सुबालोपनिषत्
अथ षोडशः खण्डः
[विद्यारक्षणोपायः]
सौबालबीजब्रह्मोपनिषत् नाप्रशान्ताय दातव्या; नापुत्राय; नाशिष्याय;नासंवत्सररात्रोषिताय । नापरिज्ञातकुलशीलाय दातव्या; नैव च प्रवक्तव्या ।यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥
॥ इति षोडशः खण्डः ॥
ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
॥ ओम् शान्तिः शान्तिः शान्तिः ॥
॥ इति शुक्लयजुर्वेदीया सुबालोपनिषत् ॥