति (वैश्वानरः) सर्वस्य नरसमूहस्य नेता (सहसा) बलादिगुणैः सह वर्त्तमानाः (पृष्टः) (अग्निः) (सः) (नः) अस्मान् (दिवा) विज्ञानान्धकारप्रकाशेन सह (सः) (रिषः) हिंसकात् (पातु) पाति वा (नक्तम्) रात्रौ ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैर्विदुषां समीपं गत्वेश्वरस्य विद्युदादेश्च गुणान् पृष्ट्वोपकारं चाश्रित्य हिंसायां च न स्थातव्यम् ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी विद्वानांजवळ जाऊन ईश्वर व विद्युत इत्यादी अग्नीच्या गुणांना जाणून ईश्वराची उपासना व अग्नीपासून उपयोग करून घ्यावा तसेच हिंसा करू नये. ॥ २ ॥

अनुमतिः, अनिः

सायणोक्त-विनियोगः

… अनु नोद्येऽति। अनु नोऽद्यानुमतिरिति पुरोनुवाक्या।

मूलम्

अनु॑ नो॒ऽद्यानु॑मतिः …

Keith

Us to-day Anumati.

19 अनु नोऽद्यानुमतिर् ...{Loading}...

अनु॑ नो॒ऽद्यानु॑मतिर् +++(=ऊनचन्द्रा पौर्णमासी)+++
य॒ज्ञन् दे॒वेषु॑ मन्यताम्
अ॒ग्निश् च॑ हव्य॒वाह॑नो॒,
भव॑तान् दा॒शुषे॒ मयः॑ ।

19 अनु नोऽद्यानुमतिर् ...{Loading}...
Keith

For us to-day may Anumati
Among the gods favour our sacrifice,
And be she and Agni, bearer of the oblation,
A joy to the giver.

मूलम्

अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञन्दे॒वेषु॑ मन्यताम् ।
अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तान्दा॒शुषे॒ मयः॑ ।

भट्टभास्कर-टीका

नोस्माकम् इमं यज्ञं
अनुमतिर् देवी अद्येदानीं देवेषु अनुमन्यतां
देवान् प्रापयतु देव-निमित्तं वा अनुजानातु ।
ऊनचन्द्रा पौर्णमासी अनुमतिः
अग्निश्च हव्यवाहनः हविषां वोढा देवेष्व् अनुमन्यताम् इत्येव । ‘हव्येनन्तः पादम्’ इति ञ्युट्, किंच -
तौ अनुमति-हव्यवाहनौ दाशुषे हविर्-दत्तवते अस्मै यजमानाय मयः सुखहेतुः भवताम्

सायणोक्त-विनियोगः

अन्विदनुमते त्वमिति याज्या, एतच्चोभयमिदं वामास्ये हविरित्यनुवाके व्याख्यातम्।

मूलम्

अविद॑नुमते॒ त्वम् ..

Keith

O Anumati, thou.

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् इद् अ॑नुमते॒ त्वम् [34]
मन्या॑सै॒ शञ्च॑ नᳵ कृधि
क्रत्वे॒ दख्षा॑य नो हिनु॒+++(=प्रेरय)+++
प्र ण॒ आयूꣳ॑षि तारिषः

कः

सायणोक्त-विनियोगः

अथ काय एककपाल इत्यस्य याज्यानुवाक्योः प्रतीके दर्शयति— कया नश्चित्र इति। कया निश्चित्र आ भुवादिति पुरोनुवाक्या।

मूलम्

कया॑ नश्चि॒त्र आ भु॑व॒त्

Keith

With what to us radiant shall he be?

०१ कया नश्चित्र ...{Loading}...

कया॑ नश् चि॒त्र +++(=चयनीयः)+++ आ भु॑वद्
ऊ॒ती +++(=रक्षणम्/ तर्पणम् [तेन])+++, स॒दा-वृ॑धः॒ +++(=वर्धमानः)+++ सखा॑ ।
कया॒ शचि॑ष्ठया +++(=प्रज्ञावता)+++ वृ॒ता +++(=वर्तनेन)+++ १

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - वामदेवो गौतमः
  • छन्दः - गायत्री
Thomson & Solcum

क꣡या नश् चित्र꣡ आ꣡ भुवद्
ऊती꣡ सदा꣡वृधः स꣡खा
क꣡या श꣡चिष्ठया वृता꣡

Vedaweb annotation
Strata

Strophic

Pāda-label

genre M
genre M
genre M

Morph

ā́ ← ā́ (invariable)
{}

bhuvat ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}

citráḥ ← citrá- (nominal stem)
{case:NOM, gender:M, number:SG}

káyā ← ká- (pronoun)
{case:INS, gender:F, number:SG}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

sadā́vr̥dhaḥ ← sadā́vr̥dha- (nominal stem)
{case:NOM, gender:M, number:SG}

sákhā ← sákhi- (nominal stem)
{case:NOM, gender:M, number:SG}

ūtī́ ← ūtí- (nominal stem)
{case:INS, gender:F, number:SG}

káyā ← ká- (pronoun)
{case:INS, gender:F, number:SG}

śáciṣṭhayā ← śáciṣṭha- (nominal stem)
{case:INS, gender:F, number:SG}

vr̥tā́ ← vŕ̥t- (nominal stem)
{case:INS, gender:F, number:SG}

पद-पाठः

कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।
कया॑ । शचि॑ष्ठया । वृ॒ता ॥

Hellwig Grammar
  • kayāka
  • [noun], instrumental, singular, feminine
  • “what; who; ka [pronoun].”

  • naśnaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • citracitraḥcitra
  • [noun], nominative, singular, masculine
  • “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”

  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • bhuvadbhuvatbhū
  • [verb], singular, Aorist conj./subj.
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • ūtīūti
  • [noun], instrumental, singular, feminine
  • “aid; favor; ūti [word].”

  • sadāvṛdhaḥsadāvṛdha
  • [noun], nominative, singular, masculine

  • sakhāsakhi
  • [noun], nominative, singular, masculine
  • “friend; companion; sakhi [word].”

  • kayāka
  • [noun], instrumental, singular, feminine
  • “what; who; ka [pronoun].”

  • śaciṣṭhayāśaciṣṭha
  • [noun], instrumental, singular, feminine

  • vṛtāvṛt
  • [noun], instrumental, singular, feminine

सायण-भाष्यम्

सदावृधः सदा वर्धमानः चित्रः चायनीयः पूजनीयः सखा मित्रभूत इन्द्रः कया उती ऊत्या तर्पणेन नः अस्मान् भुवत् आभिमुख्येन भवेत् । शचिष्ठया प्रज्ञावत्तमया प्रज्ञासहितमनुष्ठीयमानेन कया वृता केन वर्तनेन कर्मणा चाभिमुखो भवेत् ॥


कस्य प्रजापतेः संबन्धिनीत्यस्मिन्नर्थे स्रीलिङ्गः केतिशब्दो वर्तते। ऊतिशब्दो रक्षणवाची। कयोत्या प्रजापतिसंबन्धिना रक्षणेन चित्र आभुवद्विचित्रोऽयं यज्ञो नोऽस्मान्प्रत्यागतः। कीदृशो यज्ञः, सदावृधः सर्वदा वर्धमानः, सखा सखिवत्प्रियतमः। स च यज्ञः कया प्रजापतिसंबन्धिन्या शचि ष्टयाऽतिशयितया शक्त्या वृता युक्त इत्यर्थः।

Wilson
English translation:

“By what means may he who is ever augmenting, who is wonderful, who is our friend, be present with us, by what most effective rite?”

Jamison Brereton

With what help will our brilliant, ever-strengthening comrade be there for us—
with what most powerful troop?

Griffith

WITH what help will he come to us, wonderful, ever-waxing Friend;
With what most mighty company?

Geldner

Mit welcher Hilfe wird uns der wunderbare, immer fördernde Freund beistehen, mit welchem mächtigsten Gefolge?

Grassmann

Mit welcher Hülfe steht uns bei der lichte Freund, der stets erquickt? Mit welcher stärksten Heeresschar?

Elizarenkova

С какой поддержкой появится
Наш яркий, всегда помогающий друг?
С какою самою сильною свитою?

अधिमन्त्रम् (VC)
  • इन्द्र:
  • वामदेवो गौतमः
  • गायत्री
  • षड्जः
दयानन्द-सरस्वती (हि) - विषयः

अब पन्द्रह ऋचावाले इकतीसवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में राजप्रजाधर्मविषय को कहते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे राजन् ! (सदावृधः) सर्वदा वृद्धि को प्राप्त होते हुए आप (नः) हम लोगों की (कया) किस (ऊती) रक्षण आदि क्रिया के साथ और (कया) किस (शचिष्ठया) अत्यन्त श्रेष्ठ वाणी बुद्धि वा कर्म्म जो (वृता) संयुक्त उससे (चित्रः) अद्भुत गुण, कर्म्म और स्वभाववाले (सखा) मित्र (आ, भुवत्) हूजिये ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! आपको चाहिये कि हम लोगों के साथ, वैसे कर्म्म करें कि जिनसे हम लोगों की प्रीति बढ़े ॥१॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे राजन् ! सदावृधस्त्वं नः कयोती, कया शचिष्ठया वृता चित्रः सखा आ भुवत् ॥१॥

दयानन्द-सरस्वती (हि) - विषयः

अथ राजप्रजाधर्ममाह ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कया) (नः) अस्माकम् (चित्रः) अद्भुतगुणकर्मस्वभावः (आ) (भुवत्) भवेः (ऊती) ऊत्या रक्षणादिक्रियया सह (सदावृधः) सर्वदा वर्धमानः (सखा) (कया) (शचिष्ठया) अतिशयेन श्रेष्ठया वाचा प्रज्ञया कर्मणा वा (वृता) संयुक्तया ॥१॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - हे राजन् ! भवतास्माभिस्सह तादृशानि कर्माणि कर्त्तव्यानि यैरस्माकं प्रीतिर्वर्द्धेत ॥१॥

सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः

या सूक्तात राजा व प्रजेच्या धर्माचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणली पाहिजे.

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - हे राजा! आमच्याबरोबर असे वाग की ज्यामुळे आमचे प्रेम वाढावे. ॥ १ ॥ ००

सायणोक्त-विनियोगः

को अद्य युङ्क्त इति याज्या। एतच्चोभयमिन्द्राग्नी रोचनेत्यस्मिन्ननुवाके व्याख्यातम्।

मूलम्

को अ॒द्य यु॑ङ्क्ते ॥ [37]

Keith

Who to-day yoketh?

१६ को अद्य ...{Loading}...

+++(यत् पुरा वृषभराशाव् अवर्तत विषुवस्थानम् … )+++
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒
शिमी॑वतो भा॒मिनो॑ दुर्-हृणा॒यून् ।
आ॒सन्न्+++(=आस्ये)+++ इ॑षून् +++(शत्रु-)+++हृ॒त्स्व्-असो॑+++(←अस्)+++ मयो॒भून्
य ए॑षां भृ॒त्याम् ऋ॒णध॒त्+++(←वृद्धौ)+++ स जी॑वात्

016 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गोतमो राहूगणः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

को꣡ अद्य꣡ युङ्क्ते धुरि꣡ गा꣡ ऋत꣡स्य
शि꣡मीवतो भामि꣡नो दुर्हृणायू꣡न्
आस꣡न्निषून् हृत्सुव꣡सो मयोभू꣡न्
य꣡ एषाम् भृत्या꣡म् ऋण꣡धत् स꣡ जीवात्

Vedaweb annotation
Strata

Popular for linguistic reasons, and possibly also for non-linguistic reasons

Pāda-label

popular
popular
popular
popular

Morph

adyá ← adyá (invariable)
{}

dhurí ← dhúr- (nominal stem)
{case:LOC, gender:F, number:SG}

gā́ḥ ← gáv- ~ gó- (nominal stem)
{case:ACC, gender:M, number:PL}

káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}

r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}

yuṅkte ← √yuj- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}

bhāmínaḥ ← bhāmín- (nominal stem)
{case:ACC, gender:M, number:PL}

durhr̥ṇāyū́n ← durhr̥ṇāyú- (nominal stem)
{case:ACC, gender:M, number:PL}

śímīvataḥ ← śímīvant- (nominal stem)
{case:ACC, gender:M, number:PL}

āsánniṣūn ← āsánniṣu- (nominal stem)
{case:ACC, gender:M, number:PL}

hr̥tsvásaḥ ← hr̥tsvás- (nominal stem)
{case:ACC, gender:M, number:PL}

mayobhū́n ← mayobhú- (nominal stem)
{case:ACC, gender:M, number:PL}

bhr̥tyā́m ← bhr̥tí- (nominal stem)
{case:LOC, gender:F, number:SG}

eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}

jīvāt ← √jīv- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

r̥ṇádhat ← √r̥dh- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}

sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

पद-पाठः

कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुः॒ऽहृ॒णा॒यून् ।
आ॒सन्ऽइ॑षून् । ह॒त्सु॒ऽअसः॑ । म॒यः॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥

Hellwig Grammar
  • kokaḥka
  • [noun], nominative, singular, masculine
  • “what; who; ka [pronoun].”

  • adya
  • [adverb]
  • “now; today; then; nowadays; adya [word].”

  • yuṅkteyuj
  • [verb], singular, Present indikative
  • “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”

  • dhuridhur
  • [noun], locative, singular, feminine
  • “yoke; dhur [word].”

  • gāḥgo
  • [noun], accusative, plural, masculine
  • “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”

  • ṛtasyaṛta
  • [noun], genitive, singular, neuter
  • “truth; order; fixed order; ṛta [word]; law; custom; custom.”

  • śimīvatośimīvataḥśimīvat
  • [noun], accusative, plural, masculine
  • “mighty.”

  • bhāminobhāminaḥbhāmin
  • [noun], accusative, plural, masculine
  • “passionate.”

  • durhṛṇāyūndurhṛṇāyu
  • [noun], accusative, plural, masculine
  • “begrudging.”

  • āsanniṣūnāsanniṣu
  • [noun], accusative, plural, masculine

  • hṛtsvasohṛtsvasaḥhṛtsvas
  • [noun], accusative, plural, masculine

  • mayobhūnmayobhu
  • [noun], accusative, plural, masculine

  • yayaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • eṣāmidam
  • [noun], genitive, plural, masculine
  • “this; he,she,it (pers. pron.); here.”

  • bhṛtyāmbhṛtyā
  • [noun], accusative, singular, feminine

  • ṛṇadhatṛdh
  • [verb], singular, Present conjunctive (subjunctive)
  • “boom; stick to.”

  • satad
  • [noun], nominative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • jīvātjīv
  • [verb], singular, Present conjunctive (subjunctive)
  • “survive; be; exist; live on; dwell.”

सायण-भाष्यम्

अद्य अस्मिन् कर्मणि ऋतस्य गच्छतः इन्द्रसंबन्धिनो रथस्य धुरि अश्ववहनप्रदेशे गाः गतिमतोऽश्वान् कः युङ्क्ते को नाम नियोक्तुं शक्नोति । न कोऽपीत्यर्थः । कीदृशानश्वान् । शिमीवतः वीर्यकर्मोपेतान् भामिनः तेजसा युक्तान् दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान् । हृणीयतिः क्रुध्यतिकर्मा । असन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान हृत्स्वसः । हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं पादं क्षिपन्तीति हृत्स्वसः। मयोभून् मयसः सुखस्य भावयितॄन्। स्वकीयानां सुखप्रदानित्यर्थः । यः यजमानः एषाम् ईदृशानामश्वानां भृत्यां भरणक्रियां रथवाहनक्रियाम् ऋणधत् समर्धयति स्तौतीति यावत् । सः यजमानः जीवात जीवनवान्भवेत् ॥ यद्वा । क इति प्रजापतिरुच्यते । ‘ को वै नाम प्रजापतिः’ इति श्रुतेः । ऋतस्य यज्ञस्य धुरि निर्वाहे गा वेदरूपान् वाग्विशेषान् अद्येदानीं युङ्क्ते संयोजयति । कीदृशान् । शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिनः उज्ज्वलान् दुहृणायून् । हृणीयतिर्हानिकर्मा । हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात्। आसन्निषून् आसनि आस्ये इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान् । प्रकाशमानानित्यर्थः । मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितॄन् । यो यजमान एषां वचसां भृत्यां भरणक्रियाम् ऋणधत् ऋद्धिमतीं करोति स जीवात् स एव जीवति । अन्ये जीवन्मृता इत्यर्थः ॥ दुर्हृणायून् । “ हृणीङ् लज्जायाम् ’ । कण्ड्वादित्वात् यक् । बहुलवचनात् अस्मात् उण्प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः । आसन्निषून! ‘पद्दन्’ इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘ इष गतौ ’ इत्यस्मात् “ इषेः किच्च’ (उ. सू. १. १३ ) इति उप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हृत्स्वसः। असु क्षेपणे ‘। अस गतिदीप्त्यादानेषु । ‘ क्विप् च ’ इति क्विप् ।’ तत्पुरुषे कृति बहुलम्’ इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । मयोभून् । व्यत्ययेन ह्रस्वत्वम् । यद्वा । ‘ मितद्र्वादिभ्य उपसंख्यानम् ’ ( पा. सू. ३. २. १८०, १ ) इति डुप्रत्ययः । भृत्याम् । भृञ् भरणे ‘। ‘ संज्ञायां समजनिषद° ’ ( पा. सू. ३. ३. ९९ ) इति क्यप् । ‘ उदात्तः’ इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम् । ऋणधत् । ‘ ऋधु वृद्धौ ‘। लेटि व्यत्ययेन श्नम् । ‘ लेटोऽडाटौ ’ इति अड़ागमः । ‘ इतश्च लोपः’ इति इकारलोपः । जीवात् । ‘ जीव प्राणधारणे’। पूर्ववत् लेटि आडागमः ॥

Wilson
English translation:

“Who yokes todya to the pole of the car (of Indra) his vigorous and radiant steeds, whose fury is unbearable, in whose mouths are arrows, who trample on the hearts (of enemies), who give happiness (to friends). (The sacrificer) who praises their (performance of their) duties obtains (long) life.”

Jamison Brereton

Who today yokes the cattle to the chariot-pole of truth—the vehement, wrathful, very angry ones,
with arrows in their mouths, shooting at the heart, but embodying joy? Whoever will succeed in bringing them, he will live.

Jamison Brereton Notes

The consensus of modern tr. is that the objects that the subject is struggling to yoke are the priests (see esp. Geldner), but I find this unlikely. The violent adjectival descriptors seem uncharacteristic for priests, but quite suitable for the Maruts, to whom the poet of this hymn (now drawing to a close) will dedicate the next four hymns. Note esp. that both śímivant- and mayobhū́- are used of the Maruts, once in the same hymn (VIII.20.3 and 24 respectively; for mayobhū́- see also I.166.3, V.58.2). I therefore take the Maruts as referents of the acc. pls. and also suggest that this verse is the pivot for the Marut reference found also (in my interpretation) in vss.

10-12. In that tṛca the Maruts are referred to in the guise of clearly feminine bovine figures; here the cattle (gā́ḥ) are the first acc. object we encounter. Because gó- has fluctuating gender, this form can of course be feminine (as the bovines were in 10- 12), but the immediate following adjectives establish it decisively as masculine. If both 10-12 and this verse refer to the Maruts, this verse returns them to their proper grammatical gender. Lüders (Varuṇa II.455) also thinks the Maruts are the referents.

ṛtásya can be construed with either dhurí or gā́ḥ, and tr. divide on which they choose. I attach it to the chariot pole in part because ṛtásya is often construed with a place (e.g., frequent ṛtásya yóni-), but the other is not impossible: cf. I.73.6 r̥tásya … dhenávaḥ.

Griffith

Who yokes to-day unto the pole of Order the strong and passionate steers of checkless spirit,
With shaft-armed mouths, heart-piercing, health-bestowing?
Long shall he live who richly pays their service.

Geldner

Wer schirrt heute die Rinder an das Joch der Opferordnung, die heftigen grimmigen, ungnädigen, die Pfeile im Munde führen, die ins Herz treffen und doch heilsam sind? Wem ihre Pflege glückt, der soll leben.

Grassmann

Wer schirrt ans Joch des Opfers heut die Stiere, die kräftig sind, voll regen Eifers, strahlend, Im Munde Pfeile, herzverwundend, labend? Wer recht sie pflegt, der muss am Leben bleiben.

Elizarenkova

Кто сегодня впрягает в дышло быков закона,
Буйных, гневных, злонравных,
Со стрелами в пасти, пронзающих сердца, (и тем не менее) благодатных?
Кто удачно будет им служить, тот будет жить.

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोतमो राहूगणः
  • निचृत्त्रिष्टुप्
  • धैवतः
दयानन्द-सरस्वती (हि) - विषयः

फिर सेनापति के योग्य कर्म का उपदेश करते हैं ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कः) कौन (अद्य) इस समय (ऋतस्य) सत्य आचरण सम्बन्धी (शिमीवतः) उत्तम क्रियायुक्त (भामिनः) शत्रुओं के ऊपर क्रोध करने (दुर्हृणायून्) शत्रुओं को जिनका दुर्लभ सहसा कर्म उनके समान आचरण करने (आसन्निषून्) अच्छे स्थान में बाण पहुँचाने (हृत्स्वसः) शत्रुओं के हृदय में शस्त्र प्रहार करने और (मयोभून्) स्वराज्य के लिये सुख करनेहारे श्रेष्ठ वीरों को (धुरि) संग्राम में (युङ्क्ते) युक्त करता है वा (यः) जो (एषाम्) इनकी जीविका के निमित्त (गाः) भूमियों को (ऋणधत्) समृद्धियुक्त करे (सः) वह (जीवात्) बहुत समय पर्यन्त जीवे ॥ १६ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सबका अध्यक्ष राजा सबको प्रकट आज्ञा देवे। सब सेना वा प्रजास्थ पुरुषों को सत्य आचरणों में नियुक्त करे। सर्वदा उनकी जीविका बढ़ाके आप बहुत काल पर्यन्त जीवे ॥ १६ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: कोऽद्यर्तस्य शिमीवतो भामिनो दुर्हृणायूनासन्निषून् हृत्स्वसो मयोभून् सुवीरान् धुरि युङ्क्ते य एषां भृत्यां गा ऋणधत् स चिरञ्जीवात् ॥ १६ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः सेनापतेः कृत्यमुपदिश्यते ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (कः) (अद्य) इदानीम् (युङ्क्ते) युक्तो भवति (धुरि) शत्रुहिंसने युद्धे (गाः) भूमीः (ऋतस्य) सत्याचारस्य (शिमीवतः) प्रशस्तकर्मयुक्तान् (भामिनः) शत्रूणामुपरिक्रोधकारिणः (दुर्हृणायून्) शत्रुभिर्दुर्लभं हृणं प्रसह्यकरणं येषां ते दुर्हृणास्त इवाचरन्तीति दुर्हृणायवस्तान् यन्त्यत्र क्याच्छन्दसीत्युः प्रत्ययः। (आसन्निषून्) आसने प्राप्ता बाणा यैस्तान् (हृत्स्वसः) ये हृत्स्वस्यन्ति बाणान् तान् (मयोभून्) मयः सुखं भावुकान् (यः) (एषाम्) (भृत्याम्) भृत्येषु साध्वीं सेनाम् (ऋणधत्) समृध्नुयात् (सः) (जीवात्) चिरञ्जीवेत् ॥ १६ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - सर्वाध्यक्षो राजा सर्वान् प्रसिद्धामाज्ञां दद्यात् सर्वान् सेनास्थवीरान् सत्याचारेण युञ्जीत सदैषां जीविकां वर्द्धयित्वा स्वयं दीर्घायुः स्यात् ॥ १६ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - सर्वांचा अध्यक्ष असलेल्या राजाने सर्वांना प्रत्यक्ष आज्ञा द्यावी. सर्व सेना व प्रजेतील पुरुषांना सत्याचरणात नियुक्त करावे. त्यांची जीविका वाढवून स्वतः दीर्घकाळ जिवंत राहावे. ॥ १६ ॥

सायणोक्त-विनियोगः

२१०९ अत्र विनियोगसंग्रहः—
अथाश्वमेधे या त्विष्टिर्हविर्मिर्दशाभिर्युता।
विधीयतेऽग्नये गायेत्यनुवाकेन तत्र च॥
द्वे द्वे याज्यानुवाक्ये स्तामित्यृचो विंशतिस्त्वह॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके द्वादशोऽनुवाकः ॥ १२॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थः प्रपाठकः ॥ ४ ॥